OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 29, 2024

 केरले एकस्यापि वानरवसूरिबाधा - विमाननिलये निरीक्षणे जागरूकता निर्दिष्टा।

कोच्चि> अस्मिन् मासे २३ तमे दिनाङ्के षार्जातः केरलं प्राप्तस्य एरणाकुलं मुलन्तुरुत्तिप्रदेशीयस्य युवकस्य 'एम् पोक्स्' रोगः [वानरवसूरिः] दृढीकृतः। षार्जायां वर्तमाने सति अस्वास्थ्यानुभूतः सः वैद्यमुपगम्य प्राथमिकचिकित्सां स्वीकृत्य एव स्वदेशं प्राप्तवान्। अनन्तरम् आतुरालयं प्रविष्टः से निरीक्षणे आसीत्। वानरवसूरिं दृढीकरणात् परं ये तेन सम्पर्के अभवन् तान् एकान्तवासाय निर्देशः कृतः। 

  प्रत्युत रोगव्यापनस्य आशङ्का न वर्तते इति राज्यस्वास्थ्यविभागेन निगदितम्। केरलस्य  विमानपत्तनेषु अतिजागरूकता निर्दिष्टा च। 

 मुख्य-निर्वाचनायुक्तः राजीवकुमारः निर्वाचनसम्बन्धेन पत्रकारसम्मेलनं कृतवान्।

    मुख्य-निर्वाचनायुक्तः (CEC) राजीवकुमारः शनिवासरे  महाराष्ट्रविधानसभानिर्वाचनस्य सम्बन्धेन पत्रकारसम्मेलनं कृतवान्। सः अवदत् यत् महाराष्ट्रविधानसभाया: कार्यकालः २६ नवम्बर समाप्तः भवति। तस्मात् पूर्वं निर्वाचनप्रक्रिया समाप्ता भविष्यति। तिथीनाम् उद्घोषणम् आगामिमासे भविष्यतीति।


   राजीवकुमारः तथा निर्वाचनायुक्तौ ज्ञानेशकुमारः एवं एस. एस. संधुः च द्विदिवसीये महाराष्ट्रयात्रायाम् सन्ति। ते विधानसभानिर्वाचनस्य  सज्जतासम्बन्धेन समीक्षा कृतवन्तः। ते जिलानिर्वाचनाधिकारिणा, आरक्षकाधिकारिणा  अन्याधिकारिणा च साकं मेलनं कृतवन्तः।

   एतदधिकं शिवसेनाम्, शिवसेना UBT, महाराष्ट्र नवनिर्माणसेना, बि एस् पी, आम आदमी इत्येताः ११ दलाः च ताभिः मिलितवन्तः। सन्दर्भेऽस्मिन् सर्वे दलाः दिवाली, देवदिवाली, छठपूजा इत्यादीन् उत्सवान् परिगणय्य निर्वाचनतिथीनाम् उद्घोषणं कर्तुं याचितवन्तः।

Saturday, September 28, 2024

 गङ्गावाली नद्यगाधतायां विलयितः अर्जुनः स्वगृहाङ्कणे नित्यनिद्रां प्राप्तवान्। 

अर्जुनः। 

कोष़िक्कोट्> कर्णाटकस्थे षिरूरे गङ्गावाली नद्यां जूलाय् १६ तमे दिनाङ्के दुरापन्नेन भूस्खलनेन भारवाहकयानेन समं तिरोभूतः यानचालकः कोष़िक्कोट् कण्णाटिकल् ग्रामवासी अर्जुनः ७५ दिनानामनन्तरं सहस्रशः जनानां स्नेहाञ्जलिं स्वीकृत्य स्वगृहाङ्कणे नित्यनिद्रां प्राप। 

   दिनत्रयात्पूर्वं नद्याः अगाधतः भारवाहयानेन सह अर्जुनस्य शरीरावशिष्टानि सन्दृष्टानि। औद्योगिकप्रक्रमानन्तरं ह्यः सायं भौतिकशरीरमूढ्वा आम्बुलन्स् यानं केरले अर्जुनस्य जन्मग्रामं प्रति प्रस्थितम्। अर्जुनस्य सोदरः अभिजितः स्यालः जितिनश्च याने उपस्थितौ आस्ताम्। ७२ दिनानि दीर्घिते अन्वेषणदौत्ये दुरन्तस्थानमुपस्थाय नेतृत्वमावहन् कार्वारस्य सदस्यः सतीश् कृष्ण सेयिलः ,  प्रथमसोपाने आत्मसमर्पणरीत्या अन्वेषणं कृतवान् मज्जनकुशलः ईश्वर माल्पे, सर्वाणि च दिनानि दुर्घटनास्थानं स्थित्वा अन्वेषणे सहयोगं कृतवान् भारवाहकस्वामी मनाफः च  भौतिकशरीरमनुगतवन्तः। 

