OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 30, 2022

पञ्चदशसंवत्सराधिक पुरातनानि यानानि षण्मासाभ्यन्तरे निरोधितव्यानि इति हरितव्यवहारसभायाः निर्देशः।

 यानेम्यः निर्गतं मलिनीकरणम् अपनेतुं पुरातनयानानि क्रमेण निरोद्धुं भारतं सज्जते। एतस्य अनुबन्धतया पञ्चदश संवत्सराधिकपुरातनान् कार् यानान् आहत्य निरोधयितुं हरितव्यवहारसभया पश्चिमवंगदेशाय निर्देशो दत्तः। आगामि षण्मासाभ्यन्तरे पञ्चदश संवत्सराधिकपुरातनानि यानानि यानमार्गात् अपनेतुमेव हरितव्यवहारसभया निर्देशो दत्तः।

Friday, July 29, 2022

मध्ये मध्ये दुर्घटनया पतति। मिग् २१ युद्धविमानानि २०२५ संवत्सराभ्यन्तरे पूर्णतया त्यक्तुं परिगणयति।


नवदिल्ली> भारतीयव्योमसेनायाः अवशिष्टेषु चतसृषु मिग्२१ युद्धविमानेषु एकम् आगामि सेप्तंबर् मासे सेवनात् विरम्यते। अन्यानि त्रीणि आगामि त्रिसंवत्सराभ्यन्तरे क्रमेण त्यक्ष्यन्ति इति व्योमसेनाधिकारिभिः आवेदितम्। गतविंशतिमासाभ्यन्तरे षट् मिग् २१ विमानानि भग्नानि अभवन्। अपघाते पञ्च वैमानिकानां प्राणापायः च अभवत्। मिग्२१ युद्धविमानानां स्थानेषु नूतनयुद्धविमानानि योजयितुं  निश्चितम् इति अधिकारिणः सूचयन्ति ।

 राष्ट्रस्य अभिमानः ऐ एन् एस् विक्रान्तः भारतीयनाविकसेनायै समर्पितः। 

कोच्चि> राष्ट्रे इदंप्रथमतया स्वदेशे निर्मिता ऐ एन् एस् विक्रान्तः नाम विमानवाहिनीमहानौका भारतीयनाविकसेनायै समर्पिता। भारतीयनाविकसेनायाः कृते विक्रान्त् सेनाध्यक्षेण विध्याधर् हार्के महोदयेन कोच्चिन् नौकाशालायाः सि एम् डि मधु एस् नायर्वर्यस्य सकाशात् औद्योगिकं प्रमाणपत्रं स्वीकृतम्। नाविकसेनायाः कोच्चि नौकाशालायाः च मुख्यकर्मकराणां सान्निध्ये एव समर्पणं सम्पन्नम्। आगामि मासस्य प्रथमसप्ताहे प्रधानमन्त्री नरेन्द्रमोदी महानौकायाः कार्यानुष्ठानं (commission) करिष्यति इति प्रतिवेदनमस्ति।

Thursday, July 28, 2022

 'कोमण् वेल्त्' कायिकक्रीडास्पर्धाः अद्य आरभन्ते।

पतकशतकमालक्ष्य भारतम्। 

बर्मिङ्हाम्> २२ तमः 'कोमण् वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धाः अद्य यू के राष्ट्रे बर्मिङ्हामनगरे आरभन्ते।  ११ दिवसकालीनायम् अस्यां क्रीडास्पर्धायां ७२ राष्ट्रेभ्यः पञ्चसहस्रं कायिकक्रीडकाः भागं करिष्यन्ति। २८० संख्याकाः पतकाधिकरणाः सन्ति। 

   एषु प्रतिद्वन्द्वेषु १०० पतकानि भारतेन लक्ष्यीक्रियन्ते। २१५ क्रीडकाः भारतं प्रतिनिधीभूय स्पर्धिष्यन्ति। पिच्छकन्दुक-भारोद्वहन-मल्लयुद्धादिषु स्पर्धासु भारताय सुवर्णप्रतीक्षा अस्ति।

