OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 1, 2021

 वै. अनिलकान्तः केरलस्य आरक्षकाधिकारी। 

 अनन्तपुरी> राज्यस्य ३४तम आरक्षकाधिकारिरूपेण [डि जि पि] दिल्ली प्रदेशीयः १९८८ विभागस्थ ऐ पि एस् अधिकारी च वै अनिलकान्तः पदं स्वीकृतवान्। केरलस्य मार्ग सुरक्षा कम्मीषणर् स्थाने वर्तमानः सः लोकनाथ बेह्रस्य सेवानिवृत्त्या जाते स्थाने एव नियुक्तः। 

   गतदिने आरक्षकास्थाने सम्पन्ने कार्यक्रमे लोकनाथ बह्रातः अधिकारदण्डं स्वीकृत्य नूतनपदं समारोहयत्।

 विनोदसञ्चारिणः स्पृहयन् अट्टपाटिदेशस्य सूर्यकान्तिकेदारः।


 अट्टपाटि (केरलम्)> कुन्नन्चालप्रदेशेषु सूर्यकान्तिः विकसिता। प्लामरं सरसिक्कमुक्कस्थे यानमार्गस्य पार्श्वे पलनिस्वामिकौण्डर् नामकस्य कृषकस्य केदारे अर्ध एकर् परिमितौ भूमौ एव सूर्यकान्तिः प्रफुल्लिता। सूर्यकान्तिक्षेत्रं द्रष्टुं बहवः विनोदसञ्चारिणः विविधेभ्यः प्रदेशेभ्यः आगच्छन्ति। अर्ध एकर् परिमितौ भूमौ सार्धद्विकिलो मितं बीजम् उप्त्वा अनेन कृषिः समारब्धा। एतस्मात् १५० किलो परिमितं तैलबीजं लप्स्यते। तस्मात् ६० लिट्टर् तैलमपि लप्स्यते। विंशति वर्षात् पूर्वं पलनिस्वामिकौण्डरः सूर्यकान्त्याः कृषिं कृतवान् आसीत्। अन्ये कृर्षकाः अपि सूर्यकान्तिकृषिं अधिकतया कृतवन्तः आसन्। तत्समये तैलमर्दनाय यन्त्रशाला समीपे आसीत्। इदानीं कृषकाः सूर्यकान्तिकृषिं परित्यक्तवन्तः तदा यन्त्रशालायाः प्रवर्तनमपि स्थगितम्। इदानीं तैलमर्दनाय सुविधा विदूरस्थे कोयम्पत्तूर् देशे भवति।

कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चेतव्य:।

 नवदिल्ली> कोविड्रोगबाधया मृतजनानां परिवाराय आर्थिकसमाश्वासः दातव्यमिति सर्वोच्चन्यायालयेन अभिप्रैतम्। प्रकृतिदुरन्त-बाधितानाम् आर्थिक-समाश्वासं दातुं व्यवस्था अस्ति। तत्समानमेव राष्ट्रियदुरन्त-निवारणनियमस्य १२ तमं खण्डमनुसृत्य कोविड्रोगबाधया मृतानां परिवाराणामपि  अपि समाश्वासाय अर्हता अस्ति इति सर्वोच्चन्यायालयेन निरीक्षितम्। कोविड्महामारी अपि प्रकृतिदुरन्तत्वेन प्रख्यापिता अस्ति। सन्दर्भेऽस्मिन् कोविड्बाधया मृतानां कुटुम्बेभ्यः समाश्वासधनं दातव्यम् इति न्यायालयेन आदिष्टम्।

Wednesday, June 30, 2021

 सुधर्मा  पत्रिकायाः सम्पादक: के.वी.सम्पत्कुमारः दिवङ्गतः।


 बडुलूरु> संस्कृतजगति प्रथितयशः पद्मश्री के.वी.सम्पत्कुमारः अद्य पञ्चत्वे निलीनः।  सुधर्मेति दैनिक संस्कृतवार्तापत्रस्य सम्पादकः सम्पत्कुमारः वार्तासम्पादनाय प्रतिदनमिव अद्यापि कार्यालयं सम्प्राप्तः। वार्तासम्पादनकाले जायमानेन हृदयाघातेन असौ संस्कृतपुत्रः चिरकालाय परमेश्वरस्य चरणौ अगच्छत्। समग्रं संस्कृतजगदनेनाघातेन पीड्यमानो विद्यते। 'सम्प्रतिवार्ताः'-पत्रिकायाः पक्षतः तस्मै विनम्रश्रद्धाञ्जलिः समर्प्यते। तदीयात्मनः शान्तये प्रार्थयामः।