  प्रभाते षट्वादने कोष़िक्कोट् जनपदसीमायां केरलसर्वकाराय मन्त्री ए के शशीन्द्रस्य नेतृत्वे जनपदाधिकारिणः मृतशरीरं स्वीकृत्य कण्णाटिक्कल् ग्राममनयन्। मार्गस्य पार्श्वयोः अनेके जनाः अन्त्याञ्जलिं समर्पयितुं प्रतीक्षितवन्तः। गृहे प्राप्ते सहस्रशः जनाः स्नेहाञ्जलिं समर्पितवन्तः। मध्याह्ने अन्त्येष्टिक्रियाः पूर्तीकृत्य सहोदरः अभिजितः अर्जुनस्य भौतिकशरीरम् अग्नये समार्पयत्।

 हिस्बुल्ला आस्थानमाक्रम्य इस्रयेलः। 

जरुसलेमः> इरानस्य सहयोगेन प्रवर्तमानस्य लबनीयसायुधसंघस्य हिस्बुल्ला नामकस्य आस्थानं ह्यः इस्रयेलेन आक्रमितम्। लबननस्य राजनगरी बेय्रूट् इत्यस्य दक्षिणभागे दहियास्थाने  वर्तमानमास्थानमेव आक्रमणाधीनमभवदिति इस्रयेलस्य सैनिकवक्ता डानियल् हगारी न्यगादीत्। 

  हिस्बुल्लायाः नेतृमुख्यः हस्सन् नस्रल्ला आसीत् इस्रयेलस्य लक्ष्यमिति लबनीसवार्तामाध्यमैः प्रस्तुतम्।

Friday, September 27, 2024

 यू एन् रक्षासमितिः - भारतस्य स्थिराङ्गत्वे सहयोगेन इमानुवल् मक्रोणः। 

न्यूयोर्क्>  ऐक्यराष्ट्रसभायाः रक्षासमित्यां भारतस्य स्थिराङ्गत्वाय सहयोगं कुर्वन् फ्रञ्च् राष्ट्रपतिः इमानुवल् मक्रोणः। रक्षासमित्याः परिष्करणाय इतोSपि अङ्गाः आवश्यकाः। तस्मात् भारतं जापानं जर्मनी ब्रसीलम् इत्येतानि राष्ट्राण्यपि स्थिराङ्गाः करणीयाः इति मक्रोणेन यू एन् सामान्यसभायायाम् अभ्यर्थितम्।

 बिहारे जीवित पुत्रिका उत्सवकार्यक्रमे ४३ जनाः जले निमज्य मृताः। 

पट्ना> बिहार राज्ये सम्पन्ने जीवित पुत्रिकानाम्नि उत्सवकार्यक्रमे ४३ जनाः मृत्युमुपगताः। १५ जनपदेषु विभिन्नदुर्घटनायामेवेयं दुर्गतिः। मृतेषु ३७ बालकाः भवन्ति। 

  उत्सवस्य अंशतया विविधनदीषु स्नानार्थम् अवतारिताः दुर्घटनालग्नाः जाताः। अपत्यानाम् ऐश्वर्याय महिलाभिः आयोज्यमानः उत्सवो भवति 'जीवित् पुत्रिका'। मृतानां परिवाराय मुख्यमन्त्रिणा नितीशकुमारेण चतुर्लक्षं रूप्यकाणां राशिसाह्यं प्रख्यापितम्।

 लबनने युद्धविरामाय निर्देशः इस्रयेलेन निरस्तः। 

यू एन्> लबनने सायुधसंघः हिस्बुल्ला इत्यमुं विरुद्ध्य २१ दिनानि यावत् युद्धविरामाय अमेरिका, फ्रान्स् इत्यादीनां लोकराष्ट्राणां निर्देशः इस्रयेलेन निराकृतः। लबनने इस्रयेलेन स्थलयुद्धमारप्स्यते  इत्याशङ्कायां वर्तितायां २१ दिनाभ्यन्तरे नयतन्त्रचर्चाभिः  युद्धनिवृत्तिरासीत् लोकराष्ट्राणां लक्ष्यम्। 

