OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 9, 2020

  ९० होरायाः प्रयत्नं निष्फलम् - ५ वयस्क: नालीकूपे पतित्वा मृतवान्।

 भोपालः> चतुर्भ्यः दिनेभ्यः पूर्वं मध्यप्रदेशस्य निवारि जनपदे नालीकूपे पतितः पञ्चवयस्कः बालकः मृतवान् । अधः २०० पादमितः  आसीत् कूपः। ९० होरा-पर्यन्तं बालकस्य रक्षायै प्रयत्नं कृतम्। किन्तु प्रयत्नः विफलः अभवत्। कृषकस्य हरिकिषन् कुश्वाह इत्यस्य पुत्रः भवति प्रह्लादो नामकः अयं बालकः।

Sunday, November 8, 2020

 जो बैडन् अमेरिक्कस्य राष्ट्रपतिपदं प्राप्तवान्  

     वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिनिर्वाचने डेमोक्राट्टिक् दलस्य स्थानाशी जोबैडनः विजयं प्राप्तवान्। अमेरिकस्य ४६ तमः राष्ट्रपतिः भवति एषः। रिप्पब्लिक्कदलस्य स्थानाशिनं  राष्ट्रपतिस्थानिनं डोणाल्ड् ट्रम्पं विजित्य भवति अस्य राष्ट्रपति-स्थानप्राप्तिः। उपराष्ट्रपतिस्थाने भारतवंशजा कमला हारिसः भविष्यति।

 कोविड् प्रत्यौषधाय सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया - एयिम्स् (AIMS) निर्देशक:

     नवदिल्ली> कोविड् प्रत्यौषधस्य उपलब्धये सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया इति एयिम्स् (AIMS) निर्देशकेन रणदीपगुलेरिय वर्येण उक्तम्। एकं कोविड् प्रत्यौषधं भारतराष्ट्रस्य विपण्याम् उपलब्धुम् एकसंवत्सरात् अधिकं कालम् आवश्यकम् इति च तेन उक्तम्। वाक्सिन् औषधेन कोविडं पूर्णतया मार्जयितुं न शक्यते इति तेन अभिप्रेतम्। सि एन् एन् न्यूस् १८ इत्यस्य प्रस्तुतौ असीत् तस्य अभिमतप्रकाशनम्।

 केरले प्रादेशिकनिर्वाचनं प्रख्यापितम्। 

व्यवहारनियमाः उपस्थापिताः। 

  अनन्तपुरी>  मासैकस्य कालान्तरेण केरलराज्ये त्रिस्तरग्रामस्वराजनिर्वाचनस्य काहलः उद्घुष्टः। डिसम्बरमासस्य ८ , १० , १४ दिनाङ्केषु चरणत्रयैः निर्वाचनानि विधास्यन्ति। मतगणना १६ तमे भविष्यति। कोविड् नियन्त्रणदिशासूचकान् परिपाल्य एव निर्वाचनप्रक्रियाः सम्पत्स्यन्ते। 

  राज्यस्य निर्वाचनायोगेन वि भास्करेण गतदिने निर्वाचनप्रक्रियायाः मार्गनिर्देशाः पदक्षेपाश्च प्रख्यापिताः। 

  आगामिनिसंवत्सरे सम्पद्यमानस्य विधानसभानिर्वाचनस्य निकषोपल इतीदं निर्वाचनं परिगण्यते।

Saturday, November 7, 2020

 यू एस् राष्ट्रपतिनिर्वाचनं - बैडनः प्रथमस्थाने। 

   वाषिङ्टण्> अमेरिक्कायां राष्ट्रपतिनिर्वाचनस्य मतगणनाप्रक्रिया इदानीमपि अनुवर्तते। 'डमोक्राटिक्पार्टी' दलस्य स्थानाशी जो बैडनः वर्तमानराष्ट्रपतेः डोणाल्ड् ट्रम्पात् अग्रे तिष्ठतीति स्पष्टीकृतम्। राष्ट्रपतिपदं लब्धुं २७० 'इलक्टरल् स्थानेषु अपेक्षितेषु बैडनः २६४ स्थानानि लब्धवान्। ट्रम्पेन  २१४ स्थानानि लब्धानि। 

  मतगणनामनुवर्तमानेषु ६ राज्येषु चतुर्षु बैडनस्य अग्रत्वं स्पष्टीकृतम्। आधिकारिकतया उद्घोषणार्थं विलम्बः भविष्यतीति सूच्यते।