 संस्कृत-चलनचित्र गानानि  यू ट्यूब् द्वारा प्रकाशितानि।


 अनन्तपुरी> संस्कृतभाषायां प्रप्रथमतया निर्मितस्य  शिशुकेन्द्रीकृत-चलन-चित्रस्य गीतानि यूट्यूब् द्वारा ( https://youtu.be/E_y787RowWM ) प्रकाशितानि। मधुरस्मितम् इति चलन-चित्रस्य मधुरगीतानि एव एते। 

अस्य चलनचित्रस्य निदेशकः सुरेष् गायत्री भवति। गीतानां रचयितारः बिजिला किशेरः सुरेष् विट्टियरं  डा. कुमार् च भवन्ति। राजेष् नारायणेन गीतानि संङ्गीतनिर्देशेन पुष्टी कृतानि। रुग्मा, ऐफुननुजुं,  आर्या एं नायर्, अपर्णा श्रीकुमार्, अद्वैत् प्रभृतिभिः गीतानि श्रवणसुभगतया आलपितानि।  चलनचित्रस्य चित्रस्य प्रदर्शनकाले बहवः विद्यालयछात्राः चलनगृहं गत्वा चित्रं दृष्टवन्तः सन्ति।

 तापमानं  ४९.५° सेल्ष्यस्। कानडे अपूर्वाधिकतापमानं रेखाङ्कितम्।


 वान्कूवर्> उष्णतरङ्गस्य पश्चात्      कानड राष्ट्रे मङ्गलवासरे अन्तरिक्षतापमानं ४९.५° (डिग्रि सेल्ष्यस्) इति रेखाङ्कितम्। ब्रिट्टीष् कोलम्बियायां लिट्टन् प्रदेशे एव राष्ट्रस्य  अपूर्वाधिकतापमानं रेखाङ्कितम्। अनस्यूततया तृतीये दिने अधिकतापमानम् अनुवर्तते। प्रतिदिनतापमानं पूर्वकालप्रमाणान् विभिद्य १२१° डिग्रि फारन् हीट्ट् इति 'एन्वयोण्मेण्ड् आन्ट् क्लैमट् चेन्ज्' संघेन ट्विट्टर् मध्ये उक्तम्। जाग्रतां पालयितुं तथा पूर्वसज्जीकरणानि कर्तुं च जनेभ्यः निर्देशो दत्तः।

 'मोडेणा'वाक्सिनाय अनुमतिः दत्ता। 

 नवदिल्ली> अमेरिक्कया निर्मितं कोविड्वाक्सिनं मोडेणा नामकं भारतम् देशान्तरानयनं कृत्वा उपयोक्तुम् औषधीयगुणविज्ञानसंस्थायाः अनुमतिः लब्धा। प्रमुखं औषधवितरणमाध्यमं मुम्बयीस्थं 'सिप्ला' इत्यनेन एव देशान्तरानयनं कृत्वा वितरणं करिष्यते इति नीति आयोगस्य सदस्यः डो. वि के पोल् प्रोक्तवान्।

  वाक्सिनान्तरमिव मोडेणा अपि मात्राद्वयस्य सूचीकरणमपेक्षते। सप्ताहचतुष्टयस्य अन्तरालकालः निर्दिष्टः।

 ड्रोण् आक्रमणं - भारतेन यु एन् मध्ये आशङ्का निवेदिता। 

  न्यूयोर्क्> यू एन् संस्थायाः भीकरविरुद्धकार्यकर्तॄणाम् उपवेशने भारतं जम्मुकाश्मीरे जातं ड्रोण् यन्त्राक्रमणमधिकृत्य आशङ्कां न्यवेदयत्। 

  वृत्तान्त- आशयविनिमयपारिभाषिकविद्या आतङ्कप्रवर्तनेभ्यः दुरुपयोगः क्रियते इति रक्षामन्त्रालये सुरक्षाविभागस्य सविशेषसचिवया वि एस् के कौमुद्या उक्तम्। आयुधघटितड्रोणुपकरणैः यत्र कुत्रापि आक्रमणानि भवेयुरिति भारतं यू एन् राष्ट्रेभ्यः जाग्रतासूचनामदात्।