   किन्तु हिस्बुल्लां विरुध्य अन्तिमविजयपर्यन्तं युद्धमनुवर्तिष्यते इति इस्रयेलप्रधानमन्त्रिणा बञ्चमिन नेतन्याहुना उक्तम्।

 भारतीयजनानां कृते नूतना 'वीसा' योजना: अस्मिन् मार्गे कार्यं कर्तुं, वासं कर्तुं तथा अध्ययनं कर्तुं च अवसरः।

   उभयोः राष्ट्रयोः मध्ये हस्ताक्षरीकृतस्य व्यापार-सम्मतिं आधृत्य, ऑस्ट्रेलिया राष्ट्रेण ज्ञापितं यत् भारतात् सहस्रं जनेभ्यः  कार्य-आन्‍ड-हॉलिडे वीसा इति प्रकल्पः अष्टोत्तरशततमे दिने आरभ्य (१ ओक्टोबर्) अनुमोदितः भविष्यति। केन्द्रीयवाणिज्यविभागस्य मन्त्रिणः पीयूषगोयलस्य त्रिदिनसन्दर्शनस्य अनन्तरम् अयं निर्णयः अभवत्। अयं निर्णयः महत्तमं लाभम् इति केन्द्रीयमन्त्री उक्तवान्। भारत-ऑस्ट्रेलिया आर्थिक-सहकार्य-व्यापार-सम्मतिः २०२२ वर्षस्य दिसम्बरमासे प्रवृत्ता। अस्मिन् अन्तर्गतं कार्य-आन्‍ड-हॉलिडे वीसा इत्यस्य हस्ताक्षरः कृतः, यः अत्यन्तं महत्वपूर्णः अस्ति। अस्य अनुसारं, अष्टादश-त्रिंशद्वयोः मध्ये वयः यः अस्ति, तेषां जनानां कृते अध्ययनाय, कार्याय, यात्रा च कर्तुं ऑस्ट्रेलियायाम् आवेदनं कर्तुं शक्यते। एवम् वीसा प्राप्ताः जनाः एकं वर्षं यावत् तत्र तत्कालिकरूपेण वासं कर्तुं शक्नुवन्ति। अस्य हेतोः मानदण्डाः ऑस्ट्रेलियया निश्चिताः भविष्यन्ति।

Thursday, September 26, 2024

 दिल्लिसर्वकारेण असंघटितक्षेत्रे न्यूनातिन्यूनं वेतनं वर्धितम्। 

नवदिल्ली> दिल्ल्याम् असंघटितक्षेत्रे ये कर्म कुर्वन्ति तेषां न्यूनातिन्यूनं वेतनं वर्धयितुं सर्वकारेण निश्चितम्। मुख्यमन्त्रिपदप्राप्त्यनन्तरं अतिषि वर्यया कृते प्रथमपत्रकारमेलने आसीदिदं प्रख्यापनम्। 

  अकुशलकर्मकराणां कृते प्रतिमासं १८,०६६ रूप्यकाणि, अर्धकुशलकर्मकराणां कृते १९,९२९ रूप्यकाणि, कुशलकर्मकराणां कृते २१,९१७ रूप्यकाणि इत्येवं प्रकारेण अस्ति परिष्कृतवेतनम्।

 काश्मीरनिर्वाचनं - द्वितीयचरणे ५६% मतदानम्। 

श्रीनगरं> जम्मु-काश्मीरस्य विधानसभायाः निर्वाचनस्य ह्यः सम्पन्ने द्वितीयचरणे ५६% मतदायकाः स्वाभिमतम् अङ्कितवन्तः। मतदानप्रक्रिया शान्तियुक्ता आसीत्। 

  षट् जनपदेषु २६ मण्डलेषु आसीत् जनविधिः। अक्रमं बहिष्करणं वा विना जम्मु-काश्मीरजनाः जनाधिपत्यप्रक्रियायां उत्साहेन भागं कृत्वा चरित्रमालिखितवन्तः इति मुख्यनिर्वाचनाधिकारी राजीवकुमारः दिल्याम् उक्तवान्।

