OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 31, 2019

रक्षाकर्तारः स्वस्य अभिलाषाः अपत्यानाम् उपरि मा स्थापयन्तु - नरेन्द्रमोदी।
     नव दिल्ली> प्रतिशिशु स्वकीया शक्तिः क्षमता च स्तः रक्षाकर्तारः तेषां अभिलाषाः अपत्यानम् उपरि मा स्थापयन्तु इत्यपि तेनोक्तम्। नवदिल्यां समारब्धायां 'परीक्षा पर चर्चा'याम् आसीत् रक्षाकर्तृन्  उद्दिश्य मोदिनः ईदृशः उपदेशः।
      राष्ट्रे राष्ट्रान्तरे च अध्ययनं कुर्वाणः छात्राः सन्दर्भे अस्मिन् भागभाजः आसन्। ओण्लैन् स्पर्धायां भागं स्वीकृतेषु लक्षद्वयं छात्रेषु द्विसहस्रं छात्राः चर्चार्थं चिताः। रष्य, नैजीरिया, इरान्, नेपाल्, कुवैत्, सौदी अरेब्य, सिङ्गपूर् राष्ट्रेभ्यः छात्राः भागं ग्रहीतवन्तः आसन्। " परीक्षायाः  पूर्वं भवन्तः अनेन भाषणेन शान्ताः भविष्यन्ति इति न वदामि। किन्तु इयं परीक्षा भविष्यनिर्णया वा एकस्मिन् कक्ष्यातः अन्य स्मिन् प्रति प्रवेशाय वा इति स्वयमेव प्रष्टव्यम्।  प्रश्नानां उत्तराणि लभते चेत्  मनसः सम्मर्दः लघू भविष्यति। रक्षाकर्तॄणाम् मनसाम् आधिः कथं लघूकर्तुं शक्यते इति कश्चन छात्रः प्रश्नम् अपृच्छत्।  रक्षाकर्तारः स्वस्य अभिलाषाः अपत्यानाम् उपरि मा स्थापयतु इति तेन प्रत्युत्तरवत् उक्तम्।

Wednesday, January 30, 2019

"सुकर्म एव अन्तकाले कार्यं ददाति"  -स्वामी दिव्यानन्दगिरिः
वार्ताहरः-अमित ओली
     कनखलः(हरिद्वारः) > व्यक्तिः सुकर्म  न करोति तर्हि अन्ततो गत्वा मृत्योः मुखं एव पतति। जगत्यस्मिन् यः कोऽपि वा भवतु स्वकीयानां सम्बन्धिनां वा कर्मणा स्वयं रक्षणं कर्तुं न शक्नोति। एतादृशः मनुष्यः रिक्तहस्तेनैवान्तसमये मृत्युं प्रति गच्छति। स्वामी जी अमुंं विचारं  श्री रघुनाथमंदिरे माघमहात्म्यस्य कथाकथने प्रकटितवान्। तथा तत्रोपस्थितवन्तः सर्वे श्रद्धालवः श्रद्धया स्वामीजीनां  उपदेशं श्रुतवन्तः। स्वामी दिव्यानन्देन उक्तं यत् मनसि एव स्वर्गः भवति तथा मनसि एव नरकः भवति। व्यक्तिः स्वयमेव गृहं परिवारञ्च स्वर्गतुल्यं करोति। मनुष्यस्य स्वभावनायाः उपरि सर्वं निर्भरं करोति। यथा कुरुक्षेत्रे कौरवाणां पाण्डवानाञ्च मध्ये युद्धं भवति तथैवास्माकं मनस्यर्हनिशमिच्छानां तथा तृष्णानाञ्च युद्धं चलायमानं भवति। शिवमहिम्नः  बोधनावसरे स्वामी जी कथयति यत् सम्पूर्णजगत्    शिवमेवास्ति। यथा अधंकारे रज्जूः सर्पवदेव प्रतिभाति तथैव मायायाः प्रभावेन परमात्मनः शिवस्य शुद्धस्वरुपं जगदेतत् स्वप्नवत् विभाति। मायायाः भ्रान्त्यैव भगवन्तं न पश्यन्ति जनाः। अत एव सत्संगेन सन्तशरणेन च परमात्मनः अनुभवं कर्तुं शक्यते। वेदान्ताचार्यः स्वामी विवेकानन्दः अप्यकथयत्  मनुष्यः यत्किमपि वदेत् वारशतं चिन्तयित्वा वदेत्, तथा च यत्किमपि कुर्यात् वारसहस्रं चिन्तयित्वा एव कुर्यात्,यतोऽहि तेषां परिणामः अग्रे अवश्यमेव दृश्यते। अतएव कुकर्म त्यक्त्वा नम्रं भूत्वा स्वजीवनं भोक्तव्यम् इति ज्ञानमाध्यमेन ते सर्वान् भगवद्दर्शनं कारितवन्तः।
अमेरिकायां समापयिष्यति सुदीर्घः कार्याविराम:, डॉनल्ड् ट्रम्पेन कृतं सन्धिपत्रेषु हस्ताक्षरम्
-साक्षी चौरसिया

