OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 30, 2022

 भारतविदेशकार्यमन्त्री भूट्टानं सन्दर्शयति। 

तिम्फू> भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः भूट्टानस्य प्रधानमन्त्रिणा ल्योन् चेन् लोटाई इत्यनेन सह मेलनमकरोत्। आगोल-प्रादेशिकविषयाः चर्चिताः इति जयशङ्करेण ट्विटर मध्ये लिखितम्। भारतभूट्टानयोः बन्धुतां प्रबलीकर्तुम् एतन्मेलनमुपकरिष्यतीति ल्योन् चेन् लोटाई महोदयेन निगदितम्।

खनिजाङ्गारदौर्लभ्यं - उत्तरभारतराज्येषु विद्युत्प्रतिसन्धिः अतितीव्रः। 

नवदिल्ली> खनिजाङ्गारदौर्लभ्येन उत्तरप्रदेशः, बिहारः, पञ्चाब्, दिल्ली, राजस्थानं, झार्खण्डः इत्यादीनि राज्यान् वैद्युतिलाभे अतिक्लेशः अनुभवन्ति। अतः एतेषु राज्येषु ३ - ८ होरापर्यन्तं यावत् वैद्युतिविच्छेदः विधत्तः।

   वैद्युतिः आवश्यानुसारं न लभते चेत् मेट्रो आतुरालयाः इत्यादीनां प्रवर्तनानि स्थगयिष्यतीति दिल्लीसर्वकारेण आशङ्का प्रकाशिता। ओडीषाराज्ये विद्युत्प्रतिसन्धिमूलतः विद्यालयाः मेय् ३० दिनाङ्कपर्यन्तं पिहताः। राजस्थाने उद्योगशालासु ४ होरापर्यन्तं वैद्युतिविच्छेदः विधत्तः। ग्रामेषु ३ होराः, जनपदकेन्द्रेषु होराद्वयं, नगरप्रदेशेषु एका होरा इति प्रकारेण विद्युद्विच्छेदः विधत्तः। 

  उत्तरप्रदेशे अवश्यम्भूतखनिजाङ्गारस्य चतुर्थांश एव सञ्चितरूपेण वर्तते इति ऊर्जमन्त्रालयेण निगदितम्। पञ्चाबे च कृषि उद्योगादिक्षेत्राणि विद्युत्प्रतिसन्धिना अतिक्लेशमनुभवन्तीति सर्वकाराधिकारिभिः उक्तम्।

 मुख्यमन्त्रिणां तथा उच्चन्यायालयस्य मुख्य-न्यायाधीशानां च संयुक्तोपवेशनं प्रधानमन्त्रिणा संबुध्यते।


नवदिल्ली> राष्ट्रस्य नीतिन्याय-व्यवस्थायाम् इदानीम् अभिमुखीक्रियमाणां समस्याम्   अधिकृत्य परिचिन्तनाय आयोक्ष्यमाणं मेलनम् प्रधानमन्त्रिणा नरेन्द्रमोदिना संबुध्यते । उद्घाटनसमारोहे भविष्यति तस्य भाषणम्। नीतिः ललितया रीत्या सर्वेभ्यः लब्धुं किं किं कर्तव्यम् इति परिचिन्तनस्य मुख्यविषयः। न्यायालयप्रक्रमेषु प्रौद्योगिकविद्यायाः अपि योजनं कृतम् अस्ति।  त्वरितवेगेन नीतिवितरणम् अनिवार्यमेव। विषयोऽयमपि उपवेशनस्य कार्यक्रमे चर्चासूचकत्वेन अस्ति।

Friday, April 29, 2022

उत्तरभारते अतितापः - तापतरङ्गजाग्रतासूचना। 

नवदिल्ली> उत्तरभारतस्य राजस्थानं, दिल्ली, हरियानं, उत्तरप्रदेशः, ओडीशा राज्येषु तापमानं ४५ डिग्रीपरिमितं प्राप्तमित्यतः तापतरङ्गस्य पूर्वसूचना दत्ता। 

  आगामिनि द्वित्रिषु दिनेषु तापः डिग्रिद्वयं वर्धिष्यते इति ऋतुविज्ञानीयविभागेन निगदितम्। मेय् प्रथमसप्ताहानन्तरं वर्षाभ्यः साध्यता अस्ति।

