OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 28, 2018

काञ्चि-कामकोटि पीठाधिपतयः जयेन्द्र-सरस्वती स्वामिनः समाधिस्थाः।

            काञ्चीपुरम्> काञ्चि-कामकोटि पीठाधिपतयः जगद्गुरु जयेन्द्र-सरस्वती स्वामिनः समाधिस्थाः अभवत्। अद्य प्रातः नववादने आसीत् गुरोः देहत्यागः। त्र्यशीतिवर्ष देशीयः स्वामिपदाः विगतेमासे पञ्चदश-दिनाङ्के श्वासस्थगनेन अतुरालयं प्राविशत्। 
काञ्ची पीठस्य नवषष्ठी तमः अधिपः आसीत् जगद्गुरु जयेन्द्र सरस्वती। १९९४ तमात् आरभ्य एषः मठाधिपतिः आसीत्।
जम्मु - काश्मीरे भीकराणां सान्निध्यमस्ति इति आरक्षकाधिकारी
                श्रीनगरम् > जम्मुकाश्मीरे आतङ्कवादिनां सान्निध्यमस्ति इति  आरक्षक विभागाध्यक्षः  एस् पी वैदः। इस्लामिक् स्टेट् दलाध्यक्षः अबू बक्कर् बाग्दादि इत्यस्य प्रभाषणेन प्रभावितः जनः स्वयमेव आक्रमणोत्सुकाः भवितुम् अर्हति इति आरक्षकविभागेन पूर्वसूचना प्रदत्ता। विगते शनिवासरे राज्ये एकः आरक्षकः हतः । हननस्य दायित्वम् इस्लामिक् स्टेट् दलेन  स्वीकृतम् आसीत् । एतस्य पश्चात् एव राज्ये भीकरदलानां सान्निद्ध्यम् अस्ति इति आरक्षकाध्यक्षेण प्रस्तावितम्। D TV एव एतत् आवेदितम्।
                      यूरोप् भूखण्डे एतादृश आशये मग्नैः केचन अङ्गुलीपरिमितैः क्रियमाणाः आक्रमणाः प्रतिकूलतां वर्धते। ईदृशी अवस्था काश्मीरे जयते चेत् बहुक्लेशः भविष्यति इति आरक्षकाधिकारी वैदः अवदत्।
श्रीदेव्याः अन्त्येष्टिकर्म अद्य - मृतदेहः मुम्बय्यां प्रापितः। 
              मुम्बई > गतदिने दुबाय् मध्ये दिवंगतायाः अभिनेत्रिप्रतिभायाः श्रीदेव्याः अद्य अन्त्यसंस्कारः विधीयते। मुम्बय्यां 'पवन हान्स्' समीपस्थे श्मशाने अपराह्ने  सार्धत्रिवादने अन्येष्टिक्रियाः समर्पयिष्यन्ते। 
         श्रीदेव्याः मरणसम्बन्धिनी दुरूहता ह्यः एव समाप्ता। मरणकारणं न हृदयाघातः किन्तु जले निमज्य इति मरणोत्तरशोधनायां निर्णीतमासीत्। अपि च रक्ते मदिरासान्निध्यं च दृष्टम्। अतः मरणविषयः दुबाय् आरक्षकैः सर्वकारस्य 'पब्लिक् प्रोसिक्यूषन्' संस्थायै समर्पितः। तेषां विशदान्वीक्षणस्य निर्णयस्य चाधारे दुरूहता अपगता। मद्योन्मादेन स्नानागारे विद्यमाने स्नानद्रोणीं पतित्वा तस्मिन् निमज्य एव मरणमभवदिति स्थिरीकृतः! तत्परमेव मृतदेहः बन्धुजनेभ्यः दत्तः!