 गोदावरीतीरे तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य  सघोषणविक्रयणे १८००० रुप्यकाणि लब्धानि।

  आन्ध्रा प्रदेशः> गोदावरीतीरे   तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य सघोषणविक्रयणे १८००० रूप्यकाणि लब्धानि। ७० से .मि आयतं तथा १८ किलो परिमितं भारयुक्तं सैरिङ्स् अरुवानस् इत्याख्यः एषः लोके आकारे बृहत्तमस्य शम्बूकविभेदे अन्तर्भवति । ओस्ट्रेलियन् ट्रंपट्ट् अथवा फाल्स्  ट्रंपट्ट् इति नाम्ना सामान्यतया विख्यात: एषः मांसभोजी भवति। आभरणनिर्माणार्थं अस्य बाह्यकवचं अधिकतया उपयुज्यते इत्यतः एषः विभेदः वंशनाशभीषां अभिमुखीकरोति। अत्याकर्षकं केसरवर्णयुक्तं भवति अस्य बाह्यशुक्तिका-कवचम्।

Tuesday, June 29, 2021

 ट्विट्टर् माध्यमस्य भूमानचित्रे जम्मू तथा लडाकः च प्रत्येकराष्ट्रम्। प्रक्रमाय  भारतसर्वकारः।

 नवदिल्ली>  नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् संबन्ध्य भारतसर्वकारस्य ट्विट्टर् माध्यमस्य  च मिथः विवादे अनुवर्तमाने पुनः अपि ट्विट्टर् माध्यमः नूतनविवादे पतितः। केन्द्रशासनप्रदेशौ जम्मूः लडाकः च भारतस्य बहिः प्रत्येकं राष्ट्रे इति रूपेण ट्विट्टर् माध्यमः स्वजालपुटे (website) भूमानचित्रे सूचितः। नूतन विवादे भारतसर्वकारस्य कठिनप्रक्रमाः ट्विट्टर् माध्यमः अभिमुखीकरिष्यति इति सूचना। राष्ट्रस्य अपूर्णभूमानचित्रस्य प्रदर्शने सामूहिकमाध्यमादिषु प्रतिषेधाणि अनुवर्तन्ते। ट्विट्टर् माध्यमं विरुध्य कठिनप्रक्रमाः समालोचयन्ति इति एतद्विषयसंबन्धिभिः अधिकारिभिः निगदितम्।

 औद्योगिकदृढीकरणमभवत्। २०-२० विश्वचषकं यु ए इ राष्ट्रे भविष्यति।

   मुम्बै> अस्मिन् संवत्सरस्य ट्वन्टि- ट्वन्टि विश्वचषकक्रीडायाः आतिथेयः यु यू ए ई भविष्यति। बि सि सि ऐ संस्थायाः अध्यक्षेण सौरव् गाङ्गुलिना एव अस्मिन् विषये औद्योगिकदृढीकरणं दत्तम्। यु ए इ आतिथेयः भविष्यति इति पूर्वसूचना आसीत् तथापि औद्योगिकतया न दृढीकृतमासीत्। भारते कोविड् महामारी न नियन्त्रणविधेयः तथा वैराणोः तृतीयतरङ्गस्य साध्यता अपि अस्ति इत्यतः एव वेदिका परिवर्तिता। कार्यमिदम् औद्योगिकतया ऐ सि सि संस्थायै आवेदितमस्ति। ओक्टोबर् नवम्बर् मासयोः क्रिकट् प्रतियोगिताः प्रचलिष्यन्ति इति गाङगुलिना प्रोक्तम्।

Monday, June 28, 2021

 जम्मूकाश्मीरे बृहत्स्फोटनाय अभियोजनायोजनम्। उदग्रछायाग्राही आक्रमणस्य पश्चात् षट् किलोपरिमितं स्फोटकवस्तु च संगृहीतम्।

  श्रीनगरः> जम्मूकाश्मीरेषु व्योमसेनापत्तनं लक्ष्यीकृत्य उदग्रछायाग्राही स्फोटनस्य पश्चात् षट्किलोपरिमितं स्फोटकवस्तु अपि संगृहीतम् । घटनायां अस्मिन् एक: लष्कर् इ तोयिबावादी संगृहीतः। जम्मूकाश्मीरस्य आरक्षकाधिपेन दिल्बाग्सिंहेन एव कार्यमिदम् आवेदितम्। नगरे व्यस्तप्रदेशे स्थापयितुं निश्चितं स्फोटकवस्तु एव आरक्षकेण संगृहीतम्। अनेन बृहत्स्फोटनाभियोजना एव जम्मोः आरक्षकैः विफलीकृता। घटना एषा आतङ्काक्रमणम् इति दृढीकृतम्।

