OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 30, 2018

क्रीडावार्ता-
पादकन्दुकक्रीडायां बार्सिलोना विजिता
     स्पेन्>  स्पानिष् लीग् पादकन्दुक क्रीडायोगे बार्सिलोना विजिता अभवत्। ह्यस्तननिशायां स्पर्धायाम् प्रतिद्वन्दिं डी पोर्टिवो सङ्घं विरुद्ध्य ४-२ गोल् कृत्वा बार्सिलोना २५ वारम् विजिता अभवत्। लयणल् मेसि अस्मिन् स्पर्धायां हाट्रिक् लब्धवान्।
डा विनोवन्  अब्दुल्करीम्
भारतनिरीक्षणाय बाह्याकाशयोजनया पाकिस्थानः।
        इस्लामाबादः> भारतस्योपरि निरीक्षणाय पाकिस्थानेन नूतनी बाह्याकाशपरियोजना समारभ्यते। आगामिनि संवत्सरे ४७० कोटिरुप्यकाणि आर्थसङ्कल्पे स्वीकृतानि । स्पेस् आन्ट् अप्पर् अट्मोस्फियर् रिसर्च् ओर्गनैसेषन्  नाम संस्थया एव अनुसन्धानं क्रियते। अनया योजनया सैनिक-सैनिकेतर आवश्यकानां कृते विदेशोपग्रहाणाम् उपयोगं न्यूनीकरणीयमिति तेषां लक्ष्यम्।
        भारतस्य उपग्रहयोजनां विस्तरेण निरीक्षितुं विशेषयोजनापि निश्चिता इति वार्तापत्रिकाः आवेदयन्ति। पाक् साट् एम् एम् १ इति विविधोद्देश्य उपग्रहमपि विन्यस्तुं लक्ष्यीष्यीक्रियते पाकिस्थानेन।