Wednesday, July 27, 2022

आनमला छायाप्राचिका - केरलेषु सूचीप्राचिकायाः नूतनप्रभेदः संदृष्टः।


तिरुवनन्तपुरम्> 'पीच्ची' वन्यजीविनिकेतात् सूचीप्राचिकायाः नूतनविभेदः संदृष्टः। छायाप्राचिकाविभागे अन्तर्गता 'आनमला छायाप्राचिका' (Protosticta anamalaica) नाम नूतनप्राणिरेव शलभ-पक्षी- प्राचिकासर्वेक्षणमध्ये संदृष्टः। वन्यजीवि निकेतात् १००० मीटर् उपरि समुद्रतलात् उन्नतप्रदेशेषु एव एषा संदृश्यते।

Tuesday, July 26, 2022

 रोगः वर्धते । वानरज्वरः आविश्वसांक्रमिकव्याधिः इति ख्यापयित्वा विश्वस्वास्थ्यसंस्था।

जनीव> वानरज्वरः आविश्वसांक्रमिकव्याधिः इति विश्वस्वास्थ्यसंस्थया ख्यापितः। व्याधिरयं सर्वराष्ट्रेषु अपि बाधिते सन्दर्भे एव प्रक्रमोऽयम्। विश्वस्वास्थ्यसंस्थया आयोजिते आपत्कालीनमेलने एव निर्णयोऽयम् स्वीकृतः। वानरज्वरः आपत्कालीन - आविश्व - सामान्यजनस्वास्थ्य - आशङ्का भवति इति विश्वस्वास्थ्यसंस्थया प्रकाशिते वार्ताटिप्पण्यौ विशदयति ।

कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः विषादः च व्याप्यते।

कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः मानसिकरोगसमस्याः च वर्धन्ते इति भिषग्वराः। कोविड्रोगः बहुवारं बाधितेषु मानसिकसम्मर्दः, स्मृतिभ्रंशः, विषादः च वर्धन्ते इति भिषावराः सूचयन्ति। कोविड्रोग: रक्तनालिकायां स्वाभाविकरक्तप्रवाहस्य विघ्नकारणं भवति। बहुवारं कोविड्रोगः बाधते चेत् तत् मस्तिष्के स्वाभाविकरक्ततप्रवाहान् बाधते। न्यूनरक्तप्रवाहस्य मुख्यलक्षणानि भवन्ति स्मृतिभ्रंशः विषादः, अत्युत्कण्ठा, निद्राभङ्गः, उन्मेषनाशः च।

 राष्ट्रपतिः द्रौपदी मुर्मू महाभागायाः जीवितचरित्रं विरचितवती त्रयोदशवयस्का विख्याता अभवत्।

त्रयोदशवयस्का भाविका महेश्वरी भारतस्य पञ्चदशतमराष्ट्रपतेः द्रौपदी मुर्मू महा भागायाः जीविनकथां विरच्य अतितोषम् अनुभवन्ती विराजते। सूरट् स्वदेशीया भाविका अष्टमकक्ष्यायाः छात्रा भवति। प्रचोदकप्रभाषिका, ग्रन्थद्वयस्य रचयिता इत्येवं रूपेण निपुणेयं उतरभारतस्य सांस्कृतिकमण्डलेषु प्रसिद्धा भवति।

Sunday, July 24, 2022

चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश भारतीयकर्मकरेषु सप्तकर्मकराः भारतीयव्योमसेनया संदृष्टः।


चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश यानमार्गनिर्माणकर्मकरेषु सप्त कर्मकराः भारतीयव्योमसेनया संदृष्टः। आसां देशीयाः ते अरुणाचल्प्रदेशस्य नियन्त्रणरेखायाः समीपे कुरूंग् कुमेयिले नामकस्थानात् अप्रत्यक्षाः अभवन्। एते बक्रीत् पर्वणि गृहं गन्तुम् अनुज्ञायै प्रार्थितवन्तः। किन्तु कर्मस्वामी अनुज्ञा न दत्ता । अतः ते कर्मकराः ततः पलायितवन्तः आसन्। दामिन् मण्डले सीमायानमार्गसंस्थायाः निर्माणस्थलात् एवम् अप्रत्यक्षाणां कर्मकराणां संघात् सप्त जनाः शुक्रवासरे सेनया संदृष्टाः ते रक्षिताः च। ते भाषणं कर्तुमपि अशक्ताः अवशाः च आसन् इत्यस्ति प्रतिवेदनम्।

