OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 16, 2024

 तमिलनाटे अतिवृष्टिः - ६ मरणानि । 

चेन्नै> वंगसमुद्रान्तराले सञ्जातः न्यूनमर्दः तीव्रन्यूनमर्दे जाते तमिलनाटराज्ये अतिवृष्टिः अनुभूयते। वृष्टेः दुष्प्रभावात् षट् जनाः मृताः। चेन्नै नगरस्थानि विविधानि गृहाणि मार्गाश्च जलाप्लावितानि जातानि। 

  चेन्नै, चेङ्कल् पेट्, काञ्चीपुरं, तिरुवल्लूर् जनपदेषु अद्य विरामः प्रख्यापितः।

 गुजरातप्रदेशे विषवातकस्य निर्गमनेन श्वासरोधेन ५ कर्मकराः  मृताः।

  गुजरातप्रदेशस्य कच्छनगरस्य इमामी अग्रोटेक् इति उद्योगशालायं विषवातकस्य निर्गमः अभवत्। अद्य प्रभाते एव दुर्घटना अभवत्। उद्योगशालायाः मालिन्यकूपस्य स्वच्छताकरणे सन्दर्भे एव विषवातकस्य निर्गमनं जातमिति अनुमन्यते। विषवातकस्य श्वसनेन मूर्छया पतितान् कर्मकरान् रक्षयन्तः श्रमिकाः अपि मृताः। मृतेषु एकः पर्यवेक्षकः अन्यः कूपसंचालकः च आस्ताम्।

 षाङ् हाय् सहयोग उच्चशिबिरं 

भारतविदेशकार्यमन्त्री पाकिस्थानं प्राप्तः। 

जयशङ्कराय पाकिस्थाने लब्धं स्वीकरणम्। 

इस्लामबादः>  षाङ् हाय् सहयोग उच्चशिबिरे भागं कर्तुं भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने सायं पाकिस्थानस्य राजधानीम् इस्लामबादं प्राप्तवान्। अष्ट वर्षेभ्यः अनन्तरमेव भारतस्य विदेशकार्यमन्त्री पाकिस्थानं सन्दर्शयति। 

  मङ्गलवासरे सायं काले षाङ् हाय् अङ्गराष्ट्राणां प्रतिनिधिभ्यः पाकिस्थानप्रधानमन्त्रिणा षहबास् शरीफेन  आयोजिते  सौहृदसत्कारे जयशङ्करः भागं स्वीकृतवान्। षाङ् हाय् सहयोगसख्यस्य प्रवर्तनेषु सजीवभागभागित्वं भारतेन अनुवर्तिष्यते इति जयशङ्करेण निगदितम्।

 मणिपुरे अक्रममार्गं परित्यक्तुं संयुक्ताभ्यर्थना। 

नवदिल्ली> मणिप्पुरे वंशीयविद्वेषजनिताक्रमपरम्परामारभ्य प्रथमतया आयोजिते कुक्की, मेय्ती, नागा विभागानां विधानसभासदस्यानाम् उपवेशनं संवृत्तम्। केन्द्रसर्वकारान्तर्गतस्य गृहमन्त्रालयस्य आभिमुख्ये आयोजिते मेलने अक्रममार्गात् सर्वे विभागाः अपसरणीयाः इति अभ्यर्थितुम् ऐककण्ठ्येन निश्चितम्। 

  उपवेशनेSस्मिन् कुक्की मेय्ती विभागेभ्य‌ः २० सदस्याः नागाविभागात् त्रयः सदस्याश्च भागं स्वीकृतवन्त इति गृहमन्त्रालयेन निगदितम्।

 महाराष्ट्र झार्खण्डयोः विधानसभानिर्वाचनम् विज्ञापितम्।

केरले वयनाट् लोकसभां पालक्काट्, चेलक्करा विधासभाद्वयं प्रति उपनिर्वाचनं चोद्घोषितम्। 