Sunday, April 29, 2018

सीमाशान्तिम् आतङ्कवादसम्मार्जनं च  व्यवस्थाप्य मोदी - षी मेलनं समाप्तम्। 
  वुहान् > भारत - चीनासीमायां वर्तमानां संघर्षावस्थां परिहृत्य राष्ट्रशान्तिं पुनःस्थापयितुं, तथा आतङ्कवादसम्मार्जनाय ऐक्येन प्रवर्तितुं च आह्वयत् भारत - चीना राष्ट्रनेतृद्वयस्य दिनद्वयात्मकं मेलनं समाप्तम्। 
    "हृदयात् हृदयं प्रति" इत्यासीत् भारतप्रधानमन्त्री नरेन्द्रमोदी, चीनाराष्ट्रपतिः षि जिन् पिङ् इत्येताभ्यां मध्यचीनायां 'वुहान्' प्रदेशे कृताय  अनौपचारिकाय उच्चसम्मेनाय लब्धं विशेषणम्। दिनद्वयात्मकस्य उच्चमेलनानन्तरं  मोदीवर्यः शनिवासरे सायं दिल्लीं  प्रतिसम्प्राप्तः। 
     गतवर्षे 'डोक्लाम'सीमायाम् उभयस्य राष्ट्रस्य सैनिकाः युयुत्सवः सन्तः ७३ दिनानि यावत्  अभिमुखं वर्तिता  अवस्था परं न भविष्यतीति भारतविदेशकार्यसचिवेन चीनायाः उपविदेशकार्यमन्त्रिणा च कृते विभिन्ने वार्ताहरसम्मेलने स्पष्टीकृतम्।
सुसमाजस्य निर्माणाय संस्कृतपाठनमनिवार्यम् - पण्डित रत्नं डा पि के माधवः ।
       मावेलिक्करा > भरते विद्यमान सामाजिकसमस्यानां परिहाराय संस्कृतविद्याभ्यास: अव३यं दात०यमिति विश्व संस्कृत प्रतिष्ठानस्य केरलराज्य अध्यक्ष : पण्डितरत्नं डा पि के माधव महोदय : | विश्व संस्कृतप्रतिष्ठानस्य राज्य वार्षिकसम्मेळने भाषमाणः आसीन् अयम । संस्कृत पठनेन  मनसः संस्कार भविष्यति। तेन समाजः अपि सुसंस्कृत: भविष्यति၊ एतत् कार्य संस्कृतशिक्षकाणां दायित्वम्  तेन उक्तम्॥
मलयाल-विश्वविद्यालये संस्कृत विभागः आरम्भणीयः - विश्वसंस्कृतप्रतिष्ठानम्॥ 
          मावेलीक्करा - केरलराज्ये विद्यमाने मलयाल विश्वविद्यालये संस्कृत विभागः समारम्भणीयः इति विश्वसंस्कृत प्रतिष्ठानस्य अष्टात्रिशे राज्यवार्षिकसम्मेलने प्रस्तावः। मलयालभाषायाः समीचीनाध्ययनाय व्युत्पत्यर्थं च संस्कृतपठनम् अनिवार्यमिति सुविदितमेव၊ तथापि एतावत्पर्यन्तं विश्वविद्यालये संस्कृतविभागस्यारम्भः वा अध्यापकानां नियुक्तितिः वा नाभवत्। समस्या इयम् अवश्यं परिहरणीया इति प्रस्तावेन सर्वकारः सूचीत: विश्वसंस्कृतप्रतिष्ठानेन। सम्मेलनेऽस्मिन् आकेरलात् २०० प्रतिनिधयः भागभाजः अभवन् ।।
विज्ञापनम् -  दिनाङ्कः  5 - 04 - 2018
राष्ट्रियसंस्कृतसंस्थानम् (मानित विश्वविद्यालयः)
भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयाधीनः 
56 - 57, इन्स्टिट्यूशनल् एरिया
जनकपुरी, नवदेहली - 110058
(राष्ट्रिय मूल्याङ्कनप्रत्यायनपरिषदा 'ए' श्रेण्या प्रत्यायितः)
दूरभाषाः -011-285207979, 28520966, 28524993, 28524995
संस्कृतशिक्षायाः विकासयोजनायाः अन्तर्गते 2018- 19 वित्तीय सहायतार्थम् अतिसूचना।
       भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयस्य तत्वावधाने नवदेहलीस्थेन राष्ट्रियसंस्कृतसंस्थानेन 2007 तम वर्षीयायाः संस्कृतशिक्षायाः विकासस्य पुनरीक्षितयोजनायाः अन्तर्गततया  अधोनिर्दिष्टाभ्यः योजनाभ्यः 2018 - 2019 तम वर्षस्य वित्तीय सहायतानुदानं निमित्तीकृत्य निर्धारितप्रपत्रानुगुणम् आवेदनपत्राणि आमन्त्र्यन्ते-
1. संस्कृतशिक्षणाय वित्तीयसहायता -
      (क) पारम्परिक संस्कृतपाठशालासु / महाविद्यालयेषु संस्कृताध्यापकेभ्यः वित्तीयसहायतानुदानम् ।
      (ख) पारम्परिक संस्कृतपाठशालासु / महाविद्यालयेषु आधुनिकविषयाध्यापकेभ्यः वित्तीयसहायतानुदानम्।
       (ग) राज्यसर्वकारसंबद्धेषु माध्यमिकविद्यालयेषु / उच्चतरमाध्यमिकविद्यालयेषु  संस्कृताध्यापकेभ्यः वित्तीयसहायतानुदानम् ।
2. देशे अभावग्रस्तपरिस्थितिषु उषितेभ्यः संस्कृतपण्डितेभ्यः सम्मानराश्यनुदानम्।
3. सर्वकारेतरसङ्घटनेभ्यः / मानितसंस्कृतविश्वविद्यालयेभ्यः / विभिन्न शोध परियोजनाभिः कार्यक्रमैः  सह युक्तेभ्यः विश्वविद्यालयेभ्यः संस्कृतसंवर्धनगतिविधीनां कृते वित्तीयसहायतानुदानम्।
4. संस्कृतस्य दुर्लभपुस्तकानां पुनर्मुद्रणाय, प्रकाशनाय तथा संस्कृतपुस्तकानां नैकप्रतिकृतिक्रयणय च वित्तीयसहायतानुदानम् ।
5. सेवानिवृत्तानां / ख्यात्यार्जितसंस्कृतविदुषां (शास्त्र चूडामणीनां) सेवानाम् उपयोगार्थं वित्तीयसहायतानुदानम्। 
6. पारम्परिकसंस्कृतपाठशालासु / संस्थासु विद्यमानानां छात्राणां व्यावसायिकप्रशिक्षणकार्यक्रमाणाम् आयोजनार्थम् पञ्जीकृतशैक्षिकसङ्घटनादिभ्यः वित्तीयसहायतानुदानम् ।
7. संस्कृतशिक्षणस्य  मानकानां परिपोषणाय विश्वविद्यालयेभ्यः / मानितविश्वविद्यालयेभ्यः सी. बी. एस्. ई / एन्. सी. ई. आर्. टी / एस्. ई. ई. आर्. टी प्रभृतिभ्यः वित्तीयसहायतानुदानम्।
     * उपर्युक्तानां योजनानाम् अन्तर्गततया वित्तीयसहायतार्थम् आवेदयितुम् अन्तिम दिनाङ्कः 30. 06. 2018
----------------------------------------------------------
8. संस्कृतस्य विकासाय दशवर्षीयभावियोजनायाः परिकल्पना तथा क्रियाविधिपत्रकान्तर्गततया (Vision & Road Map) अष्टादशी - परियोजनानां निमित्तम् आवेदनपत्राणि आमन्त्र्यन्ते।
अष्टादशी परियोजनानां निमित्तम् आवेदनपत्रस्य स्वीकृतेः अन्तिम दिनाङ्कः 30. 04. 2018 
----------------------------------------------------------
सूचना- प्रत्येकं योजनायाः कृते आवेदितानि असम्पूर्णानि आवेदनपत्राणि तथा निर्धारित तिथेः पश्चात्  प्राप्रानि आवेदनपत्राणि नैव स्वी क्रियन्ते । उपर्युक्तानां सर्वासां योजनानां (क्रमशः 1 तः 8) आवेदनपत्राणि, नियमाः सूचनाः इत्यादीनां सम्पूर्णविवरणं संस्थानस्य  वेब् सङ्केतात् ( www.sanskrit.nic.in ) प्राप्तुं शक्नुवन्ति।
कुलसचिवः (प्र)