   वाशिङ्ग्टन्, प्रेट्र> वर्धितानां राजनैतिकदलानां समक्षम् अन्ततः अमेरिकायाः राष्ट्रपतिः डॉनल्डट्रम्पः नतमस्तकः अभवत्। ट्रम्पेन शुक्रवासरे पञ्चत्रिंशत् दिवसेभ्य: प्रचलित: कार्याविराम:  इत्थम् अस्थायीरूपेण समापनाय प्रस्तावे हस्ताक्षरङ्कृतम्। यतो हि तेन स्पष्टीकृतं यत् मैक्सिको देशस्य सीमायां भित्तिनिर्माणस्य प्रस्तावेन सः कोऽपि सामञ्जस्यं न स्थापयिष्यति।


    अर्थसङ्कल्पे भिन्नमतस्य कारणेन दिसम्बरमासस्य द्वाविंशति: दिनाङ्कतः अमेरिकायां आंशिककार्य विरामाभियानं प्रचलति स्म। मैक्सिको-देशस्य ट्रम्पेन अर्थसङ्कल्पे मेक्सिकोदेशस्य सीमायां सुरक्षाभित्रे निर्माणाय पञ्चदशमलवसप्त-अर्बुदडॉलर (प्रायशः चत्वारिंशत्-सहस्र-कोटि-रुप्यकाणि) इत्यस्य धननिध्यां प्रावधानस्य इच्छा प्रकटिता। डेमोक्रेट्स्दलीयैः एतस्य एषा इच्छा अस्वीकृता। एतेन कारणेन अर्थसङ्कल्पः अस्वीकृतः तथा च प्रायशः चतुर्थांश- प्राशासनिकविभागानां कार्यं स्थगितम्। एतेन अष्टलक्षं कार्यकर्तारः अवकाशाय गन्तव्याः स्म, वेतनेन विना कार्याणि करणीयानि स्म। अमेरिकायाः ऐतिह्ये एषः सर्वातिविशालः षट् डौण् इति अभियानमासीत्। दीर्घकालात् षट् डौण् एतेन, अमेरिकायाः जनेष्वपि रोगाणां उपजीविनं आरम्भः। नैतावदेव अपि तु सीमासुरक्षायाः विषये ट्रम्पस्य पक्षं स्वीकृताः जनाः अपि द्वयोः पक्षयोः क्रूरव्यवहारेण अप्रसन्ना: अभवन्। एतस्यां स्थित्यां जनानां विरोधः तथा च राजनैतिकबलस्य कारणेन ट्रम्पेन तस्मिन् प्रस्तावे हस्ताक्षरं कृतम्, यस्मिन् अस्थायी रूपेण कार्यविरामसमापनस्य विषये चर्चा कृता।