नवदिल्ली> महाराष्ट्रं झार्खण्डः इत्येतयोः राज्ययोः विधानसभानिर्वाचनं निर्वाचनायोगेन  विज्ञापितम्। महाराष्ट्रे नवम्बर् २० तमे दिनाङ्के एकेनैव चरणेन सम्पत्स्यते। तत्र २८८ मण्डलानि वर्तन्ते। 

  झार्खण्डे नवम्बर् १३, २० दिनाङ्कयोः  सोपानद्वयेन मतदानप्रक्रिया भविष्यति। तत्र आहत्य  ८१ मण्डलानि सन्ति। 

    तथा च केरले वयनाट् लोकसभामण्डले  पालक्काट्, चेलक्करा विधासभाद्वये च  उपनिर्वाचनं नवम्बर् १३ तमे दिनाङ्के  विधास्यति। राहुल गान्धिवर्यः वयनाट् मण्डलं विना राय्बरेली मण्डले अपि विजितः इत्यतः वयनाट् निरस्तमासीत्। इतरराज्यविधानमण्डलद्वयस्य सदस्यौ आस्तां लोकसभां प्रति चितौ।

Tuesday, October 15, 2024

 महिला टि - २० 

भारतं बहिर्गतम्। 

दुबाय्> महिलानां टि - २० क्रिकट् विश्वचषकस्पर्धायां भारतस्य पूर्वान्त्यचक्रप्रवेशनप्रतीक्षा अस्तमिता। 'ए संघे' निर्णायके प्रतिद्वन्द्वे यदा पाकिस्थानं न्यूसिलान्टेन पराजितं तदैव भारतस्य पूर्वान्त्याभिलाषः अस्तं गत्वा परम्परायाः बहिर्नीतम्। स्पर्धायामस्यां यदि पाकिस्थानं विजयीभूतं तर्हि भारतस्य पूर्वान्त्यचक्रप्रतीक्षा  भवेत्।

 मणिपुरं सङ्घर्षः - कुक्की, मेय्ती, नागासदस्याः अद्य चर्चां करिष्यन्ति। 

इम्फाल्> मणिपुरे संघर्षस्य परिहाराय अद्य कुक्की, मेय्ती, नागासदस्याः दिल्ल्यां चर्चां करिष्यन्ति। केन्द्रसर्वकारस्य गृहमन्त्रालयस्य नेतृत्वे अस्ति चर्चा। 

   मणिपुरसंघर्षस्य प्रारम्भारन्तरं प्रथममेव विविधविभागस्य सदस्यान् अन्तरभाव्य  एतादृशी चर्चा समायोज्यमाना वर्तते। समस्यापरिहाराय केन्द्रसर्वकारस्य पदक्षेपस्य अंश एवेयं चर्चा।

 आर्थिकनोबेल् पुरस्काराय त्रयः चिताः। 

   ओस्लो> २०२४ तमवर्षस्य आर्थिकनोबेल् पुरस्काराय त्रयः शास्त्रज्ञाः चिताः। यू एस् मध्यस्थे Massachusetts Institute of Technology [एम् ऐ टि] नामकसंस्थायाः शास्त्रज्ञौ डारोण् असे मोग्लु, सैमण् जोण्सण्, तथा च षिकागो विश्व विद्यालये गवेषकः जेयिम्स् ए रोबिन् सण् इत्येते पुरस्कारजेतारः भवन्ति।

 वयनाट् दुरन्ते केन्द्रसाह्यम् अभ्यर्थ्य केरलविधानसभया निवेदनमनुमोदितम्।

अनन्तपुरी>  जूलैमासे वयनाट् जनपदस्थे चूरल्मला-मुण्टक्कै क्षेत्रे दुरापन्ने भूस्खलने आर्थिकसाहाय्यस्य विलम्बे खेदं प्राकट्य केरलविधानसभा ऐककण्ठ्येन अभियाचिकाम्  अनुमोदयत। विपक्षीयसदस्यः टि सिद्दिखः  निवेदनमवतारितवान्। 

