OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 30, 2023

 विश्वचषकक्रिकट् स्पर्धाः - प्रारम्भमुहूर्तः निश्चितः। 

आतिथेयः भारतम्। 

ओक्टोबर् पञ्चमदिने प्रारम्भः; नवम्बर् १९  समाप्तिः। 

# उद्घाटनस्पर्धायाम् इङ्ग्लण्डः न्यूसिलान्टः च।

# भारतस्य प्रथमस्पर्धा ओक्टोबर् ८, आस्ट्रेलियां प्रति।

# गुरुवत्सराणि अतीत्य भारतस्य आतिथेयत्वम्। 

मुम्बई> १३तमा  एकदिनक्रिकट् विश्वचषकस्पर्धा परम्परा ओक्टोबर् पञ्चमदिनाङ्कतः नवम्बर् १९तमदिनाङ्कपर्यन्तं भारते विधास्यति। अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे सम्पत्स्यमाने उद्घाटनप्रतिद्वन्द्वे वर्तमानकालीनवीरः इङ्ग्लण्डदलः द्वितीयस्थानीयं न्यूसिलान्टदलं प्रति स्पर्धिष्यते। 

   भारतस्य प्रथमः प्रतिद्वंद्वः ओक्टोबर् अष्टमे दिनाङ्के चेन्नै नगरे आस्ट्रेलियां विरुध्य विधास्यति। अन्तिमस्पर्धा नवम्बरस्य १९ तमे अहम्मदाबादे भविष्यति। 

  परम्पराप्रारम्भाय १०० दिनेषु अवशिष्टेषु कुजवासरे आसीत् ऐ सि सि संस्थया [International Cricket Council] मुम्बय्यां विश्वचषकस्पर्धानां क्रमः प्रख्यापितः। 

  २०११ तमे वर्षे आसीत् भारतम् इतःपूर्वं श्रीलङ्का बङ्गलदेशाभ्यां सह  आतिथेयत्वमवहत्। किन्तु अस्मिन् सन्दर्भे केवलं  भारते एव स्पर्धाः भविष्यन्ति।

गूण् ३० - पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम्

 अद्य विश्वस्मिन् प्रसिद्धायाः सुधर्मा नाम संस्कृतपत्रिकायाः सम्पादकस्य पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम् भवति। 

चित्रम् - सान्स्ग्रीट् द्वारा


Thursday, June 29, 2023

 अवद् वनमण्डलेषु १३१ बकवंशीयाः सारसाः। उत्तरप्रदेशे सारसानाम् अन्तिमगणना प्रकाशिता।

   लख्नौ> उत्तरप्रदेशस्य वनविभागेन समायोजिते सारसानां अङ्गसंख्यानिर्णये अवद् वनमण्डले १३१ बकवंशीयाः सारसाः संदृष्टाः। तेषु पञ्च सारसशाबकाः भवन्ति। नगरे मलीहाबादे अपि सारसानां सान्निध्यं रेखाङ्कितम्। बहुसंवत्सरानन्तरमेव तेषां सान्निध्यं मलीहाबादे रेखाङ्कितम्।

आषाढारम्भे प्रावृटारम्भे मेखैः सार्धं सारसाः अपि

उत्तरदेशं प्रति सहयात्रां करोति इति

कालिदासेन मेखसन्देशे प्रस्तुतत्वात् ते 

भूखण्डान्तरयायिनः पर्यटनपक्षिणः इति प्रतीयते ।

 चन्द्रयानं -३ विक्षेपणाय सुसज्जम्। जूलाय् १२_१९ दिनाङ्कयोर्मध्ये विक्षेपणं भविष्यति इति ऐ एस् आर् ओ।