 बिहारनिर्वाचनस्य अन्तिमचरणम् अद्य। 

   पटना> बिहारे विधानसभानिर्वाचनस्य तृतीये अन्तिमे च चरणे १५ जनपदेषु ७८ विधानसभास्थानेषु अद्य मतदानं भविष्यति। सीमाञ्चलप्रविश्यायाः जनहितं सर्वेषां राजनैतिकसंघानां कृते प्राधान्यमर्हति। 

  १२०४ स्थानाशिनः अन्तिमे चरणे जनहितं कांक्षन्ति। सोष्यलिस्ट् नेता शरदयादवस्य पुत्री सुहासिनी यादवः, वर्तमानमन्त्रिमण्डले विद्यमानाः अष्ट मन्त्रिणश्च अद्यतनीयनिर्वाचने जनविधिं प्रतीक्ष्यमाणेषु प्रधानिनः भवन्ति। मतगणनमितःपरं दशमदिनाङ्के विधास्यति।

Friday, November 6, 2020

 'राष्ट्रपतिः अनृतं वदति'

ट्रम्पस्य सततप्रसारणम्  अर्थावस्थायां स्थगायितम्।


वाषिङ्टण्> दोषप्रवक्तता यदि वा भवतु राष्ट्रपतिः, वार्तामेलनस्य सततप्रसारणं न करिष्ये इति अमेरिक्कस्य   वार्तामाध्यमैः निश्चितम्। जनाभिलाषः जननिर्णयः च  आशङ्क्य ट्रम्पः वार्तामेलने भाषमाणः आसीत्। तस्मिन् समये वार्ताप्रसारकवाहिनीभ्यः  अर्धावस्थायां स्थगायितम्। गुरुवासरे सायंकाले आसीत् इयं घटना। निर्वाचनानन्तरं ट्रम्पस्य प्रथमवार्तामेलन-भाषणमासीत् इदम्।  अ अवस्तुभूतानि ट्रम्पेन उच्चते इत्युक्त्वा आसीत् टी वी प्रसारणस्य स्थगनम्  । 
अर्धावस्थायां स्थगायितम्। 

 कोविड्रोगः हृदयं क्लमयति। मुक्तैः कठिनकर्माणि न करणीयानि। 

   अनन्तपुरी>  कोविड्मुक्तैः मासत्रयं यावत् आयासपूर्णानि कर्माणि कठिनव्यामाश्च न करणीयानीति जाग्रतासूचना। हृदयसम्बन्धरोगैः पीडितैः अस्मिन् विषये श्रद्धा दातव्या इति केरलसर्वकारस्य  कोविडनन्तरचिकित्सामार्गरेखायां निर्दिश्यते। 

  कायिकतारैः कठिनव्यायामाः षण्मासपर्यन्तं त्याज्याः। कोरोणाविषाणुबाधितेषु  तदभावभूतेषु अपि विषाणोराघातः उच्चतरः वर्तते इति स्वस्थ्यविदग्धैरभिप्रेतम्।

 आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य पश्चात् २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा। 


 हैदराबाद्> आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य दिनत्रयानन्तरं २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा आवेद्यते। रोगाणुव्यापनेन मार्च् मासे  पिधानीकृताः सर्वकारीयविद्यालयाः कलाशालाः च नवम्बर् मासस्य द्वितीयदिनाङ्कात् एव उद्घाटिताः। नवम-दशमकक्ष्यायाः छात्रेभ्यः इदानीमेव कक्ष्या समारब्धा आसीत्। किन्तु भीतिदा अवस्था राज्ये नास्ति इति सर्वकारेण उक्तम्। कोविड्काल-जाग्रता-निर्देशान् पालयन्ति इति निश्चित्य प्रमाणीकरणाय सर्वे श्रद्धालवः भवन्तु इति शिक्षाविभागाध्यक्षेण चिन्नवीरभद्रडुना उक्तम्।

Thursday, November 5, 2020

 कोरोणवैराणोः पश्चात् एच् १ एन् २ वैराणुबाधा आशङ्क्यते। 

   ओट्टाव> कानड राज्ये एच् १ एन् २ वैराणुबाधा आशङ्क्यते।


मनुष्येषु अत्यपूर्वा वैराणुबाधा एव कानड राज्यस्य अल्बर्टो प्रदेशे एव अणुबाधा अभिज्ञाता। कोराणवैराणोः आलोकनावसरे आसीत्  अणुबाधायाः अभिज्ञानम्। जलदोष-ज्वरेण समागतेषु रोगिषु एव एच्१ एन् २ वैराणु सान्निध्यं प्रत्यभिज्ञातम् इति अल्बर्टो प्रधान-औषधाधिकारिणा  आवेदितम्।

