OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, March 1, 2019
आतङ्कदलविरुद्घयुद्धे भारतेन सह स्थास्यति- रष्याराष्ट्रम्।
नवदिल्ली> आतङ्किनं विरुद्ध्य भारतस्य प्रक्रमे भारतेन सह वर्तते इति रष्यास्य राष्ट्रपतिना व्लाडिमिर् पुतिनेन उक्तम्। पुतिनः प्रधानमन्त्रिणं नरेन्द्रमोदिनं दूरवाणिद्वारा आहूय आसीत् तस्य राष्ट्रस्य सहवर्तित्वविज्ञप्तिः। पुल्वामभीकराक्रमणे मृतानां वीराणां कुटुंबकान् प्रति ऐक्यदार्ढ्यं च प्रकाशितवान् पुतिनः।
जर्मनी, ओस्ट्रेलिय, फ्रान्स्, अमेरिक्क, जाप्पान्, चीन, सौदि अरेब्य, इस्रयेल्, अफ्गान्, इरान् प्रभृतयाः तेषां सौहृदानुकूल्यं पूर्वमेव प्रकाशितवन्तः आसन्।
अभिनन्दनः नाम सैनिकः मुच्यते जनीव व्यवस्थानुसारम्।
नवदिल्ली> पक्षनिर्देशकः अभिनन्दनवर्धमानः इत्याख्यः मुच्यते। जनीवा-सन्धि-व्यवस्था-निर्देशानुसारं भवति अभिनन्दन-वर्धमानस्य मोचनम् इति वैस् एयर् मार्षल् आर् जी के कपूर् इत्याख्यः वार्ता संस्थान् प्रति अवदत्। अद्य शुक्रवासरे तस्य प्रत्यागमनं प्रतीक्ष्ये इत्यपि सह अवदत्I अभिनन्दनवर्धमानं मुच्यते इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन तस्य राष्ट्रस्य शासनसभायाः संयुक्तमेलने प्रख्यापितम् आसीत्। विषयेस्मिन् भारतस्य सुशक्ता पूर्वसूचनानन्तरमासीत् पाकिस्थानस्य इदं प्रख्यापनम्।
Thursday, February 28, 2019
'सम्प्रतिवार्ताः' इति विद्यालयीयछात्राणां संस्कृत-वार्ता-प्रस्तुतिः शततमं सोपानम् आरूढा
विश्वे प्रप्रथममेव भवति विद्यालयीय छात्राणां अन्तर्जालीयं वार्ताप्रसारणम्। तदपि प्राचीनायां संस्कृतभाषायां नूतनेन विद्युत्माध्यमेन इति आश्चर्यजनकं च।
केरलस्य सर्वशिक्षा अभियानेन सप्तदशोत्तर द्विसहस्र (२०१७ ) तमे संवत्सरे सर्वश्रेष्ठ शैक्षिकप्रवर्तनत्वेन चितः आसीत् अयं कार्यक्रमः। राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च छात्राणां वार्ता प्रस्तुतेरुपरि अभिनन्दनानि समर्पयन्ति। सम्प्रतिवार्तायाः छात्रवार्ता प्रवाचकाः बहुवारं भारतस्य वरिष्ठवार्ताप्रवाचकस्य बलदेवानन्दसागरस्य अभिनन्दनवचसा पुरस्कृताः। कार्यक्रमस्य उपज्ञाता अय्यम्पुष़ हरिकुमारः अपि स्वस्य कर्मकुशलतायै अभिनन्दनेन सम्मानितः अस्ति।
आधुनिके अन्तर्जालयुगे संस्कृतभाषया कृतः नूतनपदक्षेपः भवति अयं कार्यक्रमः। अन्यासु भाषासु यत् इतःपर्यन्तं न शक्यं तत् इदं प्रथमतया संस्कृतभाषया कृतम् इति संस्कृत-प्रेमिणाम् अभिमानास्पदं भवति।
