OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 31, 2022

 नवदिल्ल्याम् आकाशे विस्मयान् विरच्य उदग्रयन्त्रप्रकाशप्रदर्शिनी। 

नवदिल्ली> राजधानीनगर्याः आकाशे सहस्रशः उदग्रयन्त्राणां साहाय्येन आयोजिता प्रकाशप्रदर्शिनी दिल्लीनिवासिनां सर्वेषां नूतनं दृश्यानुभवम् अभवत्। गणतन्त्रदिनस्य समापनात्मकसमारोहे 'बीट्टिङ् रिट्ट्रीट्' इत्यस्य भागतया भारते इदंप्रथमतया एव उदग्रयन्त्रप्रकाशप्रदर्शिनी समायोजिता। नवदिल्ल्यां विजयचौक्के शनिवासरे सायाह्ने आसीत् प्रकाशप्रदर्शिनी। दशनिमेषपर्यन्तं दीर्धिते कार्यक्रमे राष्ट्रेण स्वदेशेनिर्मितान उदग्रयन्त्राणि एव उपयुक्तानि। मनोहरसङ्गीतस्य पाश्चातले राष्ट्रस्य आलेख्यपत्रं, त्रिवर्णपताका, महात्मागान्धिनः चित्रं, सिंहमुद्रा इत्यादीनि उदग्रयन्त्रद्वारा आकाशे प्रकाशितानि।

 भारते  कोविड्रोगिणः वर्धन्ते। 

नवदिल्ली> शनिवासरे समाप्ते अहोरात्रे राष्ट्रे आहत्य २,३५,५३२ जनेषु कोविड्रोगः दृढीकृतः। ह्यः ८७१जनाः मृत्युभूताः। राष्ट्रे मासेSस्मिन् मृत्युमानं वर्धते इति अवलोकने स्पष्टीकृतम्। 

   आहत्य ४.०८कोटि जना‌ः रोगबाधिताः अभवन्। १६५.०४ कोटि प्रत्यौषधानि वितरीतानि।

Sunday, January 30, 2022

कनडा राजधानीं वलयित्वा फ्रीडं कोण्वोय्। ट्रूडो रहस्यकेन्द्रे इति सूचना।


ओट्टाव> कनडदेशस्य प्रधानमन्त्री जस्टिन् ट्रूडो, तस्य कुटुम्बाङ्गाः च औद्योगिकवासस्थानात् रहस्यकेन्द्रं नीताः इति सूचना। कनडेषु कोविड्वाक्सिनस्य निर्बन्धस्वीकारं विरुध्य लोकसभामन्दिरस्य पुरतः प्रचलितस्य प्रचलितस्य प्रतिषेधस्य सन्दर्भे सुरक्षां परिगणय्य प्रधानमन्त्रिणं ट्रूडं सुरक्षाकेन्द्रं नीतः इति विदेशवार्तामाध्यमैः प्रतिवेदितम्। निर्बन्धवाक्सिनीकरणं विरुध्य 'फ्रीडं कोण्वोय्' नामकस्य सहस्रशः भारवाहकयानचालकानां संधैः कृताय अपूर्वप्रतिषेधाय कानडाराष्ट्रं साक्ष्यमावहत् अस्ति। कानडेषु प्रतिशतं ९० जनाः वाक्सिनं न स्वीकृताः। अतः अमेरिक्कायाः कानडस्य च मिथः यात्रां कुर्वन्तः भारवाहकयानचालकाः निर्बन्धतया वाक्सिनं स्वीकरणीयः इति कनेडियस्य प्रधानमन्त्रिणः जस्टिन् ट्रूडोवर्यस्य आदेशं विरुध्य यानचालकाः अन्ये प्रतिषेधकारकाः च इदानीं यानव्यूहसहितं कनडम् आलक्ष्य चलन्तः सन्ति। राष्ट्रस्य विविधप्रदेशात् भारवाहकयानानि वान्कूर् नाम देशे आनीय जनुवरि मासस्य २३ तमे दिनाङ्के एव प्रतिषेधयात्रा समारब्धा।

