OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 30, 2023

 संस्कृतभारत्या आयोजितायाः परीक्षायाः प्रमाणपत्राणि विर्तीर्णानि।

परीक्षायां विजयिनः 

     आलप्पुष़ा> संस्कृतभारत्याः केरलविभागेन विश्व-संस्कृत-प्रतिष्ठानेन आयोजितायाः "पत्रालयद्वारा संस्कृतम्" इति योजनान्तर्गतायाः परीक्षायाः प्रमाणपत्राणि वितीर्णानि। आभारतं विभिन्नराज्येषु संस्कृतप्रेमिणः इमां परीक्षां लिखितवन्तः सन्ति। आलप्पुष़ा नगरे विद्यमाने ए एन् पुरं संस्कृतपठनकेन्द्रे आयोजिते मेलने प्रोफ. रामराजवर्मणा विजयिभ्यः प्रमाणपत्राणि प्रदत्तानि। संस्कृतभारत्याः भारतीपूजामहोत्सवानुबन्धतया आसीत् मेलनम् ॥ 

Sunday, October 29, 2023

 'वन्दे साधारण्' पट्टिकायानमागच्छति। 

मितव्ययेन अतिशीघ्रयात्रा लक्ष्यः।

चेन्नै> सामान्यजनानां मितव्ययेन दूरस्थानं प्रति अतिशीघ्रयात्रां सफलीकर्तुं 'वन्दे साधारण्' इति कृतनामधेयानि अतिशीघ्ररेल् यानानि भारते आरभ्यन्ते। अस्याः श्रेण्याः प्रथमयानस्य यात्रा नवम्बरमासे मुम्बैतः दिल्लीं प्रति विधास्यति। 

  प्रथमसोपाने पञ्च वन्दे साधारण् यानानि एव सेवां करिष्यन्ति। मुम्बै - दिल्ली मार्गं विना एरणाकुलं - गुवाहाटी, पट्ना - नवदिल्ली, हैदराबाद - नवदिल्ली, हौरा - नवदिल्ली इत्येतानि सेवामार्गाश्च निश्चितानि।

 विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत्  साट्ट्'  मार्च् मासे विक्षेपणाय सज्जः भविष्यति।

       बेङ्गलूरु> कर्णाटके सर्वकारीय-विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत् साट्ट्' नाम उपग्रहः आगामिनि मार्च् मासे विक्षेपणाय सज्जः भविष्यति। दिवङ्गतस्य प्रसिद्धस्य चलनचित्रनटस्य पुनीत् कुमारस्य नाम्नि एव उपग्रहः सज्जीकुर्वन् अस्ति। बाह्याकाशाध्ययनेषु छात्रान् आकर्षयितुं लक्ष्यीकृत्य सज्जीकृता परियोजना भवति पुनीत् साट्ट्। १.९० कोटि रूप्यकाणि एव अस्य निर्माणव्ययः। बेङ्गलूरु देशस्थात् २० सर्वकारीय-विद्यालयात् १०० छात्राः अस्मिन् योजनायां भागं स्वीकृतवन्तः सन्ति।

Saturday, October 28, 2023

देहरादूने संस्कृतभारत्या: विशालजनपदसम्मेलनं सम्पत्स्यते।

 आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका।

 संस्कृतभाषां विना भारतस्य कल्पनैव कठिना।

संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति। 27 देशेषु संस्कृतभारत्या: कार्यं संजायते। कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला:।।