 खनिजाङ्गारदौर्लभ्यं - राष्ट्रे विद्युत्प्रतिसन्धिः तीव्रः।

नवदिल्ली> खनिजाङ्गारदौर्लभ्येन आराष्ट्रं विद्युदुत्पादने गणनीया न्यूनता अभवत्। अत‌ः विविधेषु राज्येषु वैद्युतिविच्छेदः [Load shedding], क्षमताविच्छेदः [Power cut] इत्यादीनि नियन्त्रणानि विधत्तानि। 

  केरले सायं ६. ३० तः ११ पर्यन्ते काले १५ निमेषपर्यन्तं विद्युद्विच्छेदः विहितः। नगरप्रदेशान् आतुरालयादि अवश्यसेवनानि च वर्जयित्वा एव नियन्त्रणं विधत्तम्।

Thursday, April 28, 2022

कोविड् वर्धनं - केरलेऽपि मुखावरकम् अवश्यं कृतम्। 

अनन्तपुरी> केरलराज्ये अपि कोविड्प्रकरणानि वर्धन्ते इत्यतः सामान्यस्थानेषु सङ्घेषु च मुखावरकम् अवश्यं कारितम्। ये मुखावरकं न धरन्ति तेभ्यः ५०० रूप्यकाणाम् आर्थिकदण्डम्  विहितम्

  आराष्ट्रं कोविड्बाधितानां संख्या उद्गच्छति इत्यस्मात् केन्द्रसर्वकारेण कोविडनुशासने विधत्तानि लाघवानि निरस्तुं निर्देशः दत्तः आसीत्। तदनुसारमेव केरलस्य प्रक्रमः। 

   केरले गतदिने ३५० जनाः कोविड्बाधिताः अभवन्। आराष्ट्रं नूतनाः कोविड्बाधिताः ३३०३ अभवन्। ३९ मरणानि च।

Wednesday, April 27, 2022

 श्रीलङ्कायां प्रक्षोभः व्याप्यते। 

कोलम्बो> आर्थिकसंकटेन क्लेशमनुभवत्यां श्रीलंकायां राजपक्सेप्रशासनं विरुध्य जनकीयप्रक्षोभः अधिकशक्तिं प्राप्नोति। दिनानि यावत् राष्ट्रपतेः वासस्थानस्य पुरतः अनुवर्तमानः प्रक्षोभः गतदिने प्रधानमन्त्रिणः भवनस्य पुरतः अपि आरब्धः।

 समीपकालेषु दुरन्ताः वर्धिष्यन्ते - संयुक्तराष्ट्रसभा।


जनीवा> २०३० संवत्सरादारभ्य प्रतिसंवत्सरं ५६० संख्याकान् दुरन्तान् अभिमुखीक्रियेत इति संयुक्तराष्ट्रसभया प्रतिवेद्यते। दुरन्तेषु भूरिः वातावरणानुबन्धेन जयमानया विशेषघटनया भविष्यति। विगतेषु २० संवत्सरेषु प्रति संवत्सरं ३०० - ५०० संख्याकाः दुरन्तान् विश्वम् अभिमुख्यकरोत्। इदानीन्तन रीतिः अवलम्बते चेत् ५६० दुरन्ताः प्रतिसंवत्सरं स्यात् इति विश्वावलोकनप्रतिवेदने सूच्यते। १९७० -२००० संवत्सरेषु ९०-१०० दुरन्ताः अजायन्त।

फ्रान्से राष्ट्रपतिनिर्वाचनम् - मक्रोणस्य उज्वलविजयः। 

पारीस्> फ्रान्सराष्ट्रस्य  राष्ट्रपतिनिर्वाचने एम्मानुवल् मक्रोणः उज्वलविजयं प्राप्तवान्। प्रतियोगिनं मारिन् ले पेन् नामकं विरुध्य ५८.५४% मतदानानि समाहृत्य एव ४४ वयस्कः मक्रोणः द्वितीयवारमपि राष्ट्रपतिपदं प्राप्तवान्। विंशतिसंवत्सरस्यानन्तरं प्रथमतया एव वर्तमानः राष्ट्रपतिः पुनरपि चिन्वते।