अन्वेषणमपि विपुलीकृतम्। संग्रहीतेन सह परिप्रश्नम् अनुवर्तते। घटनायां अन्यान् अपि संग्रहीतुं साध्यता अस्ति इति जम्मूकाश्मीरस्य उप-आरक्षकेन आवेदितम्।

 चीने अटनार्थं प्रस्थितं गजयूथं  दक्षिणदिशं लक्ष्यीकृत्य गच्छदस्ति।


  बेय्जिङ्> चीने अटनम् आरब्धं गजयूथं समीपकाले यात्रायाः विरामं कर्तुं न उत्सुकम् इव दृश्यते। युनान् प्रविश्यातः वर्षात्पूर्वं यात्रां समारब्धम् एष्यायाः गजयूथम् इदानीं दक्षिणदिशं लक्ष्यीकृत्य गच्छन्नस्ति। सिष्वाङ्बेन्ना दाय् राष्ट्रियोद्यानतः एव यात्रा समारब्धा। प्रविश्यायां यु सि मध्ये इषान्कौण्डेः समीपे आहत्य दश गजाः सन्ति। गतचत्वारिदिनानि यावत् अनस्यूतं  दक्षिणदिशं लक्ष्यीकृत्यैव अटनं कुर्वन्तः सन्ति। विंशतिदिनात्पूर्वं यूथात् एकः गजः कुन्मिङ्देशस्थं जिन्निङ् जिल्लातः ३२.५ किलोमीट्टर् व्यतिचलित्वा सञ्चरति । विशेषसुरक्षायुक्तस्य गजयूथस्य अटनं सुगमं कर्तुम् उपत्रिसहस्रं जनाः  गजानां सञ्चारपथात् अन्यत्र नीतवन्तः। सञ्चारपथे तत्र तत्र गजयूथस्य कृते खाद्यानि सज्जीकृतानि। इषान्कौण्डि प्रदेशे इदानीं प्रचलिता अतिवृष्टि:  निरीक्षणाय विघातं सृजति। सिष्यान्बेन् उद्यानतः ५०० किलोमीट्टर् अतिक्रम्य एव गजसंघः कुन्मिङ् प्रदेशे आगतः। प्रायेण एष्यागजेषु दीर्घपलायनविशेषस्वभावः नास्ति। अतः वैज्ञानिकसङ्घै: इदानीं गजयूथाटनम् अधिकृत्य अध्ययनं क्रियते।

 अयोध्या सर्वेषां भारतीयानां नगरी - प्रधानमन्त्री नरेन्द्रमोदी।

  नवदिल्ली>  भारतीयपरम्परायाः महत्वं तथा विकसनपरिवर्तनानां नैपुणी च अयोध्यायां फलरूपेण भवितव्यम् इति प्रधानमन्त्रिणा उदीरितम्। अयोध्यामन्दिरनगरस्य विकसनयोजनायाः अवलोकनयोगे उत्तरप्रदेशस्य मुख्यमन्त्रिणा साकं कृते आध्यासिके (vertual) अभिमुखभाषणे भाषमाणः आसीत् सः। योगे अयोध्यायाः विकासाय उत्तरप्रदेशस्य सर्वकारेण आविष्कृता: विकसनयोजनाः योगी आदित्यनाथेन प्रस्तुताः। यानमार्ग:, अवश्यसुविधायाः विकसनं, रेल् याननिस्थानकं, विमानपत्तनम् इत्यादीनां निर्माणं तथा तेषां विकसनयोजनाः च  उत्तरप्रदेशस्य सर्वकारेण मन्दिरनगरे कर्तुमुद्दिश्यते। अयोध्या भारतीयानां सांस्कृतिके बोद्धमण्डले उल्लिखिता नगरी भवति इति नरेन्द्रमोदिना अभिप्रैतम्। आध्यात्मिकं प्रौढं च भवति अयोध्यानगरम्। अयोध्या एकैकेषां भारतीयानां नगरं भविष्यति इति नरेन्द्रमोदिना निगदितम्।

Sunday, June 27, 2021

 दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यम् इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्।