Saturday, April 28, 2018

समारब्धः विश्वसंस्कृत-प्रतिष्ठानस्य सांवत्‍सरीय-समारोहः ॥
किरणकुमारः आर् 
     अम्पलप्पुष़ा> विश्वसंस्कृतप्रतिष्ठानस्य अष्टात्रिंशत् राज्यस्तरीय सांंवत्सरीय-समारोहः अम्बलप्पुषा विद्याधिराजकेन्द्रीय विद्यालये समाारब्धः। राष्ट्रियसंस्कृतसंस्थानस्य कुलसचिवेन डा सुब्रह्मण्यशर्मवर्येण सम्मेलनं समुद्घाटितम्॥ प्रोफः कृष्णकुमारवर्यः पण्डितरत्न्  पुरस्कारेण तथा श्री केरलवर्मा महोदयः सहृदयतिलकम् इति पुरस्कारेण च समादृतौ। संस्कृतभारत्याः अखिलभारतसम्पर्कप्रमुखः श्री प नन्दकुमारवर्यायः मुख्यभाषणमकरोत्।   दिनद्वयात्मक मेलने २०० प्रतिनिधयः भागभाजिनः आसीत् ।
अपत्यानि वाहनं चालयति चेत् पितरौ दण्डितौ भविष्यतः।
         हैदराबाद्> गतागतनियमान् उल्लङ्घ्य बालाः वाहनं चालयन्ति इति अपघातदुर्घटनायाः सङ्ख्या वर्धयति। अतः गतागतनियमः कर्कशतया पालयितुं निश्चित्य नूतननियमः  प्रबलं जातम्। नियमलङ्घकानां पुरतः कर्कशप्रक्रमेण हैदराबादस्य गतागतविभागस्य आरक्षकाः घटीबद्धाः अभवन्। नियमस्य प्रबलतया गतमासद्वयाभ्यन्तरेण षट्विंशति (२६) रक्षाकर्तारः आरक्षकैः ग्रहीताः।
दिनद्वयात् पूर्वं यन्त्र विज्ञानार्थिनोः द्वयोः छात्रयोः अनवधानयान-चालनेन एकस्य अपघातमृत्युः अभवत्। मार्गदुर्घटनां न्यूनीकर्तुम्  उद्दिश्य बालकान् तथा तेषां पितॄन् च उपदेष्टुम् अयं सन्दर्भः उपयुज्यते इति आयोगाध्यक्षः कृष्णकुमारः अवदत्।
कोरियन् अग्रे परं शान्तिदिनानि; राष्ट्रपतिद्वयस्य मेलनं सफलम्। 
          सोल् > आविश्वम् आकांक्षया प्रतीक्ष्यमाणस्य कोरियन् उच्चकोटिसम्मेलनस्य आश्वासप्रदायकः समाप्तिः। दक्षिणोत्तरकोरियाराष्ट्रयोः भूशिरसि सम्पूर्णम् अण्वायुधनिराकरणं सम्पत्स्यति, भूमण्डले सर्वत्र स्थिरां शान्तिं पुनःस्थापयिष्यतीति  प्रख्यापनेन राष्ट्रयुगलस्य राष्ट्रपत्योः उन्नततलमेलनं परिसमाप्तम्। 
      "दौर्भाग्यकराणि गतदिनानि" न पुनरावर्तयितुम् एकमनसा प्रवर्तयिष्यतीति उत्तरकोरियाशासकः 'किं जोङ् उन्' नामकः तथा दक्षिणकोरियाशासकः 'मुन् जे इन्' नामकश्च संयुक्तप्रस्तावेन उक्तवन्तौ। कोरियन् संग्रामं शासकीयतले परिसमापयिष्यतीति ताभ्यां निगदितम्। शुक्रवासरे प्रादेशिकसमयानुसारं नववादने एव कोरियाराष्ट्रयोः सीमनि सैनिकरहितमण्डले 'पान् मुन् जोम्' प्रदेशे  वर्तमाने "शान्तिभवने" आविश्वं प्रतीक्ष्यमाणं मेलनं सम्पन्नम्।
पाक् होक्की कीडकाय भारतहृदयः
     मुम्बै > एकदा असामान्यक्रीडनैः भारतहृदयेषु वेदनां दत्ताय पाकिस्थानस्य भूतपूर्वक्रीडकाय मन्सूर् अहम्मदाय अधुना भारतेन हृदयदानं करणीयम्। हृदयरोगपीडितः सः भारते विदग्धचिकित्सायै वैद्यविसां लब्धुं भारतसर्वकारं प्रति आवेदनं समर्पयत्। तस्मै निशुल्कचिकित्सां दातुं 'होर्टिस्' नामकः आतुरालयसङ्घः सन्नद्धतां प्राकट्यत्। उचितं हृदयं स्वीकर्तुं सङ्घेन मुम्बई,चेन्नै मध्ये च पञ्जीकरणम्‌ अकरोत् इति सङ्घस्य कार्यकर्तृभिः सूचितम्। अधुना मन्सूर् अहम्मदः पाकिस्थाने कराच्च्यां जिन्ना आतुरालये चिकित्सां स्वीकुर्वन् वर्तते। तत्रत्याः वैद्याः एव भारते विदग्धचिकित्सां निरदिशन्। विसा अनुज्ञाविषये भारतसर्वकारस्य निर्णयः प्रधानः वर्तते।
नायकत्वं परिवर्तितम्-विजयः समागतः
 रजीष् नम्पीश ः 
     नवदल्ही > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां डेल्ही दलं ५५ धावनाङ्कैः कोल्कत्ता दलं पराजयत्।ह्यः डेल्ही दलं नूतननायकस्य श्रेयस् अय्यरस्य नेतृत्त्वे एव अक्रीडयत्। श्रेयस्‌ अय्यर् ४० कन्दुकेभ्यः ९० धावनाङ्कान् सम्पाद्य डेल्ही दलस्य विजयशिल्पी अभवत्।विजयोऽयं डेल्ही दलस्य आत्माविश्वासम् अवर्धयत्। अङ्कस्थितिः - डेल्ही डेर्डेविल्स् २१९/४ कोल्कत्ता नैट् रैडेर्स् १६४/९.

