OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 3, 2024

 वयनाट् दुरन्ते साह्याभ्यर्थनां कुर्वन्ति ओक्स्फोर्ड् विश्वविद्यालयछात्राः।

ओक्स्फोर्ड् विश्वविद्यलयस्य इन्टेण्षिप् छात्राः तृशूरस्थस्य इन्मैन्ड् आतुरालयस्य पुरतः।

तृश्शूर्> केरले वयनाट् जनपदे दुरापन्ने भूस्खलनदुरन्ते सर्वस्वं विनष्टीभूतानां जनानाम् अतिजीवनपरियोजनायै विदेशराष्ट्राणि प्रति साहाय्यं अभ्यर्थयन्ति तिस्रः विदेशछात्राः। 

   ओक्स्फोर्ड् विश्वविद्यालयात् 'इन्टेण्षिप्' नामकपाठ्यप्रवर्तनाय तृश्शूरस्थं 'इन्मैन्ड्' इति संस्थां प्राप्तवत्यः अमेलिया रोक्, षार्लट् सतर्लन्ट्, मिल्लिसन्ट् क्रू इत्येताः छात्राः एव सामाजिकमाध्यमेन साह्यमभ्यर्थितवत्यः। ताभिः  'रील्' रूपेण सज्जीकृता अर्थना विदेशराष्ट्रेषु प्रचरन्ति।

 ओलिम्पिक्स् वार्ताः। 

पुरुषाणां १०० मी योग्यता स्पर्धा अद्य। पतकपट्टिकायां चीनः अग्रे। 


पारीस्> लोकस्य शीघ्रतमः धावकः क इति निर्णेतुं होराः एवावशिष्यन्ते। पुरुषाणां १०० मी धावनस्पर्धायाः योग्यताचक्रम् अद्य भविष्यति। अन्तिमस्पर्धा श्वः विधास्यति। 

  पतकपट्टिकायां चीनः प्रथमस्थानं प्राप। १२ सुवर्णानि, ७ रजतानि, ७ कांस्यानि च तैः प्राप्तानि। द्वितीयस्थाने अमेरिका, तृतीये ब्रिट्टनं च वर्तेते।

Friday, August 2, 2024

 वयनाट् भूस्खलनदुरन्तः - ऊर्जितान्वेषणम् अनुवर्तते। 

दुरन्तदृश्यम्। 

बैलि सेतुः सुसज्जः;  अन्वेषणाय ४० संघाः।

मुण्टक्कै> वयनाट् भूस्खलनदुरन्तस्य चतुर्थे दिने प्राणसहितेभ्यः दुरन्ताधीनेभ्यः अन्वेषणं प्रायः समाप्तम्। यतः सजीवः यःकोSपि नावशिष्यते इति सैनिकाधिकारिभिः निगदितम्। परं मृतशरीरान्वेषणमेव कार्यमिति तैः उक्तम्। अतः सर्वसन्नाहैः सैन्यं सुसज्जं वर्तते। 

   ह्यः बैलि सेतुः सुसज्जः अभवत्। तेन मार्गेण मुण्टक्कै प्रदेशे अन्वेषणाय आधुनिकोपकरानि यन्त्राणि च नेतुं शक्यते। 

  ४० संघैः विभज्य एव अद्यतनमन्वेषणम् आरब्धम्। प्रतिसंघे सैनिकाः, राष्ट्रियदुरन्तनिवारणसंघांगाः, अग्निरक्षाभटाः इत्येतान् विना वनविभागसेवकाः प्रदेशवासिनश्च अन्तर्भवन्ति। 

  इतःपर्यन्तं ३०० अधिकानि मृतशरीराणि अधिगतानि। अद्य एव ११ मृतशरीराणि दृष्टानि। ८५ जनाः आतुरालयेषु परिचर्यायां वर्तन्ते।

 ओलिम्पिक्स् भारतम्।

राष्ट्राय तृतीयपतकं, भुषुण्डिप्रयोगे स्वप्नित् कुशाले। 

स्वप्नित् कुशाले। 

पारीस्>  ह्यः पुरुषाणां ५० मी 'रैफिल् ३ पोसिषन्' [Rifle three position] नामके लक्ष्यभेदकविभागे महाराष्ट्रियः स्वप्नित् कुशाले नामकः कांस्यपतकं प्राप्तवान्। अनेन भारतस्य पतकलाभः त्रयः अभवत्। अस्मिन् विभागे भारतस्य प्रथमः पतकोपलब्धिरयम्। 