केन्द्र-राज्य-सर्वकारयोः किमपि आर्थिक साहाय्यम् एतावत् पर्यन्तं न लब्धम्। अतः स्वकुटुंबस्य यापनाय समार्जितधनम् उपयुज्य इमं वार्ताप्रस्तुतिं शततमं सोपानपर्यन्तं सः नीतवान्। कैश्चित् संस्कृतानुरागिभिः लघुसाहायं कृतं चेदपि 'वीडियो' कार्यक्रमः इत्यस्मात् प्रभूतं धनम् आवश्यकमस्ति। आभारतं छात्राः सम्प्रतिवार्तायां वार्ताप्रस्तुतीकरणाय वाञ्छन्तः सन्ति। अतः कार्यक्रमः स्थगयितुं न शक्यते। केन्द्रसर्वकारस्य आर्थिकसाहाय योजनायाः (अष्टादशी) कृते प्रार्थितः अस्ति। लघु बालकायै अभिप्रेरणा दायकः भवति कार्यक्रमः तथापि साहायं न लब्धम्।
बहु प्रयासेन भवति वार्ताप्रस्तुतेः चलनखण्डस्य उल्लेखनम्। राज्ये छात्रः यत्र निवसति तत्र स्वयमेव सम्प्राप्य गृहे वीडियो गृहसौविध्यं विरच्य चलखण्डमुद्रणं करोति अय्यम्पुष़ हरिकुमारमहाभागाः । तदनन्तरं चित्रसंयोजनादि संगणकीय क्रियापि स्वयमेव कृत्वा भवति अन्तर्जालद्वारा प्रसारणम् ।
जनं TV माध्यमेन सम्प्रतिवार्तायाः अष्ट छात्राः तत्समय वार्ता प्रसारणं कृतवन्तः इति साभिमानम् अपश्यन् संस्कृतप्रेमिणः ।
प्रतिबुधवासरं भवति प्रसारणम्। राज्यान्तरादपि वार्ता-प्रवाचकत्वेन भवितुमुद्दिश्य बहवः दूरवाणी तथा ईमेल् द्वारापि निवेदनानि प्रेषयन्ति इति हरिकुमारेण उक्तम्। किन्तु तादृश सुविधा-करणाय स्वस्य सकाशे धनं नास्ति इत्यस्ति तस्य खेदः। सर्वकारस्य साहायमस्ति चेत् समीचीनतया कार्यक्रमः चालयितुं शक्यते इत्यस्ति तस्य शुभेच्छा। www.samprativartah.in इत्यस्ति ऑण् लैन् पत्रिकायाः सङ्केतः।
इस्लामिकराष्ट्राणाम् उपवेशने विशिष्टातिथिः सुषमा महाभागा।
पाकिस्थानेन प्रतिषेधः प्रकाशितः।
नवदिल्ली> अबुदाबि राष्ट्रे आयोजिते ओ ऐ सि (Organisation Of Islamic Co - Operation) उपवेशने भारतस्य विदेशकार्यमन्त्रिणी सुषमा स्वराजमहाभागा विशिष्टातिथिरूपेण आमन्त्रिता इति कारणेन पाकिस्थानः तस्य विप्रतिपत्तिः प्रकाशितः। सुषमा महाभागां निमन्त्रणाय कृतः प्रक्रमः प्रतिहर्तुं यू ए इ विदेशकार्यमन्त्रिणं अभ्यर्थितवान् इति पाकिस्थानस्य विदेशकार्यमन्त्री षा मेहमूद् खुरेषी इस्लामाबादे कृते वार्तामेलने अवदत्। मार्च्मासस्य १,२ दिनाङ्कयोः एव प्रचलिष्यति मेलनम्। ५७ अङ्गाः सन्ति ओ ऐ सि इति दले।
Tuesday, February 26, 2019
जैशप्रमुखेण मसूद अजहरेण पञ्चविंशति: वर्षपूर्वम् एकस्यां चपेटिकायामेव समस्तं विवरणं प्रकटितमासीत्
-पुरुषोत्तमशर्मा
•मसूद अजहर: 1994तमे वर्षे कश्मीरस्य अनंतनागक्षेत्रात् निगडित: आसीत्•1999तमे वर्षे कंधारविमानापहरणानन्तरम् अजहर: तत्कालीनभाजपाप्रशासनेन विमोचित: आसीत्
•पूर्वरक्ष्यधिकारिणा प्रोक्तं यत् विवरणज्ञातुम् अजहरे काठौर्यावश्यकता न भवति स्म