 जि - २०  शिखरसम्मेलनाय कोच्ची । 

कोच्ची> भारतेन आतिथेयत्वम् ऊढ्यमानाय आगामिनि संवत्सरस्य जि - २०  शिखरसम्मेलनस्य मन्त्रितलोपवेशनाय वेदिकारूपेण कोच्ची परिगण्यते। वेदिकामनुबन्धसुविधां चान्वेष्टुं केन्द्राधिकारिसंघः कोच्चीं प्राप्त आसीत्। राज्यसर्वकारस्य प्रतिनिधिभिः सह कृतायां चर्चायां अधिकारिवृन्दः संतृप्तिं प्रकाश्य एव प्रतिनिवृत्त इति सूच्यते। कोच्या सह गुजरातः एपि परिगण्यते अपि अन्तिमनिर्णयः केन्द्रसर्वकारेण विधास्यते। 

  आगामिनि वर्षे शिखरमनुबन्ध्य उपद्विशतं मेलनानि उपवेशनानि च भारतेन आतिथेयत्वमूढ्यमानानि प्रतीक्षन्ते। तेषु मुख्यमस्ति मन्त्रिस्तरीयोपवेशनम्। वाससुविधा , यात्रासुविधा, सुरक्षा,पर्यावरणमित्यादिकमेव चर्चितम्।

Tuesday, April 26, 2022

 ट्विट्टर् संस्था इलोण् मस्कस्य  हस्ते भवेत् ।

कालिफोर्णिय>विश्वप्रिया सन्देशसुविधा इति सुज्ञाता "ट्विट्टर्" धनाढ्येन इलोण् मस्केन स्वीक्रियेत। संस्थायाः सहकारिणां सम्मर्देन विक्रेतुं सन्दर्भः अजायत इत्यस्ति भाषितम्। ४३०० कोटिडोलर् धनम् इलेण् मस्केन वाग्दत्तमासीत्। अतः एव टिट्वर् इत्यस्य सहकारिणः विक्रयणाय सम्मर्दम् आरब्धवन्तः। इलोणस्य वाग्दानं ट्विट्टर् स्वामिनः स्वीकुर्युः।

Monday, April 25, 2022

 ग्रामसभानां बले एव नवभारतस्य समृद्धिः - नरेन्द्रमोदी।

नवदिल्ली> राष्ट्रस्य 'पञ्चायती'सभानां शक्तावेव नवभारतस्य सर्वतोमुखविकासः समृद्धिश्च सन्तिष्ठतीति प्रधानमन्त्री नरेन्द्रमोदी अभिप्रैतवान्। राष्ट्रिय पञ्चायतीराजदिनोत्सवमनुबन्ध्य ट्विटर माध्यमेनैव प्रधानमन्त्रिणः प्रतिकरणम्। 

  स्वाश्रयभारतं संरचयितुं राष्ट्रेषु ग्रामसभानां प्रबलीकरणाय शपथं कर्तुं सः उद्बोधितवान्।

 भारते कोविड् वर्धते - मुख्यमन्त्रिणां मेलनमायोज्यते। 

नवदिल्ली> राष्ट्रे साप्ताहिकं यावत् कोविड्प्रकरणानि वर्धमानानि दृश्यन्ते इत्यतः साहचर्यावलोकनार्थं प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणां मेलनमायोक्ष्यते। दृश्यश्रव्यमाध्यमद्वारा बुधवासरे मेलनं भविष्यति। 

   केन्द्रस्वास्थ्यसचिवः राजेशभूषणः महामार्या‌ः अधुनातनस्थितिमधिकृत्य आवेदनपत्रम् अवतारयिष्यति। कोविड्नियन्त्रणानां विषये मेलने निर्णयो भविष्यति।

Sunday, April 24, 2022

 प्रधानमन्त्री अद्य जम्मूकाश्मीरं सन्द्रक्ष्यति। 

जम्मू> प्रधानमन्त्री नरेन्द्रमोदी रविवासरे जम्मूकाश्मीरं प्राप्नोति। जम्मूकाश्मीरस्य सविशेषपदं दत्तमानं राजनीतेः ३७० तमानुच्छेदस्य निरासानन्तरं मोदिनः प्रथमं सन्दर्शनं भवत्येतत्। अत एव शक्तः सुरक्षासन्नाहः विधत्तः। 

