OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 31, 2020

 भारतस्य भूतपूर्वराष्ट्रपतिः प्रणब मुखर्जी  दिवङ्गतः।


   नवदिल्ली> भारतस्य भूतपूर्वराष्ट्रपतिः तथा राजनीति मण्डण्डलस्य  सौम्यप्रभाववान्  प्रणब मुखर्जी दिवङ्गतः। पञ्च अशीतिवर्ष देशीयोऽयम् कोविड् १९ वैराणुना बाधितः आसीत्। पञ्चाशत् वर्षाणि यावत् भारत राजनीति मण्डले जाज्वल्यमानः आसीत् अयम्। दिल्लीस्थे सैनिक आतुरालये चिकित्सायाम् असीत्। महोदयस्य पुत्रेण अभिजित् मुखर्जिना दिवङ्गतवार्ता अधुनैव आवेदिता।

Sunday, August 30, 2020

 ‘मनोगतम् [०२.१५] ‘मनकीबात’प्रसारण-तिथि: ३०–अगस्त-मासः, २०२०  

       [भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]


     मम प्रियाः देशवासिनः, नमस्कारः | सामान्यतया कालोऽयम् उत्सवस्य भवति, नैकत्र मेलकानि आयोज्यन्ते, धार्मिक-पूजापाठाः विधीयन्ते | कोरोना-संकट-कालेsस्मिन्  जनेषु उल्लासस्तु अस्ति, उत्साहः अपि वर्तते, किञ्च,  अस्माकं मनान्सि संस्पृशेत्, तादृशम् अनुशासनम् अप्यस्ति |  सुबहु एकरूपेण पश्याम, चेत् नागरिकेषु दायित्वस्य अनुभूतिः अपि अस्ति | जनाः स्वीयावधानं सन्धारयन्तः, अपरेषाम् अवधानं

 भारत-पाक्सीमायां कन्दरम् अधिगतम्। 

       जम्मू >  भारत-पाकिस्थानयोः अन्ताराष्ट्रसीमावृत्याः अधस्तात् निर्मितमेकं कन्दरं सीमारक्षासेनया  अधिगतम्। पाकिस्थानात् भारतं प्रति आतङ्कवादिनां प्रवेशाय तथा उन्मादवस्तूनां कुनयनाय एवेदं निर्मितमिति सीमारक्षण-सेनायाः निगमनम्। 

  २५ पादपरिमिते गर्ते आसीदस्य निर्माणं प्रवृत्तम्। चतुर्पादपरिमितः विस्तृतिरप्यस्ति। यन्त्रसाह्येन निरीक्षणे सीमातः १७४ मीटर् दूरं यावत् कन्दरस्य दैर्घ्यं दृष्टम्। 

  कन्दरस्य मुखपिधानाय उपयुक्तेषु पलास्तिकमृत्स्यूतेषु कराच्ची तथा शकर्खड् इत्यादिषु प्रदेशेषु वर्तमानानाम् उद्योगशालानां मुद्राः निर्माणदिनाङ्कः उपरमदिनाङ्कश्च मुद्रिताः सन्ति। अतः समीपकाले एवास्य निर्माणं प्रवृत्तमिति स्पष्टम्।

Friday, August 28, 2020

 न्यूसिलान्ट् भीकराक्रमणम् - अपराधिनः आजीवनान्तम् स्वतन्त्रतारहितः कारागृहवासः। 

      न्यूसिलान्ट्  >  अस्मिन् राष्ट्रे २०१९ मार्च् १५ तमदिनाङ्के आराधनालयद्वयम् अतिक्रम्य ५१ प्रर्थनानिरतान्  जनान् भुषुण्डिप्रयोगेण हतवान् अपराधिः आस्ट्रेलियादेशीशयः ब्रिन्टण् हारिसण् टारन्ट् नामकः न्यूसिलान्ट् नीतिपीठेन आजीवनान्तं स्वतन्त्रतारहिताय कारागारवासाय विहितः। 

  मनुष्यत्वरहिता अत्यधिकं निन्द्या क्रूरा च हत्या एव २९ वयस्केन टारन्टेन कृत इति न्यायाधीशेन कामरूण् मान्डर् इत्यनेन निरीक्षितम्। न्यूसिलान्ट् राष्ट्रे कञ्चनापराधिनं बहिर्गमनावसररहितेन [None parole] दण्डः इदंप्रथममस्ति। 