नव देहली> देशे सर्वाधिक-प्रबलातङ्क्याक्रमणकर्तु: जैश-ए-मोहम्मदातङ्कि-गुल्मप्रमुखेण मसूद-अजहरेण सह परिपृच्छावधौ काठोर्येण परिपृच्छावश्यकता कदापि नाभवदिति सहस्योद्घाटनम् सिक्किमस्य प्राक्तनारक्षि-महानिदेशकेन अविनाशमोहनाने इत्यमुना कृतम्। तेन 1994 तमे वर्षे अजहर: परिपृष्ट: आसीत्। अमुनोक्तं यत् अधिकारिण: एकस्यां चपेटिकायामेव अजहरेण सर्वा: गोप्यसूचना: अस्मभ्यं प्रदत्तासीत्।
तेन प्रोक्तं यत् "अहं बहुवारम् (अजहरम्) कोटबलवालस्थि कारागारे मिलितवान्। स: परिपृष्ट:। परिपृच्छावधौ तस्मै काठोर्यप्रवर्तनावश्यकता नैवानुभूता। स्वल्पापीडानन्तरं तत: सूचना: प्राप्यन्ते स्म।"
मोहनाने वर्येणोक्तं निगडनावधौ अजहरेण पाकिस्ताने प्रवर्तमानातंकिगतिविधिविषये आवेदनप्रक्रियाविषये च उक्तमासीत्।
"तेन अफगानातंकिनां कश्मीरोपत्यकायां प्रवेश: अथ च हरकत-उल-मुजाहिदीन,हरकत-उल-जेहाद-ए-इस्लामी इत्यनयो: हरकत-उल-अंसारगुल्मे परिवर्तनस्य विवरणं प्रदत्तमासीत्। आत्मानं तस्य महासचिवत्वं च प्रतिपादितमासीत्।"
1994 तमे वर्षे अजहर: पुर्तगालस्य पारगमनपत्रेण बांग्लादेशमार्गात् भारते प्रविष्ट: आसीत्। अनंतनागादसौ 1994तमे वर्षे फेब्रुअरे मासे निगडीकृत:। अनन्तरं 1999तमे वर्षे कंधारविमानपहरणानन्तरं यात्रिणां सुरक्षां निध्याय मसूद अजहर: तात्कालिकभाजपाप्रशासनेन विमोचित: आसीत्।
भारतस्य प्रत्याक्रमणे जैषे इ भीकरदलस्य त्रयः नियन्त्रणालयाः भग्नाः। ३०० आतङ्किजनाः मृताः।
-बिजिला किषोरः
काश्मीरम्> पुल्बम भीकराक्रमणस्य प्रत्याक्रमणरूपेण सोमवासरे भारतेन आतङ्कवादिनां शिबिराणि आक्रमितानि। जैषे इ मुहम्मद् भीकराणां त्रयः नियन्त्रणालयाः आक्रमणेन भग्नाः। ३०० आतङकिनः हताःI १२ मिराज् २००० युद्धविमानान् उपयुज्य आसीत् भारतसेनायाः प्रत्याक्रमणम्। बालकोट्, चकोट्टि, मुसाफिर् बाद्देशेषु विद्यमानेषु आतङ्कवादिनां शिबिरेषु आसीत् विस्फोटकवर्षणम्। ५० किलोमीट्टर् दूरं व्योमसीमाम् उल्लङ्ख्य आसीत् विस्फोटकप्रयोगः।
पुल्वाम आक्रमणानन्तरं प्रत्याक्रमणं प्रतीक्ष्यमाणा पाकिस्थानसेना सीमायां प्रतिरोधाय श्रद्धालुः स्यात् इति मनसि निधाय आसीत् प्रत्याक्रमणम् । भारतसमयः ३:३० वादने आसीत् भारतस्य सुसज्जं प्रत्याक्रमणम्।
ओस्कार् पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः।