 सोमवासरादारभ्य संसत्। आयव्ययपत्रं मङ्गलवासरे।सम्मेलनाय अधिवेशनद्वयम्।

नवदिल्ली> अधिनिवेशद्वयात्मकं संसदीयसम्मेलनं राष्ट्रपतेः अभिसम्बुद्ध्या श्व आरभ्यतेे। राष्ट्रस्य आर्थिकस्थितिं विशदीक्रियमाणम् आर्थिकान्वीक्षणपत्रं सोमवासरे सामान्यायव्ययपत्रं मङ्गलवासरे च अवतारयिष्यते। 

  फेब्रुवरी प्रथमदिने ११ वादने वित्तमन्त्रिणी निर्मला सीतारामः लोकसभायामायव्ययपत्रमवतारयिष्यति। कोविडनुशासनपूर्वकं विधास्यमानस्य सम्मेलनस्य प्रथममधिवेशनं फेब्रुवरि ११ दिनाङ्के समाप्स्यति। द्वितीयमधिवेशनं मार्च् १४ तमे आरभ्य एप्रिल् ८ तमे समाप्तिमेष्यति।

Saturday, January 29, 2022

फेब्रुवरी प्रथमपादे विद्यालयेषु साक्षादध्ययनमारब्धुं केन्द्रसर्वकारः। 

नवदिल्ली> फेब्रुवरिमासस्य प्रथमपादादारभ्य राष्ट्रे कोविड्महामार्याः तृतीयतरङ्गः दुर्बलः भविष्यतीति विश्वस्वास्थ्यसंघटनस्य पारिभाषिकोपदेशसमित्याः अध्यक्षः डो अनुराग अगर्वालः उक्तवान्। तादृश्यामवस्थायां विद्यालयेषु साक्षादध्ययनाय प्रथमपरिगणना दातव्या इति तेनोक्तम्।

   'ओण् लेन् कक्ष्याणां स्थाने ओफ् लैन् कक्ष्याः आरम्भणीयाः इत्येतत् छात्राणां भविष्यविषये अत्यन्तापेक्षितमस्ति। छात्रान् विद्यालयेभ्यः विदूरं नयति इत्यतः तेषां मानसिकशारीरिकादीनां स्वस्थताविषये तद्दोषाय भवेत्। अतः विद्यालयाः उद्घाटयितव्याः' अगर्वालेनोक्तम्। 

  वाक्सिनीकरणमाने तद्वारा आर्जिते रोगप्रतिरोधे च भारतं बहु अग्रे वर्तते। इतरराष्ट्राणि अपेक्ष्य मृत्युमानं रोगव्यापनमानं च तुच्छमिति विद्यालयोद्घाटनमालक्ष्य तेन निगदितम्।

 राष्ट्रे अतिसम्पन्नं राजनैतिकदलं भवति भा ज दलम्। तेषां परिसम्पत्तिः ४६४७ कोटिः भवति।

नवदिल्ली> राष्ट्रे २०१९-२०२० संवत्सरीयेषु अतिसम्पन्नेषु राजनैतिकदलेषु प्रथमस्थानमावहति भा ज दलम् इति प्रतिवेदनम्। अस्मिन् कालावधौ ४८४७.७८ कोटि रूप्यकाणां परिसम्पत्तिः भ ज दलाय अस्ति इतिअसोसियेषन् ओफ् डेमोक्राट्टिक् रीफोंस् (ए डि आर्) नाम निर्वाचननिरीक्षणसंघेन प्रकाशितायां गणनायां संसूचितम्। परिसम्पत्तौ द्वितीयस्थाने बि एस् पि एव। ६९८.३३ एव तेषां परिसम्पत्तिः। तृतीयस्थानीयस्य कोण्ग्रस् दलस्य ६८८.१६ कोटि

परिसम्पत्तिरेव अस्ति। अस्मिन् कालावधौ राष्ट्रे सप्त राष्ट्रियदलानां तथा४४ प्रादेशिकदलानां च यथाक्रमं६९८८.५७ कोटि रूप्यकाणां२१२९.३८ कोटि रूप्यकाणां च आहत्य परिसम्पत्तिः अस्ति इत्येव ए डि आर् संस्थायाः प्रतिवेदनम्। सप्त राष्ट्रियदलानां आहत्य परिसम्पत्तिषु प्रतिशतं६९.३७ भविष्यति भा ज दलस्य परिसम्पत्तिः।