   प्रत्युत, पिच्छकन्दुके पि वि सिन्धू पूर्वचतुर्थांशे पराभूय बहिर्नीता। तथैव पुरुषाणां युगलविभागे - पिच्छकन्दुकस्पर्धा - सात्विक सायराज चिराग षेटी सख्यः बहिर्गतः। मुष्टामुष्टियुद्धे निखात सरिनः अपि पराजितः।

Thursday, August 1, 2024

 वयनाट् दुरन्तः - रक्षाप्रवर्तनमनुवर्तते। वृष्टि प्रतिबन्धं जनयति। 

मुण्टक्कैयां विलापाश्रुप्रवाहः। राष्ट्रस्य विविधभागेभ्यः साहाय्यहस्ताः प्रसरन्ति। 

समाश्वासकेन्द्रेषु ८००० दुरन्ताधीनाः। २८४ मरणानि।   द्विशताधिके जनाः इदानीमपि अदृष्टाः। 

मुख्यमन्त्री पिणरायि विजयः जनपदं प्राप्य आश्वासप्रवर्तनानि एकोपयति। 

भूतपूर्वः लोकसभासदस्यः तथा लोकसभाविपक्षनेता च राहुल गान्धी, कोण्ग्रस् नेत्री प्रियङ्का गान्धी च अद्य दुरन्तस्थानं प्राप्नुवतः। 

'बेय्ली' सेतोः निर्माणं पुरोगच्छति। १५०० सैनिकाः   रक्षाप्रवर्तननिरताः।

 ओलिम्पिक्स् भारतम्। 

भारतमपि चरणपथमायाति। 

अद्य भारतस्य चलनस्पर्धा। 

पारीसः> ओलिम्पिक्स् स्पर्धासु अद्य चरणपथमायातवत्सु भारतस्य पतकप्रतीक्षाः जातपक्षाः भवन्ति। लोकेन आकांक्षया प्रतीक्षमाणाः कायिकस्पर्धाः [Athletics] अद्य आरभन्ते। 

पुरुष महिलाविभागयोः २० कि मी पदचलनप्रतियोगितायां भारतमद्य भागं करिष्यति। अक्षतदीप सिंहः, विकास सिंहः, परंजित्  सिंहः इत्येते पुरुषविभागे प्रियङ्का गोस्वामी वनितानां विभागे च स्पर्धिष्यन्ति।  अनन्तरं नीरज चोप्रः, अविनाश सांब्ले, प्रवीण चित्रवेलः, अब्दुल्ला अबुबकरः इत्यादयः विविधदिनेषु भिन्नभिन्नाधिकरणेषु स्पर्धिष्यन्ते। 

  एताः विना भुषुण्डिप्रयोगः, पिच्छकन्दुकं, पटल लानं, [टेबिल् टेन्निस्], गोल्फ्, यष्टिक्रीडा, अस्त्रप्रयोगः, मुष्टामुष्टियुद्धः [Boxing] इत्यादिषु च अद्य भारतस्य प्रतियोगिताः वर्तन्ते।

 ओलिम्पिक्स् वार्ताः। 

व्यायामक्रीडाः अद्य आरभन्ते। 


पारीसः> २० किलोमीटर् चलनस्पर्धया ओलिम्पिक्सस्य चरणपरणपथः अद्य बुध्यते। आगामिनि दिनेषु क्षेत्रीयकायिकस्पर्धाः अपि सजीवतां विधास्यन्ति। ४८ विभागेषु प्रतियोगिताः सन्ति। कुन्तप्रक्षेपके नीरज चोप्रे भारतस्य प्रतीक्षा वर्तते।

 हमासस्य नेता इस्मयिल् हनियः निहतः।

इस्मयिल् हनियः। 

 

टेहरानः> पलस्तीनस्य स्वातन्त्र्याय युद्धं कुर्वतः हमास् इति सायुधसंघस्य राजनैतिककार्यनेता इस्मयिल् हनियः निहतः। इरानस्य राजधान्यां टहराने बुधवासरस्य प्रत्युषसि तस्य वासगृहं लक्ष्यीकृत्य विधत्तेन ड्रोण् आक्रमणेन आसीत् तस्य हत्या। 

  हत्यायाः पृष्ठतः इस्रयेलः इति हमासेन इरानेन च आरोपितम्। आरोपणं प्रति इस्रयेलस्य प्रतिकरणं नाभवत्। 

