OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 1, 2018

मुल्लप्पेरियार्- भीषया सह तमिल् नाट् मुख्यमन्त्री 
    कालटी > महाप्रलयात् मन्दमन्दं पारं गन्तुं प्रयतन्ते केरलाः। सन्दर्भेऽस्मिन् मुल्लप्पेरियार् जलबन्धस्य जलवितानं १४२ पादमानतः १५२ इति वर्धयिष्यते इति तमिल्नाट्  मुख्यमन्त्रिणा एटप्पाटि पलनिस्वामिना  उक्तम्। उच्चन्यायालयस्य अनुज्ञा लब्धे सति जलविधानं १५२ इति वर्धयिष्यते, जलबन्धस्य भितेः प्रबलीकरणं समारब्धम् इति च तेनोक्तम्।
   वृष्टिकालात् पूर्वं दोषपरीक्षां कृत्वा जलबन्धस्थ बलक्षयः नास्ति इति प्रमाणपत्रम् अदात्। वृष्ट्याकेरलस्य  जलबन्धाः  सर्वं पूर्णाणाः अभवत्। जलं जलबन्धात् बहिर्गत्वा जलोपप्लवमभवत्I  मुल्ल पेरियार् जलबन्धात् जायमानप्रवाहः एव जलोपप्लवस्य कारणम् इति केरलेषु  अनृतारोपाः प्रचलन्ति इति पळनिस्वामिना उक्तम्।

Friday, August 31, 2018

लोकसभाया: राज्यविधानसभानाञ्च निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: 
- पुरुषोत्तमशर्मा
     नवदिल्ली > विध्यायोगेन प्रशासनाय प्रेषिते प्रतिवेदने लोकसभाया: अथ च राज्यविधानसभानां निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: अनुमोदित:। आयोगेनोक्तं यत् देशे निरन्तरनिर्वाचनप्रक्रियाया: निरसनाय एकमेव समाधानं विद्यत् । आयोगेन एतदर्थं संविधाने निर्वाचनविधौ च परिष्कार: अनुशंसित: । प्रतिवेदने स्पष्टीकृतं यत् सहैव वनिर्वाचनेन प्राशासनिकधनरक्षा, प्रशासनस्य सुरक्षाबलानां च समयलाभ: भविष्यति, येन प्रशासनिकनीतीनां क्रियान्‍वयनं भद्रतरं भविष्यति। सहैवोक्तंयत् संविधानस्य साम्प्रतिकस्वरूपेण सहैव निर्वाचनायोजनं सम्भवं नास्ति ।
म्यान्मर् राष्ट्रे जलबन्धभग्नेन जलोपप्लवः ; सहस्रशः भवनरहिताः।
    नय्पिट्टो >  म्यान्मर् राष्ट्रे बागो प्रविश्यायां स्वरषोङ् नामकः दल बन्धः अतिवृष्ट्या सञ्जातेन जलोपप्लवेन भग्नः जातः।शताधिकाः ग्रामाः निमग्नाः! षट् मरणानि सूचितानि। पञ्चाशत्सहस्रं जनाः भवनरहिताः अभवन्।
     सोमवासरादारभ्य एव जलबन्धः सम्भरणशेषिमतिक्रम्य प्रवहति स्म। किन्तु आशङ्काजनकः अवस्थाविशेषः नास्तीति अधिकारिभिः उक्तमासीत्। अतो जनाः स्व स्व भवनेषु वर्तमानाः आसन् I किन्तु बुधवासरे उषसि जलबन्धद्वाराणि प्रभञ्ज्य प्रवहता जलेन भवनानि क्षेत्राणि च निमज्जितानि आसन्।
एशियामहाद्वीपीयक्रीडोत्सवे भारतीयस्य भव्यं प्रदर्शनम्
गुरुवासरे भारतेन पञ्चपदकानि विजितानि
-पुरुषोत्तमशर्मा
       एशियामहाद्वीपीय-क्रीडोत्सवे द्वादशे दिवसे भारतीयक्रीडकैः भव्यं प्रदर्शनम् आचरितम् । गुरुवासरे भारतेन स्वर्णपदकद्वयं समेत्य पञ्चपदकानि विजितानि ।भारतपक्षतो जिनसनजॉनसनेन पुरुषाणां 1500 मीटरमिता धावनस्पर्धा 3:44.72 समये पूरिता। ऐषमः क्रीडायां जिनसनस्य द्वीतीयं पदकमिदं वर्तते। महिलानां 4×400 मीटरमितायां रिले-स्पर्धायां भारतस्य अनवरतं पञ्चमं स्वर्णपदकमिदं वर्तते । महिलानां 1500 मीटरमितायां धावनस्पर्धायां पीयूचित्रा रजतपदकं विजितवती। पुरुषाणां च 4×400 रिले स्पर्धायां भारतीयदलेनापि रजतपदकं विजितम् । डिस्कस-थ्रो इति स्पर्धायां सीमा पूनिया  भारताय  कांस्यपदकम् अधिगतवती।
मिथः पङ्काक्षेपाय सामाजिकमाध्यमाः न उपयोक्तव्याः - नरन्द्रमोदी 
    नवदिल्ली> मान्यजनतन्त्राय उचितः मार्गः न भवति मिथः पङ्काक्षेपः इति भास्तस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।  सामाजिक माध्यमद्वारा कृतानुचिताभिमतप्रकाशनम् उद्दिश्य एव मोदिनः परामर्शः। वाराणसि प्रदेशस्थ भाजपादलीयैः सह कृते दृश्य सम्मन्द्रणोपवेशने भाषमाणः आसीत् सः। राष्ट्रस्य सुवार्ताः एव प्रसारणीयाः । समाजस्य शक्तीकरणाय उपयुक्ता वार्ता एव मिथः दातव्याः। किन्तु प्रदिवेशिकानां कुटुम्बव्यवहाराः राष्ट्रियवार्तारूपेण परिवर्तन्ते। एषः न केवलं यस्यकस्यापि राजनैतिक-दलस्य वा तेषाम् आशयस्य वा विषयः न, १२५ कोटि जनानाम् अपि चl
      विषयेऽस्मिन् स्वयमेव अनुशीलनं करणीयम् ।  स्वच्छभारत अभियान् नाम केवलं परिसरशुद्धिः इति न। मनसः विशुद्धिरपि भवति इति प्रधानमन्त्रिणा मोदिना भणितम्।
भारत-पाक् सिन्धू नदीजल सन्धिपत्रचर्चा श्वः प्रारब्स्यते। 