  प्रत्युत, वयनाटाय यदावश्यकं तल्लप्स्यते इति केन्द्रवित्तमन्त्रिणी निर्मला सीतारामः कोच्चीमध्ये निगदितवती।

 राजनैतिकलाभाय भारतस्य अपकीर्तिं कर्तुं योजनाबद्धः प्रयासः।

 कनेडीयायाः प्रधानमन्त्रिणं प्रति  विदेशकार्यमंत्रालयेन तीव्रविमर्शः कृतः।

   कनेडीयायाः प्रधानमन्त्री जस्टिन् ट्रूडो इत्यस्मिन् प्रति तीव्रविमर्शं विदेशकार्य-मंत्रालयेन कृतम्। भारतस्य विषये  ट्रूडो स्वस्य राजनैतिकतायाः भागतया आरोपणं कृतवान् , एषः आरोपः  भारतस्य राजनीतिके विषयेषु तस्य हस्तक्षेपं सूचयति। राजनीतिकलाभाय भारतस्य अपकीर्तिं कर्तुं कानडायायाः प्रधानमन्त्रिणः योजनाबद्धं तन्त्रम् अस्ति इति विदेशकार्य मंत्रालयेन आरोपितम्। निज्जरस्य हत्याकाण्डस्य अन्वेषणे भारतीय उच्चायुक्तस्य तथा दूतियुक्तानाम् अपि व्यक्तिगतं चित्तम्  अस्ति इति  कानडायाः आरोपः भारतं निराकरोति।

Monday, October 14, 2024

 भारत-बङ्गलादेशयोः टि - २०  क्रिकट् - स्पर्धात्रये अपि भारतस्य विजयः। 

सञ्जु सांसणस्य शतकम्। अन्तिमे प्रतिद्वन्द्वे १३३ धावनाङ्कानां विजयः। 

हैदराबादः> बङ्गलादेशेन सह भारतस्य टि २०  क्रिकट्परम्परायाः तृतीयप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। २९८ विजयलक्ष्येन कन्दुकताडनमारब्धं बङ्गलादेशदलं १३३धावनाङ्कैः पराजित्य एव भारतं विजयकिरीटमधरत्। 

  भारतस्य कन्दुकताडनवेलायां केरलीयेन सञ्जु सांसणेन शतकं प्राप्तम्। ४४ कन्दुकैः १११ धावनाङ्काः तेन सम्पादिताः।

 लबनने अधिकनिष्कासनाय उद्दिश्य इस्रयेलः। 

बय्रूट्>  इस्रयेलस्य लबननं विरुध्य आक्रमणं तीव्रं कर्तुं लबननस्य दक्षिणभागे वर्तमानेषु २० ग्रामेषु वसतः जनान् ततः निष्कासितुम् इस्रयेलसेनया आदेशः विज्ञापितः। सुरक्षामालक्ष्य अवालिनद्याः उत्तरभागं प्रति अपसर्तुमेवादेशः। 

  रविवासरे दक्षिणलबनने कृते आक्रमणे कफर् तिब्निट् नामके ग्रामे वर्तमानः शतवर्षपुरातनः आराधनालयः निश्शेषेण भञ्जितः। नबातिये नामापणमपि सम्पूर्णतया विशीर्णम्। ह्यस्तनाक्रमणे १५ जनाः हताः, ३६ जनाः व्रणिताश्च।

 कार् यानादीनां लघुवाहनानां मार्गशुल्कं न भविष्यति। श्रद्धेयः निर्णयः स्वीकृतः सर्वकारेण।