  ड्रोणाक्रमणेन हनियस्य अंगरक्षकोSपि हतः। हननप्रकरणे  इरानेन अन्वेषणमारब्धम्।

 हिमाचलप्रदेशे मेघविस्फोटः।३६ जनाः अप्रत्यक्षाः अभवन्।

  हिमाचलप्रदेशः> षिंलायां रामपुरे मेघविस्फोटानन्तरं दुरापन्ने प्रलये द्वौ मरणमुपगतौ। उप षट्त्रिंशत्  जनाः अप्रत्यक्षीभूताः च। अप्रक्षीभूतानां संख्या इतोऽप्यधिका भवेत् इति अधिकारिभिः प्रतिवेदिता अस्ति।१७ स्त्रियः १९ पुरुषाः च अप्रत्यक्षाः जाताः।

Wednesday, July 31, 2024

 मुण्टक्कै = मरणभूमिः। 

अश्रुपूर्णं केरलम् ; भीतिदः वयनाट् दुरन्तः। 

  मुण्टक्कै> दिनद्वयात्पूर्वं केरलस्य इतरप्रदेश इव साधारणः प्रदेश आसीत् वयनाट् जनपदस्थः मुण्टक्कै नामकः गिरिसानुहरितमधुरप्रदेशः। सोमवासरस्य अर्धरात्रिः अस्य  भागधेयं प्रकृतिः भूविच्छेदस्य रूपेण परिवर्तितमकरोत्। उपत्रिसहस्रं परिवारैः अधिवसितं मुण्टक्कै, चूरल् मला, अट्टमला इति प्रदेशत्रयं प्रकृतेः संहारताण्डवेन नामावशेषम् अभवत्।  मुण्टक्कै, चूरल् मला प्रदेशद्वयमपि अक्षरार्थे मरणभूमिरभवत्। 

   मृत्युसंख्या उपद्विशतमुपयाति। १७७ मृतदेहाः अधिगताः। शताधिके प्रदेशवासिनः अदृष्टाः वर्तन्ते। कतिजनाः दुरन्तलग्नाः बभूवुरिति निर्णेतुम् इदानीमशक्यं भवति यतः वयनाटस्य प्रमुखविनोदकेन्द्रत्वेन वर्तमाने अस्मिन् प्रदेशे बहवः विनोदयात्रिकाः इतरराज्यवासिनश्च उपस्थातुं सम्भावना विद्यते। 


    केवलम् अद्यैव मुण्टक्कै दुरन्तप्रदेशं प्राप्तुं  रक्षाप्रवर्तकैः अशक्यत। यतः तत्र प्राप्तुम् यः एकैव सेतुरासीत्,स तु भूविच्छेदे परिपूर्णतया विशीर्णः अभवत्। अद्य तत्रत्यानि दृश्यानि भीतिदान्यासन्। शतशः गृहाणि, विद्यालयः, आराधनालयाः अन्यानि भवनानि च मृण्मयमभवत्। पञ्चत्वं गतानि शरीराणि तत्र  तत्र दृष्टानि। विशीर्णानां भवनानामन्तः मृतप्रायानां मनुष्याणां परिलालितजीविनां च मृदुस्वराः! किन्तु रक्षिसंघः निस्सहायतामवाप। कठिनप्रयत्नेन ४५० अधिके जनाः तैः रक्षातीरं प्राप्ताः। 

  केन्द्र-राज्यसर्वकारयोः युगपत् एकोपनं  रक्षाप्रवर्तनाय सहायकं वर्तते।

 ओलिम्पिक्स् वार्ताः। 

पतकपट्टिकायामग्रे जापानः।

पारीसः> पारीस् ओलिम्पिक्सस्य पञ्च दिनेषु अतीतेषु पतकपट्टिकायां जापानराष्ट्रं अग्रिमस्थाने वर्तते। ७ सुवर्णानि, द्वे रजते, चत्वारि कांस्यानि च जापानेन उपलब्धानि। ६ - ६ - २ इति पतकक्रमेण चीनः द्वितीयस्थाने वर्तते। तृतीयस्थाने फ्रान्सः भवति ,  ५ - ८ - ४ इति रीत्या। पट्टिकायां भारतस्य स्थानं २९  तमं भवति। 

   पादकन्दुकस्पर्धायाः कस्मिंश्चित् संघप्रतियोगितायां स्पेयिनं २ - १ इति लक्ष्यकन्दुकक्रमेण  पराजित्य ईजिप्तः संघवीरत्वेन चतुर्थांशं प्राविशत्। द्वितीयस्थानत्वेन स्पेयिनः अपि चतुर्थांशं प्राविशत्।

