OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 26, 2020

केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् अधिवेशनम् आलुवा देशे
      आलुव>  केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् अधिवेशनम्  फेब्रुवरी २७,२८,२९ दिनाङ्केषु प्रचलिष्यति। आलुवा तोट्टुमुखं वै.एम्.सी.ए. सभागृहे आयोज्यमानं विद्याभ्याससम्मेलनम् २९ दिनाङ्के प्रातः ११ वादने केरलस्य शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथः उद्घाटयिष्यति। तदानीं विधानसभासामाजिकः अन्वर् सादत् आध्यक्ष्यं निर्वक्ष्यति।
     २७ दिनाङ्के राज्यस्तरीय कौण्सिल् मेलनं भविष्यति। २८ दिनाङ्के राज्यस्तरीयम् अधिवेशनं जिला पञ्चायत् अध्यक्षः अब्दुल् मुत्तलिख् उद्घाटयिष्यति। प्रतिनिधिसम्मेलनं संघटनस्य भूतपूर्वाध्यक्षः एन्. राजगोपाल् वर्यः तथा आपृच्छमेलनं लोकसभासदस्यः बन्नी बहनान् च उद्घाटयिष्यति।
   
    राज्यस्तरीयमेलनमनुबन्ध्य आयोजिते सम्भाषण चित्ररचनास्पर्धासु  विजयिनां तथा सम्प्रतिवार्तायाः छात्र वार्तावतारकाणां  च  प्रमाणपत्राणि शिक्षामन्त्री वितरिष्यति। श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः मुख्यप्रभाषणं विधास्यति। राष्ट्रपतिपुरस्कारजेतारं जी. गङ्गाधरन् नायर् वर्यं मन्त्री आदरिष्यति।

Tuesday, February 25, 2020

संस्कृतभारती- उत्तराञ्चलन्यासस्य पूर्व अध्यक्षः, डॉ बुद्धदेवमहोदय: दिवङ्गतः।
      संस्कृतभारती- उत्तराञ्चलन्यासस्य पूर्व अध्यक्षः, पूर्व प्रान्ताध्यक्षः, पूर्वक्षेत्रसंयोजकः च डॉ बुद्धदेवमहोदय: सायं 2:35 वादने देवलोकं गतः। पार्थिवशरीरम् अद्य रात्रि 11:00 वादने संस्कृतभारती प्रान्तीयकार्यालये श्रीनारायणसेवाश्रम- दयानन्दनगरी- आर्यनगरे हरिद्वारे प्राप्स्यति। पार्थिवशरीरं दर्शनार्थं संस्कृतभारती- प्रान्तीयकार्यालये 26-02-2020 दिनांके प्रातः 9:00 वादनं यावत् भविष्यति। 10:00 वादने हरिद्वारस्थे कनखले शमशानघट्टे अन्तिमसंस्कारः भविष्यति।
डॉ.बुद्धदेवशर्म-महोदयः भारतीयसंस्कृतपत्रकारसंघस्य उपाध्यक्षत्वेन स्वीयं बहुमूल्यं योगदानं विहितवान् ।
आतङ्कवादः पाकिस्थानेन स्थगनीयः - ट्रम्पः 
  अहम्मदाबाद्> प्रतिराष्ट्रं तेषां सीमारक्षणाय अधिकारः अस्ति। आतङ्किनं  विरुध्य भारतेन सहयोगं कृत्वा प्रतियोद्धुं सन्नद्धाः भवाम: इति अमेरिक्कस्य राष्ट्रपतिना ट्रम्पेण उक्तम्।   प्रतिरोधप्रवर्तनाय भारत अमेरिकयोः मिथः २१००० कोटि रूप्यकाणां  सन्धि‌पत्रे हस्ताक्षरं क्रियते इत्यपि तेन उक्तम्।
पौरत्वविषये प्रतिषेधः, सङ्घर्षे चत्वारः आहताः।

  नवदिल्ली> पौरत्वनियम-परिष्कार-संबन्धतया देहल्यां सम्पन्ने सङ्घर्षे चत्वारः जनाः आहताः। एतेषु एकः आरक्षकः अन्ये सामान्यजनाः च भवन्तिI गुरुतररीत्या व्रणितः कश्चित् आरक्षकः अतुरालयं प्रविष्टः अस्ति। गोकुलपुर्याम् आसीत् घटना। मृतानां सामान्यजनानां विवरणानि नोपलब्धानि। नीति-नियमस्य विभागः १४४ इत्यस्य आधारेण पूर्वेत्तरदिल्यां प्रतिबन्धः प्रख्यापितः।
  क्रान्तिकारिभिः पाषाणखण्डादयः उपयुज्य क्षेपणं, वाहनानि अग्निसात् कृतानि चI भजनपुर, मौजपुर, जाफरबाद् इत्येतेषु प्रदेशेषु भवति सङ्घर्षः। अमेरिक्कस्य राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य सन्दर्शनात्  पूवं भवति सङ्घर्षः इति श्रद्धेयः भवति।