नवदिल्ली> भारतस्य चान्द्रपर्यवेक्षण दौत्यरूपेण चान्द्रयानं - ३ जूलाय् १२-१९ दिनाङ्कयोर्मध्ये विक्षेपयिष्यति इति ऐ एस् आर् ओ अध्यक्षेण एस् सोमनाथेन आवेदितम्। तदर्थं चन्द्रयानं- ३ नामिका बाह्याकाशपेटिका पूर्णतया संयोजिता। अन्तिमावलोकनं पूर्तीकृत्य विक्षेपणदिनाङ्कः ख्यापयिष्यति इति सोमनाथेन व्यजिज्ञपत्।

 भग्नस्य टैट्टन् जलान्तर्वाहिन्याः अवशिष्टानि तीरं आनीतानि।

    बोस्टण्> टैटानिक् महानौकायाः अवशिष्टानि सन्द्रष्टुं गतानां यात्रिकाणां यात्रामध्ये भग्नस्य टैट्टन् नामिकायाः जलान्तर्वाहिन्याः अवशिष्ठानि समुद्रात् तीरं प्रति आनीतानि। अपघातस्य पश्चात् कृते चयने दृष्टानि अवशिष्टानि एव  आनीतानि। टैट्टानिक् महानौकायाः अवशिष्टानि यत्रअस्ति  ततः १६०० पादमिते दूरे एव टैटनस्य अवशिष्टानि आसन् इति प्रतिवेदनानि सूचयन्ति । अन्तर्वाहिन्यां गताः पञ्चयात्रिकाः दुर्घटनायाम् अस्यां मृताः इति गणयति इति यु एस् तीरसेनया आवेदितमासीत्।

 वि वेणुः केरलस्य मुख्यसचिव; षेय्क् दर्वेश् साहिबः आरक्षकसेनायाः मुख्यनिदेशकः च। 

षेय्क् दर्वेश् साहिबः                     डो वि वेणुः 

अनन्तपुरी> राज्यस्य ४८ तमः मुख्यसचिवरूपेण डो वि वेणुः [ऐ ए एस्] नियुक्तः। आलप्पुष़जनपदे लब्धजन्मा अयं वैद्यकपदप्राप्त्यनन्तरमेव [MBBS] ऐ ए एस् पदं प्राप्तवान्। इदानींतनमुख्यसचिवस्य वि पि जोय् वर्यस्य विरामानन्तरं - जूण् ३०- वेणुवर्यः पदं स्वीकरिष्यति। 

   अग्निरक्षाविभागस्य अधिकारी डि जि पी पदस्थः च षेय्क् दर्वेश् साहिबः [ऐ पि एस्]  केरलस्य आरक्षकसेनाधिकारी भविष्यति। आन्ध्रप्रदेशीयः सः १९९० तमे वर्षे ऐ पि एस् पदं प्राप्तवान्।

 मुम्बैनगरे अतिवृष्टिः। गमनागमनं स्थगितम्। उन्मूलितवृक्षेण पेषयित्वा एकः मृतः।

     मुम्बै नगरे ह्यः दुरापन्नया अतिवृष्ट्या जनजीवनं प्राबाधत। नगरे विविधयानमार्गेषु जलसञ्चयरूपीकरणेन गमनागमनं निरुद्धम्। उन्मूलितवृक्षपतनेन जाते अपघाते एकः मृतिमुपगतः इति मुम्बैदेशस्य नगरसभाकार्यालयेन आवेदितम्। मुम्बैनगरे कुजवासरे१०४ मि .लि. वृष्टिः अलभत।


Wednesday, June 28, 2023

 विरतवेतनपरिष्करणाय केन्द्रसर्वकारः।

नवदिल्ली> २००४ तमे वर्षे विधत्तां राष्ट्रिय विरतवेतनाभियोजनां [National Pension Scheme]  परिष्कर्तुं केन्द्रप्रशासनेन उद्यमते। औद्योगिककालस्य अन्तिमचरणे यत् वेतनं स्वीकृतं तस्य ४०% विरतवेतनरूपेण लभ्यमानरीत्या अभियोजनां परिष्कर्तुमेव प्रशासनस्य प्रक्रमः। सार्वजनिक निर्वाचनात् पूर्वमेव एतस्मिन् विषये निर्णयः भविष्यति। 