  अक्रममतिजीवितवन्ताः रक्षां प्राप्तवन्ताश्च हर्षारवेण विधिं स्वागतीचक्रुः। आजीवनान्तनिश्शब्दता एव अपराधिरर्हतीति राष्ट्रस्य प्रधानमन्त्रिण्या जसीन्दा आर्डेन् इत्यनया उक्तम्।

Wednesday, August 26, 2020

 एम् वि श्रेयांस् कुमारः राज्यसभां प्रति चितः। 

       अनन्तपुरी> केरलतः वामपक्षदलीयस्थानाशी  लोक तान्त्रिक जनतादलस्य [एल् जे डि] राज्याध्यक्षः एम् वि श्रेयांस्कुमारः राज्यसभासदस्यरूपेण चितः। यू डि एफ् स्थानाशिनं लाल् वर्गीस् कल्पलवाडि नामकं सः पराजितवान्। ४१ विरुध्य ८८ मतदानैः श्रेयांस् कुमारः विजयीभूतः। 

  राज्यसभासदस्यस्य एम् पि  वीरेन्द्रकुमारस्य वियोगेन रिक्तस्थानमुद्दिश्य आसीत् निर्वाचनं सम्पन्नम्। कोविड् नियमान् परिपाल्य अासीत् निर्वाचनम्।

Tuesday, August 25, 2020

उत्तरकोरियाराष्ट्रपतिः किं जोङः अस्तप्रज्ञः वर्तते? 

     सोल्> उत्तरकोरियायाः राष्ट्रपतिः किं जोङ् उन् इत्येषः अस्तप्रज्ञः वर्तते, तस्य सोदरी किं यो जोङ् अधिकानि देशीयान्तर्देशीयप्रकरणानि स्वीकृत्य व्यवहरतीति वृत्तान्तः बहिरागच्छति। दक्षिणकोरियायाः भूतपूर्वः राष्ट्रपतिः किं दे जङ् इत्यस्य राजनैतिककार्यसचिवरूपेण वर्तितं चाङ् सोङ् मिन् इत्यमुमुद्धृत्य दक्षिणकोरियस्था वृत्तान्तपत्रिका  'दि कोरिया हेराल्ड्' इत्यनया एवेयं वार्ता बहिरागता। 

  सामाजिकवेदिकासु बहुकालं यावत् किं जोङ् उन्नः न प्रत्यक्षीभूतः। सः रोगबाधितः इत्यत एव सोदर्या प्रशासनव्यवहारः क्रियते इति सूच्यते।

Monday, August 24, 2020

 अफ्गानिस्थाने आतङ्किनः आक्रमणम् - सप्तजनाः मारिताः।

  काबूल्> अफ्गानिस्थाने प्रवृत्तेन विस्फोटनेन त्रिभिः शिशुभिः सह सप्तजनाः मृताः।  गसनि प्रविश्यायाः जगतु जनपदे ह्यः प्रातः आसीत् इयं दुर्घटना। मार्गपार्श्वे स्थापिते बोम्ब् विस्फोटके कार् यानस्य घट्टनेन एव स्फोटनमभवत्। किन्तु आक्रमणस्य उत्तरदायित्वम् इतःपर्यन्तं कोऽपि न स्वीकृतम्। तालिबानेन सह सन्धिचर्चा प्रचाल्यमानः कालः आसीत् अयम्। विगतेन षण्मासाभ्यन्तरेण 1282 जनाः आतङ्किनाम् आक्रमणेन निहताः इति यु एन् सङ्घटनेन आवेदितम्।

Sunday, August 23, 2020

 भारते कोविड्बाधिताः ३० लक्षमतीताः। 

  नवदिल्ली>  गतदिने ६९,८७८ कोविड्प्रकरणेषु दृढीकृतेषु राष्ट्रे कोड्रोगबाधितानां संख्या ३०, ३०, १५५ जाता। गतदिने ९४५ जनाः अनेन रोगेण मृत्युमुपगताः। आहत्य मृत्युसंख्या ५६,६९६ अभवत्। 