 ओलिम्पिक्स् भारतम्। 

मनु भाकर-सरब ज्योत् सख्याय कांस्यम्। 

परीस्> पुनरपि भारतं कांस्यपतकेन अलङ्कृतम्। १० मी वायव्यभुषुण्डिप्रयोगस्य मिश्रविभागे मनु भाकर-सरब ज्योत् सख्यः कांस्यपतकमुपालभत। सख्योSयं दक्षिणकोरियां १६ - १० अङ्कनक्रमेण पराजितवान्।  पारीस् ओलिम्पिक्स् मध्ये भारतस्य द्वितीयं पतकम्! 

   पुरुषाणां होकिस्पर्धायाम् अयर्लान्टं पराजित्य भारतं चतुर्थांशचक्रं प्राविशत् [२ - ०]।

Tuesday, July 30, 2024

 वयनाट् भूविच्छेददुरन्ते व्रणितान् बहिरानेतुं व्योमसेनायाः उदग्रयाने वायोन्नयनं समारब्धम्। 

   मेप्पाटि> वयनाटे चूरल्मल, मुण्डक्कै, अट्टमल प्रदेशेषु दुरापन्ने भूविच्छेदे रक्षाप्रवर्तनाय व्योमसेनायाः उदग्रयानम् आगतम्। दुरन्ते आपततितान् जनान् वायोन्नयनीद्वारा (airlifting) उद्धृत्य आतुरालयेषु सुरक्षितस्थानेषु च नेतुं प्रयत्नमारब्धम्।

 भारतीयज्ञानपरम्परा ज्ञानविज्ञानस्य समग्रजीवनदर्शनस्य च संयोजनम् अस्ति- प्रो.अन्नपूर्णानौटियाल:

वार्ताहर:-कुलदीपमैन्दोला।

    जगद्गुरूणाम् आदिशंकराचार्यजयन्त्या:  शुभावसरे भारतीयदार्शनिकदिवसरूपेण  समाचर्यते  अस्यां श्रृङ्खलायां भारतीयदार्शनिक-संशोधनपरिषदः नवीदिल्लीसौजन्येन एच्.एन.बी. गढ़वाल-विश्वविद्यालयस्य दर्शनशास्त्रविभागेन एकदिवसीयसंगोष्ठी आयोजिता।  २९ जुलै दिनाङ्के आयोजिता एषा संगोष्ठी भारतीयज्ञानपरम्पराविषये केन्द्रीभूता आसीत्।  दर्शनशास्त्रविभागस्य प्रमुखा प्रो.इन्दुपाण्डेयखण्डुरी इत्यनेन सर्वेषाम् अतिथिनां स्वागतं कृत्वा भारतीयज्ञानपरम्परायाः महत्त्वं प्रकाशितम्।  सः शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं ऐतिहासिकपृष्ठभूमिं अपि व्याख्यातवान्।  तेन उक्तं यत् शृंगेरीमठस्य शंकराचार्य:  भारतीयप्रधानमन्त्री भारतरत्नम् अटलबिहारी वाजपेयी  इत्यस्य समये शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं प्रस्तावम् अयच्छत्।  फलतः भारतसर्वकारेण कतिपयवर्षपूर्वमेव एतत् उपक्रमः कृतः ।  प्रो.खण्डुरी भारतीयदार्शनिकदिवसरूपेण भारतीयसभ्यतायाः संस्कृते: च सारं प्रस्तुतवान्। 


 कार्यक्रमस्य मुख्यातिथिः गढ़वालविश्वविद्यालयस्य कुलपतिः प्रो.अन्नपूर्णा नौटियालः अवदत् यत् भारतीयज्ञानपरम्परा ज्ञानस्य, विज्ञानस्य, जीवनस्य समग्रदर्शनस्य च संयोजनम् अस्ति।  नूतनशिक्षानीत्या पारम्परिकज्ञानं प्रति प्रत्यागमने अपि बलं दत्तम् अस्ति ।  सः अवदत् यत् विकसितभारतस्य दृष्टिः स्थले आनेतुं आधुनिकविज्ञानस्य भारतीयज्ञानपरम्परायाः च सन्तुलनं आवश्यकम् अस्ति।  सः अवदत् यत् छात्राः पुस्तकालयेषु मौलिकग्रन्थान् पठेयुः।