   विपक्षदलीयप्रशासकराज्येषु पूर्वतनविरतवेतनाभियोजना विधत्ता अस्ति। आगामिनिर्वाचने एन् पि एस् नामिकाभियोजनया  प्रत्याघातः न भूयादिति केन्दसर्वकारः इच्छति।

 बीहारे निर्मीयमाणः एकः सेतुः भग्नः। एकमासाभ्यन्तरे त्रयः सेतवः भग्नाः।

पट्ना> बीहारे एकस्य सेतोः निर्माणे प्रचाल्यमाने सति तस्यैव निर्मितांशः भग्नः अभवत्। मेखापुरात् वैशालीदेशं संबन्धयितुं उद्दिश्य निर्माणं आरब्धस्य सेतोः निर्मितः एकः भागः भग्नीभूय जले मग्नः। एकमासाभ्यन्तरे जाता तृतीया दुर्घटनेयम् । गङ्गानद्याः उपरि निर्मीयमाणः तत्कालिकसेतुरेव अतिशक्तियुक्तेन वातेन हेतुना भञ्जितः। तत्कालोपयोगाय त्वरिततया निर्मीयमाणस्य अस्य पतनं तथा भारमुद्वहतां स्थाणूनां स्खलनं प्रचण्डवातवशात् अभूत् इति उच्यते।

 बेतवोलु रामब्रह्मणे केन्द्रसाहित्य अक्कादम्याः भाषासम्मानपुरस्कारः। 

नवदिल्ली> केन्द्रसाहित्य अक्कादम्याः २०२१ वर्षस्य भाषासम्मानपुरस्काराय तेलुगु साहित्यकारः तथा च संस्कृतपण्डितः बेतवोलु रामब्रह्म वर्यः अर्हः अभवत्। 

  श्रेष्ठ - मध्यकाल साहित्याय दत्तं योगदानं पुरस्कृत्यैव पुरस्कारः विहितः। १९४८ तमे वर्षे आन्ध्रप्रदेशस्य पश्चिमगोदावरिजनपदे लब्धजन्मा प्रोफ. बेतवोलु रामब्रह्म वर्यः संस्कृते तेलुगुभाषायां च त्रिंशदधिकान् ग्रन्थान् व्यरचयत्। पूर्वं साहित्य अक्कादम्याः विवर्तनपुरस्कारेणापि समादृतः अस्ति।

Tuesday, June 27, 2023

 अरफासंगमः अद्य। 


मक्का> हज्ज् कर्मणः मुख्यकार्यक्रमः अरफासंगमनामकः कुजवासरे सम्पद्यते। विविधराष्ट्रभ्यः हज्ज् कर्मणे मक्कानगरं सम्प्राप्ताः लक्षशः जनाः अद्य मध्याह्ने अरफाक्रीडाङ्कणे सङ्गमिष्यन्ति। लुहुर् , असर्, मग्रिब्, ईशा प्रार्थनाः मिनाशिबिरेषु निरुह्य एव हाजिनः अरफां प्राप्नुवन्ति। 

  अरफाप्रार्थनाः विधिवत् निरुह्य भक्ताः बुधवासरतः दिनत्रयं जंरास्थं पिशाचप्रतीकं प्रति शिलाखण्डक्षेपणं निर्वक्ष्यन्ति।

Monday, June 26, 2023

 हिमाचले भूस्खलनेन गमनागमनं स्थगितम्। राजमार्गे २०० तः अधिके सञ्चारिणः प्रत्यूहे पतिताः।

    सिंल> हिमाचलप्रदेशे माण्ड्यां भूस्खलनम् तथा अकस्मात् दुरापन्नं प्रलयं च अनुवर्त्य विनोदसञ्चारिणः आहत्य २०० तः अधिके जनाः प्रत्यूहे पतिताः इति प्रतिवेदनम्। चण्डीगढ् - मणाली राजमार्गे दुरापन्नः गमनागमनान्तरायः सञ्चारिणां विघातमसृजत् । माण्ड्यां दुरापन्ना अतिवृष्टिरेव भूस्खलनस्य हेतुः। राजमार्गम् आवृत्य बृहच्छिलाः पतित्वा गमनागमनविघातः अभवत्। सप्तयोजनापर्यन्तं यानानां पङ्क्तिः दीर्घायिता इति प्रतिवेदनमस्ति ।