 शिक्षकनियुक्तौ भ्रष्टाचारः - वंगस्य मन्त्री मित्रं च निगृहीतौ।


कोल्कोत्ता> पश्चिमवंगराज्ये विद्यालयेषु शिक्षकाणां नियुक्तौ आर्थिकभ्रष्टाचारः कृतः इत्यपराधमालक्ष्य राज्यस्य उद्योगमन्त्री पार्थ चाटर्जी तस्य मित्रम् अर्पिता मुखर्जी नामिका अभिनेत्री च प्रवर्तननिदेशालयेन [ई डि]  निगृहीतौ। अर्पिता मुखर्जेः गृहात् २१. २ कोटि रूप्यकाणि, ५४ लक्षरूप्यकाणां विदेशमुद्राः, ७९ लक्षंरूप्यकमूल्ययुक्तानि सुवर्णाभरणानि च निगृहीतानि। 

   यदा पार्थ चाटर्जी शिक्षामन्त्री आसीत् तदा विद्यालयेषु अध्यापकनियुक्तये उद्योगार्थिजनेभ्यः महद्रूप्यकाणि उत्कोचरूपेण स्वीकृतानि इत्यारोपः। अर्पितायाः गृहे आसीत् तानि सम्भृतानीति ई डि संस्थया प्रमाणीकृतम्।

Saturday, July 23, 2022

 राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। कैरल्यै ८ पुरस्काराः।

नवदिल्ली> भारतस्य २०२० तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। तमिलभाषातः 'सूररै पोट्र्' नामकं चित्रं श्रेष्ठतमं चलच्चित्रमिति पुरस्काराय चितः। तस्मिन्नेव चलच्चित्रे अतुल्यमभिनयं प्रदर्शितवन्तौ नायिकानायकौ अपर्णा बालमुरलिः, सूर्यः च यथाक्रमं श्रेष्ठतमौ नटीनटौ अभवताम्। अजय देवगण् नामकः बोलिवुड् चलच्चित्रनटः अपि श्रेष्ठतमनटस्य पुरस्काराय सहभाजी जातः। 

  कैरल्यां बहवः प्रतिभाधनाः चलच्चित्रकलाकाराः  अस्मिन्  पुरस्कारनिर्णये बहुमानिताः। 'अय्यप्पनुं कोशियुम्' इति चित्रस्य निदेशकः सच्ची [सच्चिदानन्दः] अस्ति  श्रेष्ठतमः निदेशः। एषः पुरस्कारः तस्मै मरणानन्तर बहुमतिरभवत्। एतस्मिन्नेव चलच्चित्रे गानानि गीतवती नञ्चियम्मा नामिका वनवासिगायिका एव  श्रेष्ठतमा गायिका। कैरल्याः प्रतिभाधनः अभिनेता बिजुमेनोनः अय्यप्पनुं कोशियुम्' इति चित्रेण श्रेष्ठतमः सहाभिनेता जातः। वाणिज्यचलच्चित्रक्षेत्रे ८ पुरस्काराः मलयालभाषायै सम्मानिताः।

Friday, July 22, 2022

बालिका-बालक विद्यालयाः न आवश्यकाः इति बालधिकारसमितिः।

तिरुवनन्तपुरम्> राज्ये बालिकाविद्यालयाः बालकविद्यालयाः च स्थगयितुं बालाधिकारसमित्या निर्देशो दत्तः। विद्यालयेषु पुंस्त्रीभेदौ न आवश्यकौ। भेदोऽयं लिङ्गनीतिनिषेधः भवति इत्येव बालाधिकारसमित्याः निरीक्षणम्। अञ्चल् स्वदेशीयेन डो. ऐसक् पोल् नामकेन प्रदत्तं याचनापत्रं पुरस्कृत्यैव बालाधिकारसमित्या चरित्रप्रधाननिर्देशो दत्तः ।

 द्रौपदी मुर्मू सामान्यजनविभागस्य प्रतीक्षा। प्रधानमन्त्री नरेन्द्रमोदी साक्षात् आगत्य अभिनन्दनानि आवेदितवान् । 