डोनाल्ड् ट्रम्पस्य परिचितः रोजर स्टोन् आरक्षणे अस्ति—

   भित्तेः निर्माणाय धननिधेरङ्गीकारं विहाय दास्यन्ति। फरवरीमासस्य-पञ्चदशात् दिनाङ्कात् पूर्वं सर्वकारस्य सर्वेषां कार्याणां कृते धननिधेरङ्गीकारं दास्यन्ते। एतेषु त्रिषु सप्ताहेषु सर्वे पक्षप्रवासिना युक्ता नीतिः अपि च भित्त्याः विषये व्यापकं विमर्शं करिष्यामः। एतेन कार्येण सर्वे सार्वकारिक-कार्यकर्तारः शीघ्रमेव शान्तिं प्राप्स्यन्ति। भित्तेः निर्माणाय धनं अनङ्गीकृतेऽपि कार्यविरामस्य समापनाय प्रस्तावे ट्रम्पस्य हस्ताक्षरं विशेषज्ञाः तस्य समर्पणभावं इति चिन्तयन्ति। ट्रम्पेन पूर्वोक्तं यत् धनं अनङ्गीकृते सः अर्थसङ्कल्पस्याभियाने स्वीकृतिं नैव दास्यति।
केन्द्रीयविद्यालयेषु हिन्दुधर्मप्रार्थना मास्तु इति याचिका - जनसञ्चारमाध्यमेषु याचिकां विरुध्य अभिमतानि प्रवहन्ति। 
      नवदिल्ली> केन्द्रीयविद्यालयेषु प्रार्थना हिन्दुधर्म संबन्धी इति आरोपणेन शीर्षन्यायालयस्य पुरतः याचिका पञ्जीकृता। सर्वकारेण सञ्चाल्यमानेषु विद्यालयेषु उपयुज्यमाना प्रार्थना हिन्दुधर्मसंबन्धी भवति  अतः तादृशी प्रार्थना रोधनीया इत्यस्ति याचिका। शीर्षन्यायालयस्य संविधानपीठे वादश्रवणः भविष्यति। कस्यचिदपि धर्मस्य प्रचारः सर्वकारस्य शिक्षासंस्थया क्रियते इति, न समीचीनः इत्युक्त्वा मध्यप्रदेशराज्यस्थेन विनायक षा इत्यनेन एव याचिका प्रदत्ता। असतो मा सद्गमया इति उपनिषन्मन्त्रं विरुद्ध्य आसीत् याचिका।  
     वार्तामिमामधिकृत्य समूहमाध्यमेषु विरुद्धविचाराः प्रचलिताः सन्ति। धर्मातिरिक्त ग्रन्थः उपनिषत् भगवद्गीतादयः इति लोके सर्वत्र सुविदितमेव। तथापि भारतसंस्कृतेः नाशमुद्दिश्य भारताभिमानरहिताः  केचन न्यायालयानां साहायेन कुत्सितकर्मणि व्यापृताः इति भूरिजनानां मतः।

Tuesday, January 29, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
      नमांसि, ध्येयमना: कार्यकर्ता सर्वदा एवं चिन्तयेत्- मम अनुसारं कार्यं न, अपि तु कार्यानुसारम् अहं भवेयम् इति। मम विचारानुसारम् इतरै: जीवनम्, आचरणं, कार्यं वा करणीयम् इति न,  अपि तु इतरेषाम् अपेक्षानुसारम् अहं मयि परिवर्तनम् आनीय इतरेषां विचारानुगुणं व्यवहारं कुर्याम्। इतरेषां स्वरै: सह मम स्वरं योजयेयम्, इतरेषां पदै: सह मम पदे सम्मिलिते स्याताम्। मित्राणि, एतादृशं जीवनम् एव वास्तविकं ध्येयजीवनम्। तदर्थं तादृशजीवनार्थं बद्धता एव ध्येयबद्धता। जयतु संस्कृतम् जयतु भारतम् । 