होलिवुड् > ९१ तम ओस्कार् चलच्चित्रपुरस्काराः प्रख्यापिताः। पीटर् फारलि नामकेन संविधानं कृतं ग्रीन् बुक् इति चलच्चित्रं वरिष्ठचित्राय पुरस्कारं स्वायत्तीकृतवत्। 'रोमो' इत्यस्य चित्रस्य निदेशकः अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः अभवत्।ओलीविया कोल्मान् नामिका 'दि फेवरिट्' इत्यस्मिन् चित्रे अभिनयेन श्रेष्ठनटिरूपेण पुरस्कृता। वरिष्ठनटस्तु रमी मालिक् नामकः , चित्रं - 'बोहीमियन् राप्सेड्'। पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः।
Monday, February 25, 2019
भीकरारक्षकसंघट्टने त्रयः भीकराः व्यापादिताः , डि वै एस् पि पदीयः सैनिकश्च वीरमृत्युं गतौ।
श्रीनगरं > कश्मीरस्य कुल्गाम् जनपदे तुरीगाम् प्रदेशे भीकरान् प्रति संघट्टने काश्मीर् आरक्षकदलस्य डि वै एस् पि स्थानीयः कश्चन स्थलसेनाभटश्च वीरमृत्युमुपगतौ। त्रयः भीकराः सुरक्षासेनया व्यापादिताः।
तुरिगामे कस्मिंश्चित् भवने भीकराः निलीताः वर्तन्ते इतिसूचनानुसारं स्थलसेनायाः राष्ट्रिय रैफिल् दलं , सिआर् पि एफ् दलं, काश्मीर् आरक्षकदलस्य सविशेषोद्यमसङ्घश्च [स्पेषल् ओपरेषन् ग्रूप्] मिलित्वा कृते पदक्षेपे आसीत् भीकराणां वधः। सविशेषोद्यमसंघस्य नेता आसीत् हतः डि वै एस् पि अमन् ठक्कुरः। निहताः भीकराः जेय्षे मुहम्मद् सङ्घांगाः इति सूचना।
किसान् सम्मान निधिः प्रारब्धा।
प्रथमं १.१ कोटि जनानां संख्याने २,०००रूप्यकाणि।
लख्नौ> नरेन्द्रमोदीसर्वकारस्य आयव्ययपत्रकं वाग्दानमनुसृत्य राष्ट्रस्य कृषकाणां कृते प्रतिसंवत्सरं ६,००० रूप्यकाणाम् आर्थिकसाहाय्यं लभ्यमाना 'किसान् सम्मान निधिः' इत्यायोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। राष्ट्रस्य कृषकाणाम् इच्छापूर्तीकरणमेव अनया योजनया सफलतामेतीति उत्तरप्रदेशस्य खोरख्पुरे उद्घाटनं कुर्वन् प्रधानमन्त्रिणा उक्तम्।
'औण् लैन्' द्वारा धनविनिमयं कृत्वा आसीत् योजनायाः प्रारम्भ प्रधानमन्त्रिणा कृतः। १.१कोटि कृषकाणां संख्यानेषु ह्य एव प्रथमसोपानत्वेन २,००० रूप्यकाणि प्राप्स्यन्तीति तेनोक्तम्। अवशिष्टानामर्हाणां कृते अचिरादेव धनं प्राप्स्यति।
Sunday, February 24, 2019
केरले अग्निताण्डवः, बङ्गुलुरु नगरेऽपि आसुराग्निः।
कोच्ची> केरलराज्यस्य विविधप्रदेशेषु गतदिने महती अग्निबाधा सञ्जाता। जीवनाशः नाभवदपि कोटिशः रूप्यकाणां नाशनष्टाः अभवन्। केषुचित्स्थानेषु जनजीवनं दुस्सहममवर्तत। बङ्गुलुरु नगरे यलहङ्का व्योमसेनानिलयसमीपे व्योमप्रदर्शनकार्यक्रमाय सज्जीकृते यानोपस्थाने संवृत्तायामग्निबाधायां त्रिशतं कार् यानानि अग्निसात्कृतानि।
कोच्चीनगरसमीपे ब्रह्मपुरं प्रदेशे विद्यमानायां मालिन्यसंस्करणशालायां प्रवृत्ते वह्निग्रहणे विषवायुलिप्तघनधूमण्डनेन २५ कि मी. विस्तृतप्रदेशस्थाः जनाः दुरितमन्वभवन्। नगरहृदयस्थं 'मङ्गलवनं नामकमुपवनं ह्यः अनलभोजनमभवत्। वयनाट् जनपदे 'बाणासुरपर्वतः' वनाग्निबाधितो जातः। दशसहस्रं एक्कर् परिमितानि तृणवनानि दग्धानि।