वार्ताहर:- कुलदीपमैन्दोला। देहरादूनम्।

    आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका पोषिका मूलाधारा च वर्तते। संस्कृतभाषां विना भारतस्य कल्पनैव कठिना। वर्तमानपरिवेशे जनान् भारतीयसंस्कृतिं प्रति नेतुं संस्कृतभारती सततं संलग्ना वर्तते। भारतीयसंस्कृतेः मूलतत्त्वानि ज्ञातुं संस्कृतभाषा एव सहायिका विद्यते । अस्यां श्रृंखलायां संस्कृतभाषां जनभाषां कर्तुं तथा संस्कृतभाषायाः प्रचाराय प्रसाराय च संस्कृतभारतीद्वारा  सम्पूर्णभारतदेशे काले काले विविधकार्यक्रमाः समाचर्यन्ते। संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति । 27 देशेषु संस्कृतभारत्या: कार्यं संजायते । कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला: सन्ति। अधुना स्थाने स्थाने संस्कृतप्रभावं जनयितुं महत्त्वं प्रदर्शयितुं जनपदसम्मेलनानि सर्वत्र सञ्चाल्यमाना: भवन्ति।

 हमासस्य त्रयः नेतारः निहताः इति इस्रायेलः। 

जरुसलेमः> पलस्तीनानुकूलं सायुधसंघटनं हमास् इत्यस्य त्रयः प्रमुखाः नेतारः हताः इति इस्रयेलसेनया निगदितम्। 

  हमासस्य प्रमुखं सायुधविभागः 'दराज् टुफा' इत्यस्य त्रयः कमान्डर् पदीयाः  एव व्योमाक्रमणेन निहताः। एते ओक्टोबर् सप्तमदिनाङ्के इस्रयेलं प्रविश्य आक्रमणाय नेतृत्वमावहन् इति सूच्यते। 

  प्रत्युत, इस्रयेलेन कृते व्योमाक्रमणे इतःपर्यन्तं ५० बन्धिताः मृताः इति हमासस्य 'अल् खस्साम ब्रिगेड्' इत्यनेन  सायिधसेनाविभागेन निगदितम्।

Sunday, October 22, 2023

 भा. जा. दलेन तेलङ्कानराज्ये प्रथमस्थानाशी सूचिका प्रकाशिता। 

     हैदराबाद्> तेलङ्काना नियमसभा निर्वाचने स्पर्धिष्यमाणस्य स्थानाशिनां नामानि प्रकाशितानि। ५२ स्थानाशिनां नामानि सूचिकायां सन्ति। भा.जा.पायाः अध्यक्षस्य जे. पी. नद्दायाः नेतृत्वे आयोजिते उपवेशने आसीत् स्थानाशीनिर्णयः।

 केरलेषु तुलामासीयवर्षाकालः समारब्धः। पञ्चदिनानि यावत् मेघगर्जनेन सह वर्षा अनुवर्तिष्यति।

     केरलेषु तुलामासीयवर्षाकालः समारब्धः इति केन्द्रवातावरणमन्त्रालयेन आवेदितम्। दक्षिण-पूर्व वङ्गसमुद्रस्य मध्यवङ्गसमुद्रस्य च उपरि जातस्य न्यूनमर्दस्य तथा कोमारिन् मण्डलस्य उपरि रूपीकृतस्य चक्रवातावर्तिन्यः च प्रभावेन एव तुलावर्षा सञ्जाता।  अतिशक्ता वर्षा भवेत् इत्यतः गिरिप्रदेशेषु निवसन्तः जनाः जाग्रता पालनीया इति मन्त्रालयेन आवेदितम्।

Saturday, October 21, 2023

 अन्ताराष्ट्रनियमाः उल्लङ्घिताः इति कानडायाः अभिमतं भारतेन तृणीकृतम्। 

कानडां प्रति अतिशक्तं प्रत्युत्तरं प्रदत्तम्। 

       भारतेन राष्ट्रान्तरसन्धिनियमाः उल्लङ्घिताः इति कानडायाः विदेशकार्यमन्त्री मिलानि जोली अवदत्। भारतस्य निर्देशानुसारं ४१ नयतन्त्रकर्मचारिणः भारतात् प्रत्याहूताः। भारतस्य गार्हिकविषयेषु हस्तक्षेपं कृतम् इति दृष्ट्वा एव कानडायाः नयतन्त्रोद्योगिनः भारतात् प्रतिनिवर्तनाय निर्दिष्टाः इति भारतेन प्रत्युत्तरं प्रदत्तम्। भारते विद्यमानाः बंगलूरू मुंबै चण्डिगड्  दूतावासकेन्द्रतः वीसापत्रसेवनं स्थगितम्। समस्यापरिहाराय यत्नः क्रियते इति कानडया उक्तम्।