Monday, January 28, 2019

अस्य वर्षस्य शर्माजी पुरस्कारः डा. जी चन्द्रशेखरप्रभुवर्याय
   कोच्ची> प्रसिद्धसंस्कृतकवेः संस्कृतप्रचारकस्य वि. कृष्णशर्मणः स्मरणार्थं कर्मकुशलाय संस्कृताध्यापकाय विश्वसंस्कृतप्रतिष्ठानेन दीयमानः शर्माजीपुरस्कारः डा. जी चन्द्रशेखरप्रभुवर्याय सम्मानितम्। विश्वसंस्कृतप्रतिष्ठानस्य अध्यक्षः डा. पी के माधवमहाशयः पुरस्कारम् अदात्। नागपुरस्थ कविकुलगुरू कालिदासविश्वविद्यालयस्य व्याकरणविभागस्य अधिष्ठाता डा. सी. जी विजयकुमारवर्यः शर्माजी अनुस्मरणभाषणमकरोत्I कार्यक्रमे Sस्मिन् राष्ट्रपतिपुरस्कारेण सम्मानितस्य डा. जी गंड्गाधरमहोदयरस्य सम्माननमपि अभवत् । डा. एम् पी उण्णिकृष्ण वर्यः आशंसावचनानि प्रदात् । डा. एडनाट् राजन् नम्ब्यार् स्वागतं तथा डा. पीके शङ्करनारायण: कृतज्ञतां च अकरोत् ।

Sunday, January 27, 2019

प्रणब् मुखर्जी, नानाजी देश्मुख्, भूपन् हसारिका इत्येतेभ्यः भारतरत्नपुरस्कारः।
प्रणब्मुखर्जी                भूपन् हसारिका,        नानाजी देश्मुख्। 
 नवदिल्ली >  भूतपूर्वः राष्ट्रपतिः प्रणब् कुमार् मुखर्जी, भारतीय जनसङ्घस्य तथा राष्ट्रिय स्वयंसेवक सङ्घस्य च भूतपूर्वनेता नानाजी देश्मुखः, विश्रुतः सङ्गीतज्ञः भूपन् हसारिका इत्येते भारतरत्नपुरस्कारेण बहुमानिताः। राष्ट्राय दत्तां समग्रयोगदानं  परिगणय्य एव एतेभ्यः त्रयेभ्यः राष्ट्रस्य परमोन्नतबहुमतिः समर्पितः। 
   नानाजी, भूपन् इत्येताभ्यां मरणानन्तरबहुमतिरूपेणैव भारतरत्नं दीयमानमस्ति। विनयेन कृतज्ञतया च सह पुरस्कारं स्वीकरोमीति प्रणब् मुखर्जिना 'ट्विटर्' द्वारा स्वस्य प्रतिकरणं कृतम्।

Saturday, January 26, 2019

भारतस्य शक्तिं प्रदर्श्य गणतन्त्रदिनपथसञ्चलनम्
     नव दिल्ली> राष्ट्रं सैन्यबलेन शक्तियुक्तम् इति प्रमाणस्य विज्ञापनम् आसीत् सप्ततितमं गणतन्त्रदिनम्।  दक्षिणाफ्रिक्काराष्ट्रपति सिरिल् रामफोसः आसीत् कार्यक्रमस्य मुख्यातिथिः। पथसञ्चलने भारतस्य सुप्रधानाः आयुधाः प्रदर्शिताः। अमेरिकादेशतः समीपे काले क्रीणीतः एम् ७७७ होविस्टर् महानालिकायन्त्रः च प्रदर्शितेषु आसीत्। नवति (९०) निमेषपर्यन्तस्य पथ सञ्चलने राज्याणां केन्द्र-शासित प्रदेशानां च निश्चलदृश्यकलाः अपि आसीत्। महात्मागान्धिनः १५० तम जन्मदिनोत्सवानुबन्धतया निश्चलदृश्यानां विषयः महात्मागान्धिनः चरितान् आश्रित्य आसीत्।
   राष्ट्रपतिना रामनाथ कोविन्देन अभिवाद्यानि स्वीकृतानि। उपराष्ट्रपतिः वेङ्कय्यनायिडु, प्रधानमन्त्री नरेन्द्रमोदी, पूर्व प्रधानमन्त्री मन् मोहन् सिहः  प्रतिरोधमन्त्रिणी निर्मलासीतारामः च  भागं स्वीकृतवन्तः।