मैसूरु समीपस्थे व्याघ्रसंरक्षणकेन्द्रे तथा मुतुमला वन्यजीविसङ्केते च सञ्जाते वह्निव्यापने ६०० एकर् परिमिता वनभूमिः दग्धा।
Saturday, February 23, 2019
सियूल् > दक्षिणकोरियाराष्ट्रस्य 'सियूल् प्रैस् फौणडेषन्' संस्थया दीयमानः २०१८ संवत्सरस्य शान्तिपुरस्कारः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वीकृतः। कीर्तिफलकेन सहितं लक्षद्वयं डोलर् भवति पुरस्कारः। संख्या 'नमामि गङ्गा' आयोजनायाः कृते समर्प्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।
अन्ताराष्ट्रसहवर्तित्वाय आगोलार्थिकमानविकविकासेभ्यः प्रधानमन्त्रिणा दत्तानि योगदानान्येव तं सियूल् शान्तिपुरस्काराय अर्हतामकुर्वन्। पुरस्कारो$यं भारतीयानां कृते समर्प्यत इति प्रधानमन्त्रिणा उक्तम्। गतैः पञ्चभिः संवत्सरैः भारतेन प्राप्तानि लाभानि सर्वाणि जनानाम् इच्छाशक्तेः फलमिति तेन सूचितम्।
Thursday, February 21, 2019
उत्तरध्रुवस्य स्थानः सैबीरियं प्रति। कौतुकेन वैज्ञानिकाः
वैज्ञानिकान् अत्भुत-स्तब्धान् कृत्वा भौमकान्तिकस्य उत्तरध्रुवस्य स्थानान्तरं भवति। भूमेः कान्तिकध्रुवः सङ्कल्पित स्थानतः भ्रंशितः इति अधुनातन समस्या। कानड देशतः सैबीरियं प्रति गच्छन्नस्ति ध्रुवः।
भूकान्त-मण्डलाधारेण प्रवर्तमानः 'नाविगेषन्' इति सुविधाः त्रुटितविवरणानि दीयमानानि सन्ति। एतस्याः परिहाराय विंशत्युत्तर द्विसहस्रतमे निश्चितं लोक कान्तिक आदर्शमानकनवीकरणं अस्मिन् मासस्य चतुर्थ दिनाङ्के (२०१९ फ़ेब्रु. ४) कृतम्। महानौकायाः सञ्चारगतिः 'गूगिल् माप्' इत्यस्य प्रवर्तनानि च नूतनमानकानुसारेण करणीयं। जर्मानीय वैज्ञानिकेन काल् फ्रीड्रिक् गौस् (Carl Friedrich Gauss) इत्याख्येन भौमकान्तिक मण्डलस्य आधारः भूमेः अन्तर्भागे इति प्रथमतया अनुमितः (1830)। ब्रिट्टणस्य परीक्षकः जयिंस् क्लार्क् इत्याख्यः उत्तरकान्तिकध्रुवं कनेडियदेशस्य आर्टिक् मध्ये इति निश्चितवान्। (1831) तस्मिन् समये ध्रुवस्य स्थानभ्रंश गतिवेगः प्रतिसंवत्सरं १५ कि. मी आसीत्I इदानीं सः ५५ कि.मी इत्यस्ति।
Wednesday, February 20, 2019
उत्तराखंड- चम्पावतजनपदम्। राट्रिय सेवा योजनायाः शिबिरस्य आयोजनम्।
आवेदनम् - अमित् ओली