Sunday, February 23, 2020

भारतस्य उत्तरप्रदेशतः सुवर्णशिला उपलब्धा।
   लख्नौ> उत्तरप्रदेशराज्यस्थातः सोनभद्रातः सुवर्णस्य शिलानिक्षेपः उपलब्धः। ३००० टण् मितं सुवर्णनिक्षेपः अस्ति इति  अनुमन्यते। भारतस्य भूसर्वेक्षण विभागेन कृते गवेक्षणे इदम् अवगतम् इति राज्यस्थरीयोत्खननस्य कार्यकर्ता  के के राय् अवदत्। १८ मीट्टर् उन्नतिः १५ मीट्टर् पादमानः १ कि. मी दीर्घः च भवति इयं सुवर्णशिला।

Friday, February 21, 2020

न्यूसिलन्ट्  तीरेषु वातावरणव्यत्ययेन जीवनाशः। ५००० शङ्खवर्ग जीविनः हताः।
  वेल्लिङ्टण्> न्यूसिलन्ट्  समुद्रतीरेषु वातावरणव्यत्ययेन ५००० शङ्खवर्ग जीविनः हताः। अत्युष्ण जलेन  दग्धाः भवन्ति शङ्खाः। वातावरण व्यत्ययेन समुद्रजलस्य उष्णता वर्धिता इत्यस्ति आवेदनम्। ओक्ळन्ड् देशीयः बाडन् फेर्गूसण् इत्याख्यः मृतान् शङ्खान्  दृष्टवान्। समीपकालेषु समानरीत्या शङ्खवर्गजीविनां नाशः भविष्यति इति पर्यावरणवैज्ञानिकेन क्रिस् बाट्टर्षिल् महोदयेन उक्तम् इति ए एफ् पि संस्थया आवेदितम्।

Thursday, February 20, 2020

आधारपत्रं निर्वाचान-प्रत्यभिज्ञापत्रं च मिथः भन्स्यतः। 
    नवदिल्ली> आधारपत्र निर्वाचान-प्रत्यभिज्ञापत्रयोः  मिथः बन्धनेन निर्वाचने  सुतार्यताम् आनेतुं शक्यते इति चिन्तयति भारतसर्वकारः। तदर्थं जनप्रातिनित्यनियमे परिष्कारम् आनेतुं सर्वकारेण निश्चितम्। परिषकारस्य लघुरूपं केन्द्र-मन्त्रिसभया  परिगण्यते। निर्वाचनायोगस्य प्रर्थानाम् अनुसृत्य भवति नूतनप्रक्रमः।

Tuesday, February 18, 2020

संस्कृताभियानम्
     नमांसि, 'अध्यापयति' इत्यत्र णिच् प्रत्ययः। छात्रः अधीते। अध्यापकः अधीयानं छात्रं प्रेरयति। एवमेव पाठयतिप्रभृतिषु अपि। छात्रः पठति। (अधीते इत्यर्थः) पठन्तं प्रेरयति अध्यापकः। छात्रः शिक्षते। शिक्षमाणं तं प्रेरयति शिक्षकः (शिक्ष+णिच्+ण्वुल्)। छात्रः बोधति। बोधन्तं तं प्रेरयति बोधकः। एवं सर्वत्र 'कर्ता' तु छात्रः एव। अध्यापकः भवति प्रेरकः।अतः एव उक्तम्-अध्यापदनादयः शब्दाः एव ज्ञापयन्ति-अध्ययनप्रक्रिया छात्रकेन्द्रिता स्यात् इति। मित्राणि, छात्रकेन्द्रितत्वे एव अभिव्यक्तिकौशलस्य विकासः।
 जयतु संस्कृतम् जयतु भारतम् ।
 प्रा. डॉ. विजयकुमार: मेनन्, कवि कुलगुरु कालिदास विश्वविधालयः महाराष्ट्रम्।
विद्युत्‍कोशनिर्माणाय उपकारकं लिथियम् इति लोहमूलकं भारतात् उपलब्धम्।
    नवदिल्ली> विद्युत्वाहनेषु उपयुज्यमानं विद्युक्तोशनिर्माणाय उपकारकं लिथियं इति लोहमूलकम् अधिकतया उपलब्धम्। बङ्गलूरुस्थे माण्ड्या प्रदेशः एव लोहमूलकस्य निक्षेपस्थानम् इत्यस्ति आवेदनम्। भारतस्य कणिकोर्ज आयोगस्य आट्टोमिक्‌ मिनरल् डयरक्टरेट्ट् इत्यस्य विज्ञानिकाः आवेदनमिदं बहिः प्रकाशितवन्तः। विश्वे अतिदुर्लभं भवति अयं लोहःI १४१०० टण् मितः भवति लिथियस्य निक्षेपः 