Friday, January 25, 2019

बिहारस्य पुत्री संयुक्त-राष्ट्र-अमेरिकायां सिनेटर घोषिता, श्रीमद्भगवद्गीताया शपथं गृहीतम्, गुञ्जायमाना "जय-हिन्द" इति सूक्तिः —
-साक्षी चौरसिया
      पटना>  बिहारस्य मुंगेरजनपदस्य निवासी मोनादासः अमेरिकायाः वाशिङ्ग्टन् राज्ये समाजतन्त्रदलस्य सिनेटर इति पदे घोषिता । विशेषवार्ता इदं यत् सा श्रीमद्भगवद्गीतां हस्ते स्थापयित्वा शपथं गृहीतवती, तथा च "जय-हिन्द, भारत माता की जय" इत्ययोः जयजयकारः अपि कृतम्। सा महात्मागान्धिनं, प्रधानमन्त्रिणं-नरेन्द्रमोदिनं च  प्रशंसां कृतवती। तया न केवलं शपथग्रहणार्थं मकरसङ्क्रमणस्य पर्वस्य चयनङ्कतम्, अपितु हिन्द्यां नमस्कारः, प्रणामञ्च उक्त्वा मकरसङ्क्रमणस्य शुभाशयाः अपि प्रदत्तः।

संबोधने आगतः बालिकानां शिक्षायाः विषयः —
      शपथग्रहणे अमेरिकी-सीनेट-एतेन स्वसंबोधने मोनादास-इत्येतया उदिता बालिकानां शिक्षायाः विषयः। तयोक्तं यत् एकां बालिकां शिक्षितकरणेन संपूर्णपरिवारः तथा भावीपरिवारोऽपि शिक्षितं कर्तुं शक्यते। तयोक्तं यत् सिनेटर इति रूपेण सा बालिकानां शिक्षां वर्धापनाय कार्यं करिष्यति। मोनां सीनेट हाऊसिंग स्टेबिलिटी एंड अफोर्डेबिलिट एंड कमेटी इत्यस्य सह-सभाध्यक्षायाः कार्यभारं प्रदास्यते।

Wednesday, January 23, 2019

उत्तरभारते हिमपात: अतिरूक्षः
- पुरुषोत्तमशर्मा
    नवदेहली> जम्‍मू-कश्‍मीरे हिमाचलप्रदेशे उत्‍तराखण्डे च पुन: हिमपात:, येनोत्‍तरभारते शीतप्रकोप: समेधित:। ऋतुविज्ञानविभागेनोक्तं यत् तीव्रपश्चिमविक्षोभेन वायो: चक्रवातीयगतिकारणेन च पश्चिमहिमालयक्षेत्रं पश्चिमोत्‍तरभारतस्य समतलक्षेत्राणि च प्रभावितानि। हिमस्‍खलनेन जम्‍मूकश्‍मीरस्य राष्‍ट्रियराजमार्ग: विगतेह्नि अपि बाधित:। पर्यटकस्थलानि हिमाच्छादिनानि विद्यन्ते। ऋतुविज्ञानविभागेन हिमाचलप्रदेशे उत्तराखण्डे च इतोऽपि वृष्टे: हिमपातस्य च सञ्चेतना प्रसारितास्ति।उत्‍तराखण्डस्य कतिपयजनपदेषु विद्यालया: पिहितास्सन्ति।
गणतन्त्रदिवसप्रयाणम् 
-पुरुषोत्तमशर्मा
    नवदेहली>  भारतस्य प्रमुखः राष्ट्रियपर्वः गणतन्त्रदिवसः शीघ्रमायोक्ष्यते। मुख्यकार्यक्रमस्य सज्जता त्वरया विधीयते। नवदिल्ल्याम् अद्य गणतन्त्रदिवसप्रयाणस्य गणवेशपूर्ण: पूर्वाभ्यास: भविष्यति।  एतदर्थं दिल्ल्यारक्षिबलेन प्रयाणमार्गे यातायातस्य सुचारुतया सञ्चालनस्य व्यापकप्रबन्धा: समुपकस्तिता: वर्तन्ते। आरक्ष्यनुसारेण पूर्वाभ्यास: प्रात: ०९:५० वादने विजयचौकस्थलादारभ्य  रक्तदुर्गं (लालकिला) यावत्  प्रचलिष्यति।
अफ्गान् राष्ट्रे सैनिककेन्द्रः भीकरैः आक्रमितः। 
शताधिकाः भटाः मृताः। 
उत्तरदायित्वं तालिबानेन स्वीकृतम्।
  काबूलः >अफ्गान् राष्ट्रे सैनिककेन्द्रे भीकराक्रमणं, १२६ सैनिकाः मृताः। मरणसंख्या वर्धयेदिति सूचना।काबूलस्य समीपस्थे सैनिककेन्द्रे आक्रमणं अभवत्। अस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। काबूल्तः चतुश्चतावारिंशत् कि.मी दूरे मैदान शहर्यां वर्तमावे प्रशिक्षणकेन्द्रे आक्रमणम् अभवत्।प्रशिक्षणकेन्द्रे भीकरैः कार्यानेन आक्रमितम्। पूर्वं द्वादश सैनिकाः एव मृताः इति सर्वकारेण उक्ताः आसन्।किन्तु अनन्तरं १२६ हताः इति सैनिकवक्ता अवदत्।