प्रतिवर्षस्य भाँति अस्मिन् वर्षेऽपि राजकीयं इण्टर कॉलेज खेतीखान- राष्ट्रिय सेवा योजनायाः शिबिरस्य आयोजनं N.S.S. योजनायाः कार्यक्रमः, अधिकारी कविन्द्र सिंहः बरफालस्य सानिध्ये आरम्भोऽभवत्, वर्षेऽस्मिन् सप्तदिवसीयः विशेष शिबिरस्यायोजनं ओलीग्रामे अभूत्, एकादश-कक्षायाः सर्वे पञ्चाशत् छात्राः सप्तदिवसात् गृहात् दूरं भूत्वा, शिबिरे निवासङ्कृतवन्तः तथा च तत्र वृक्षारोपणे, स्वच्छता कार्ये, सामाजिक कार्यैन्येषु कार्येषु च योगदानङ्कृतवन्तः। समेषां छात्राणां विभाजनं, पञ्च भिन्नेषु दलेषु प्रतिदश जनानां समूहेषु अभवत्। एतेषु सप्तदिवसेषु छात्रान् ज्ञानवर्धकसूचना प्रदत्ता। सर्वान् छात्रान् दिनचर्यायाः अनुपालनं करणाय प्रेरितङ्कृतम्। सप्तदिवसपर्यन्तं एते पूर्णं समर्पणभावेन गृहं प्राप्य स्वच्छता अभियानाय कार्यं कृतवन्तः, यत्र कुत्रापि अवकरं दृष्टवन्तः, ते स्वयमेव स्वच्छं कृतवन्तः। नदीनां देवालयानां स्वच्छता तु एते शिविरकालैव कृतवन्तः। सप्तदिवसेषु शिबिरेऽस्मिन् छात्राः बहु किमपि ज्ञातवन्तः ज्ञानार्जनं कृतवन्तः।
सप्तदिवसेषु प्रतिदिनं बौद्धिकं सत्राणि प्रचालितानि आसन्। यस्मिन् बालानां कृते उपयोगीविषयाः आसन्। N.S.S. कार्यक्रमस्य आरम्भः कवीन्द्रसिंह बरफालेन छात्रैः द्वारा सरस्वती वन्दनायाः माध्यमेन कृतम्। अस्य शिबिरस्य मुख्यातिथिः माननीय नवीनेन दीपप्रज्जवलनं सम्पादितम्। शिबिरस्य प्रथमे दिवसे सर्वे ग्रामीणाः शिबिरे आगत्य छात्राणां उत्साहवर्धनं कृतवन्तः। संदीपः कलखुडिया वर्यस्य दिशा-निर्देशने सामाजिककार्याय प्रतिदिनं छात्राणां प्रशिक्षणमभवत्। शिबिरस्य अन्तिमे दिने समापनसमारोहे विशिष्टातिथिः रूपेण प्रियंका गड़कोटी वर्या छात्रान् धन्यवादं ज्ञापितवती।
Tuesday, February 19, 2019
तनयायाः विवाहासग्ध्यर्थं स्वरूपितम् धनं दिवङ्गतानां वीरसैनिकनां कुटुम्बेभ्यः दत्तवान् पिता।
गुर्जरराज्यस्थ सूरत् देशे वज्रव्यापारी देवषी मनेक इत्याख्यः एव अयम् आदर्शपुरुषःI विवाहसग्ध्यर्थं सञ्चितं एकादशलक्षं रूप्यकाणि तेन पुल्वाम संघटने वीरमृत्युं प्राप्तानां सैनिकानां कुटुम्बेभ्यः दत्तवान्। अतिरिच्य पञ्चलक्षं रूप्यकाणि सेवासमितिभ्यः दत्तानि इति टैंस् नौ न्यूस् डोट् कोम् आवेदितम्।
फ़ेब्रुवरिमास्य पञ्च दशदिनाङ्के आसीत् मनेकस्य पुत्याः आमी तथा मीठ् साङ्वी इत्ययोः विवाहः। तदनन्तरदिने एव आसीत् सग्धिः निश्चिता । किन्तु पुल्वाम दुर्घटनायाः कारणेन सग्धिः मास्तु , तत् राशिः सैनिकानां कुटुम्बेभ्यः दातुं वधूवरयोः कुटुम्बौ निश्चितवन्तौ
पाक् सैनिक-न्यायालयस्य न्यायाधिपः नियमबिरुदरहितः - जादवस्य दण्डः नियमविरुद्धः इति भारतम्।