    भारतस्य महानगराणि गच्छतां जनानां शिरोवेदनायाः कारणं भविष्यति मार्गेशुल्कम् (Toll)। किन्तु इदानीं मुम्बईनगरं प्रति गम्यमानानां लघुयानानां कृते मार्गशुल्कं न देयम्। विगते सोमवासरे महाराष्ट्रमुख्यमंत्री एक्नाथशिन्दे महोदयः मुम्बईनगरस्य प्रवेशद्वारे संस्थपितेषु पञ्चसु मार्गशुल्कद्वारेषु लघुयानानां (LMV) शुल्कं सम्पूर्णरूपेण परित्यक्तम् इति विज्ञापितवान्। अयम् नियमः अक्तोबरमासस्य १५ दिनाङ्कतः अर्धरात्रिरारभ्य प्रबलं भविष्यति। राज्ये विधानसभानिर्वाचने आसन्ने, मिलिते अन्तिममन्त्रिपरिषदि भवति इदं जनप्रियनिर्णयं स्वीकृतम्।

Sunday, October 13, 2024

 चेन्नै समीपे रेल् यानद्वयं घट्टितं - १९ जनाः आहताः। 

अन्वेषणम् एन् ऐ ए संस्थया स्वीकृतम्। 

चेन्नै> तमिल् नाटे चेन्नै समीपे तिरुवल्लूर् कावेरिप्पेट्टा रेल् निस्थाने मैसुरु - दर्भङ्गा एक्स्प्रेस यानं स्थगितेन  पण्ययानेन सह घट्टने १९ जनाः आहताः। गुरुवासरे रात्रौ ८. ३० वादने आसीत् दुर्घटना। यात्रायानस्य २३ कक्षाः पथविभ्रष्टाः जाताः। 

  दुर्घटनायां प्रतिलोमकर्म सन्दिह्य सर्वकारेण एन् ऐ ए संस्थायाः अन्वेषणं प्रख्यापितम्।

उत्तराखण्डसंस्कृताक्कादम्या संस्कृतछात्रप्रतियोगिता आयोक्ष्यन्ते।

वार्ताहर:- कुलदीपमैन्दोला।

  • छात्राः संस्कृतेन गास्यन्ति, नृत्यं करिष्यन्ति, वदिष्यन्ति च।
  • अक्टोबर-मासस्य १५, १६ दिनाङ्के मोटाढाकविद्यालये संस्कृत-छात्र-प्रतियोगिता भविष्यति । 
  • कण्वनगर्यां भविष्यति षोडशतमसंस्कृतमहोत्सव: 

      उत्तराखण्डसंस्कृताकादमीद्वारा १५ तथा १६ अक्टोबर् २०२४ दिनाङ्के दुगड्डाविकासखण्डे जनता-इण्टर-कालेज-मोटाढाके संस्कृतछात्रप्रतियोगितानाम आयोजनं क्रियते, यस्मिन् कनिष्ठ-वरिष्ठवर्गे आहत्य ०६ संस्कृतछात्रप्रतियोगितानां आयोजनं क्रियते।

1.संस्कृतनाट्यप्रतियोगिता

2.संस्कृतसमूहगानप्रतियोगिता

3.संस्कृतसमूहनृत्यप्रतियोगिता

4.संस्कृतवादविवादप्रतियोगिता 

5.संस्कृत-आशुभाषण- प्रतियोगिता

 6.श्लोकोच्चारणप्रतियोगिता च आयोजिताः भविष्यति। 

   दुगड्डाविकासखण्डस्य संस्कृत-छात्रप्रतियोगितायाः मार्गदर्शक-शिक्षाधिकारिण: अमितकुमारचंदमहोदयस्य निर्देशने खण्डसंयोजक: कुलदीपमैन्दोला, जनपद-सहसंयोजकः डा. रमाकान्तकुकरेती च अकादम्याः निर्देशिकानुसारेण सूचना प्रदत्तवन्तौ। प्रथमदिवसे कनिष्ठवर्गस्य एवं च द्वितीयदिवसे वरिष्ठवर्गस्य प्रतियोगिता: भविष्यन्ति।