Monday, February 17, 2020

शाकादीनां संवहनपेटिकातः विषवातकः, ४ मृताः १५ आतुरालये।

आशयद्योतकं चित्रम्।
  इस्लामबाद् > पाकिस्थाने शाकादीनां संवहनपेटिकायाः निर्गतेन विषवातकेन चत्वारः जनाः मृताः  पञ्चदशनाः आतुरालयं प्रविष्टाः च। कराच्चीनगर-समीपे केमारि मण्डले रविवासरे सायं काले एव घटना। महानौकातः अवतारिताः संवहनपेटिकायाः उद्‌घाटनवेलायाम् आसीन् दुर्घटना। समीपस्थाः विषवायुना मूर्छिताःI

Sunday, February 16, 2020

इराखस्थं यू एस् दूतावासं प्रति आकाशबाणाक्रमण: 
    बाग्दाद्> इराखस्य  राजधान्यां बाग्दादस्थं यू एस् दूतावासं प्रति आकाशबाणाक्रमण: अभवत्। इरानेन सह विद्यमाने सख्ये स्निग्धतानाशः अभवत् इति कारणेन यू एस् दूतावासस्योपरि भीषा आसीत्। कति बाणाः पतिताः इत्यस्य गणना न आगता। जीवापायः न आवेदिताः। 

Saturday, February 15, 2020

सूर्यस्य सहस्रगुणिताकारयुक्तं तिरुवतिरनक्षत्रं 'सूपर नोव' विस्फोटनाय सज्जम्।
    ओरैयण् नक्षत्रसमूहेषु अधिकप्रकाशयुक्तस्य  बीट्टल् जीस् (तिरुवातिरा) नक्षत्रस्य  प्रकाशतीव्रतायां न्यूनता अस्ति इति वैज्ञानिकाः वदन्ति। प्रकाशतीव्रतायां  १२  स्थाने आसीत् इदम्। गतमासे अस्य स्थानं २० तमम् इति परिष्कृतम्। भूमीतः ६४२.५ प्रकाशवर्षात् दूरं भवति अस्य स्थानम्। अस्य स्फोटनम् भूमीतः दृष्टुं शक्यते। विल्लनोव विश्वविद्यालयस्य ज्योतिवैज्ञानिकः एड्वेर्ड् गिनन् इत्याख्येन सञ्चितानि विवरणानि अधिकृत्य  अनुमानानि निष्पादितानि भवन्ति। फेब्रुवरि २१ दिनाङ्के प्रकाशस्य न्यूनतममात्रायां समागमिष्यति इति अनुमीयते वैज्ञानिकैः।

Thursday, February 13, 2020

प्रथम प्रपञ्चस्य भीमाकारा वियद्गङ्गा प्रत्यभिज्ञाता।

     अद्य दृश्यमानस्य प्रपञ्चस्य १८० कोटि संवत्सराणि एव आयु:। किन्तु १२०० कोटि संवत्सराणाम्   पुरातनं  भीमाकारं वियद्गङ्गां दृष्टवन्तः ज्योतिवैज्ञानिकाः। इदानीं निर्जीवावस्थायां दृष्टा वियद्गङ्गा  कालिफोर्णियस्य विश्वविद्यालयस्य वैज्ञानिकानां नेतृत्वे एव प्रत्यभिज्ञाता।

Wednesday, February 12, 2020

कोरोणविषाणुना चीन राष्ट्रे १०००+ जनाः हताः
    बैजिङ्> चीनराष्ट्रे कोरोणविषाणुना ह्यः १०३ जनाः हताः I आहत्य मृतानां सङ्ख्या १०११ इत्यभवत्। मङ्गलवासरे प्रभाते आगतम् आवेदनमिदम्। रोगेण पीडितानां संख्या ४२,२०० इति वर्धितम्। रविवासरे राष्ट्रपतिना जिन् पिङ्‌ षि इत्यनेन आतुरालयं संदृष्टाः। विश्वस्वास्थ्य सङ्घटनस्य विशेषादेशाम् अनुसृत्य  ब्रूस् अल् वार्डस्य नेतृत्वे  अन्ताराष्ट्र स्वास्थ्यप्रवर्तकानां सङ्घः चीनराष्ट्रं प्राप्तम्। आफ्रिक्कमध्ये एबोल विषाणुव्यापनकाले तत्रत्यानां स्वास्थ्यप्रवर्तनानां नेतृत्वं अनेन ब्रूस् अल् वार्ड् महोदयेन निर्व्यूढम्l