  इस्लामाबाद्> सिन्धू नदीजलसन्धिपत्र संबन्धतया भारत पाकिस्थानयोः मिथः भाषणं श्वः समारप्स्यते। झलं नद्यां भारतेन निर्मितां किषन् गङ्गा जलवैद्युतपरियोजनां विरुद्ध्य पाकिस्थानः तिष्ठति इत्येन इयम् उभयचर्चा निर्णायका एव।  पाकिस्थानस्य प्रधानमन्त्रीपदे इम्रान् खानस्य आरोहणानन्तरम् जायमाना  प्रथम चर्चा एव सा।  
     लाहोरे प्रचाल्यमानायं चर्चायां भारतस्य सिन्धू नदीजलसन्धेः अध्यक्षः पि के सक्सेना च भागं स्वीकुर्वन्ति। पाकिस्थानस्य पक्षतः सय्यत्‌ मोहर् अलि षा नेतृत्वं करिष्यति।
गते मार्च् मासे  नवदिल्याम् आसीत् सिन्धू नदी जल आयोगस्य प्रथम मेलनम्।
    सिन्धु नदी श्रृंखलायाः जलं पाकिस्थानायापि उपकारत्वेन भवितुं रूपीकृता सन्धिः एवभवति सिन्धू नदीजलसन्धिःI

