OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 4, 2020

कोविड् प्रतिरोधे विश्वादर्शरूपेण केरलम्।
वरिष्ठवयस्कौ दम्पती रोगविमुक्तौ। 
कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ दम्पतीः तोमसः मरियाम्मा च आतुरालयात् बहिरागच्छतः। 

कोट्टयम् >  ९३ वयस्कः तोमसः ८९ वयस्का मरियाम्मा च कोट्टयं वैद्यककलालयस्य  द्वितीयविभागस्य द्वारेण यदा बहिरागतौ तदा 'स्वास्थ्यकेरलस्य' भारतस्य च अभिमाननिमेषः आसीत्। कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ प्रप्रथमवयोधिकौ भारतीयौ अभवदेतौ दम्पती। 
  केरले पत्तनंतिट्टा जनपदात् मार्च् ८तमे दिनाङ्के आसीत् कोरोणाबाधया पूर्वोक्तौ दम्पती कोट्टयं वैद्यककलालयस्य कोरोणा एकान्तवासविभागं प्रवेशितौ। इट्टलीतः स्वदेशं प्राप्तस्य कोविड्बाधितस्य पितरौ स्तः एतौ। सम्पर्केण आसीदेतयोः रोगबाधा।
  प्राथमिकस्तरे तयोः चिकित्सा सङ्कीर्णा आसीत्। ९३वयस्कः तोमसः श्वासरोगेण हृद्रोगेण च पीडितः आसीत्। डो. सजित्कुमारस्य नेतृत्वे रूपीकृतस्य वैद्यकसंघस्य अश्रान्तपरिश्रमः एतयोः दम्पत्योः पुनरुज्जीवनाय मार्गः उद्घाटितः। द्वावपि २५ दिनानि पृथक् पृथक् प्रकोष्ठे एकान्तवासे आस्ताम्। मार्च् ३० दिनाङ्के तृतीया स्रवशोधना अपि अभावात्मिका इति विज्ञाय कतिपयदिनान्यपि निरीक्षणे नियुक्तवन्तौ। ह्यः द्वावपि विसृष्टवन्तौ गृहं प्रेषितवन्तौ च। 
  एतस्मिन्नन्तरे तौ दम्पती परिचरणं कृतवती तीव्रपरिचरणविभागस्था अनुवैद्या रेष्मा मोहन्दासः  कोरोणाबाधिता अपि दशदिनानन्तरं रोगविमुक्ता च। सा अपि स्वगृहं नीतवती।

Friday, April 3, 2020

कोरोणा - आविश्वं मरणानि अर्धलक्षम् अतीतानि। 
इट्टली - १३,०००+, स्पेयिन् - १०,०००+, यू एस् - ५,०००+, फ्रान्स् - ४,०००+, इरान् - ३,०००+ चीनः - ३३००+!
 >  आविश्वं कोरोणा विषाणुबाधया इतःपर्यन्तम् अर्धलक्षाधिकं जनाः मृत्युपगताः। विषाणुबाधिताः दशलक्षमुपगताः। इट्टली, स्पेयिन्, यू एस् इत्येषु राष्ट्रेषु विषाणुबाधा नियन्त्रणातीता वर्तते। प्रतिरोधप्रवर्तनानि प्रतीक्षानुसारं फलप्राप्तिं न एति। 
  यूरोपीयराष्ट्रेषु रोगिणां संख्या पञ्चलक्षमतीता। स्पेयिन् इट्टली राष्ट्रयोः प्रतिदिनं सामान्यतः ८०० जनाः मृत्युमुपयान्तीति आशङ्कां वर्धयति। इतःपर्यन्तम् इट्टल्यां १३,००० अधिकाः, स्पेयिने १०,०००अधिकाः जनाः मृताः। बल्जियंराष्ट्रे मृत्युसंख्या सहस्रं प्राप्ता। 
  गल्फ् राष्ट्रेषु च रोगबाधिताः वर्धन्ते। सौदीराष्ट्रे १८८५ जनाः रोगबाधिताः इति दृढीकृतम्। २१ मरणानि अभवन्। सर्वेषु राष्ट्रेषु शक्तं नियन्त्रणप्रक्रमाः स्वीकृताः सन्ति।