Tuesday, February 27, 2018

चीनाः शाकाहारी भवन्ति। मांस भोज्यानि त्यक्तवतां सङ्ख्याः वर्धते।
           बेय्जिङ्> विश्वस्य बृहतमः मांसविपणी भवति चीना। इदानीं ततः नूतनावेदनानि उपलभ्यते। बहोः कालात् पूर्वं चीनादेशे शाकाहारिणः विरलाः आसीत्। किन्तु इदानीं स्थिति: विपरीता अभवत्। चीना देशे सर्वत्र शाकाहारी भक्षणालयाः  अत्यधिकतया वर्धिताः इति च आवेदने उच्यन्ते। स्वास्थ्याय शाकाहारः एव युज्यते इति मन्वानः  बहवः सन्ति इति नूतन परिवर्तनस्य कारणत्वेन वदन्ति।
             मांसरहितं पूर्णतया प्रकृति सैहृदतया रोपितं शाकाहारमेव भोक्तव्यम् इति चीनानां अभिलाषः। २०१२ तमे संवत्सरे षाङ् हाय् प्रविश्यायां ४९ शाकाहारी भक्ष्यशालाः एव आसन्I किन्तु २o१७ तमे वर्षो अस्याः भोज्यशालायाः संख्या शाताधिका इति वर्धिता। अन्यासां प्रविश्यायामपि  एतादृश वर्धनम् अभवत्I विश्वस्य शाका विपणिषु उपभोगस्य ४०%  चीनराष्ट्रे  इत्येव गण्यते। मांसाहारः रक्तातिमर्दस्य अतिशरीरस्य च हेतुः इति बोधकरणः चीना राष्ट्रे सर्वत्र प्रचलत् अस्ति।

Monday, February 26, 2018

राष्ट्रपतिपदं - अनुवर्तिता व्यवस्था षि जिन् पिङ् इत्यस्य कृते  निरस्यते।
           बैजिङ् > चीनाराष्ट्रस्य राष्ट्रपतिपदे द्विवारात् अधिकम् अनुवर्तमानं व्यवस्थां  विरुद्ध्य आसीनः नियमः कम्यूणिस्ट् दलस्य शासन संविधानात् निष्कास्यते। राष्ट्रपतेः षि जिन् पिङ् इत्यस्य २०२३ तम संवत्सरान्तरमपि शासकरूपेण अनुवर्तितुं सन्दर्भकरणाय एतत् इति वार्तासंस्थया सिन् हुवया आवेदितम्। आधुनिक चीनस्य शक्तः नेता इति षि जिन् पिङ्: व्यवह्रियते। अतः अपरिमेयः शासनकालः तस्मै दातुमेव शासनसंविधानस्य परिष्करणमिति मन्यते।
शुचित्वयोजनायां भागं कर्तुं आह्वानं कृत्वा मन् की बात्।
       नव दिल्ली> स्त्रीणां प्रगतिः इत्यतः स्त्रीभिः नीता प्रगतिः इति अवस्तान्तरेण भारतसमूहः परिवर्त्यते इति मन् की बात् कार्यक्रमे प्रधानमन्त्रिणा मोदिना उच्यते। जीवनस्य समस्तमण्डलेषु स्त्रीणां भाग भाक्तं सबलं कर्तुं दायित्वं समूहस्येव भवति इत्यपि प्रधानमन्त्रिमहोदयेन उक्तम्। मालिन्य-निर्मार्जनम् पुनरुपयुक्त-मालिन्यबोधः च परिकल्पयितुं छत्तीस्गढ् राज्येन कृतयोजना प्रधानमन्त्रिणा विशेषतया अभिनन्दिता। मलिनवस्तून् ऊर्जवत् तथा धनप्रदायकवत् परिवर्तितुं सर्वेषाम् अनुकूलताम् अवाप्य भवतु इति मोदिना उक्तम्।