Wednesday, August 29, 2018

जनं दृश्यमाध्यमे सम्प्रतिवार्ता कार्यक्रमस्य छात्र-वार्तावतारकाः 
  कालटी> सम्प्रतिवार्ता इति अन्तर्जालीयवाहिन्याः छात्रवार्तावतारकाः आगस्ट् मसस्य २९ दिनाङ्कतः चतुर्दिनपर्यन्तं वार्तावतारणं कुर्वन्ति। सर्वशिक्षा अभियानेन २०१७ संवत्सरस्य  श्रेष्ठपरियोजना इति अङ्गीकृतः भवति अयं कार्यक्रमःI छात्राः एव भवन्ति अस्मिन् वर्तावतारकाः। अष्टाशीति वार्ता-सोपानानि (Episode) इदानीं पूर्तीकृतानि सन्ति। 

    कार्यक्रमस्य छात्र-वार्तावतारकाराणां क्षमतां दृष्ट्वा एव जनं दृश्यमाध्यमेन छात्रेभ्यः वार्तावतारणाय सन्दर्भः प्रदास्यते। गत संवत्सरे आसीत् छात्रवार्तावतारकाणां प्रप्रथमं प्रसारणम्।  सर्वकारेतर-वार्तावाहिनिषु जनं दृश्यमाध्यमेन एव प्रप्रथमतया  संस्कृतवार्ताकार्यक्रमः समारब्धः। अन्तर्जालीय वार्ताप्रसारण कार्यक्रमेषु छात्राणां वार्तावतारणमपि विश्वे प्रथमतया एव।

    अद्य सायं पञ्चवादने जनंदृश्यमाध्यमस्य वार्ता संस्कृतं नाम कार्यक्रमेण छात्राणां वार्तावतारणं भविष्यति। श्रीकृण-जयन्ती पर्वणानुबन्धतया भवति छात्राणां भागभागित्वम् । नम्यालक्ष्मी आर्, नारायणी महादेवन्, विष्णु हरिकुमारः, निरञ्जना जे च अस्मिन् वार्तावतारकाः भवन्ति।
'एष्यन् गयिंस्' क्रीडायां भारताय सौभाग्यदिनम्। 
     जक्कार्ता > एष्यन् गयिंस्' क्रीडायाः दशमे दिने भारतेन नव कीर्तिमुद्राः  प्राप्ताः। पुरुषाणां अष्टशतं मीटर् धावनस्पर्धायां भारतस्य  मञ्जित् सिंहः सुवर्णमुद्रां जिन्सण् जोण्सण् रजतमुद्रां च  प्राप्तवन्तौ। वनितानां 'बाड्मिन्टण्' क्रीड़ायाः अन्तिमप्रतियोगितायां पि वि सिन्धू रजतमुद्रया तृप्तिं प्राप्तवती! भारतस्यैव सैना नेह्वाल् पित्तलमुद्रां प्राप्तवती। पटललानक्रीडायां (Table Tennis) इदं प्रथमतया भारतेन मुद्रा एका प्राप्ता - पुरुषाणां सङ्घविषये पित्तलमुद्रा। 
   'कुराष्' नामके विषये एकैकं रजतं , पित्तलं , ततः अस्त्रप्रक्षेपणे  रजतद्वयं च प्राप्य दशमे दिने नव मुद्राः भारतेन प्राप्ताः! इदानीं भारतम् अष्टमस्थाने वर्तते। सुवर्णानि - ९ ; रजतानि - १९ ; पित्तलानि - २२!

Tuesday, August 28, 2018

 ७७ राष्ट्रेषु ७००० भारतीयाः कारागारबद्धाः। 
      नव दिल्ली > सप्तसहस्राधिकाः भारतीयाः सप्त सप्तति राष्ट्रेषु कारागारे वर्तन्ते इति प्रमाणतया उच्यते
सप्त त्रिंशत्यधिक सप्तसप्तति जनाः विदेशकारागारे वर्तन्ते। त्र्यशीति सैनिकाः पाकिस्थानस्य  कारागारे सन्ति। सौदी राष्ट्रे भवन्ति भूरि। पञ्चसप्तत्यधिक पञ्चशतोत्तरैकसहस्रं जनाः सन्ति सौदीकारागारे। अमेरिकायां ६४७, नेपाले ५४८, कुवैट् ४८४, पाकिस्थाने ४७१, ब्रिट्टन् ३७८, मलेष्या २९८, चैना २२६, इट्टली २२५ इत्येवं गच्छति संख्या।
भारतीय-कारागारे बहवः वैदेशिकाः अपि सन्ति। अस्मिन् ३९ पाकिस्थानीयाः च सन्ति।