  खण्डस्तरस्य कनिष्ठवर्गे 06 तः 10 पर्यन्तं तथा च कक्षा 11 तः स्नातकोत्तरपर्यन्तं च संस्कृतछात्रप्रतियोगितासु बालकाः बालिकाः च भागं गृह्णन्ति। खण्डस्तरस्य प्रथमद्वितीयविजेताप्रतिभागिनः दलं च जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दातुं पूर्वं खण्डसंयोजकस्य खण्डशिक्षाधिकारिणः स्वयमेव च आवेदनपत्रे हस्ताक्षरं कृत्वा एव छात्रान् जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दास्यति। अनुभागस्तरीयप्रतियोगितासु प्रथमद्वितीयतृतीयस्थानं प्राप्तानां प्रतिभागिनां प्रमाणपत्राणि साक्षात्पुरस्काराणि च प्रदत्तानि भविष्यन्ति तथा च कनिष्ठवरिष्ठवर्गयो: प्रथमपुरस्काराय ८०० रूप्यकाणि, द्वितीयस्य ६०० रूप्यकाणि तृतीयस्य च ४०० रूप्यकाणि अपि प्रदत्ताः भविष्यन्ति।

Saturday, October 12, 2024

 रत्तन् टाटावर्यस्य अनुगामी नोयल् नवल् टाटा वर्यः।

नोयल् नवल् टाटा।

मुम्बई> टाटा व्यवसायसाम्राज्यस्य अध्यक्षरूपेण दिवंगतस्य रत्तन् टाटावर्यस्य अर्धसोदरः नोयल् नवल् टाटा वर्यः ऐककण्ठ्येन चितः। Sir Rattan Tata trust, Sir Dorabji Tata trust इत्याद्यानां १३ ट्रस्ट् संस्थानां संयोजितरूपं 'टाटा ट्रस्ट्' इत्यस्य अध्यक्षपदमेव नोयल् नवल् टाटा वक्ष्यति।

  ट्रस्टि अङ्गानां स्वस्मिन् विश्वासः परिरक्षिष्यते इति नोयल् वर्येण सूचितम्। टाटापरिवारस्य पारम्पर्यमनुवर्तिष्यते। राष्ट्रनिर्मितेः जीवकारुण्यप्रवर्तनानां व्यवसायविकासस्य च कृते वयं समर्पितचेताः भविष्यामः इति च तेनोक्तम्।

 फ्लोरिडायां चक्रवातः - चत्वारि मरणानि। महान्नाशः।

टाम्पा> बुधवासरे रात्रौ अमेरिकायां फ्लोरिडा प्रान्ते तीरं प्राप्तः मिल्टन् इति कृतनामधेयः चक्रवातः महन्नाशकारणमभवत्। प्रशासनेन पूर्वजागरूकता विधत्ता अपि अद्यावधि १५ जनाः मृत्युमुपगताः।

    ३२ लक्षं गृहेषु विद्युत् विनष्टा। राक्षसीयचक्रवातस्य अतिवृष्टेः च दुष्प्रभावेन अनेके प्रदेशाः जलनिमग्नाः जाताः। गमनागमनसुविधा स्थगिता।

 गासायां विद्यालये इस्रयेलस्य आक्रमणं - २८ मरणानि। 

जरुसलेमः> गासायाम् अभयार्थिकेन्द्ररूपेण प्रवर्तमाने विद्यालये इस्रयेलेन कृते आक्रमणे २८ जनाः मृताः। ५४ जनाः व्रणिताः अभवन्। हमासस्य निर्देशककेन्द्रमेव विद्यालये प्रवर्तितमिति इस्रयेलसेनया निगदितम्। 

  गासायाम् अभयार्थिशिबिररूपेण प्रवर्तमानान् विद्यालयान् लक्ष्यीकृत्य इस्रयेलेन कृतेषु आक्रमणेषु नूतनतममासीत् ह्यस्तनमाक्रमणम्। अद्यावधि गासायां मृतानां संख्या ४२,०६५ अभवत्।