बैराणुः इति न युक्तम्। वैराणुः इत्येव 

 सामाजिकान् विरुध्य दण्ड्यप्रकरणेषु गतिरोधः - सर्वोच्चन्यायालयः अतृप्तिं प्राकाशयत्। 

नवदिल्ली> जनसभा-विधानसभाङ्गानि विरुध्य दण्ड्यपराधप्रकरानि विविधेषु न्यायालयेषु गतिरोधं प्राप्तानीत्यस्मिन् विषये सर्वोच्चन्यायालयेन अतृप्तिः प्रकाशिता। पश्चिमवंगे ३५संवत्सरप्राप्तानि एतादृशप्रकरणानि वर्तन्ते इति कोल्कोत्ता उच्चन्यायालयस्य नीतिज्ञे सूचिते आसीत् न्याय. एन् वि रमणस्य अध्यक्षत्वे विद्यमानेन नीतिपीठेन एवम् अतृप्तिः स्पष्टीकृता। 

   एतादृशानि २५०० प्रकरणानि राष्ट्रस्य विविधेषु न्यायालयेषु निश्चलानि वर्तन्ते। भूतपूर्वसामाजिकानां प्रकराणानि अभिव्याप्य एषा संख्या ४४०० उपगच्छेत्। वर्तमानान् 'एम् पि , एम् एल् ए' सामाजिकान् विरुध्य विद्यमानानि प्रकरणानि उपधां कृत्वा शीघ्रं समापयितुं सविशेषाः न्यायालयाः संस्थापनीयाः इति सामान्यतात्पर्ययाचिकायाः परिगणनावेला आसीदयं सन्दर्भः। 

  जनप्रतिनिधिविरुद्धानां दण्ड्यप्रकरणानां कृते सविशेषन्यायालयाः स्थापनीयाः इति सर्वोच्चन्यायालयेन २०१७ तमे केन्द्रसर्वकारं प्रति निगदितमासीत्।

 लडाक् प्रदेशस्य भारतसैनिकेभ्यः अमेरिक्कस्य सुखोष्णयुतकम्।

    नवदिल्ली> चीनस्य सीमनि विन्यस्तेभ्यः भारतसैनिकेभ्यः शीताद्ररक्षाय अमेरिक्कस्य सुखोष्णयुतकम्। सियाच्चिन् प्रदेशस्य पश्चिमयुद्धमुखे पूर्वलडाके च विन्यस्ताः सैनिकाः इदं युतकम् उपयोक्तुम् आरभन्त। समुद्रतलात् १२००० पादोन्नत्यां वर्तामानेषु एतेषु प्रदेशेषु तापमानं शुन्यात् ५०° (डिग्रि) इति भवति। अतः एव वस्त्रस्य आवश्यकता अवश्यमभवत्।

Wednesday, November 4, 2020

 न्यूसिलान्टमन्त्रिमण्डले प्रप्रथमं भारतकुलजा। 

  मेल्बण्> न्यूसिलान्ट् राष्ट्रे जसिन्डा आर्डेण् इत्यस्याः मन्त्रिमण्डले प्रप्रथमं भारतीयकुलजातायै अङ्गत्वमलभत। केरलीया प्रियङ्का राधाकृष्णः समाज-सन्नद्धमण्डल-युवजनविभागानां मन्त्रिणी भविष्यति। 

  २०१७तमे 'लेबर् पार्टी' दलस्य प्रतिनिधिरूपेण जनसभां प्राप्ता। वर्षद्वयानन्तरं गोत्रसमूहविभागमन्त्रिणः निजीयकार्यदर्शिरूपेण नियुक्ता।

  प्रियङ्कामभिव्याप्य ५ अङ्गाः मन्त्रिमण्डले अन्तर्भूताः। नूतनाः शुक्रवासरे शपथसमारोहं करिष्यन्ति।

Tuesday, November 3, 2020

 भूकम्पावशिष्टात् वर्षत्रयवयस्का ६५ होरानन्तरं रक्षिता

 