Friday, January 28, 2022

 ओमिक्रोण् उपविभेदस्य बि ए २ इत्यस्य व्यापनक्षमता अधिका। 

नवदिल्ली> राष्ट्रे कोविडस्य तृतीयतरङ्गहेतुभूतस्य ओमिक्रोण् विभेदस्य डेल्टा विभेदापेक्षया व्यापनक्षमतामानः अधिकः इति प्रतिवेदनम्।  बहिरागतानि प्रतिवेदनानि अनुसृत्य ओमिक्रोणापेक्षया तस्य उपभेदस्य बि ए२ इत्यस्य अतिव्यापनक्षमता अस्ति। उपभेदः मन्दं सर्वत्र प्रसरति इति स्वास्थ्यमन्त्रालयेन पूर्वसूचना दत्ता। राष्ट्रिय- रोगनियन्त्रणकेन्द्रस्य निदेशकेन सुजीत् सिंहेन  वार्तेयं आवेदिता। सन्दर्भेऽस्मिन् बि ए २ उपभेदः अद्यावधि भारते न दृढीकृतः इत्यपि तेन प्रोक्तम्। डेल्टा विभेदस्य भीषा न समाप्ता इति च तेन निगदितम्।

 डेन्मार्क् राष्ट्रं विश्वस्मिन् प्रथमपुनरुत्पादक -ऊर्जद्वीप-निर्माणाय सज्जते।

डेन्मार्क् राष्ट्रं विश्वस्मिन् प्रथम-ऊर्जद्वीपनिर्माणाय सज्जते।अस्वाभाविकतया निर्मितस्य द्वीपद्वारा पुनरुत्पादक-ऊर्जं उपयुज्य वैद्युतिम् उत्पादयिष्यति। २०३० संवत्सराभ्यन्तरे पश्चिमतटात् दूरस्थद्वीपात् वायुचाल्यचक्रस्य (wind mill) साहाय्येन प्रथमं त्रिदशलक्षं गृहेषु पश्चात् दश दशलक्षं गृहेषु च वैद्युतिं दातुमेव लक्ष्यम्। भूमेः परिस्थितेः च विनाशहेतोः वातावरणपरिवर्तनेन सञ्जातान् दुरन्तान् निरोद्धुम् उपकारिणी भवति एषा योजना।

Thursday, January 27, 2022

विराट् सेवनात् व्यरमत्। राष्ट्रपतिना प्रधानमन्त्रिणा च यात्रामङ्गलम् अर्पितम्।

नवदिल्ली> राष्ट्रपतेः अङ्गरक्षकसंघेषु विश्वस्तः विराट् नाम अश्वः सेवनात् व्यरमत्। नवदश संवत्सरेभ्यः सेवनानन्तरमेव विराट् नाम कृष्णवर्णाश्वः प्रतिनिवृत्तः। त्रिसप्ततितमस्य गणतन्त्रदिनोत्सवस्य परिसमाप्त्यनन्तरमेव विराटस्य सेवानिवृत्तिः। पदसञ्चलनस्य (parade) पश्चात् राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी, प्रतिरोधमन्त्री राजनाथसिंह: च विराटस्य शिरसि करेण परिमृज्य यात्रामङगलम् अर्पितवन्तः।

Wednesday, January 26, 2022

नूतनैः सविशेषकार्यक्रमैः भारतेन ७३तमं गणतन्त्रदिनमाघुष्टम्।

नवदिल्ली> बहुभिः नूतनैः सविशेषकार्यक्रमैः भारतमद्य ७३तमं गणतन्त्रदिनमाघुष्टम्।  कोविडस्य कारणेन विदेशराष्ट्रनेतारः यः कोSपि मुख्यातिथिरूपेण न भागं स्वीकुर्वन्ति स्म। 

  सर्वसैन्याधिपः राष्ट्रपतिः सैनिकानां पथसञ्चलने अभिवाद्यं स्वीकृतवान्। प्रधानमन्त्री नरेन्द्रमोदी बलिदानिनां कृते आदराञ्जलिं समार्पयत्। 

  केवलं १४,००० जनेभ्यः एव गणतन्त्रदिनोत्सवकार्यक्रमान् अभिवीक्षितुमवसरः अस्ति। तेषु कोविडं विरुद्धप्रवर्तकेषु अग्रस्थाः, त्रिचक्रिकाचालकाः, स्वच्छताकर्मकारिण‌ः, निर्माणकर्मकराः इत्येषां कृते वेदिकायामासनानि सज्जीकृतानि सन्ति।