नवदिल्ली> प्रधानमन्त्री नरेन्द्रमोदी भारतस्य १५ तम राष्ट्रपतिपदे नियुक्तां द्रौपदि मुर्मुम् अभिनन्दनानि आशंसाः च अर्पितवान्। प्रधानमन्त्री नरेन्द्रमोदी तस्याः वसतिं स्वयं संदृर्श्य अभिनन्दनानि आवेदितवान्। सामान्यजनविभागस्य प्रतीक्षा भवति मुर्मू, पुरतः स्थित्वा राष्ट्रं नीत्वा शक्तियुक्तं करिष्यति इति प्रधानमन्त्रिणा प्रोक्तम्।

Thursday, July 21, 2022

 यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

भारतस्य पञ्चदशत्तमराष्ट्रपतिपदे माता द्रौपदी मुर्मू चिता॥

 ओस्ट्रेलियायां कोविड्रोगः वर्धते। 'गृहतः उद्योगनिर्वहणं पुनरानेतुं निर्देशो दत्तः।


कोविड् महामारी न अस्तंगता, जाग्रता पालनीया इति विश्वस्वास्थ्यसंघटनेन उक्तमासीत्। कोविड् महामारेः परिवर्तनमभवत् तथापि न अस्तंगता , १०१ राष्ट्रेषु रोगिणां संख्या वर्धमाना अस्ति इति विश्वस्वास्थ्य संघटनेन पूर्वसूचना दत्ता आसीत्। इदानीं कोविड् प्रकरणानि वर्धमाने सन्दर्भे अस्मिन् आस्ट्रेलियायां अतिनियन्त्रणानि ख्यापितानि।

 कूर्माय सेवाफलं विभज्य दत्तवान् वनमानुषः। चलनचित्रखण्डः सामूहिकमाध्यमे त्वरितप्रसरमभवत्।


कूर्मेण सह सेवाफलं विभज्य खादन्तं  नरवानरचित्रं (chimpanzee) त्वरित-प्रसरमभवत्। टिट्वर् माध्यमेन प्रसारितस्य तयोः अपूर्वसौहृदस्य चलनचित्रखण्डः अन्येषु सामूहिकमाध्यमेषु च प्रचलति। स्वयं एकं सेवाफलं चर्वयन्नवसरे समीपे स्थितस्य कूर्ममपि खादयन्तम् अपूर्वं स्नेहं प्रकटयन्तं निमेषः एव चलनचित्रखण्डे दृश्यते। इतःपर्यन्तं चलनचित्रखण्डमिदं ९० लक्षं जनैः संदृष्टम्।

 जम्मु मध्ये मेघविस्फोटनं - विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। 

भादैर्वा [जम्मू]> जम्मु मध्ये दोड जनपदे मेघविस्फोटनानन्तरं सञ्जाते वृष्टिजलप्रवाहे एकं विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। उपविंशति भवनानि भागिकतया विशीर्णानि। प्राणविनष्टाः न प्रस्तुताः। 

  दोडा जनपदस्थे टन्तप्रदेशे आसीदयं प्रकृतिकोपः दुरापन्नः। अल्लाम इक्बाल् स्मारक विद्यालयः, एकं वासगृहं, त्रयः आपणाः, अष्टसंख्याकाः इतरसंस्थाश्च प्रवाहिताः इति अधिकारिभिः निगदितम्।

 विश्वस्मिन् अष्टमम् अद्भुतम्। मसायिमारेषु पशूनां महादेशाटनं समारब्धम्।


मसायिमार> केनियादेशे मसायिमारेषु पशूनां महादेशाटनं समारब्धम्। सहस्रशः पशवः (wild beast ) संघीभूय टान्सानियात् मणल् नदीम् उत्तीर्य केनियादेशं प्रति संघपलायने निमग्नाः।विश्वस्य विविधप्रदेशात् सञ्चारिणः छायाग्राहकाः च मनोहरं दृश्यमिदं द्रष्टुं छायाचित्रं संग्रहीतुं च तद्देशं प्रति प्रवहन्ति। जूलाय् मासादारभ्य सेप्तम्बर् मासपर्यन्तमेव महादेशाटनकालः।