Monday, August 27, 2018

"एकमासस्य वेतनं यच्छन्तु "- अभ्यर्थना केरलमुख्यमन्त्रिण:।
   प्रलयेन विनष्टानां पुनर्निर्माणम् ततोप्युपरि नवकेरलनिर्माणाय सर्वकारस्य परिश्रम इति मुख्यमन्त्री श्री पिणरायी विजय:। एतदर्थं आलोके विद्यमाना: मलयालि जनाः मासैकस्य वेतनं राज्याय दातुं सन्नद्धा: भवेयुरिति अभ्यर्थितवान् स:। इदं तु धनं दशमासै: दीयते चेत् पर्याप्तम्। प्रत्येकस्मिन् मासे दिनत्रयस्य मूल्यम् पर्याप्तम्। मलयालि जनाः मिलन्तु नाम सर्वान् प्रतिसन्धीन् उल्लङ्घितुम् पारयामो वयम्। लोकस्य सहायहस्त: केरलस्य शक्ति:।।

Sunday, August 26, 2018

संस्कृतदिनस्य शुभाशयाः
प्रसारयेम संस्कृतम् 
प्रकर्षयेम भारतम्
यन्त्ररहितं पट्टिकाशकटम् आगामिनि मासादारभ्य धावयिष्यति।
    नवदिल्ली> राष्ट्रे स्वदेशीयातिवेग पट्टिकाशकटम् आगामिनी मासे परीक्षणधावनम् आरब्स्यते। मेट्रो रेल्यानमिव यन्त्ररहितं भवति 'ट्रयिन् आष्टादश' इति नामाङ्कितम् इदं शकटम्। परीक्षणधावने विजयं भविष्यति चेत् इदानीं विद्यमानस्य शताब्दि-अतिवेगयानस्य स्थाने धावयितुमुद्दिश्यते। भारतरेल् संस्थायाः साङ्केतिकोपदेष्टृपदे विराजमाना The Resurch And Standard Organisation इति समितिः  परीक्ष्य निर्णयः स्वीकरिष्यति। इदृशानि षट् यानानि प्राथमिकस्तरे चालयिष्यन्ति। चेन्नै इन्टग्रल्  कोच् यन्त्रागारे एव यानस्य निर्माणं प्रचलति। होरायां षष्ट्यधिकैकशतं (१६०) किलोमीट्टर् एव भवति यानस्य वेगक्षमता। 

Saturday, August 25, 2018

सर्वेभ्यः श्रावणपर्वणीयाः शुभाशंसाः।

कोच्ची अन्तराष्ट्रिय विमाननिलयः २९ तमे प्रवर्तनसज्जः भविष्यति।
  कोच्ची > महाप्रलयमनुबन्ध्य प्रवर्तनविरतः कोच्ची अन्ताराष्ट्रिय विमाननिलयः (सियाल्) आगस्ट् नवविंशतिदिनाङ्कादारभ्य पूर्णतया प्रवर्तनसज्जः भविष्यतीति सियाल् अधिकारिवर्गेण निगदितम्। पञ्चदश दिनाङ्के (१५) पिहितस्य निलयस्य प्रवर्तनं षट्विंशति दिनाङ्कतः (२६) पुनरारब्धुं शक्यतेति पूर्वमुक्तमासीत्।
कुल्दीप् नय्यारः दिवं गतः।
  नवदिल्ली > भारतीयपत्रकारमण्डलस्य अनन्यव्यक्तित्वेषु अन्यतमः कुलदीप नय्यारः दिवंगतः। पञ्चनवतिवयस्कः आसीत्! पत्रिकास्वतन्त्रतायै पोैराधिकाराय च अनवरतं प्रयत्नं कृतवानेषः अनन्यसामान्यवार्तानां (Exclusive) नामान्तरमासीत्। 
    जवहर् लाल् नह्रोः अनुगामिरूपेण लाल् बहदूर् शास्त्रिणः नियुक्तिः, आकस्मिककालानन्तरं पुनरपि स्पर्धयितुम् इन्दिरागान्धिनः निर्णयः, पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणः सुल्फिक्कर् अलि भूट्टोवर्यस्य मृत्युदण्डवार्ता च नय्यारेणैव प्रथमतया बहिर्नीताःI