  राष्ट्रिय पञ्चायत्तीराजदिनमनुबन्ध्य रविवासरे सान्तजनपदस्थे पालिग्रामे आयोज्यमाने सम्मेलने नूतनतया चितान् उपत्रिंशत्सहस्रं ग्रमसभासदस्यान् प्रधानमन्त्री अभिसम्बोधयिष्यति। तथा च पालिग्रामे आयोज्यमानानां २०,०००कोटिरूप्यकाणां परियोजनानामुद्घाटनमपि प्रधानमन्त्री करिष्यति।

 केरले नवम्यां कक्ष्यायां 'SAY' परीक्षा।

अनन्तपुरी> केरलराज्ये अस्मिन् संवत्सरे ये छात्राः वार्षिकपरीक्षां न लिखितवन्तः इत्यतः नवमकक्ष्यातः स्थानोत्तीर्णतां न लब्धवन्तः तेषां कृते 'Save A Year' नामिकां पाठ्यवर्षसंरक्षणपरीक्षाम् आयोजयितुं राज्यस्थेन सामान्यशैक्षिकविभागेन निश्चितम्। मेय् दशमदिनाभ्यन्तरे विद्यालयस्तरे प्रश्नपत्रं सज्जीकृत्य मूल्यनिर्णयं कर्तुं निर्देशः कृतः। 

  कोविड् महामार्याः दुष्प्रभावेण पाद-अर्ध वार्षिक परीक्षाः न सम्पन्नाः। वार्षिक परीक्षामाश्रित्य आसीत् स्थानोत्तीर्णता निश्चिता। कोविड्बाधया ये परीक्षायां न भागं कृतवन्तः तेषामपि सुविधेयं प्रयोजकी भविष्यति। अष्टमकक्ष्यापर्यन्तं सर्वे छात्राः शैक्षिकाधिकारनियमस्य आधारे स्थानोत्तीर्णतामर्हन्ति।

Saturday, April 23, 2022

 भारतेऽपि कोविड् घटना वर्धते। पुनरपि मुखावरणधारणं निर्बन्धितम्।


नवदिल्ली> भारतस्य विभिन्नराज्येषु कोविड् रोगाणुव्यापनं वर्धते इत्यतः भारतसर्वकारेण पुनरपि मुखावणधारणं निर्बन्धितम् अभवत्। नवदिल्याम् मुखावरणधारणे विमुखेभ्यः ५०० रूप्यकाणि दण्डः लभते । रोगप्रतिरोध-प्रक्रमानुसारेण दुरन्तनिवारणायोगेन आयोजिते उपवेशने एव निर्णयः स्वीकृतः। विद्यालयेषु अध्ययनम् अनुवर्तिष्यते।

स्वदेशीयरूपेण निर्मिता ऐ एन् एस् वाग्षीर् नामिका अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत् ।

मुम्बै> भारतेन निर्मिता षष्ठी स्वदेशीया स्कोर्पीन् कक्ष्या अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत्।दक्षिणमुम्बय्यां मसगावे सम्पन्ने कार्यक्रमे प्रतिरोधकार्यदर्शी अजयकुमारः अन्तर्वाहिन्याः प्रथमजलस्यर्शं कृतवान् ।

Friday, April 22, 2022

ओमिक्रोणस्य नूतनविभेदाः स्युः - स्वास्थ्यविशारदाः।

नवदिल्ली> भारते इदानीं वर्धमानस्य कोविड् रोगाणु व्यापनस्य कारणम् , ओमिक्रोणस्य नूतनविभेदाः स्युः इति स्वास्थ्यविशारदाः अभिप्रयन्ति। इतःपर्यन्तम् ओमिक्रोणस्य अष्ट (८) विभेदाः उद्भूताः सन्ति। तेषु अन्यतमः भवति प्रैम् (Prime) । ऐ एल् बि एस् मध्ये ओमिक्रोणस्य विविध-प्रतिरूपाणि अवलोक्यन्ते इति आवेदितम् अस्ति ।

BA.2.12.1 इति विभेदः भवति नवदिल्ल्यां हेतुः। किन्तु चतुर्थेन रोगाणुव्यापनतरङ्गत्वेन घटनेयं न परिणमिष्यति इति एम् सि एम् आर् संस्थायाः पूर्ववैज्ञानिकेन डॉ आर् गङ्गा खेद्खरेण उक्तम्। ओमिक्रोणस्य विभेदाः भारते सन्त्यपि नूतनविभेदाः इतः पर्यन्तं न प्रतिवेदिताः इत्यपि तेनोक्तम्।