 'षिरूर् दौत्यस्य' विजयप्राप्तिः।

अर्जुनस्य भारवाहकं शरीरावशिष्टं च अधिगतम्। 

अर्जुनस्य भारवाहके गङ्गावाली नद्याः अधिगते। 

अङ्कोला> ७२ दिनानां प्रार्थनापूर्वकप्रयत्नस्य विजयप्राप्तिः। जूलै १६ तमे दिनाङ्के दुरापन्ने भूस्खलने कर्णाटकस्य षिरूर् जनपदस्थायाः गङ्गावाली नद्याः अगाधतां निपत्य तिरोभूतं भारवाहकं तस्य चालकेन केरले कोष़िक्कोट् प्रदेशीयेन  अर्जुनेन सह  ह्यः अधिगतम्। अर्जुनस्य भौतिकावशिष्टानि  भारवाहकस्य अन्तः लग्नानि आसन्। भारवाहकं भौतिकावशिष्टानि च बन्धुभिः भारवाहकस्वामिना च प्रत्यभिज्ञातानि। 

  मृतदेहांशाः कार्वारस्थे जनपदीयातुरालयं नीताः। डि एन् ए परीशोधनादिकं पूर्तीकृत्य बान्धवेभ्यः दास्यन्ते। केरल-कर्णाटकसर्वकारयोः अधिकारिवृन्दस्य  ऐकमत्येन एकोपनं, अनेकेषां कर्मकराणां सन्नद्धसेवकानां समर्पणपूर्वकं प्रयत्नं च अस्याः सफलतायाः निदानं भवति। तिरोभूतयोः द्वयोरपि अधिगमनाय अन्वेषणम् अनुवर्तिष्यते इति कर्णाटकसर्वकारेण निगदितम्।

Wednesday, September 25, 2024

 "मुड भूमि व्यवहारप्रकरणे सिद्धरामय्यं विरुद्ध्य लोकायुक्तः अन्वेषणम् करोति।"

    मैसूरु 'मुड' भूमि-व्यवहारप्रकरणे कर्नाटकराज्यस्य मुख्यमन्त्रिणं सिद्धरामय्यं विरुद्ध्य लोकायुक्तेन अन्वेषणं घोषितम्। बङ्गलूरु देशस्य जनप्रतिनिधीनां विशेषन्यायालयेन एव अन्वेषणाय आदेशः प्रदत्तः। मैयसूरु लोकायुक्तस्य आरक्षकैः एव प्रकरणस्य अन्वेषणं कर्तव्यम् इति निश्चितम्। त्रिमासाभ्यन्तरे अन्वेषणं कृत्वा प्रतिवेदनं दातव्यम् इति न्यायालयस्य आदेशः अस्ति।

    ह्यः सिद्धरामय्येन राज्यपालं विरुद्ध्य दत्ता याचिका कर्णाटकस्य उच्चन्यायालयेन निरस्ता आसीत्।

 हरिणी अमरसूर्या श्रीलङ्कायाः प्रधानमन्त्री। 

कोलम्बो> श्रीलङ्कायाः नूतनप्रधानमन्त्रिरूपेण हरिणी अमरसूर्या गतदिने शपथवाचनं कृत्वा पदं प्राप्तवती। राष्ट्रपतिः अरुणकुमार दिशनायके शपथं कारितवान्। 

  श्रीलङ्कायाः तृतीया महिलाप्रधानमन्त्री भवति हरिणी। नूतने मन्त्रिमण्डले चत्वारः अङ्गाः वर्तन्ते। नवम्बरमासे प्रतीक्ष्यमाणं सामान्यनिर्वाचनपर्यन्तं संरक्षकमन्त्रिसभारूपेण एव प्रवर्तनमिति सूच्यते।

 लेबनदेशे आक्रमणं तीव्रं कृत्वा इस्रायलेन; बैरूतं प्रति विमानानि रुद्धानि; अमेरिकया नागरिकाः देशं त्यक्तुं निर्दिष्टाः।

      लेबनदेशे इस्रायलेन आक्रमणं तीव्रं कृतमिति कारणेन विभिन्नैः राष्ट्रैः बैरूतं प्रति विमानयात्राः रुद्धाः। अमेरिकया, फ्रान्स् देशेन, जर्मनीदेशेन च बैरूतं प्रति विमानसेवाः रुद्धाः। गल्फ् एरलाइन्स्, एमिरेट्स्, खतर् एयर्वेस् इत्यादयः अपि सेवाः रुद्धाः। लेबनेदेशे स्थितानन् स्वनागरिकान् प्रति देशं त्यक्तुम् अमेरिकया  निर्दिष्टम्।