पञ्जाबविश्वविद्यालयस्य चण्डीगढस्य दर्शनविभागस्य प्राध्यापिका वक्ता प्रो.शिवानीशर्मा, सौन्दर्यशास्त्रस्य सूक्ष्मतां व्याख्याय सत्यम्, शिवम्, सुन्दरं च अवधारणां, तस्य उपयोगितां, वर्तमानसान्दर्भिकतां च स्पष्टीकृतवती।  डीडीयूगोरखपुरविश्वविद्यालयगोरखपुरस्य  दर्शनविभागस्य  अध्यक्ष: वक्ता प्रो. द्वारकानाथ: योगदर्शनस्य ऐतिहासिकपृष्ठभूमे: च निष्कामकर्मसहितं योगस्य विविधपक्षेषु  व्याख्यनं दत्तवान् ।वक्ता प्रो. पी. के. दास:, अध्यक्ष:, दर्शनशास्त्रविभागनयागढ़कॉलेज-उत्कलविश्वविद्यालयोड़ीसात:  न्यायदर्शनस्य ज्ञानमीमांसीय चान्यपक्षं व्याख्यातवान् ।

प्रो. अरविंदविक्रमसिंह: न्यायदर्शनस्य ज्ञानविज्ञानादिपक्षं व्याख्यातवान् ।  वक्ता प्रो. अरविंदविक्रमसिंह:, अध्यक्ष:, दर्शनशास्त्रविभागराजस्थानविश्वविद्यालत:  भारतीयज्ञानपरंपराया: अंतर्गत सततविकासस्य अवधारणा  चास्य  उपादेयतां स्पष्टीकृतवान्।


कार्यक्रमस्य अध्यक्ष:  प्रो. हिमांशुबौड़ाई, संकायाध्यक्ष: मानविकी च समाजविज्ञानसंकाय:,  गढ़वालविश्वविद्यालयत:  कार्यक्रमाय आयोजकेभ्य:  वर्धापनं दत्तवान् तथा भारतीयज्ञानपरंपराया:  विविधपक्षेषु स्ववार्तां स्थापितवान्।  स:  दर्शनस्य च मानवजीवने नीतिशास्त्रस्य महत्त्वं स्पष्टं कृतवान्। दर्शनविभागस्य सहायकप्राध्यापिका डॉ. ऋषिका वर्मा धन्यवादमतस्य प्रस्तावम् अकरोत्।  


कार्यक्रमस्य संचालनं दर्शनशास्त्रविभागस्य सहायकप्राध्यापिकया डॉ. कविताभट्टद्वारा कृतम्।  मिश्रितसमन्वये आयोजितेस्मिन्  कार्यक्रमे योगविभागाध्यक्ष:  डॉ. अनुजा रावत:, डॉ. विनोदनौटियाल:, डॉ. रजनी नौटियाल:, डॉ. चिन्ताहारन:, डॉ. घनश्याम: इत्यादिभिस्सह   अनेकविभागानां शिक्षका: , शोधकर्त्तार:  एवं सुदीर्घछात्रसंख्यायां, डॉ. किरण:  आदय:  प्रतिभागं कृतवन्त:।  कार्यक्रमे रेखा डंगवाल:, ओमप्रकाश:, पूनमरावत: व अनिलकठैत:  योगदानं दत्तवन्त: ।

 वयनाट् भूविच्छेददुरन्तः - ७३  मृतशरीराणि अधिगतानि। 

रक्षादौत्याय सर्वाः संस्थाः एकीभूयन्ते। प्रधानमन्त्रिणः साह्यहस्तः। 

मुण्टक्कै>  केरले वयनाट् जनपदे ह्यः रात्रौ दुरापन्ने भूविच्छेदे इतःपर्यन्तं ७३ मृतदेहाः अधिगताः। ३३ शरीराणि प्रत्यभिज्ञातानि। २५० जनाः दुर्घटनास्थानेषु लग्नाः इति सर्वकारेण निगदितम्। शतशः जनाः विविधेषु आतुरालयेषु चिकित्समाणाः वर्तन्ते। 