 पुटिनाय समाश्वासं दत्वा वाग्नर् सेना प्रतिन्यवर्तत। 

मोस्को> रष्यासेनां विरुध्य अभिगमनं कृतवान् वाग्नर् संघनामकः रष्यायाः भृत्यकबलः तस्य नेता येव्गनि च प्रतिन्यवर्तत। रोस्तोवनगरं स्वायत्तीकृत्य मोस्को नगरं लक्ष्यीकृत्य अग्रे गच्छन्तं वाग्नर् संघं प्रति बलारूसदेशस्य राष्ट्रपतिना अलक्सान्टर् लूकाषे इत्यनेन कृतायाः चर्चायाः अनन्तरमेव इदं प्रतिनिवर्तनमभवत्।

Sunday, June 25, 2023

 भारतदेशात् चोरयित्वा सम्पादितानि शताधिकानि पुरातनवस्तूनि अमेरिक्कः प्रतिदास्यति। 

    वाषिङ्टण्> भारतदेशात् दीर्घकालपर्यन्तं चोरयित्वा अन्ताराष्ट्रविपण्याम् आनीतानि तथा लब्धानि पुरातनवस्तूनि अमेरिक्कः प्रतिदास्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिक्कस्य कृते कृतज्ञतां व्याजहार। यु एस् सर्वकारेण पुरातनवस्तूनां प्रत्यर्पणाय निश्चितम् इति नरेन्द्रमोदिना एव निवेदितम्। अमेरिक्कदेश-सन्दर्शनस्य अन्तिमे दिने रोनाल्ड् रीगन् केन्द्रे भारतीयान् अभिसंबुद्ध्यमानः आसीत् अयम्।

 ईजिप्तस्य परमोन्नतादरः 'ओडर् ओफ् द नैल् ' नरेन्द्रमोदिना स्वीकृतः।

      नवदिल्ली> ईजिप्तस्य परमोन्नतादरः "ओडर् ओफ् द नैल्" पुरस्कारः ईजिप्तस्य अध्यक्षेण अब्दुल् फत्ताह् एल् सि सि वर्येण नरेन्द्रमोदिने समर्पितः। मोदिनः ईजिप्त् सन्दर्शनवेलायामेव राष्ट्राध्यक्षेण विशिष्टातिथये आदरः समर्पितः। अब्दुल् फत्ताह् एल् सि सि वर्यस्य विशेष-निमन्त्रणानुसारमासीत् भारतस्य प्रधानमन्त्रिणः ईजिप्त् सन्दर्शनम्। Link to video 

https://twitter.com/AmitShah/status/1672905724425568258?t=b7fMm6MAGqVcog6glRyhnw&s=19

Saturday, June 24, 2023

 योगप्रतिभाया: आयोजनम् ई-टेक्नोमाइण्डसंस्थया कृतम्।

-कुलदीपमैन्दोला। कोटद्वार।

     योगदिवसोपलक्ष्ये E-techno mind इत्यनेन च सार्थकयोगशाला-कण्वनगरीकोटद्वार -द्वारा योगदिवस: समाचरित:। सद्भावनाकालोनीशिब्बूनगरकोटद्वारे  योगाभ्यासाय यद्यपि प्रतिदिनं संस्कारशालायां लघुबाला: योगाभ्यासं कुर्वन्ति। बुधवासरे अत्र विशेषायोजनं सञ्जातं। राष्ट्री ट्रीययोगासनेषु क्रीडां प्रति जागरयितुं योगासनप्रतियोगिताया:  आयोजनं संस्थाद्वारा अभवत् । यत्र अनेकबालकै: प्रतिभाग: कृत:। आयोजनं श्री राकेशकंडवालस्य शारीरिकशिक्षकस्य च राजकीय-इंटर-कॉलेजकांडाखालत: एवं श्री अजयजोशीवर्यस्य  E techno mind इत्यनयो: संचालनेन समारभत्। 