      इस्रायलस्य व्योमाक्रमणेन  ५० शिशवः ९४ स्त्रियाः च समेत्य  ५५८ जनाः हताः तथा १८३५ जनाः व्रणिताश्च।

Tuesday, September 24, 2024

 भारत-बङ्गलादेशयोः क्रिकेट निकषस्पर्धा - भारतस्य विजयः। 

चेन्नै> बङ्गलादेशं विरुध्य भारतस्य प्रथमक्रिकट् निकषस्पर्धायां भारतं २८० धावनाङ्कैः विजितवत्। उपलब्धिः - प्रथमपादे भारतं ३७६, बङ्गलादेशः १४९ ; द्वितीयपादे भारतं २८७/४ -समाप्तिज्ञापनं, बङ्गलादेशः २३४। 

  निर्णायके काले शतकप्राप्त्या ६ द्वारकसम्पादनेन च प्रशोभितः आर् अश्विनः श्रेष्ठक्रीडकपदं प्राप्तवान्। द्वितीया निकषस्पर्धा २७तमदिनाङ्कतः आरभ्य काण्पुरे सम्पत्स्यते।

 कोटैकनाले पलास्तिककूपीनां २० रूप्यकाणि हरितकरम्।

चेन्नै> तमिलनाटस्थे प्रसिद्धे विनोदसञ्चारकेन्द्रे कोटैकनाले पञ्चलिटर् न्यूनात्मकानां जल-पानीयकूप्यानाम् उपयोगाय २० रूप्यकाणि कररूपेण आहर्तुं राज्यसर्वकारस्य आदेशः। विनोदसञ्चारकेन्द्रं पलास्तिकमालिन्यमुक्तं कर्तुम् उच्चन्यायालयस्य निर्देशमनुसृत्य एवायमादेशः। रविवासरे नूतनोSयं प्रक्षेपः प्रवृत्तिपथमागतः।

 'चतुरङ्ग ओलिम्प्याडे' भारतस्य युगलकिरीटप्राप्तिः। 

चतुरङ्ग ओलिम्प्याडे युगलकिरीटं प्राप्तवत् भारतीयदलम्। 

बुदापेस्ट्> विश्वचतरङ्गक्षेत्रे भारतस्य नूतनाश्वमेधस्य प्रारम्भः। हंगरी राष्ट्रे बुदापेस्ट् राजधानीनगरे सम्पन्ने चतुरङ्गस्य ओलिम्प्याड् स्पर्धासु सामान्यविभागे [Open Category] वनिताविभागे च भारतस्य सुवर्णकिरीटप्राप्तिः। प्रप्पथममेन भारतस्य विभागद्वये विजयः। 

  सामान्यविभागे ११ चक्रेभ्यः २१ अङ्कान् सम्प्राप्य एव भारतं वीरपदं प्राप्नोत्। महिलाविभागस्य अन्तिमचक्रे अज़र्बैजानं पराजित्य १९ अङ्कैः भारतेन प्रथमस्थानं प्राप्तम्। 

  स्पर्धापरम्परायां सर्वत्र अपराजिताः डि गुकेशः, अर्जुन एरिगासि, दिव्या देशमुखः, वन्तिका अगर्वालः इत्येते वैयक्तिकानि सुवर्णपतकानि प्राप्तवन्तः।

Monday, September 23, 2024

 'मार्क्सिस्ट्' अनुयायी दिशनायके श्रीलङ्कायाः राष्ट्रपतिः। 

दिशनायके।

कोलम्बो> श्रीलङ्कायां शनिवासरे सम्पन्ने राष्ट्रपतिनिर्वाचने 'मार्क्सिस्ट्' अनुयायी अनुरकुमार दिशनायके ४२. ३१% मतदानोपलब्ध्या विजयीभूतः। मार्क्सिस्ट् दलस्य जनता विमुक्ति पेरुमुना इत्यस्य नेतृत्वे वर्तमाने सख्ये अन्तर्भूतस्य एन् पि पि इत्यस्य स्थानाशी आसीत् दिशनायकः। सः अद्य राष्ट्रपतिभवने सम्पन्ने समारोहे शपथवाचनं कृतवान्।