  महाराष्ट्रे कोविड्बाधितानां प्रतिदिनोच्चतमसंख्या ह्यः अङ्कितम्। १४सहस्राधिकमासीत् ह्यस्तनसंख्या । अनेन अद्यावधि रोगबाधिताः ६,७१,९४२ जाताः। २२सहस्रं जनाः कालगतिं प्राप्ताः च। तमिलुनाटे ३.७३ लक्षं , आन्ध्रप्रदेशे ३.३५लक्षं, कर्णाटके २.७२लक्षं , उत्तरप्रदेशे १.८२लक्षं , पश्चिमवंगे १.३५ लक्षं , तेलुङ्काने बिहारे च एकलक्षाधिकम् इत्यस्मिन् क्रमे  रोगबाधितानां संख्या वर्तते। 

  केरले अद्यावधि ५६,३५४ जनाः रोगबाधिताः अभवन्। प्रकरणानां प्रतिदिनसंख्या सप्ताहैकं यावत् द्विसहस्राधिका वर्तमाना अस्ति। आराष्ट्रं रोगमुक्तानां प्रतिशतता ७४.३ इति आश्वासप्रदं वर्तते।

Saturday, August 22, 2020

 कोरोण वैराणुव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणाधीनं भविष्यति। - WHO

          जनीव> वर्षद्वयाभ्यन्तरे कोरोण वैराणुव्यापनं नियन्त्रणाधीनं भविष्यति इति प्रतीक्ष्यते इति विश्वस्वास्थ्य संस्थायाः अध्यक्षेण  ड्रोस् अथानों गब्रियेसस् वर्येणोक्तम्। 1918-तमे आवेदितं स्पानिष् फ्लू रोगं वेजेतुं वर्षद्वयं  स्वीकृतम् इत्यपि तेन सूचितम्। किन्तु तस्मात् कालात् अधिकतया अधुनिकसुविधायाः प्रगत्या अल्पेन कालेनेव वैराणुव्यापनं  रोद्धुम् वयं सक्षमो भवामः इत्यपि तेनोक्तम्। 

स्पानिष् ज्वरेण 50 दशलक्षं जनाः मृताः आसन्। 22.7 दशलक्षं जनाः कोरोणया बाधिताः - तेषु ८ लक्षं जनः मृताश्च इति तेन स्मारितम्।

 विषबाधितः रूस् विपक्षनेता अतिसङ्कीर्णावस्थायाम्। 

      मोस्को>  गतगुरुवासरे रूस्  राष्ट्रस्य विपक्षनेता अलक्सि नवल्नि नामकः विषबाधितः आतुरालयं प्रवेशितः। तस्य अवस्था अतिसङ्कीर्णा वर्तते इति सूच्यते। श्रेष्ठचिकित्सार्थं जर्मनीं नेतुं भिषग्वरैः अनुज्ञा दत्ता।

  सैबीरियायाः मोस्कोनगरं प्रति यात्रामध्ये सः गरलबाधितः अभवत्। रूस् राष्ट्रपतेःनितान्तविमर्शकः अस्त्ययम् इत्यतः यः कोऽपि चायपानीयेन सह विषमदादिति तस्य अनुयायिवृन्दैः उक्तम्। 

  इदानीं सः सैबीरियास्थे आतुरालये वर्तते। तत्रत्यैः भिषग्वरैः परिशोधनायां रक्तमूत्रादिषु विषांशः न प्रत्यभिज्ञातः । कोविड् रोगव्यापनस्य कारणतः सीमापिधानं वर्तते इत्यतः श्रेष्ठचिकित्सायै राष्ट्रान्तरगमनमशक्यमिति सर्वकारेण सूचितमासीत्। किन्तु  तस्य प्राणरक्षणाय प्रतिषेधे शक्ते जर्मनीं नेतुमनुज्ञा दत्ता आसीत्। जर्मनी फ्रान्स् इत्यादिराष्ट्राणां नेतारः साहाय्यवाग्दानं कृतवन्तः।

Friday, August 21, 2020

 लोकसभासम्मेलनं सेप्टम्बरे द्वितीयवारे। 

      नवदिल्ली>  लोकसभायाः वर्षाकालमेलनं सेप्तम्बरमासस्य द्वितीयसप्ताहे सम्पत्स्यते। कोविड् सुरक्षामालक्ष्य सिद्धतायाः अन्तिमसोपाने व्याप्नुवन्नस्ति सर्वकारः। सम्मेलनस्य परिचिन्तनाय सभाकार्यमन्त्रितलसमितिः अचिरेण मेलिष्यतीति सभाकार्यमन्त्रिणा प्रह्लादजोषिणा उक्तम्। 