Thursday, April 2, 2020

सम्पूर्ण-पिधान कालानन्तरं सम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री। 
   नवदेहली> 21 दिनानां  सपूर्णपिधानकालानन्तरं जायमानं जनसम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। कोरोण-विषाणुव्यापनस्य पृष्ठभूमौ राज्यानां मुख्यमन्त्रिणः प्रति वीडियोद्वारा भाषमाणः आसीत् सःl सपूर्णपिधानाय कृतसाह्याय सः धन्यवादमर्पितवान् I विषाणुरोधनाय समागतेषु सप्ताहेषु अपि रोगनिर्णयः, एकान्तवासः, सम्पर्कनिरोधः इत्येतेषु प्रक्रमेषु श्रद्धा देया इत्यपि नरेन्द्रमोदिना अभ्यर्थितम्। औषधसामग्रीणां निर्माणं वितरणं  च कार्यक्षमतायुक्तं भवितव्यम् इति प्रधानमन्त्रिणः कार्यालयात् प्रकाशिते सूचनापत्रे स्मारयति।
       गृहमन्त्री अमितशाहः प्रधिरोधमन्त्री राजनाथ सिंहः स्वास्थ्य-मन्त्रालयस्य वरिष्ठोद्योगिनः च भागं स्वीकृतवन्तः।
सीमा अपावरणीया - उच्चन्यायालयः। 
कोच्ची >  केरलस्य सीमाप्रदेशतः कासर्गोडतः समीपस्थं कर्णाटकस्थं मङ्गुलुरु नगरं प्रवेष्टुं कर्णाटकसर्वकीरेण पिहिता राष्ट्रियवीथिः झटित्येव अपावरणीया इति केरलस्य उच्चनीतिपीठेन आदिष्टम्। मनुजप्राणानां संरक्षणम् अतिप्रधानमिति अवगम्य केन्द्रसर्वकारस्य पदक्षेपः अस्मिन् विषये अनिवार्य इति न्यायमूर्ती ए के जयशङ्करन् नम्प्यारः, षाजि पि चाली इत्येतावुपेतेन नीतिपीठेनोक्तम्।
संस्कृतभियनम्
व्यंगचित्रम्-षिबुकुमारः
  नमांसि, संस्कृतज्ञै: अस्माभि: यथाकालं व्यवहर्तव्यं, कालानुवर्तिभि: भवितव्यं च। अत: तदनुगुणं नूतना: अंशा: योजनीया:। इतिहासत: पाठा: पठनीया:। इतरेभ्य: उदाहरणेभ्य: आदर्शा: स्वीकरणीया:। आवश्यकतानुगुणं नावीन्यं सम्पादनीयम्। अस्मान् परित: किं प्रवर्तते इति अवलोकयद्भि: भवितव्यम्। अस्माकं शक्तिदौर्बल्ययो: मूल्याङ्कनं करणीयम्। उपायापायौ चर्चनीयौ। एतत्सर्वं विचिन्त्य अस्माभि: दृष्टिकेन्द्रं परिवर्तनीयम्। जगति तम: आवृतम् अस्ति। दीपा: ज्वालनीया:। किम् अस्मासु एव केचन वर्तिका:, तैलं च भवेम? मित्राणि,कविवाक्यं स्मरामः-
" विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय
प्रतिपदं ननु चिन्तयेयं संस्कृतोन्नतिसाधनाय
क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय।।"
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्।