Friday, October 20, 2023

 वित्तकोशान् विरुद्ध्य परिदेवनानि सन्ति वा? ओण्लैन् द्वारा परिहर्तुं शक्यते।

    वाणिज्यवित्तकोशाः, इतराः वित्तसंस्थाः, ऋणसूचनासंस्थादीनां रिज़र्वबाङ्ग् इत्यस्य अधीनतायां विद्यमानाः इतराः ऋणप्रदानकसंस्था: इत्येतासां तादृशसंस्थानां च प्रवर्तनं विरुद्ध्य परिदेवनम् अस्ति चेत् ओंबुड्समान् इत्यस्य पुरतः परिदेवनं  प्रदातुं सन्दर्भाः सन्ति। तदर्थम् 'इन्टर् ग्रेट्टड् ओंबुड्समान् स्कीम्' इति अन्तर्जाल सुविधायां तन्त्रीबन्धितपरोक्षया रीत्या (ओण् लैन् द्वारा) निवेदनं समर्पयितुं समस्यापरिहारं सम्पादयितुं च  सन्दर्भः अस्ति। https://cms.rbi.org.in इत्यस्ति अन्तर्जालसूत्रम्। निश्शुल्कं सेवनं एव अस्मिन् विषये परिकल्पितम्। ग्राहकेभ्यः नष्टपरिहाररूपेण २० लक्षं रूप्यकाणि अपि दातुम् आदेशं प्रस्थातुं अधिकारयुक्तत्वेन ओंबुड्स्मान् अस्मिन् व्यवस्यते।

Thursday, October 19, 2023

 गासायां आतुरालयं प्रति बोम्बवर्षः - ५०० अधिकाः हताः।

अल् हग्ली> मध्यगासायां अल् हग्ली अरब आतुरालयं प्रति कुजवासरे दुरापन्नन बोम्बवर्षेण पञ्चशताधिकाः जनाः मृत्युवशं गताः। शतशः व्रणिताश्च। इस्रलयेन एव बोम्बवर्षः कृत इति अरबराष्ट्रैः आरोपितम्। किन्तु इस्रलयेन एतत् निषेधितम्। 

  केनचन इस्लामिकभीकरसंघटनेन विक्षिप्तानि बोम्बशस्त्राणि लक्ष्यभ्रंशं भूत्वा आतुरालयं पतितानीति इस्रलयेन प्रोक्तम्। ह्यः इस्रलयेलं सम्प्राप्तः अमेरिकायाः राष्ट्रपतिः जो बैडनश्च बोम्बस्फोटनविषये इस्रयेलानुकूलपक्षमेव स्वीकृतवान्।

Monday, October 16, 2023

 विश्व-अध्यापकपुरस्कारः वैष्णविबालिकायाः अध्यापिकायै सुनितायै।

   अङ्गीकारः सर्वे वाञ्चन्ति। किन्तु स्वस्व समीपवर्तिनः सकाशात् अङ्गीकारः न लभ्यते चेत् अन्यत् सर्वं निष्फलम् इति प्रतीयते। इदानीं केरलेषु विद्यमानेषु सर्वकारीय-प्राथमिकविद्यालयात् भवति एषा वार्ता। अलप्पुष़ जनपदे दक्षिण-एवूर् प्रदेशे विद्यमानात् सर्वकारीय प्राथमिकविद्यालयात् भवति इयं सन्तोषपूर्णा एषा वार्ता। अत्रत्या अध्यापिका सुनिता एस् प्रभुः स्थानान्तरं लब्ध्वा पेरुम्बलं देशस्थं विद्यालयं प्रति गतवती आसीत्। तस्याः गमनावसरे विद्यालये चतुर्थकक्ष्यायां वैष्णवी नामिका बालिका अनुपस्थिता आसीत्। अनन्तरदिने विद्यालयमागता सा बालिका तस्याः प्रियाध्यापिका ततः गतवती इति ज्ञात्वा दुःखिता अभवत्। सा तस्याः प्रियात् प्रियतराम् अध्यापिकां प्रति लेखं लिखितवती। तस्याः लेखः फेस् बुक्क् आदि प्रचरणमाध्यमेषु इदानीं प्रचलति। बालिकायाः लेखस्य अनूदितरूपं पश्यामः।