केरले प्रतिदिनकोविड्रोगिणः अर्धलक्षमतीताः। 

अनन्तपुरी> केरलराज्ये कोविड्व्यापनम् अनुदिनम् वर्धते। गतदिने ५५,४७५ नूतनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं ४९. ४% जातम्। 

  ७० मरणानि कोविडस्य हेतोः इति स्पष्टीकृतम्। ३०,२२६ जनाः रोगमुक्ताः जाताः। 

  जनपदीयगणनामनुसृत्य एरणाकुलं जनपदे अधिकतमाः रोगिणः विद्यन्ते - दशसहस्राधिकाः। तदनन्तरं तिरुवनन्तपुरं जनपदमस्ति। तत्र ९०००अधिकाः जनाः रोगबाधिताः अभवन्।

जनरल् बिपिन् रावतः कल्याणसिंहः च पद्मविभूषणपुरस्काराय चितौ ।

नवदिल्ली> संवत्सरीयस्य अस्य पद्मपुरस्कारः ख्यापितः। जनरल् बिपिन् रावतः, राधेश्यां खेंक , कल्याणसिंहः, प्रभा आत्रे प्रभृतिभ्यः पद्मविभूषणपुरस्काराः लभ्यन्ते। कोण्ग्रस् नेता गुलां नबि आसादः, पश्चिमबंगदेशस्य पूर्वमुख्यमन्त्री सि पि एम् नेता बुद्धदेवभट्टाचार्यः, लेखिका प्रतिभा राय्, सीरं इन्स्टिट्यूट् प्रबन्ध - निदेशकः सैरस् पूनवालः, अणु तन्त्रांशस्य (micro - soft ) सि इ ओ सुन्दर पिच्चै प्रभृतिभ्यः सप्तदश प्रमुखेभ्यः अपि पद्मभूषणपुरस्कारः लप्स्यते।१०७ प्रमुखाः जनाः पद्मश्री पुरस्काराय अपि चिताः।

Tuesday, January 25, 2022

प्रक्रमाः अन्तिमपादे। जनुवरि२७ तमे दिने एयर् इन्ड्या संस्था टाटा संघाय अनुदास्यति।

नवदिल्ली> सर्वकाराधीना एयर् इन्ड्या संस्था प्रक्रमान् पूर्तीकृत्य जनवरि२७ दिनाङ्काभ्यन्तरे टाटा संघाय अनुदास्यति। प्रक्रमपूर्तीकरणाय जनुवरि२० तमदिनस्य समापन - आयव्ययविवरणपत्रं (closing balance sheet ) टाटाय प्रदत्तं आसीत्। पत्रस्य सूक्ष्मावलोकानन्तरम् अन्तिमप्रक्रमान् प्रति गमिष्यति। एतत्कार्यं विशदीकृत्य एयर्लैन् संस्थायाः आर्थिकनिदेशकेन विनोद् हेज्मादिना कर्मकरेभ्यः इ- सन्देशः प्रेषितः।

 हिमपातः - अफ्गानिस्थाने ४२ मरणानि। 

काबुल्> अफ्गानिस्थाने २० दिनानि यावत् अनुवर्तमाने हिमपाते ४२ जनाः मृत्युवशं प्राप्ताः। ७६ जनाः आहताश्च। १५ प्रदेशेषु एव मरणानि सम्भूतानि। द्विसहस्राधिकानि गृहाणि विशीर्णानीति सर्वकारेण निगदितम्। 

  तालिबानप्रशासने जनाः दुर्भिक्षमनशनादिकं च अनुभूयन्तः सन्ति। रक्षाप्रवर्तनानि प्रचलन्तीति सर्वकारस्य दुरन्तनिवारणविभागेन निगदितम्।

स्मृती मन्थाना श्रेष्ठा क्रिक्कट् क्रीडिका। 

दुबाय्> अन्ताराष्ट्र क्रिक्कट् समित्या [I C C] दीयमानाय  विगतवर्षस्य श्रेष्ठा क्रिक्कट् क्रीडिका इति पुरस्काराय भारतदलस्य प्रारम्भका स्मृती मन्थाना चिता। २०१८ संवत्सरे अपि स्मृत्या अनेन पुरस्कारेण समादृता आसीत्। 