Wednesday, April 1, 2020

‘मनोगतम्’ [०२.१०] ‘मन की बात’ प्रसारण-तिथि: - २९-मार्च, २०२०                      [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदि-पुरुषोत्तम-शर्मभिः सम्भूय बलदेवानन्द-सागर-द्वारा]                 
        मम प्रियाः देशवासिनः, सामान्यतया ‘मन की बात’-‘मनोगतम्’ इत्यत्र अहं विविधान् विषयान् समादाय आगच्छामि | परन्तु साम्प्रतं, देशस्य जगतश्च मनसि केवलं, केवलम् एकमात्रञ्च वृत्तमस्ति - ‘कोरोना-वैश्विक-महामारी’-तः समापन्नं भयङ्करं सङ्कटम् | एतादृश्यां स्थितौ,  अहम् अन्यत् किमपि वृत्तं कथयेयम् इति नैवोचितम् | बहूनि महत्वपूर्णानि वृत्तानि वदेयम्, परञ्च अद्य मम मनः अस्याः महामार्याः सन्दर्भे कानिचित् वृत्तानि वक्तुं वाञ्छति | परञ्च सर्व-प्रथमं सर्वेषां देशवासिनां समक्षं क्षमां याचे | ममात्मा कथयति यत् भवन्तः अवश्यं मां क्षमिष्यन्ते यतो हि केचन एतादृशाः निर्णयाः विहिताः येषां कारणात् भवन्तः अनेकविधानि कष्टानि
मङ्‌गलग्रहस्य पर्वतश्रृङ्गात् 'क्यूरियोसिट्टि' उपग्रहस्य स्वात्मचित्रम्। 
    नाससंस्थायाः 'क्यूरियोसिट्टि' इति उपग्रहेण  मङ्‌गलग्रहस्य उतुङ्गपर्वतश्रृङ्गात् स्वात्मचित्रम् प्रेषितम्। नास संस्थायाः अध्ययनपेटकः क्यूरियोसिट्टि इत्याख्यः ३६०° 'पनोरमा'यां-रम्यतया गृहीतानि ८६ चित्राणि सन्ति इति नास संस्थया आवेद्यते।
१०१५ संवत्‍सरतः पञ्चकिलोमीट्टर् उन्नतस्य अस्य मौण्टषार्प् पर्वतस्य  श्रृङ्गम् आरोढुं प्रयतितवन्तः आसीत् पेटकः। 
      मङ्गलग्रहस्य पर्यावरणे सूक्ष्म जीविनः जीवने उपयुक्त व्यवस्था असीत् वा इति प्रत्यभिज्ञानाम् एव अध्ययनस्य लक्ष्यम्।
कोविड-नवदश सङ्क्रमणविषये मिथ्या प्रचारकर्तृणो जनान् विरुध्य प्राथमिक्य: पञ्जीकरिष्यन्ते- गृहसचिव:
-पुरुषोत्तमशर्मा
अजयभल्ला
 नवदेहली> गृहसचिवः अजयभल्ला प्रावोचत् यत् सद्यैव पारगमनानुमति-नियमोल्लङ्घनं विधाय भारतयात्रायां समानता: वैदेशिक-नागरिकाणां नामानि प्रतिबन्धितानां सूच्यां संयोज्य तान् विरुध्य कठोर-कार्याचरणं करिष्यते। सममेव  निगदितं यत् कोविड-नवदश सङ्क्रमणविषये मिथ्या प्रचारकर्तृणो जनान् विरुध्य अपि आपत्प्रबन्धनाधिनियमानुगुणं प्राथमिक्य: पञ्जीकरिष्यन्ते।
विषाणुव्यापनप्रतिरोधे निस्साह्यतां प्रकाश्य लोकराष्ट्राणि। 
नियन्त्रणाणि कर्कशायन्ते। 
> कोणोणाविषाणुव्यापनं प्रतिरोद्धुं भूरिशः राष्ट्रेषु अशक्यमानेषु नियन्त्रणानि इतोपि कर्कशं कर्तुं राष्ट्राणि निर्बद्धानि सन्ति। मोस्को लागोस्, नगरद्वयं ह्यः पूर्णतया पिहितम्। अमेरिक्कायां विर्जीनिया , मेरिलान्ट् राज्ययोः  जनाः गृहान्तवासाय कल्पिताः। नियन्त्रणानि सन्त्यपि इट्टली, स्पेयिन्, जर्मनी, ब्रिटेन् इत्यादिषु राष्ट्रेषु रोगव्यापनम् अनियन्त्रितं वर्धते। 
  अमेरिक्कायां मृत्युसंख्या गतदिनपर्यन्तं ३२०० अतीता। सार्धलक्षं  जनाः  विषाणुबाधिताः अभवन्। दशलक्षं जनाः निरीक्षणे वर्तमानाः सन्ति। 
 इट्टलीराष्ट्रे एकादशसहस्रं जनाः विषाणुबाधया मृताः। एप्रिल् १२दिनाङ्कपर्यन्तं पिधानमनुवर्तिष्यते इति प्रधानमन्त्रिणा जुसप्पे कोन्ते इत्यनेनोक्तम्। 
 स्पयिने मृत्युसंख्या इतःपर्यन्तं ८००० अतीता। केवलं  ह्यः ८२९ मरणान्यभवन्। 
   ब्रिट्टने गतदिने ३९३ जनाः मृत्युमुपगताः। लण्टने गात्विक् विमाननिलये सर्वाणि सेवनानि निरुद्धानि।