Sunday, February 25, 2018

मनोगतम्-४१’  ‘मन की बात्’      - नरेन्द्र मोदी
प्रसारण-तिथिः - 25.02.2018

   -   संस्कृत-भाषान्तर-कर्ता     -  डॉ.बलदेवानन्द-सागरः 

मम प्रियाः देशवासिनः, नमस्कारः |
अद्य प्रारम्भादेव ‘मन की बात’-प्रसारणं दूरभाषाकारणातः एव कुर्मः |         (दूरभाषाकारणा )
आदरणीय ! प्रधानमन्त्रि-महोदय !! अहं कोमल-त्रिपाठी, मेरठतः वदामि... अष्टाविंशति-दिनाङ्के ‘national science day’- इति राष्ट्रिय-विज्ञान-दिनं वर्तते... भारतस्य प्रगतिः विकासश्च, पूर्ण-रूपेण विज्ञानेन सम्बद्धौ स्तः... यावन्तम् अत्र वयं नवाचारम् अनुसन्धानञ्च करिष्यामः, तावन्तमेव अग्रेसरिष्यामः तथा च समृद्धिम् अवाप्स्यामः... किं भवान् अस्मदीयान् यूनः प्रोत्साहयितुं कांश्चन तादृशान् शब्दान् कथयिष्यति येन हि ते वैज्ञानिक-पद्धत्या स्वीयां विचार-सरणीम् विवर्धयेयुः तथा चास्माकं राष्ट्रमपि अग्रेसारयितुं शक्नुयुः...धन्यवादः |   भवत्याः दूरभाषाकारणायाः कृते भूरि-भूरि धन्यवादः | विज्ञानमधिकृत्य मम युव-सहचराः माम् अनेकान् प्रश्नान् अपृच्छन्, ते किमपि किमपि सततं मां लिखन्ति | वयम् अवलोकयामः यत् समुद्रस्य वर्णः नीलः दृश्यते परञ्च वयं स्वीय-दैनिक-जीवनस्य अनुभवैः जानीमः यज्जलस्य न कश्चन वर्णो भवति| किं कदाचिद् अस्माभिः विचारितं यत् नद्याः, समुद्रस्य वा जलं वार्णिकं कथं भवति ? अयमेव प्रश्नः विंशत्युत्तर-एकोनविंशति-शत-तमस्य  [1920] दशके एकस्य
नीरव् मोदितः १०,०००घट्यः प्रतिग्रहीतः। 
            नवदिल्ली> पञ्चाब् नाषणल् वित्तकोशात् ऋणधनचोरण प्रकरणे अपराधिनः नीरव् मोदिनः पार्श्वतः दशसहस्रं (१०,०००) घट्यः प्रतिग्रहीताः। एतस्य गृहतः वाणिज्य-संस्थाभ्यः च एते अतिमूल्यघट्यः लब्धः। एन्फोर्स्मेन्ट् निर्देशकालयेन कृतायाम् अन्वेषणे षष्ठि (६०) संख्यामितायां पलास्तिक पेटिकायां निक्षिप्रावस्थायामासीत् घट्यः। वज्राभरणेन सह विक्रयणाय अवनीताः स्यात् एते इति सूच्यते एन्फोर्स्मेन्ट् निर्देशकालयेन। इदानीं नीरव् मोदिनः धनविनिमयादयः स्थम्भितः अस्ति।
अभिनेत्री श्रीदेवी दिवंगता।
         कोच्ची > अतुल्यया अभिनयप्रतिभया सार्धदशकाधिकैः संवत्सरैः 'बोलिवुड्' चलच्चित्रमण्डलस्य मुखश्रीरूपेण परिलसिता विख्याता अभिनेत्री श्रीदेवी [५४] दिवंगता। दुबाय् देशे कस्मिंश्चन विवाहोत्सवे भागभाजं कर्तुं गतासीत्। मदिरां पीत्वा स्नाना य गता सा स्नानभ्ष्ट्रे निमज्जिजिता मृत्यु वशं गताः इति श्रूयते।  आतुरालये  प्रवेशितापि तत्पूर्वमेव मरणग्रस्ता इत्यपि श्रूयते।  रात्रौ सार्धैकादशवादने  अन्त्यं जातं स्यादिति मन्यते। स्वस्य चतुर्थे वयसि तमिळ् चलच्चित्रे नटनं कृत्वा एव श्रीदेव्याः अभिनयजीवनमारब्धम्। ततः हिन्दी, मलयालं, तमिल्, कन्नटा, तेलुगु इत्यादिषु भाषासु २५० परं चलच्चित्रेषु स्वस्य अभिनयप्रतिभां प्रकाशितवती। २०१३ तमे वर्षे राष्ट्रस्य पद्मश्री बहुमत्या समादृता। श्रीदेव्याः मरणे राष्ट्रपतिः, प्रधानमन्त्री, बहवः चलच्चित्र-सांस्कृतिक प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।।
वनवासिनः हत्या - सर्वे अपराधिनः गृहीताः। 
       पालक्काट् > केरले मधुनामकस्य वनवासियुवकस्य हत्यायाम् भागभागं कृतवन्तः सर्वे आरक्षकैः निगृहीताः। षोडश युवकाः अस्मिन् निष्ठुरे व्यापादने भागभागं कृतवन्तः इति आरक्षकाधिकारिभिः उक्तम्। तथा च मधोः मरणं संघटितेन मर्दनेनेति वैद्यसंघेन मरणोत्तरशोधनायाम् उपस्थापितम्। अनेकैः कृतस्य किरातमर्दनस्य सूचनाः मृतदेहे वर्तन्ते। शरीरे ताडनक्षतरहितः भागः नास्तीति वैद्यैः निरीक्षितम्। वरिष्ठवैद्यैरेव मरणोत्तशोधना कृता।