हेग्> कुलभूषण जादवाय मृत्युदण्डः इति उक्तवतः पाक् सैनिकन्यायालयस्य न्यायाधिपानां नियमेषु आधारपरिज्ञानमपि नास्ति इति भारतेन उच्यते। कुलभूषण जातवस्य याचिकायां न्यायालयस्य प्रक्रमाः सूतार्यतारहिताः आसन्। अन्ताराष्ट्रनीतिः न पालिता इत्यपि आन्ताराष्ट्र नीतिन्यायालये आयोजिते न्यायविस्तारे भारतेन उक्तम्। सर्वेषां समीचनाय न्याय विस्तारप्रक्रमाय अधिकारः अस्ति इति भारताय उपस्थितः सोलिसिट्टर् जनरल् हरीष् साल्वा महोदयेन सूचितम्। किन्तु जादवाय सा सुविधा न लब्धा। पाकिस्थानस्य सैनिकन्यायालयस्य प्रक्रमेषु सुतार्यता स्वल्पापि नास्ति। अनेन प्रकरेण १६१ संख्याकाः जनाः पाकिस्थानेन मृत्युदण्डिताः इत्यपि भारतेन स्ववादाः उन्नीताः।
पुल्वामा भीकराक्रमणं - सूत्रधारः निहतः।
'मेजर्' स्थानीयः अभिव्याप्य चतुर्णां सैनिकानां वीरमृत्युः।
नवदिल्ली > चत्वारिंशत् सैनिकानां मृत्युकारणभूतस्य पुल्वामा भीकराक्रमणस्य सूत्रधारः पाक्भीकरः तस्य अनुयायी च गतदिने भारतसेनया कृते संघट्टने निहतः। जेय्षे मुहम्मद् नामिकायाः भीकरसंस्थायाः नेता मसूद् असर् इत्यस्य अनुयायी कम्रान् इति खासि रषीदः , तस्य अनुचरः हिलाल् अहम्मदश्च ह्यः १२ होराभिः अनुवर्तिते घोरे संग्रामे व्यापादितौ।
सैनिकाक्रमणे मेजर् विभूति शङ्कर् दौन् दियालः, हरिसिंहः, षियो रामः, अजय् कुमारः इत्येते सैनिकाश्च वीरमृत्युमुपगताः। कश्चन प्रदेशवासी अपि परस्परगोलिकाशस्त्राक्रमणे मृतः।
Monday, February 18, 2019
पुलवामा संत्रासः आक्रमणम् : ४८ देशैः पाकिस्तानं सन्दिष्टम्, उक्तं यत् आतंकवादाय स्थानं नास्ति
- साक्षी चौरसिया
नवदेहली> पुलवामायां सी आर् पी एफ् प्रति जैश-ए-मोहम्मदस्य प्रहारस्य पश्चादपि अष्टचत्वारिंशत् देशैः अस्य आलोचनां क्रीयमाणः न केवलं भारतम् अपितु विभिन्नैः देशैः संघटनैश्च पाकिस्तानं तस्य आतंकी संघटनैः सह सम्बन्धाय तर्जित:। अस्य आक्रमणस्य आलोचनां कुर्वत्सु बुल्गारिया अथ च सेशल्स वत् लघु लघु देशाः अपि सन्ति। तथा च अमेरिका, जापान, ब्रिटेन वत् विशालदेशाः अपि सन्ति। सउदी अरब, यूएई, बहरीन वत् पाकिस्तानस्य मित्रदेशाः अपि सन्ति, अपि च संयुक्तराष्ट्रं शंघाई-सहयोग-संघटन्(सीएसओ) वत् विशालान्तराष्ट्रिय संस्थानानि अपि सन्ति।
दक्षिण-एशियायां पाकिस्तानं विहाय सर्वेऽपि देशाः यथा अस्य आक्रमणस्य विरोधे भारतेन सह तिष्ठन्तः सन्ति, तेन तु स्पष्टं यत् दक्षिण-एशिया-क्षेत्रीय-सहयोग-संघटनस्य (सार्क) गोष्ठीं आयोजनस्य चिन्तनं कुर्वन् पाकिस्तानस्य लक्ष्यं अधुना पूर्णं न भविष्यति। विदेशमंत्रालयस्य सूत्रानुसारं यादृशं अन्ताराष्ट्रिय-समुदायः पुलवामा-आक्रमणस्य पश्चाद् आतंकवादस्य विरोधे अस्ति तादृशं उदाहरणं न्यूनमेव दृश्यते।
Subscribe to:
Posts (Atom)