   अङ्कार> तुर्की-ग्रीस् देशयोः दुरापन्ने भूकम्पे ९४ जनाः एतावत् पर्यन्तं मृताः। रिक्टर् मापिन्यां ७.o इति भूकम्पनस्य शक्तिम् अङ्‌कितायां दुर्घटनायां  पतितस्य गृहावशिष्टस्य अधस्थात् वर्षत्रयवयस्का बालिका ६५ होरानन्तरं रक्षिता। अग्निशमनसेनानिना मु आमिर सेलिक् इत्याख्येन  बालिका रक्षिता।

 बिहारे द्वितीयसोपानमतदानं समारब्धम्। 

   पट्ना> बिहारस्य राजनैतिकगतिसूचकं भवति अद्य समारब्धं द्वितीयसोपानं विधानसभानिर्वाचनम्। १७ जनपदेषु ९४ मण्डलेषु मतदानप्रक्रिया समारब्धा। 

  महासख्यस्य मुख्यमन्त्रिस्थानाशी तेजस्वी यादवः, सोदरः तेज प्रतापयादवः, नितीषस्य मन्त्रिमण्डले वर्तमानाः ६ मन्त्रिणः इत्यादयः अद्यतननिर्वाचने जनविधिं कांक्षन्ते।

Monday, November 2, 2020

 कोविड् रोगिणा सह सम्पर्कः विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः एकान्तवासे। 

 जनीव> कोविड् रोगग्रस्तेन सह स्वसम्पर्कः अभवत् अतः स्वयम् एकान्तवासे तिष्ठन्नस्मि इति विश्वस्वास्थ्य-सङ्घटनस्य अध्यक्षेण टेड्रोस् अदनों गेब्रियेससेन उक्तम् ।किन्तु एतावत्पर्यन्तम् अस्वास्थ्यं न अनुभूतम्। तथापि गृहे उपविश्य स्व कर्मसु व्यापृतो भविष्यामि इति तेन उक्तम्। 

 अस्माभिः स्वास्थ्यमार्गनिर्देशाः पालनीयाः। रोगाणुव्यापनस्य श्रृङ्खला नाशनीया इत्यपि तेनोक्तम्। 

 यु एस् राष्ट्रपतिनिर्वाचनं श्वः। 

चतुर्षु राष्ट्रेषु बैडनस्य अग्रगामित्वमिति पर्यवेक्षणम्। 

  वाषिङ्टण्> यू एस् राष्ट्रे ४६तमं राष्ट्रपतिनिर्वाचनं श्वः भविष्यति। अतिप्रधानेषु चतुर्षु राज्येषु 'डमोक्राटिक्'दलीयः स्थानाशी जो बैडनः अग्रे तिष्ठतीति निर्वाचनपूर्वपर्यवेक्षणे स्पष्टमिति सूच्यते। 

    ट्रम्पस्य रिपब्लिक् बैडनस्य डमोक्राटिक् राजनैतिकदलयोः समानशक्तिं परिगण्यमानेषु विस्कोण्सिन् , पेन्सिल्वानिया, फ्लोरिडा, अरिसोणा इत्येतेषु उत्तरपूर्वराज्येषु एव बैडनस्य अग्रेसरत्वं प्रोक्तम्। 

 आधिकारिकं निर्वाचनं नवंबरस्य तृतीये दिनाङ्के भविष्यत्यपि मतदानप्रक्रिया सेप्तम्बरमासस्य प्रथमसप्ताहे एव प्रारब्धा आसीत्। ३.३ कोटिजनाः साक्षाद्रूपेण ५.८ कोटिजनाः पत्रलेखद्वारा च मतदानं कृतवन्त इति सूच्यते।

Sunday, November 1, 2020

 तैवाने कोविड् रहितं २०० तमं दिनम्। 

  ताय् पेय्> विविधानि  राष्ट्राणि द्वितीय वारं कोविड् रोगाणुः पीडयति। फ्रान्स् जर्मनि इट्टलि यू एस् राष्ट्रेषु अति शक्तया रीत्या प्रत्यागतः भवति एषः वैराणुः। अवसरेस्मिन्।  ताय्वान् देशे २०० दिनानि यावत् कोरोण नास्ति इति अद्भुतं जनयति।  यावत् कालं ५५३ जनाः एव रोगग्रस्थाः अभवन्। केवलं ७ जनाः मृताः।  तय्वा तैवानस्य स्वास्थ्यसुरक्षा-प्रक्रमस्य क्षमता एव अनेन प्रकाश्यते।