  धनिकराष्ट्राणि दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यं इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्। दरिद्रराष्ट्रेषु वाक्सिनस्य मात्रायाः क्षामः अनुभूयते। अतः तेभ्यः वाक्सिनस्य लब्ध्यर्थं धनिकराष्ट्रैः साहाय्यम्  अवश्यं क्रियताम् इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अधनोम् ग्रब्रियोसस् अभ्यर्थयत्। 

डेल्ट विभेदः आविश्वं व्याप्यते इत्यनेन अफ्रिक्कस्य स्थितिः दयनीया एव भवति। नूतनानि अणुसङ्क्रमणानि मरणानि च गतसप्ताहापेक्षया प्रतिशतं ४० इति वर्धितानि इत्यपि सः अवदत्।

Saturday, June 26, 2021

 काश्मीरविषये केन्द्रसर्वकारस्य शुभपदक्षेपाः। 

    नवदिल्ली> जम्मुकाश्मीरे विधानसभानिर्वाचनं विधातुं अनुयुक्ते समये राज्यपदं प्रदातुं च स्वेन प्रतिज्ञाबद्धः इति केन्द्रसर्वकारः। प्रविश्यायाः भविष्यत्कार्यक्रमान्  अधिकृत्य चर्चितुं गतदिने प्रधानमन्त्रिणा आयोजिते सर्वदलोपवेशने प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्रिणा अमित् शाहेन सह वृत्तान्तोSयं स्पष्टीकृतवान्। सर्वेष्वपि मण्डलेषु जनाधिपत्यप्रक्रियाः प्रवृद्धिश्च लभेयुरिति मोदी अवोचत्। 

प्रथमतया निर्वाचनाय एव प्राधान्यं कल्पते। किन्तु काश्मीराय सम्पूर्णं राज्यपदं प्रथमं दातव्यमिति विपक्षदलैः निर्दिष्टम्।

 कोविडस्य द्वितीयतरङ्गः भारते न समाप्तः - ऐ सि एम् आर्। 

  नवदिल्ली> राष्ट्रे कोविड्रोगस्य द्वितीयतरङ्गस्य समाप्तिर्नाभवदिति भारतीय चिकित्सा गवेषण समित्या [ऐ सि एम् आर्] निवेदितम्। रोगव्यापनं [टि पि आर्] १०% अधिकतया विद्यमानाः ७५ जनपदाः सन्ति। पञ्च-दशयोर्मध्ये रोगव्यापनमानं विद्यमानाः ९१ जनपदाश्च राष्ट्रे वर्तन्ते। यत्र यत्र रोगव्यपनमितिः प्रतिशतं पञ्चाधिकमस्ति तेषु जनपदेषु निरीक्षणं नियन्त्रणं च अनुवर्तनीयमिति ऐ सि एम् आर् निदेशकप्रमुखः डो. जि एस् भार्गवः प्रोक्तवान्।

 प्रकोपनम् अनुवर्तते चेत् ब्रिट्टणस्य युद्धनौकाः अग्निबाणेन विदारयिष्यति इति रष्यस्य पूर्वसूचना।

   मोस्को> ब्रिट्टणस्य नाविकसेनासकाशात् प्रकोपनपराणि प्रवर्तनानि भविष्यन्ति चेत् श्यामसमुद्रे आसीनां ब्रिट्टणस्य युद्धनौकाम् अग्निबाणेन विदारयिष्यति इति रष्येण पूर्वसूचना दत्ता। ब्रिट्टणस्य नाविकसेनानौकाः तेषां समुद्रसीमां उल्लङ्घितवत्यः इति संसूच्य रष्यस्थं ब्रिट्टणस्य स्थानपतिं आहूय रष्येण प्रतिषेधः प्रकाशितः। परन्तु सेनानौकाः युक्रैन् समुद्रसीमनि एव न तु रष्यासीमनि इति ब्रिट्टणेन तथा अन्यराष्ट्रैः च ईरिताः। ब्रिट्टणस्य एच् एम् एस् डिफन्टर् इत्याख्यायाः नाविकनौकायाः सञ्चारपथं रोद्धुं रष्येण परिश्रमः कृतः इति ब्रिट्टणेन आवेदितः। विंशत्यधिकविमानानि द्वे तीरसंरक्षण-सेनानौके च डिफन्टरं लक्षीकृत्य आगत्य नौकायां अग्निबाणं पातयिष्यति इति भीषाम् अकरोत् इति ब्रिट्टणस्य नाविकसेनया उक्तम्।