     अवसरेस्मिन् अभिभावकै: उक्तं यत् एतेन अभ्यासेन बालकेषु नूतनसंस्कार: समागत: शारीरिकस्वास्थ्येन सह विचारेषु कार्येषु परिवर्तनं दृश्यते । विशेषरूपेण बाला: टीवी मोबाइल इत्यनयो: दूरे एव सन्ति। वयं सन्तुष्टा: स्म: यत् अस्माकं सन्ततिषु एतादृश: संस्कार: समायाति । श्री अवनीशपन्तवर्येण अत्र सर्वै: सह बालकसन्दर्भे योगविषये चर्चा परिचर्चा कृता तै: कथितं यत् आधुनिकसमाजे संस्काराणाम् आकांक्षा अस्माभि: यथा चिन्त्यते तथैव अत्र प्राप्तुं शक्नुम:।  श्रीराकेशकण्डवालद्वारा च सोनमपन्तद्वारा अत्र योगद्वारा बालकेषु संस्काराणां भाव: समुत्पन्न: क्रियते अस्य कृते द्वयोरेव महद्योगदानं विद्यते।

    अवसरेस्मिन् अभिभावकै: सह विभिन्नगणमान्येषु ।श्री कुलदीपमैंदोला  राजकीय-इंटर-कॉलेज-कोटद्वारत: श्री संजीवकुमार: श्री पूरणनेगी  सुधाजोशी  हिमानीघिल्डियाल:  ममताकण्डवाल: सोनमरावत: पूजामधवाल: श्री अवनीशपंत: पत्रकारवर्य: आदय:  उपस्थिता: आसन्। सर्वै: योगदिवसोपक्ष्ये योगाभ्यास: कृत: तथा च जोशीपरिवारेण योगबालानां कृते पारितोषिकवितरणम् अपि  कृतम् ।

 विश्वनक्रदिने भारते गण्डकीनद्यां १२५ कुम्भीराः अण्डात् जाताः।

    चम्पारन्> बीहारस्थे चम्पारन् जनपदे गण्डकीनद्यां १२५ कुम्भीराः (मत्स्याशननक्रविशेषः) अण्डात् जाताः। प्रदेशवासिनः वनविभागस्य च साहाय्येन भारतीय वन्यजीविसंस्थायाः निरीक्षणे आसीत् कुम्भीराणां नीडम्।२०१३ संवत्सरादारभ्य परिस्थिति - वन - वातावरणविभागानां सहयोगेन भारतीयवन्यजीविसंस्था गण्डकी नद्यां वंशनाशभीषां अभिमुखीक्रियमाणान् कुम्भारान् संरक्षयन्ती अस्ति।

 भारते पोषकाहारन्यूनता आशङ्कां जनयति। तण्डुल-गोधूमयोः अधिकतया खादनं न पर्याप्तम्।

   नवदिल्ली> भारते पोषकाहारन्यूनता आशङ्काजनकमिति भक्ष्यवैज्ञानिकाः वदन्ति। सूक्ष्मपोषकाणां न्यूनत्वमेव विशेषेण सूचयन्ति। तत्परिहाराय तत्कालीकप्रक्रमाः आवश्यकाः इति अन्तराष्ट्रिय - खाद्य - नीति - अनुसन्धानसंस्थया प्रकाशिते २०२३ तमे संवत्सरीये विश्व - खाद्य - नीति - विवरणपत्रे सूचयति। आविश्वमपि पोषकाहारन्यूनताबाधितानां संख्या वर्धमाना अस्ति। २०१५ तमे संवत्सरे ५७.२ कोटि जनाः पोषकाहारन्यूनता अभिमुखीकृतवन्तः। २०२१ तमे संवत्सरे तत् ७६.८ कोटि जनाः अभवन्।