Friday, August 24, 2018

दुरिते समाश्वासाय स्वस्य भूमिं प्रदातुं विद्यालयछात्रा
    कण्णूर् > केरले दुरापन्ने महाप्रलयात् रक्षां प्राप्तुं प्रयतन्ते केरलाः। सर्वेषां नैजं सर्वं विनष्टम् अभवत्। सन्दर्भेऽस्मिन् काचन बालिका स्वस्य पैतृकं भूमिं दानाय निश्चितवती। पय्यन्नूरस्थ षेणायी स्मारक विद्यालयस्य विद्यार्थिनी स्वाहा भवति एषा। तस्यै तस्याः अनुजाय च लब्धं पैतृकभूमिः 'एकर्' मितम् अस्ति। पञ्चाशत् लक्षं मूल्यमस्ति भूमेः।
     अस्याः पिता शङ्करः कृषकः एव। माता विधुबाला सोदरः ब्रह्म च भवतः। दुरितबाधितानां कृते किमपि वा दातव्यमिति तस्याः अभिलाषःI सा केरलस्य मुख्यमन्त्रिणः दुरिताश्वास निधिम् प्रति भूमिं समर्पितवती। कालेऽस्मिन् दानविमुखाः भूरिः वर्तन्ते। अस्मिन् काले ईदृशदानकर्म सर्वेस्मै आदर्शभूतः एवः। अनेन दानेन सर्वे इदानीम् अद्भुत-स्तब्धाः अभवन्।

Thursday, August 23, 2018

राफेल् सन्धिः- आरोपणं स्थगनीयम्  - कोण्ग्रस् दलं प्रति रिलयन्स्  संस्थायाः सूचनापत्रम्।
     नवदिल्ली> राफेल् युद्धविमान सन्धिमधिकृत्य आरोपणं स्थगनीयं  नो चेत् नियमप्रक्रमः भविष्यति इति  कोण्ग्रस् दलं प्रति रिलयन्स् संस्थया सूचनापत्रम् प्रेषितम्।
     अनिल् अम्बानी इत्याख्यस्य स्वामितायां वर्तमानेन रिलयन्स् इन्फ्रास्ट्रक्चर् , रिलयन्स् डिफन्स्, रिलयन्स् एयरोस्टेर् इत्यादिभिः संस्थाभिः एव सूचनापत्रं प्रेषितम्। कोण्ग्रस् नेतारः उत्तरवादित्वेन वर्तितव्याः। राजनैतिक दलनेतारः  तेषाम् अभिमत-प्रकाशनाधिकारः स्वेच्छया निरुत्तरवादरूपेण कूर्वन्ति। सः अधिकारः  अनुज्ञापत्रमिति विचारः मास्तु, इत्यपि सूचनापत्रे लिखितम् अस्ति।

तृतीया निकषस्पर्धा - भारतस्य विजयः।
    नोट्टिङ्ङाम् > ट्रन्ट् ब्रिज मध्ये सम्पन्नायां तृतीयायां क्रिकेट् निकषस्पर्धायां आतिथेयराष्ट्रं इङ्लण्टं विरुध्य भारतदलस्य त्र्यधिकद्विशतं  (२०३) धावनाङ्कानां समुज्वलविजयः। एषो विजयः केरलेषु प्रलयक्लेशबाधितानां कृते समर्प्यते इति नायकः विराट् कोली उक्तवान्। क्रीड़या लब्धमाना  सम्मानसंख्या (match fee) सर्वा प्रलयबाधितेभ्यः दीयते इत्यपि तेनोक्तम्।  गतं क्रीड़ाद्वयमपि भारतेन पराजितमासीत्! ततः उत्साहोज्वलं प्रत्यागमनमेव भारतदलेन कृतम्। परं निकषद्वयम् अवशिष्यते।