Friday, April 27, 2018

मेई २८ दिनाङ्के उपनिर्वाचनानि विहितानि।
       नवदेल्ही > राष्ट्रस्य विविधेषु विधानसभा - लौकसभामण्डलेषु म‌ईमासस्य २८ दिनाङ्के उपनिर्वाचनानि भविष्यन्ति। *केरलराज्ये* चेङ्ङन्नूर् मण्डलेन सह बीहारस्य लौकिहत्, झार्खण्डस्य गौमिया, सिल्ली  महाराष्ट्रराज्यस्य पलूस्, कडेगाव् तथा अम्पति (मेघालयः), षाक्कौट् (पञ्चाबः), तरली (उत्तराखंड), नूर्पुरं (उत्तरप्रदेशः), महेश तलं (वंगराज्यं) इत्येतेषु १० विधानसभामण्डलेषु  भण्डारगोण्डिया, पल्गारं  [महाराष्ट्रम्] ,नागालान्ड् [नागालान्ड्], कैरैना [उत्तरप्रदेशः] इत्येतेषु चतुर्षु लोकसभामण्डलेषु च निर्वाचनानि भविष्यनंति।  नामनिर्देशिकीपत्रसमर्पणस्य अन्तिमं दिनं मई १० भवति। मतगणना मई ३१दिनाङ्के च भविष्यति।
कन्दुकप्रेषकाः पुनरपि रक्षकाः
-रजीष् नम्पीशः
      हैदराबाद्‌ > विवो ऐ पि एल् २०१८ सपर्यायां हैदराबाद् दलेन पञ्चाबदलं १३ धावनाङ्कैः पराजितम्।ह्यः सम्पन्नक्रीडायां हैदराबाद् दलं १३२ इति सामान्यं न्यूनाः अङ्काः एव सम्पादिताः।किन्तु कन्दुकप्रेषकाणां सामर्थ्यं  हैदराबाद्‌ दलस्य कृते सहायकम् अभवत्।अनेन विजयेन अ‌ङ्कपट्टिकायां हैदराबाद्‌ दलं द्वितीयस्थानं सम्पादयत्।अङ्कः - स‌ण् रैसेर्स् हैदराबाद्‌ १३२/६ किङ्स् इलवन् पञ्चाब् ११९/१०
अत्यधिकसुरक्षया सह तृतीयपरम्परायाः  मतदानयन्त्रम् आगतम्।
          नवदिल्ली> तृतीय परम्परायाः विद्युतमतदानयन्त्राणि निर्वाचनायोगेन बहिरानीतानि। मार्क् ३ इ वि एम् इति नामाङ्कितः नूतनयन्त्रः शतमानतया संपूर्णरूपेण (१००%) सुरक्षि भवति। येनकेनापि प्रकारेण नाशं न याति, व्याजं कर्तुं न शक्यते,  एते भवतः यन्त्रस्य विशेषता इति निर्वाचनायोगः वदति। 
‍         इलट्रोणिक्स् कोरपरेषन् ओफ् इन्ट्या लिमिट्टड्  (इ सि ऐ एल्) भारत् इलट्रोणिक्स्  लिमिट्टड् च मिलित्वा नूतनयन्त्रस्य निर्माणं अकुरुताम् । येनकेनापि मार्गण त्रुटयः भविष्यन्ति चेत् सा त्रुटिः स्वयमेव प्रत्यभिज्ञात्वा परिहर्तुं सज्जः भवति नूतनः यन्त्रः।  कृत्रिमप्रवर्तनानि निवारयितुं यन्त्रः स्वयमेव सज्जः भवति इति मिर्वाचनायोगाध्यक्षेण उक्तं च।