   प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमितशाहः इत्येतैः सह प्राथमिकोपवेशनं कृतमिति तेन स्पष्टीकृतम्।

Thursday, August 20, 2020

 राष्ट्रिय-शिक्षानीतिः २०२० इति विषये अन्तर्जाल-सङ्गोष्ठी समारब्धा। 

   कालटी> केन्द्रसर्वकारेण समुद्घोषिता राष्ट्रिय-शिक्षानीतिः २०२० इति विषयमधिकृत्य संस्कृतभारत्याः केरल विभागेन अन्तर्जाल-सङ्गोष्ठी समारब्धा।  आगस्त् मासस्य २० दिनाङ्‌के समारब्धा इयं सङ्‌गोष्ठी २९  दिनाङ्के सम्पूर्णा भविष्यति।  प्रतिदिनं सायं चतुर्वादने सङ्गोष्ठी प्रचाल्यते। https://youtu.be/SYFLWF0KbO0 इति सम्पर्कसूत्रद्वारा संस्कृतभारत्याः यू ट्यूब् वाहिन्यां साक्षात् द्रष्टुं सन्दर्भः भविष्यति।


Wednesday, August 19, 2020

 अन्तरिक्षे आर्द्रता वर्धते चेत् कोविड् वैराणोः आयुः २३ गुणितो भविष्यति।

(चित्रम् - रोयिट्टर्स्)
        वाषिङ्टण्> अन्तरिक्षस्य आर्द्रतायाः कोविड् वैराणुवाहकस्य सूक्ष्मकणस्य मध्ये बन्धः अस्ति इति नूतनम्  अध्ययनफलम्। अन्तरिक्षस्य अर्द्रता वर्धितावस्थायां चेत् वैराणु वाहकानां मध्यमाकारं प्राप्तानां कणानाम् आयुः त्रयोविंशति (२३) गुणितो भविष्यति। अध्ययनमिदं  फिसिक्स् ओफ् फ्लूयिड्स् जेर्णल् मध्ये प्रकाशितम्। वैयक्तिक दूरपालनमेव कोविड् प्रतिरोधाय श्रेष्ठा रीतिः इति इति अध्ययनेन संसूच्यते। अतः दूरपलनेन अन्यस्मात् वैराणुवाहकात् कणात् रक्षा भविष्यति इति अनुसन्धाता बिबिन् वाङ् वर्यः अवदत्।

Tuesday, August 18, 2020

 सङ्गीतज्ञः पण्डितः जस् राजः दिवंगतः। 

न्यूजेर्सी > विश्वविख्यातः हिन्दुस्थानि सङ्गीतसम्राट् पण्डितः जस् राजः [९०] अमेरिकायां दिवंगतः।  हृदयाघातेन सोमवासरे सायाह्ने २.४५ वादने [भारतीयं वादनम्] आसीदन्त्यम्। 

  सूक्ष्मता शुद्धता च तस्य नादोपासनस्य मुखमुद्रा आसीत्। भारतीयशास्त्रियसंगीताय जस् राजेन दत्तं योगदानं पुरस्कृत्य त्रिभिः पद्मपुरस्कारैः सः समादृतः। तदतिरिच्य केन्द्रसङ्गीतनाटक अक्कादमी पुरस्कारः, स्वातितिरुनाल् पुरस्कारः पश्चिमवंगसर्वकारस्य सुरेन् गुरु पुरस्कारः इत्यादयः बहुविधाः बहुमतयः तेन लब्धाः।

Monday, August 17, 2020

 भारते कोविड्मरणानि ५०,००० अतीतानि।

  • रोगमुक्तिप्रतिशतता ७२। 
  • मृत्युप्रतिशतता २ ।

       नवदिल्ली> भारते कोविड्रोगबाधया मृतानां संख्या पञ्चाशत्सहस्रमतीता। गतदिने ९४४ जनाः मृत्युमुपगता इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। आहत्य मरणानि ५०,१२२ । 

  २५,९४,११२ जनाः अद्यावधि राष्ट्रे कोविड्बाधिताः अभवन्। सम्प्रति प्रतिदिनसंक्रमणसंख्या षष्टिसहस्रमतीता। शनिवासरे ६३,४९० जनेषु रोगबाधा  दृढीकृता। विश्वस्मिन् भारतम् एतस्मिन् विषये तृतीयस्थानमावहति। 