  मम प्रियतरायै सुनिताध्यापिकायै !

अध्यापिके ! मे भवत्यां स्नेहाधिक्यम् अस्ति। भवत्याः गमनकाले विद्यालयम् आगन्तुम् अशक्ता  आसम्। अस्माकं विद्यालये बहवः शिक्षकाः सन्ति, किन्तु त्वयि मम स्नेहः अपरिमेयः एव। यदा भवती मां पाठयितुम् आरब्धवती तदा मयि परिवर्तनम् आरब्धम्।  मे इदानीम् English मलयाळम् EVS आदयः पठितुं शक्यते। शिक्षिके! I Love you. चुम्बनम्। भवतीम् अत्यधिकतया स्निह्यामि। भवतीम् अहं कदापि न विस्मरिष्यामि। 


   इति प्रियतरा वैष्णवी ॥




 केरलस्य शैक्षिकाभियोजना - संक्षिप्तसंस्करणं प्रकाशितम्। 

राष्ट्रियपाठ्याभियोजना कालानुसारं संस्थापयिष्यते। 

     अनन्तपुरी>  केरलस्य विद्यालयेषु नूतनी राष्ट्रियपाठ्याभियोजना निश्चितकालानुक्रमेण संस्थापयिष्यते इति राज्यशिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण प्रोक्तम्। नूतनशैक्षिकाभियोजनायाः संक्षिप्तं रूपं राज्यस्य मुख्यसचिवाय वि पि जोय् ऐ ए एस् वर्याय दत्वा प्रकाशनावसरे भाषमाणः आसीत् सः।

  पूर्विद्यालयशिक्षामभिव्याप्य विद्यालयीयशैक्षिकमण्डले समग्रं परिष्करणं संस्थापयितुं सर्वकारः प्रतिज्ञाबद्धः इति शिक्षामन्त्रिणा उक्तम्।

 इस्रायेल् हमास् युद्धः - इस्लामिकराष्ट्रैः असाधारणम् आपत्कालीन मेलनम् आयोजितम्।

     जिद्दा> हमास् युद्धः अनुवर्तिते सन्दर्भेऽस्मिन् इस्लामिकराष्ट्रसख्येन असाधारणं आपत्कालीन मेलनम् आयोजितम्। सौदि अरेब्येषु जिद्दायां बुधवासरे मेलनं भविष्यति। इस्लामिक् ओर्गनसेषन् (ओ ऐ सि) नाम संघटनस्य अध्यक्षपदवीं अलङ्क्रियमाणस्य सौदिअरेब्यस्य  निमन्त्रणानुसारमेव आरबराष्ट्रैः मन्त्रितलेषु आपत्कालीनमेलनाय निश्चितम्।

Sunday, October 15, 2023

 इस्रायेलेन गासा परिवृता। हमासस्य उन्मूलनाशः लक्ष्यम्।

     टेल् अवीव्> इस्रायेलः  गासायाम् अतिशक्तम् आक्रमणं कर्तुम् उद्युक्तोऽभवत्  जल-तलाकाशमार्गेण आक्रमणाय सज्जः इत्यस्ति आवेदनम्। जनाः उत्तरगासां परित्यज्य शीघ्रं पलायितव्याः इति इस्रायेलस्य वक्त्रा रिच्चार्ड् हेच् इत्यनेन ज्ञापिताः। हमासस्य पूर्णनाशपर्यन्तं युद्धं भविष्यति इति इस्रायेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना विगते दिने उक्तमासीत्। इदानीं गासातः जनैः  पालायनम् आरब्धम्॥