Tuesday, March 31, 2020

आविश्वं कोविड्भीत्‍याम् - उत्तरकोरियाः अग्निबाणपरीक्षायाम्। 
उत्तरकोरिस्य राष्ट्रपतिः किम् जोङ् उन्
     सोल्> आविश्वं जनाः कोविड्भीत्‍या दूयमानाः सन्ति।  किन्तु उत्तरकोरियाः अग्निबाणपरीक्षायां श्रद्धालवाः सन्ति।  विगते रविवासरे ह्रस्वदूराग्नि बाणानां प्रयोग परीक्षणानुबन्धतया सोमवासरे बृहद्दूरबाणानि अपि कृतानि। रविवासरे एव दक्षिणकोरियेन विप्रतिपतिः प्रकाशिता। आविश्वं जनाः कोविड् प्रतिरोधे तिष्ठन्तः सन्ति। सन्दर्भेऽस्मिन् अत्तर कोरियस्य प्रक्रमः अनुचितः इति दक्षिणकोरियेण  अभिप्रेतम्।

टोकियो ओलिम्पिक्स् महस्य परिष्कृततिथिः निर्णीता। 

टोकियो> कोविड् विषाणुव्यापनानुबन्धतया दीर्घिता  ओलिम्पिक्स् क्रीडामहस्य तिथिः  परिष्कृत्य निर्णीता। ​2021 संवत्सरे जूलैमासस्य 23 दिनाङ्कतः  ​ओगस्ट 8 दिनाङ्क पर्यन्तं भवति स्पर्धा। विविधराष्ट्रैः कोरोणादुरितकाले स्पर्धा मास्तु इति तेषां विप्रतिपत्ति: प्रकाशिता आसीत्। अतः एव भवति दिनाङ्कस्य पुनर्निर्णयम्। 'टोकियो ओलिम्पिक्स् २०२०' इति अभिधया एव भवति  क्रिडा स्पर्धा।

Monday, March 30, 2020

वुहान् पुनरुद्घृतम्। रेल् यानं पुनरारब्धम्।
    वुहान्> कोरोणविषाणोः प्रभवस्थाने वुहान् नगरे जनानां जीवनं सामान्यावस्थां  प्राप्नोति। मासानां बन्धनात् मुक्ता रेल्यान सेवा ह्यः समारब्धा।  यात्राबन्धनं पूर्णतया न विमुक्तम् इति कारणेन निजीय  यानानि चालयतुम् अनुज्ञा नास्ति।  उपसहस्रं जनाः रेल् याने यात्रायै आगताः आसन्। सर्वे मुखावरणं धृतवन्तः आसन्। विषाणुप्रतिरोध-प्रवर्तनानि अनुवर्तते इत्यनेन जनाः हस्तावरणादिकं धृतवन्तः आसन् इति अन्ताराष्ट्रमध्यमैः आवेदितम्। वुहान् नगरे 50,000 जनाः रोगग्रास्ताः आसन्। मृतानां संख्यायायां न्यूनत्वम् आगतं चेदपि ह्यः त्रयः मृताः।