Tuesday, January 22, 2019

नेपाल-भूट्टानदेशयोः सन्दर्शनाय आधारपत्रम् सुविधायतेI 

   नवदिल्ली> १५ तः अधः  ६५ तः उपरि  वयस्केभ्यः भूट्टान् - नेपालयात्रिकेभ्यः यात्रायाः  प्रमाणपत्रवत् आधारपत्रमपि उपयोक्तुं शक्यते। आभ्यन्तरमन्त्रालयेन इयं विज्ञप्तिः प्रकाशिता। किन्तु १५ तः ६५ पर्यन्तम् एषा सुविधा उपयोक्तुं न शक्यते इति मन्त्रालयेन ख्यापितम् अस्ति इति पि टि ऐ वार्तासंस्थया आवेदितम्। भारतीयानां नेपाल-भूट्टानराष्ट्रसन्दर्शनाय पारपत्रं न आवश्यकम्। पास्पोर्ट्, निर्वाचनायोगस्य प्रत्यभिज्ञानपत्रम्, भारत सर्वकारस्य  छायाचित्रसंश्लिष्ट प्रत्यभिज्ञापत्रं वा एतदर्थम् उपयोक्तुं शक्यते। एतत् अतिरिच्य भवति आधारपत्रस्य नूतनोपयोगक्षमता।

Monday, January 21, 2019

कार्त्यायनी अम्मा कोमण्वेल्त् लेर्णिङ् अम्बासिडर् भविष्यति। 
       तिरुवनन्तपुरम् > षण्नवत्यां वयसि साक्षरता मिषनस्य परीक्षायां प्रथमपदं प्राप्तवती कार्त्यायनियम्मा कोमण्वेल्त् लेर्णिङस्य अम्बासिडर् भविष्यति। कोमण्वेल्त् लेर्णिङस्य उपध्यक्षः बालसुब्रह्मण्यः कार्त्यायनियम्मया सह मेलनानन्तरं तदधिकृत्य प्रख्यापनं कृतवान्।
     विदूरशिक्षायाः प्रचारः कोमण्वेल्त् लेर्णिङस्य लक्ष्यम्।  विविधराष्ट्रेषु आयुः अतिक्रम्य विजयं प्राप्तवतां चरितानि कोमण्वेल्त् मासिकायां प्रकाशयितुं प्रयत्नाः प्रचलन्ति।  सूचिकायां एषा कार्त्यायनियम्मा च अस्ति। साक्षरता परिषदः 'अक्षरलक्षम् इति परीक्षार्थं आगतायाः कार्त्ययनियम्मायाः चित्राणि समूहमाध्यमेषु आगतानि। अस्मिन् वार्धक्येयेपि अस्याः अध्ययनतत्परतां  प्रशंस्य अनेके प्रमुखाः अपि समागताः आसन्।कार्त्ययनि अम्मा इदानीं चतुर्थकक्ष्यायाः परीक्षार्थी भवति।
-डा जे अभिलाषः