Thursday, April 26, 2018

सर्वोच्चन्यायालयस्य सम्पूर्णोणोपवेशयनाय प्रार्थयन्ते न्यायाधीशाः
          नवदिल्ली> सर्वोच्चन्यायपीठस्य समस्याः परिहर्तुं सम्पूर्णन्यायालयः आमन्त्रितव्यः इति आवश्येन साकं न्यायाधीशाः । न्यायाधीशाः रञ्जन गोगो तथा मदन बि लोक्कूरश्च एतदुन्नीय मुख्यन्यायाधीशाय दीपकमिश्राय पत्रम् प्रैषयताम्। मुख्यन्यायाधीशं विस्तरेदिति आवश्यमुन्नीय गतदिने विपक्षदलेन निवेदनं दत्तमासीत्।  किन्तु राज्यसभाध्यक्षः वेङ्कय्य नायिडुः तन्निदनपत्रं तिरस्कृतवान्। एतदनुवर्त्य एव सम्पूर्णन्यायालयस्य उपवेशनं
आवश्यकमिति  उन्नीय न्यायाधीशाः पुरतः आगताः। सर्वोच्चन्यायपीठस्य सुरक्षायै भाविने च एतदत्यावश्यकमिति संसूच्यैव न्यायाधीशैः  आवश्यमेतत् पुरस्कृतम्।
          नैके न्यायाधीशाः समानं आवश्यं संसूच्य आगतवन्तश्च। समयेस्मिन् न्या. श्री मिश्रः पत्रस्य प्रतिकरणमेव नादात्। सोमवासरे प्रातः प्रवृत्ते न्यायाधीशानां मेलने तदनन्तरे प्रवृत्ते चायापान वेलायां च सम्पूर्णन्यायालयस्य आह्वयनसम्बद्धान् विषयान् न्यायाधीशाः असूचयन् चेदपि मिश्रया प्रतिकरणं किमपि न कृतम्।  नीतिन्यायव्यवस्थायां सुप्रधानसमस्याः यदा आगच्छन्ति तदा एव  मुख्यन्यायाधीशः सम्पूर्णन्यायालयम् आमन्त्रयति। तदा सर्वोच्चन्यायपीठस्य समस्ताः न्यायाधीशाः  उपवशने  भागं गृह्णीयुरिति नियमः।
विजयः-चेन्नै दलं प्रथमस्थाने
-रजीष्‌ नम्पीशः 
       बङ्गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः संवृत्तस्पर्धायां चेन्नैदलेन बाङ्गलुरु दलं पञ्चभिः क्रीडकैः पराजितम्।उद्वेगभरितायां स्पर्धायां भारतस्य भूतूपूर्वनायकस्य एम् एस् धोनिनस्य अद्‌भुतप्रकटनमेव चेन्नै दलस्य कृते उपकारकम् अभवत्।बृहदङ्कान् अनुवर्तमाने सन्दर्भे पराजयमभिमुखीकृतवेलायां धोनिनः मनःसान्निध्यमेव चेन्नै दलस्य विजयकारणम्‌ अभवत्। धोनी ३४ कन्दुकेभ्यः ७० धावनाङ्कैः अपराजितः आसीत्। चेन्नै कृते अम्बाट्टि रायिडु ८२ धावनाङ्कान् प्राप्तवान्।अनेन विजयेन चेन्नै दलम् अङ्‌कपट्टिकायां प्रथमस्थानं प्रापयत्।अङ्काः- बाङ्गलुरु रोयल् चालञ्जेर्स् २०५/८ चेन्नै सूपर् किङ्स् २०८/५  ॥

Wednesday, April 25, 2018

'एफ् आर् एस् सोफ्ट् वेर्' - दिनचतुष्टयेन दिल्ली आरक्षकैः ३००० शिशवः  प्रत्यभिज्ञाताः।
      नवदिल्ली> अप्रत्यक्षाः त्रिसहस्रं शिशवः दिनचतुष्टयाभ्यन्तरे प्रत्यभिज्ञाताः। दिल्लीस्थ आरक्षकविभागस्य नूतनसङ्गणककार्यक्रमेण ( एफ्आर् एस् सोफ्ट्वेर्) विविधबालभवनेषु विद्यमानेषु  पञ्च चत्वारिंशत् (४५०००) बालकेषु त्रिंशदधिकनवशतोत्तरद्विसस्रं (२९३०) बालकबालिकान् प्रत्यभिजानीय तान् स्वस्व गृहं प्रति प्रषितवान्। उच्चन्यायालये प्रदत्ते सत्यवाङ्मूलपत्रे एव स्त्री- शिशु मन्त्रालयेन एवं लिखितम्। मुख-प्रत्यभिज्ञानव्यवस्था उपयुज्य एव दिन-चतुष्टयाभ्यन्तरेण शिशवः संग्रहीताः। सङ्गणक -व्यवस्थायाः परीक्षणार्थम् आसीत् आरक्षकाणाम् अयं प्रक्रमः। अप्रत्यक्षाणां चित्राणि तथा अन्यानि विवरणानि च उपयुज्य  बालभवनेषु संरक्षितानां बालकबालिकयोः मुखरुपस्य उपमानत्वेन प्रत्यभिज्ञाताः। सर्वोच्चन्यायालयस्य आदेशानुसत्य आसीत् अयं प्रक्रमः।
फिजि देशे भूचलनम् - रिक्टर् मापिकायां ५.५  अङ्कितम्
सुव> फिजि देशस्य राजधानी अतिशक्तेन भूचलनेन प्रकम्पितःI रिक्टर् मापिकायां ५.५ इति अङ्कितेन चलनेन जीवापायाः वस्तुनाशाः वा न आवेदितः। सुनामि (अत्यधिक जलोपप्लवः) पूर्व सूचना अपि न प्रदत्ता।