  प्रधानमन्त्री नरेन्द्रमोदी दुरापन्ने अनुशोचं प्रकटितवान्। रक्षादौत्याय सर्वविधं साहाय्यं तेन वाग्दत्तम्। ६० अङ्गयुक्तः नाविकसंघः दुरन्तस्थानं प्राप्य रक्षाप्रवर्तनमारभत। २०० अङ्गयुक्तः स्थलसेनाभटाश्च रक्षाप्रवर्तने व्यापृताः सन्ति।  मुण्टक्कै, अट्टमला, चूरल्मला  प्रदेशेषु ह्यः अर्धरात्रौ द्विवारं भूविच्छेदः गिरिजलप्रवाहश्चाभवत्।

 ओलिम्पिक्स् भारतम्। 

१० मी वायव्यभुषुण्डौ कांस्यपतकस्पर्धार्हता,  होकीस्पर्धायां समस्थितिः,  पिच्छकन्दुके चतुर्थांशप्राप्तिः। 

समस्थितिकन्दुकं प्राप्तवान् हर्मन्प्रीत सिंहः मित्रैः अभिनन्द्यते। 

पारीस्> ओलिम्पिक्स् महामहस्य तृतीयदिने भारतस्य आशा निराशा च। भुषुण्डिप्रयोगस्य १० मी वायव्यास्त्राधिकरणे [मिश्रिते]   मनु भाकर-सरबज्योति सख्यः तृतीयस्थानस्पर्धायै अर्हतामवाप। पिच्छकन्दुकस्य युगलाधिकरणे सात्विक साय् राज़ चिराग षेटी सख्यः चतुर्थांशं प्रविवेश। 

  होक्की प्रतियोगितायां अर्जनीनां समस्थितिं कृत्वा [१ - १] भारतस्य प्रतीक्षाम् अवस्थाप्यते। स्पर्धायाः अन्तिमे निमिषे दलनायकः हर्मन् प्रीत सिंहः भारतं पराजयात् रक्षितवान्। चतुर्भिरङ्कैः भारतं तृतीयस्थामावहति। 

   गतदिने भुषुण्डिप्रतियोगितायां अस्त्रप्रयोगे च प्रतीक्षितपतकानि न लब्धानि इत्येतत् निराशाजनकं वर्तते।

 केरले वयनाट् जनपदे त्रिषु स्थानेषु भूविच्छेदः - १९ मरणानि। 

चूरल्मलप्रेशे दुरापन्नस्य भूविच्छेदस्य दृश्यम्। 

रक्षादौत्यं दुष्करं ; सेतुः विशीर्णः, अनेके परिवाराः अप्रत्यक्षाः। 

वयनाट्> केरलस्य वयनाट् जनपदस्थे चूरल् मला, मुण्टक्कै, अट्टमला स्थानेषु महाभूविच्छेदः दुरापन्नः। ह्यः रात्रौ आसीत् दुरन्तः।  अनेके वासगृहाणि भूस्खलनम् अनुबन्ध्य जाते गिरिजलप्रवाहे विशीर्णानि। कति जनाः दुरन्तलग्नाः इति निर्णेतुमधुना अशक्यं भवति। १९ मृतदेहाःअधिगताः। 

  दुरन्तस्थानानि प्राप्तुं एकैव सेतुः विशीर्णः इत्यतः रक्षाप्रवर्तनं दुष्करं वर्तते। रक्षणसंघस्य मुण्टक्कै प्रदेशं प्राप्तुं न शक्नोति। तत्र गन्तुं एकैव सेतुः दुरापन्ने प्रवाहितः। अतः मुण्टक्कै अट्टमला प्रदेशौ पृथगीकृतौ वर्तेते। 

  चूरल् मला प्रदेशे एव रक्षाप्रवर्तनानि पुरोगच्छन्ति। तत्रस्थ सर्वकारीय उच्चविद्यालयः भूविच्छेदेन विशीर्णः अभवत्।

Monday, July 29, 2024

 उत्तरकेरले प्रचण्डवृष्टिः ; १४ जनपदेषु जागरणसूचना। 

कोच्चि>  दिनद्वयस्य विरामानन्तरं केरले पुनरपि वृष्टिः अतिशक्ता अभवत्। उत्तरकेरले तीव्रवृष्टिः जाता। 

  वयनाट् मलप्पुरं, कोष़िक्कोट्, कण्णूर् जनपदस्थाः नद्यः जलपूरिताः प्रवहन्ति। कोष़िक्कोट् जनपदे चालिप्पुष़ा, मुत्तप्पन् पुष़ा इत्यादिषु नदीषु सेतवः मग्नाः इत्यतः गमनागमनं स्थगितम्। आगामिदिनेषु वृष्टिजागरणसूचना दत्ता।