उभयबन्धं प्रबलीकर्तुं यू एस् भारतं च।
नवदिल्ली> भारत - अमेरिकयोः परस्परबन्धं प्रबलीकर्तुं युगपदुत्साहः भविष्यतीति भारतस्य विदेशकार्यमन्त्रालयेन निगदितम्। प्रधानमन्त्री नरेन्द्रमोदी नियुक्त यू एस् राष्ट्रपतिं डोनाल्ड ट्रम्पं दूरवाणीद्वारा कृते अभिनन्दनसम्भाषणे उभयराष्ट्रबन्धस्य शक्तीकरणे दृढतां स्पष्टीकृतवन्तौ।
राष्ट्रसुरक्षा, साङ्केतिकविद्या, बहिराकाशमित्यादिमण्डलेषु परस्परसहयोगः प्रबलीकरिष्यति।