  २२ अन्ताराष्ट्रीयस्पर्धासु आहत्य ८५५ धावनाङ्कान् प्राप्तवती। एषु एकं शतकं ५ अर्धशतकानि च अन्तर्भवन्ति। निकषस्पर्धायां आस्ट्रेलियां प्रति एकस्मिन् क्रीडाचक्रे [Innings] १२७ धावनाङ्कान् प्राप्तवती च।

Monday, January 24, 2022

 भारते ओमिक्रोण् विभेदः सामाजिकव्यापनतलेषु प्राप्तः। नगरेषु वैराणोः सान्निध्यम् सुशक्तम्।

नवदिल्ली> कोविडस्य ओमिक्रोण्

विभेदः भारते सामाजिकव्यापनतलेषु प्राप्तः। मेट्रो नगरेषु एषः प्रभेद: प्रबलः इति इन्साकोगस्य अतिनूतनविवरणिकायां (bulletin) सूचितः अस्ति। विविधराज्येभ्यः  सञ्चित्य तेषां जनितकप्रवर्तनानि अधिकृत्य अध्येतुं रूपीकृतानां दश परीक्षणशालानां संगमः भवति इन्साकोग् ( INSCOG-Indian Sarc Covi-2 Consortium Of Genomics) l ओमिक्रोणस्य सांक्रमिक - उपभेदः BA 2 लैनेज् राष्ट्रे अधिकतया दृढीकृतः इत्यपि विवरणिकायां सूचितमस्ति।

अरुणाचलात् अप्रत्यक्षः कुमारः चीने सन्दृष्टः। 

नवदिल्ली> अरुणाचलप्रदेशात् अप्रत्यक्षः १७ वयस्कः मिरं टरोण् नामकः सन्दृष्टः इति चीनस्य 'पीपिल् लिबरेषन् आर्मी' [P L A] भारतीयसेनां न्यगादीत्। टरोणं यावच्छीघ्रं भारतमानेतुं पदक्षेपाः प्रारब्धाः इति रक्षामन्त्रालयस्य पि आर् ओ लफ्टनन्ट् केणल् हर्षवर्धन पाण्डेन उक्तम्। 

  अप्पर् सियाङ् जनपदस्थे सिडो ग्रामात् बुधवासरे टारोणः तस्य मित्रं जोणि यायिङः च नियन्त्रणरेखासमीपं वने मृगयार्थं गतौ। टरोणः पि एल् ए सैन्येन अपहृत इति वृत्तान्तः प्रसरितः। नियमानुसृतं अधिगम्य प्रत्यानेतुं भारतेन पि एल् ए सैन्यस्य साहाय्यमभ्यर्थितम्। 

  ततः रविवासरे कुमारः सन्दृष्ट इति चीनेन स्थिरीकृतम्। कुमारमचिरेण भारताय प्रतिदास्यतीति पि एल् ए सैन्येन निगदितम्।

 बेंङ्गलूरे  विद्यालयीयछात्राः नानो - उपग्रहविक्षेपणाय सज्जन्ते।

बेंगलूरु> बेंगलूरे सर्वकारीय-विद्यालयीयछात्राः भारतीय -बहिराकाश -अनुसन्धान- संघटनस्य सहकारितया नानो टेक्नोलजी इत्यनया प्रक्रियया उपग्रहविक्षेपणाय सज्जीक्रियमाणाः वर्तन्ते। मल्लेश्वरस्थां विद्यालयीयछात्राणां कृते अभियोजनाय सर्वकारेण अङ्गीकारो दत्तः।  उपग्रहस्य सज्जीकरणाय विक्षेपणाय च १.९ कोटि रूप्यकाणां अभियोजनायाः एव अङ्गीकारः दत्तः। कर्णाटका वैज्ञानिक तथा प्रौद्योगिक पदोन्नति समाजद्वारा (के एस् टि इ पि एस्- Karnataka Science and Technological Promotion Society) एव अभियोजनेयं प्रवृत्तिपथमानेष्यति। भारतीय - महासभा - सङ्घस्यापि  (Indian Technology Congress Association) सहकारिता अस्ति। छात्रेषु शास्त्रविज्ञानपोषणं तथा प्रौद्योगिकविज्ञानपोषणम् एव अभियोजनायाः उद्देश्यः।