Friday, October 13, 2023

 इस्रयेलतः भारतीयानां प्रथमसंघः राष्ट्रं प्राप्तः। 

नवदिल्ली> हमास-इस्रयेलयोः संघर्षस्य भूमिकायां इस्रयेले लग्नान् भारतीयान् स्वदेशं सम्प्रापयितुम् आयोज्यमानस्य दौत्यस्य 'ओपरेशन् अजय' नामकस्य प्रथमः उद्योगः सम्पन्नः। अद्य प्रभाते ५. ३०वादने २२० भारतीयान् ऊढ्वा ए ऐ 1140 संख्यायुक्तं विमानं टेल् अवीवतः दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रीयविमाननिलयं सम्प्राप्तम्। 

   छात्रान् अभिव्याप्य १८०० भारतीयाः इस्रयेले वर्तन्ते इति विदेशकार्यमन्त्रालयेन निगदितम्।

Wednesday, October 11, 2023

 इस्रायेले विपक्षिनेतारं संयुज्य आपत्कालीनसर्वकारः समायोजितः। 

      टेल् अवीव्> हमाससः अप्रतीक्षितम् आक्रमणानन्तरम् इस्रायेल् राष्ट्रे प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना आपद्कालीनः सर्वकारः प्रतिष्ठितः।   विपक्षिदलस्य ब्लू आन्ट् वैट् इत्यस्य नेतृणा बेन्नि गान्ट्सेन सह मिलित्वा आसीत् नूतन सर्वकारस्य ज्ञापनम्। इस्रायेलस्य भूतपूर्व-प्रतिरोधमन्त्री आसीत् बेन्नि गान्ट्सः।

Saturday, October 7, 2023

 विश्वस्मिन्  अध्यापकानां संख्यासु चतुर्णां कोटीनाम्  ऊन्नत्वमस्ति इति युनेस्को संस्थायाः गणना।

     विश्वस्मिन् सर्वत्र सर्वेषां छात्राणां शिक्षादानाय पर्याप्तानाम् अध्यापकानां संख्यासु ४.४ कोटीनाम् ऊनत्वं दृश्यते इति युनस्को संस्थायाः गणना सूचयति। २०२२ तमे संवत्सरे प्राथमिकविद्यालयात् ९% अध्यापकाः अध्यापनवृत्तिं परित्यक्तवन्तः इति प्रतिवेदनमस्ति। २०१५ तमे संवत्सरे एतत् मानम् ४.५%. आसीत्। आविश्वम् अध्यापकानाम् ऊनत्वविषये त्रिषु भागेषु एकः भागः  उपसहारा -आफ्रीक्केषु (sub Saharan Africal) भवति। २०३० तमे संवत्सराभ्यन्तरे 'सर्वेषां प्राथमिकशिक्षा ' इति लक्ष्यप्राप्तये  १.५% अध्यापकानाम् आवश्यकता अस्ति।

Thursday, October 5, 2023

 सिक्किमराज्ये आकस्मिकप्रलयः - दशाधिकाः मृताः। 

२२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः। 

गाङ्टोक्> उत्तरसिकिमस्य लोनाकतटाकसमीपे सञ्जाते मेघविस्फोटने आकस्मिक प्रलये च महान्नाशः अजायत। तीस्तानदीतटे दुरापन्ने जलोपप्लवे १० जनाः मृत्युमुपगताः। मृतानां संख्या वर्धिष्यते इत्याशङ्का वर्तते। महति प्रवाहे २२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः अभवन्। 

  षट् सेतवः विशीर्णाः इत्यतः सिकिमराज्यं प्रायेण पृथक्कृतमभवत्। राज्ये दुरापन्नः प्रकृतिक्षोभः महद्दुरन्तमिति कृत्वा केन्द्रसर्वकारेण विज्ञापनं कृतम्।