Sunday, March 29, 2020

कोविड् अतिजीवनाय रिसर्वबैंकस्य समाश्वासप्रक्रमाः।‍
* ऋणप्रत्यर्पणाय मासत्रयस्य जडीकरणम्!
* वृद्धिमानं न्यूनीकृतम्!
   मुम्बई >  कोरोणाबाधया जनेषु क्लिष्टेषु सत्सु मध्यवर्गजनानाम् आश्वासरूपेण रिसर्वबैङ्केन नैकाः प्रक्रमाः प्रख्यापिताः। रिसर्वबैङ्कस्य राजज्यपालः शक्तिकान्तदासः धनर्णनयरूपवत्करणसमित्याः निर्णयान् प्रख्यापितवान्। भवन-यानानाम् ऋणप्रत्यर्पणाय मासत्रयस्य जडीकृतकालः [Moratorium] प्रख्यापितः। मासत्रयं यावत् प्रतिमासप्रत्यर्पणं [E M I] नावश्यकम्। रिपोमानं ५.१५ इत्यस्मात् ४.४० प्रतिशतरूपेण न्यूनीकृतम्। अनेन ऋणानां वृद्धिः न्युनीक्रियते। तथा च निक्षेपकाणां वृद्धिरपि न्यूनीभविष्यतीति प्रतिकूलताप्यस्ति।
50,000 कोरोणग्रस्ताः, स्वात्मनिरीक्षणबन्धनं न आवश्यकम् - ट्रम्पः
    वाषिङ्‌टण्> अमेरिक्का राष्ट्रे कोरोणग्रस्तानां सङ्ख्या 50,000 इति अभवत्। तथापि स्वात्मनिरीक्षणबन्धनं न आवश्यकम्, जनेभ्यः यात्रानियन्त्रणम् एव आवश्यकम् इति अमेरिक्कस्य राष्ट्रपतिना डोणाल्ड्  ट्रम्पेण उक्तम्। न्यूयोर्क्, न्यूजेर्सि, कणक्टिकट् प्रदेशाः कोविड् -१९ विषाणोः प्रभावित-केन्द्रः  इति ट्रम्पेण अभिप्रेतम् आसीत्। तम् अभिमतम् उपजीव्य भवति ट्रम्पस्य नूतनाभिमतानां प्रकाशनम्। स्वात्मनिरीक्षणबन्धनं न आवश्यकम् इति ट्रम्पेण टिट्वर् मध्ये लिखितम्।
यु के राष्ट्रे षण्मासपर्यन्तं बन्धनं भविष्यति इति स्वास्थ्यायाेगाध्यक्षा। 
    लन्टण्> कोराणा विषाणु व्यापनं द्वितीयवारं मा भवतु इति विचिन्त्य षण्मासपर्यन्तं सम्पर्क-निरोधनम् आवश्यकम् अतः षण्मासपर्यन्तं बन्धनप्रक्रमः  स्यात्  इति  स्वास्थ्यायाेगाध्यक्षा जेन्नि हारिस् पूर्वसूचना दत्तवती। इदानीन्तन निशितप्रक्रमाः सेप्तम्बर् मासपर्यन्तम् अनुवर्तिष्यते।  बन्धनप्रक्रमः जनान् तेषां जीवनशैल्यां परिष्कारम् आनेतुं निर्बद्धवान्। घटना अनियन्त्रिता चेत्‌ दीर्घकालीनः प्रक्रमः अनिवार्यः भविष्यति इत्यपि सा सुव्यक्ततया उक्तवती

Saturday, March 28, 2020

लोके बहवः प्रमुखाः कोविड्ग्रस्ताः। 
कोच्ची >  लोकराष्ट्रेषु बहवः राष्ट्रनेतारः प्रमुखाश्च कोविड् - १९ रोगग्रस्ताः अभवन्। केचन मृताश्च। 
  ब्रिट्टने प्रधानमन्त्री बोरिस् जोण्सणः , राजवंशस्य अनन्तरगामी चाल्स् राजकुमारः, स्वास्थ्यमन्त्री माट् हान्कोक् , प्रमुखः अभिनेता इद्रिस् एल्बः इत्येते कोरोणाबाधिताः चिकित्सायां वर्तन्ते। 
  यरोप्यन् राष्ट्रसमूहे ब्रक्सिट् इत्यस्य मध्यस्थः मैक्कल् बार्णियर्, होलिवुड् अभिनेतारौ टोम् हाङ्क्स् तथा तस्य पत्नी रिता विल्सण् , चिलीयः साहित्यकारः लूयिस् सेपुल् वेडा , फिन्लान्ट् राष्ट्रस्य भूतपूर्वः राष्ट्रपतिः तथा नोबेल पुरस्कारजेता मार्टि अट्टिसारी, अर्जन्टीनियः पादकन्दुकक्रीडकः पौलो डिबाला नामकः, फ्रञ्च् कन्दुकक्रीडकः ब्लेय्स् मत्यूडी इत्यादयः प्रमुखाः अपि कोरोणाबाधया चिकित्सायां वर्तन्ते। 
 बहवः प्रमुखाः कोविड्बाधया मृताः। १. मानु दिबाङ्को [साक्साफोण् वादकः, अाफ्रिक्का], २. टेरन्स् मक्नल्ली [नाटककारः, यू एस्], ३. और्लस् माबले [कोङ्गो गायकः], ४. फ्लोयिड् कार्डोस् [पाचकविदग्धः, भारतं], ५. लोरन्सो सान्स् [भूतपूर्वाध्यक्षः, रयल् माड्रिड्]।