Sunday, January 20, 2019

मेक्सिक्को राष्ट्रे तैलनालिकासरणौ स्फोटनम् - ६६ मृताः।  
 सप्तत्यधिकाः आहताः ; ८५ अप्रत्यक्षाः। 
मेक्सिको सिटी>  मेक्सिको राष्ट्रे तैलनिर्गमन-नालिकासरणौ प्रवृत्तेन  स्फोटनेन ततः सञ्जातया अग्निबाधया च ६६ जनाः मृताः। सप्तत्यधिकाः जनाः दाहव्रणिताः जाताः। तथा च ८५ जनाः अप्रत्यक्षाः अभवन्निति अधिकृतैरुक्तम्। 
 हिडाल्गो नामके राज्ये 'लाह्यूवेलिन् पान्' नगरे आसीदियं दुर्घटना। तैलचोराणां नियमविरुद्धव्यवहारा  एव दुर्घटनायाः भूमिकायाममिति प्राथमिकनिगमनम्। चौर्यवृत्या नालिकासरणौ  स्फोटिते तैलसङ्कलनाय जनानां यत्न एव दुर्घटनाव्याप्तिवर्धनाय कारणमिति पेमेक्स् नामकतैलसंस्थायाः अधिकृतैरुक्तम्। 
  तैलचोरणं तथा दुर्घटना च मेक्सिको राष्ट्रे सर्वसाधारणं भवति।
वैज्ञानिकपदानां स्थानात् संस्कृतं परित्यज्य कैरलीपदानि प्रयोक्तव्यायानि- केरलस्य मुख्यमन्त्री।
    तिरुवनन्तपुरम्> कैरलीभाषायां  उपयुज्यमानानि वैज्ञानिकपदानि   संस्कृतपदानि एव भवन्ति। संस्कृत-वैज्ञानिकपदानां स्थाने कैरलीभाषया निर्मितानि पदनानि प्रयोक्तव्यानि। अनेन एव कैरल्याः विकासः साध्यः  इति केरलस्य-मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। सर्वविज्ञानकोशस्य सप्तदशतमस्य खण्डस्य प्रकाशनं कृत्वा भाणमाणः असीत् सः। सर्वेषाम् आङ्गलेयपदानां समानपदानि तमिल् भाषायां सन्ति। एतत्  एव भवति तमिल् भाषाविकासस्य आधारकारणम्। Boiling point इति साङ्केतिकपदस्य Tila nilai इत्यस्ति तमिल्, किन्तु कैरल्यां (Malayalam) क्वथनाङ्कम् इति संस्कृतपदमेव उपयुज्यते इति तेन उक्तम्।
      समीपकालात् आरभ्य छात्राणां अध्ययनपुस्तकात् संस्कृतपदानि परित्यज्य नूतन कैरलीपद-सन्निवेशनाय प्रयत्नः अस्ति।  शौचालयम् (Toilet) इत्यस्य 'शुचि मुरि' इति परिवर्तितम्। किन्तु 'शुचि' इति पदं संस्कृतभाषातः एव भवति। Boiling Point इत्यस्य கொதிநிலை Kotinilai इति संस्कृतस्य तत्भवरूपमेव इदानीमपि तमिल् भाषायाम् उपयुज्यन्ते|
वार्ता, छाया - अवलम्बः>  http://www.deshabhimani.com/news/kerala/news-kerala-18-01-2019/776624
लोकसभा निर्वाचनं  मार्च् प्रथमे सप्ताहे उद्घोषितुं सन्नद्धः निर्वाचनायोगः।
    नवदेहली> निर्वाचनायोगेन मार्च् प्रथमसप्ताहे लोकसभा निर्वाचन तिथिः उद्घोषिष्यति इति संस्तुतयः।जूण् तृतीये दिनाङ्गे  इदानीन्तन-लोकसभायाः  नियमिततिधिः समापयिष्यति।  केन प्रकारेण कियदवधिः कदा निर्वचनं प्रचालनीयम् इत्यादि विषयेषु निर्णयं स्वीकृत्यनन्तरं स्यात् तदीयदिनाङ्गस्योद्घोषणम्। सुरक्षा कार्यकतॄणां संख्या, तेषां विन्यासः निर्वाचनयन्त्राणि इत्यादिविषयेषु व्यक्तता आगन्तव्या। तानधिकृत्य संगोष्ठ्यः निर्वाचनायोगेन प्रारब्धाः इति प्रतिवेदनानि। विषयेषु तेषु निर्णयं भविष्यति चेत् मार्च् प्रथमे वारे एव निर्वाचन तिथिः उद्घोषिष्यति।