Saturday, February 24, 2018

तालिबानैः  भीकराक्रमणं -२२ सैनिकाः हताः।
      काबुल्> अफ्गानिस्थानस्य सैनिकस्थाने तालिबानस्य भीकरेण कृताक्रमणे द्वाविंशति(२२) सैनिकाः हताः। राजधान्यां आत्मघातिना कृताक्रमणे एकः च हतः षट्जनाः क्षताः। अफ्गानिस्थानम् अनुकूल्य यु एस् सैन्येन तालिबानं विरुद्ध्य कृतव्योमाक्रमणानुबन्धितया प्रत्याक्रमणवत् कृतमासीत् इदम् आक्रमणम्। अफ्गानिस्थानस्य पश्चिमप्रविश्यायां फरह्  मण्डलस्य सैनिकरक्षास्तम्भे एव घटनेयं प्रवृत्ता।
सभामेलनानि शतं दिनानि प्रचाल्यन्ताम् इति निश्चयं भवतु - प्रणाब् मुखर्जी।  
         नवदिल्ली> विधानसभायां प्रतिनिधि सभायां च मेलनानि न्यूनातिन्यूनं शतं दिनानि यावत् भवन्तु इति प्रधानमन्त्री तथा अन्ये मन्त्रिणः च निश्चयं करणीयम् तदर्थं नूतन नियमनिर्माणस्य आवश्यकता नास्ति इति भारतस्य भूतपूर्वराष्ट्रपतिना प्रणाब् मुखर्जिना  उक्तम्। 
        इन्स्टिट्यूट् आफ् सोष्यल् सयन्स् इति संस्थया आयोजिते डि टि लक्डवाला नामकस्य आर्थिक-विचक्षणस्य अनुस्मरणकार्यक्रमे भाषमाणः आसीत् सः। सम्मेलनदिनानि न्यूनानि तथा सभाकार्यक्रमाणां स्थगनं च भवति। एतत् न स्वीकार्यः, न अनुवर्तनीयः। प्रश्नकरणस्य चर्चायां भागभाक्करणस्य सर्वकारस्य प्रत्युत्तरश्रवणस्य च सामाजिकानाम् अधिकारः तथा सन्दर्भः च विनष्टः जायते इत्यपि प्रणाब् मुखर्जीवर्येण उक्तम्।

Friday, February 23, 2018

वित्तकोशर्णधनापहरणं - कोत्तारी पुत्रश्च सिबिऐ संस्थया गृहीतौ। 
    नवदिल्ली > वित्तकोशेभ्यः कोटिशः रूप्यकाणि अपहृतानि इति विषये 'रोटोमाक् पेन्स्' नामिकायाः  वाणिज्यसंस्थायाः स्वामी विक्रम् कोत्तारी  तस्य पुत्रः राहुलश्च सिबिऐ अधिकारिभिः निगृहीतौ। 'बैंक् ओफ् बरोडा' वित्तकोशस्य नेतृत्वे वर्तमानात् सप्तानां वित्तकोशानां समूहात् ऋणरूपेण स्वीकृतानां ३६९५ कोटिरूप्यकाणां प्रत्यर्पणे विलम्बः कृतः इत्यस्ति व्यवहारविषयः।
मनोगतम्
“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]      (प्रसारण-तिथि:)            
                                       -    बलदेवानन्द-सागरः  
मम प्रियाः देश-वासिनः !
             नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group - इत्यस्य ‘विजय-कर्णाटक’-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि,  देशस्य समस्याभिः अभिज्ञाताः सन्ति,  देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City - इति  योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति |
             लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति |

Thursday, February 22, 2018

आधारपत्रमिव शिशूनां कृते नूतना प्रत्यभिज्ञानसङ्ख्या।
           नवदिल्ली> शिशूनां कृते  प्रत्यभिज्ञानसङ्ख्या आधारपत्र सङ्ख्या इव  सज्जीक्रियते केन्द्रसर्वकारेण। शिशूनां जननमारभ्य शिक्षा, स्वास्थ्यम् इत्यादि विशेषाः संग्रहीतुम् उद्दिश्यते । किन्तु बयोमेट्रिक् विवरणानि न रेखीक्रियते। 
           शिशूनां जननकाले स्वास्थ्य विभागात् एव संख्या लभते। अनन्तरम् इमानि विवरणानि आधार् संख्यया सह बद्ध्नाति। अतः अस्मिन् संख्यायाम्  समग्रविवरणानि भविष्यति।  राष्ट्रस्य शिशूनां शिक्षा, शिक्षानन्तरं  कर्मरहिनां गणानादिकं च अवगम्यते। अतः शिक्षायाः श्रेष्ठतावर्धनं  भविष्ययोजनायाः आयोजनं च शक्यते।
भारतात् भीत्या चीनेन व्योमसुरक्षा वर्धापिता I
         नवदिल्ली >  भारतात् आक्रमणभीत्या चीनेन सीमायां सुरक्षाप्रक्रमाः वर्धापिता। वार्तामिमां चीनस्य सेनाविभागेन आवेदितम्I जे १० एयर्क्राफ्ट् लघुभारयुक्तः मल्टि रोल् एयर् क्राफ्ट्, जे- ११ एक आसन्दयुक्त एन्जिन्द्वययुक्त एयर् क्राफ्ट् च सीमायां विन्यस्ताः। पीप्पिल्  लिबरेषन् सेनायाः  अन्तर्जालेन संयोज्य एव अस्य प्रवर्तनं सज्जीकृतम् ।
सुप्रसिद्घनटः कमलहासः  नूतराजनैतिकदलं अवातारयत् ।
॥ 'मक्कल् नीति मय्यम्' ॥
                मधुर> दक्षिणभारतस्य विख्यातः नटः कालहासः 'मक्कल् नीति मय्यम्' इति नूतनं राजनैतिकदलम् व्यज्पयत्I दिल्ली मुखयमन्त्री अरविन्द् केजरिवाल्  अन्ये आम आद्मीदल नेतारः च कार्यक्रमे भागभाजः आसन्।  अहं नेता न जनेषु एकः एव।  केरल मुख्यमन्त्रिणः पिणरायि विजयस्य वीडियो सन्देशमपि तत्र प्रदर्शितवान् । भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल् कलामस्य गृहसन्दर्शनानन्तरमेव राजनैतिक दल प्रख्यापनस्य  प्रारम्भयात्रामारब्धवान् ।

Wednesday, February 21, 2018

महाराष्ट्र सर्वकारस्य  विमाननिर्माणदायित्वं युवकाय।
                मुम्बै> प्रथमविमाननिर्माणेन  सफलताम् अवाप्य अमोल् यादवः।  महाराष्ट्र सर्वकारस्य कृते विमाननिर्माणस्य दायित्वम् इदानीं अमोल् यादवस्य एव। एतदर्थं पञ्चत्रिंशत् कोटिरुण्यकाणि सर्वकारेण प्रदास्यते। अमोलस्य तेर्स्ट् एयर्क्राफ्ट् प्रै. लिमिट्टड्  नाम उद्योग संस्थया निर्मितं षट् यात्रिकणां यात्रासनयुक्तं विमानं व्याेमयान विभागस्य अङ्गीकारम् अवाप्तम्  इत्यनेन एव महाराष्ट्र सर्वकारः सन्धौ  हस्ताक्षरीकृतम्।  योजनायाः कृते पल् गर् जनपदे सप्तपञ्चाशतधिक एकशत (१५७) 'एकर्' परिमितं भूमिं प्रदास्यते। नवदश यात्रारासनयुक्तं विमानमेव (१९) नवीनायां योजनायां प्रथमतया निर्मीयते इति अमोल् यादवेन उक्तम्।