  किन्तु रोगमुक्तिप्रतिशतता ७२ इत्याश्वासदायकं वर्तते। १८.६३ लक्षं जनाः विरुजः जाताः। मृत्युमानमपि १.९३ इति न्यूनतरं वर्तते।

Sunday, August 16, 2020

 वुहानतः समागतेषु नोवल् कोरोणवैराणुषु  ७३ भेदाः विद्यन्ते - भारतीय वैज्ञानिकाः।

   

नवदिल्ली> निरन्तर -जनितक-परिवर्तनेन सह कोविड् वैराणुः आविश्वं व्याप्यते इत्यस्ति नूतनम् आवेदनम्। वुहानतः समागतेषु नोवल् कोरोणवैराणुषु  ७३ भेदाः विद्यन्ते इति भारतीयवैज्ञानिकैः प्रत्यभिज्ञातम्। नवदिल्लीस्थायाः सि एस् ऐ आर् संस्थायाः तथा भुवनेश्वरे विद्यमानायाः औषधविज्ञानीय-संस्थायाः गवेषकाः मिलित्वा अध्ययनं कृतवन्तः। १५३६ अदर्श अंशाः अध्ययनाय उपयुक्ताः। B1.112, B.1.99 इति द्वे पङ्क्ती अपि भारते इदं प्रथमतया दृष्टा इति अनुसन्धातृभिः उक्तम्।

Saturday, August 15, 2020

 प्राथमिकपरीक्षणे 'कोवाक्सिन्' सुरक्षितम्।  

      नवदिल्ली> कोविड्रोगं प्रतिरोद्धुं भारतेन निर्मितं कोवाक्सिन् नामकं प्रत्यौषधं तस्य प्राथमिकसोपानपरीक्षणे विजयी अभवत्। दिल्लीस्थस्य  'एयिंस्' - AIMS - आतुरालयस्य निरीक्षणत्वेन आराष्ट्रं व्याप्यासु १२ संस्थासु ३७५ चितेषु जनेषु क्रियमाणं परीक्षणम् आगस्ट् मासे सम्पूर्णतामेष्यति। द्वितीयसोपानं सेप्तम्बरमासस्य प्रथमसप्ताहे आरप्स्यते। 

  प्रत्यौषधस्वीकर्तृषु अद्यावधि यः कोपि विशेषः न दृष्ट, ते सर्वे सुरक्षिताः वर्तन्त इति एयिंस् गवेषकप्रमुखः सञ्जय् रायः उक्तवान्। २०२१ संवत्सरस्य प्रथमार्धे प्रत्यौषधं सार्वत्रिकोपयोगाय विधातुं प्रतीक्षते इति तेनोक्तम्।


आत्मनिर्भरभारतम् इत्ययं १३० कोटि जनानां मन्त्रः अभवत् - नरेन्द्रमोदी।

    नवदिल्ली> 'सेवा परमो धर्मः' इति मन्त्रम् उदीर्य  कोविड् वैराणुं विरुद्धय युद्धं कुर्वन्तः वीराः  जनसेवां कुर्वन्ति इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। तान् प्रति कृतज्ञतां प्रकाशयति इति सः अवदत्।  स्वातन्त्रतादिनसमारोहे रक्तदुर्गे राष्ट्रं प्रति अभिसंबोधनं कुर्वन्नासीत्  प्रधानमन्त्री। इदानीं वयं दुष्टकालेन सह गच्छन्तः भवामः। स्वतन्त्रतायैः युद्धं कृताः वीरपुरुषाः अस्मिन् दिने अस्माभिः स्मर्तव्याः। अपि च अस्माकं सुरक्षायैः तिष्टतः सैनिकान् प्रति  धन्यवादार्पणाय भवति इदं दिनम्। कोविड् महाव्याधिकाले भारतीयाः स्वाश्रयाय दृढनिश्चयं कृतवन्तः अभवन्। आत्मनिर्भरं भारतम् इति भारतम् अधुना चिन्तयति। १३० कोटि जनानां स्वप्नरूपेण मन्त्ररूपेण च परिवर्तितः आत्मनिर्भरं भारतम् इति मोदिना उक्तम्।