Tuesday, February 11, 2020

प्रचण्डवातेन विमानं डयडयितम् द्विहोराभ्यां पूर्वं लक्ष्यं प्राप्तम्।  
      लण्टन् > सप्त वर्षाभयन्तरे जायमानेषु प्रचण्डवातेषु अतिशक्तः भवति ह्यः यु के यूरोप् प्रदेशे जातः सियार इति नामाङ्कितः वातः। किन्तु प्रचण्ड वातस्य सञ्चारगतिम् उपयुज्य ब्रिट्टणस्य विमानेन यात्रासमयः न्यूनीकृतः।  न्यूयोर्कतः हीत्रु विमान निलयं प्रति समायातस्य विमानस्य सञ्चारपथस्य अनुकूलदिशायाम् आसीत् प्रचण्डवातस्य गतिः। अतः १२९० वेगेन डयनाय अशक्यत् इत्यनेन ४.५६ घण्डाभ्यन्तरेण विमानं हीत्रु विमाननिलयं प्राप्तम्।

Sunday, February 9, 2020

भारतीय-तत्वचिन्तामण्डलस्य आधुनिकप्रवाचकः पि परमेश्वरः विष्णुपदं प्राप्तवान्।
   पालक्काट्> भारतीय-तत्वचिन्ता-मण्डलस्य प्रवाचकः भारतीयविचार केन्द्रस्य वरिष्ठनिर्देशकः पूजनीयः परमेश्वर जी महोदयः दिवङ्गतः अभवत्I ९३ वयस्कः एषः आयुर्वेद औषधालये चिकित्सायाम् आसीत्। पद्मश्री, पद्मविभूषणम् अमृतकीर्तिः इत्यादि उपाधिभिः सम्मानितः आसीत्I अद्य सायं चतुर्वादने मुहम्मदेशे भवति महोदयस्य अन्त्येष्ठिः। 
संस्कृतभारत्याः अखिलभारतीय समीक्षायोजनागोष्ठी समारब्धा
    कालटी> संस्कृतभारत्याः अखिलभारतीयोपवेशनं आदिशङ्करस्य जन्मभूम्यां कालट्यां समारब्धम्। संस्कृतपण्डितः तथा कालटी श्रृंगेरिमठस्य प्रबन्धकः प्रो. सुब्रह्मण्य अय्यर् महोदयः मेलनस्य उद्‌घाटनम् अकरोत्। संस्कृतभाषा शास्त्रसम्पदः व्यावहारिकनैर्मल्यस्य च संवर्धनं करोतिI अस्याः भाषायाः प्रचारः ग्रामान्तरेषु अपि व्यापनीयः इति सुब्रह्मण्यय्यर् महोदयेन उक्तम्। संस्कृतभारत्याः अखिल-भारतीयानां कार्यकर्तृणाम् मेलनस्य उद्‌घाटनं कुर्वन् भाषमाणः आसीत् सः। संस्कृतभारत्याः अखिल-भारतीयाध्यक्षः  सोमनाथसंस्कृत विश्वविद्यालयस्य कुलपतिः डा. गोपबन्धु मिश्रः अध्यक्षः आसीत्। संस्कृतभारत्याः केरल-राज्यस्तरीय- अध्यक्षः डा. पि के माधवः आमुखभाषाणं कृतवान्। डा. ई एन् ईश्वरः स्वागतं, डा. ओ. एस्. सुधीषः कृतज्ञता च उक्त वन्तौ। १५० प्रतिनिधयः मेलने भागं स्वीकुर्वन्ति।

Saturday, February 8, 2020

पाकिस्थानीय छात्रान् वुहानतः रक्षिष्यामः इति मोदी इम्रान् खानं प्रति उक्तवान्l इम्रानः मौनी अभवत्।
मालद्वीपस्य नागरिकाः वुहानतः दिल्ली विमाननिलये
     नव दिल्ली> कोरोणा विषाणोः प्रभवकेन्द्रात् पाकिस्थानस्य नागरिकान् आनेतुं सज्जाः इति भारतेन पाकिस्थानः उद्‌बोधितः इति नूतनम् आवेदनमस्ति। वुहानतः भारतस्य  छात्रान् संरक्ष्य आनयनसमये आसीत् भारतस्य वाग्दानम् I किन्तु पाकिस्थानस्य पक्षतः कोऽपि प्रतिस्पन्दः  नासीत् इति  ऐ ए एन् एस् वार्ताहरसंस्थया आवेद्यते।  भारतीयेन साकं समीपस्थानां प्रातिवेशिक-राष्ट्राणां नागरिकान् अपि आनेतुं सज्जाः इति भारतेन उक्तम्I मालिद्वीप्, बंग्लादेश् राष्ट्रत्योः नागरिकाः एवं भारतेन आनीताः आसन्। चीनराष्ट्रे  रोधिताः पाकिस्थानस्य नागरिकाः चीनस्य जाड्ये प्रतिषेधं प्रकाशितवन्तः आसन्।