Friday, March 27, 2020

कोविड्-19 इति विषाणुग्रस्थं ब्रिट्टणस्य प्रधानमन्त्रिणं सन्द्रर्शितेषु एलिसबत् राज्ञी अपि। 
एलिसबत्त् राज्ञी
    लन्टण् > कोविड्-19 इति विषाणुग्रस्थं ब्रिट्टणस्य प्रधानमन्त्रिणं सन्द्रर्शितानां पट्टिकायां एलिसबत् राज्ञी अपि अस्ति। मार्च् मासस्य 11 दिनाङ्के आसीत् मिथो मेलनम्। इदानीम् स्वास्थ विषयये स्वस्था भवति एषा इति बेक्किङ् हाम् राजप्रासादात् आवेदितम्I 93 वयस्का राज्ञी  98 वयस्केन भर्तृणा फिलिप्‌ राजकुमारेण सह स्ववसत्यां वसति। पुत्रः चार्लस् राजकुमारः पूर्वमेव रोगग्रस्थः  अस्ति। चार्लसस्य स्वास्थ्यः इदानीं पुष्टिं प्राप्स्यति च।
अतिजीवनाय केन्द्रसर्वकारस्य १.७ लक्षंकोटिरूप्यकाणां साह्यभाण्डम्। 
* निःस्वानां कृते मासत्रये १५ किलोपरिमितं निश्शुल्कं तण्डुलम्।
* मासत्रयं यावत् निश्शुल्केन पाकेन्धनम्।
नवदिल्ली >  कोरोणाविषाणुव्यापनेन राष्ट्रे सञ्जातं अार्थिकाघातं परिहर्तुं केन्द्रसर्वकारेण १.७लक्षं कोटिरूप्यकाणां साहाय्यभाण्डं प्रख्यापितम्। कोरोणाबाधया राष्ट्रे यःको$पि अनशनेन न पीडयेत् इति उद्दिश्य भारतस्य वित्तमन्त्रिणी निर्मलासीतारामः भाण्डमिदं प्रख्यापितवती। 
  'प्रधानमन्त्री कल्याण अन्न योजना' प्रकारेण राष्ट्रस्य ८० कोटिनिर्धनानां कृते आगामिनि मासत्रयं यावत् पञ्चकिलोपरिमितं तण्डुलः गोधूमः वा एककिलोपरिमितः धान्यवर्गश्च निश्शुल्केन दास्यति। कृषकेभ्यः 'प्रधानमन्त्री किसान् आयोजनया' प्रतिवर्षं दीयमानस्य ६००० रूप्यकाणां साह्यधनस्य प्रथमों$शरूपेण २००० रूप्यकाणि एप्रिमासस्य प्रथमवारे दीयन्ते। ८.६९कोटि कृषकेभ्यः अस्य प्रयोजनं लभते। 
  निस्वाः वरिष्ठाश्च नागरिकाः, विधवाः, भिन्नशेषिजनाः इत्येतेभ्यः सहस्ररूप्यकाणि समाश्वासरूपेण मासत्रयाभ्यन्तरे दीयन्ते। स्वास्थ्यप्रवर्तकेभ्यः ५० लक्षरूप्यकाणां जीवननिगमरक्षणं विधास्यति।