OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 8, 2017

सियाङ् नद्याः जलं उपयोगरहितम् अभवत् । चीनस्य प्रक्रिया इत्याशङ्क्यते।
        गुवाहत्ति> उत्तर अरुणाचलप्रदेशस्य जलस्रोतः भवति सियाङ् नदी। अस्याः नद्याः जलं सकल माहर्तुं चीनेन बृहन्नालिका निर्मिता इत्याशङ्का अस्ति इदानीम्। नदीजलस्य उपयोगराहित्यस्य कारणं चीनस्य बृहन्नालिका-निर्माणमिति वदन्ति विशेषज्ञाः। नवंबर् फेब्रुवरिमासे समृद्धया प्रवहिता आसीदियम्। किन्तु इदानीं श्यामवर्णेन प्रवहति। मलिनपङ्केन पूरितः च अस्ति। 

Thursday, December 7, 2017

जरुसलेम् इस्रायेलस्य राजनगरीति ट्रम्पस्य प्रख्यापनं - पश्चिमेष्यायां नूतनसङ्घर्षाय बीजावापः। 
         वाषिङ्टण् > कालाकालम् अनुवर्तमानं विदेशनयं विगणय्य , जरुसलेमनगरं इस्रायेल् राष्ट्रस्य राजधानीरूपेण अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः अङ्गीकृतवान्। स्वत एव कलुषिते पश्चिमेष्यामण्डले नूतनसङ्घर्षाय हेतुः भविष्यतीदं प्रख्यापनम्। अमेरिक्कायाः सख्यराष्ट्राणि अभिव्याप्य अनेकेषां राष्ट्राणाम् अभ्यर्थनां तृणवत्कृत्य आसीत् ह्यः 'वैट् हौस्' मध्ये ट्रम्पस्य प्रख्यापनम्। जरुसलेमम् इस्रायेलस्य राजधानीरूपेण अङ्गीक्रियमाणं प्रथमराष्ट्रं भवति अमेरिका ।
गुजराते प्रथमचरणात्मकनिर्वाचनानां कृते प्रचारस्याद्य अन्तिमो दिवसः
           सूरत् > गुजरातविधानसभाया: प्रथमचरणात्मकनिर्वाचनानां कृते  प्रचाराभियानस्य अद्य अन्तिमो दिवस: वर्तते। सायं पञ्चवादने प्रथमचरणात्मकप्रचार: पूर्णातां यास्यति । सर्वाणि दलानि मतदातृन् स्वपक्षे कर्तुं संलग्नानि सन्ति । प्रधानमन्त्रिणा नरेन्‍द्रमोदिना प्रोक्तं भाजपाप्रशासनं जनजातीयजनानां कल्‍याणाय कार्यमाचरति। गतदिने नेत्रांगे नैर्वाचिकजनसभायां श्रीमोदी प्रावोचत् यत्  काङ्ग्रेसदलेन 50 वर्षाणि यावत् देशे शासनं कृतं परं  जनजातीयमन्त्रालयस्य स्थापना नैव कृता । अपि च यदा अटलबिहारीवाजपेयी प्रधानमन्त्री निर्वाचित: तदा पृथक्तया जनजातीयमन्त्रालय: स्थापित: ,  जनजातीयजनेभ्यश्च  बजट  प्रावधानं कृतम् ।

       प्रथानमन्त्रिणा मोदिना प्रतिपादितं यत् राज्‍ये बालिकाशिक्षायां विशेषतया जनजातीयबालिकानां स्थितौ परिष्कार: सञ्जात:। तेन काङ्ग्रेसदलाक्षिप्तं यत् तेन भारतस्य स्‍वतन्त्रतान्दोलने जनजातीयानां योगदानं विस्मृतम् अथ च तद्दलं विचारयति यत् स्वतन्त्रतासङ्ग्रामे केवलम् एकस्यैव परिवारस्य कारणेन विजय: अधिगत:। 
पल्लीतः ऐ एस्‌ आर् ओ संस्थां प्रति।
          मुम्बै> मुम्बै देशस्थ फिल्टर् पाड नाम पल्ली प्रदेशस्य गृहस्था इन्दू नामिका षड्चत्वारिंशत् वयस्का माता ऐ एस् आर् ओ संस्थाम् अधिकृत्य न श्रुतवती। अष्टमकक्षा पर्यन्तं शिक्षां प्राप्तवत्याः अस्याः ज्ञानस्य उपरि आसीत् नक्षत्र समूहाः तथा बाह्याकाश-विक्षेपणादयश्च। किन्तु अस्या पुत्रः प्रथमेष् हिर्वे ऐ एस् आर् ओ संस्थायाः सोपाने आरुह्यते अधुना। मातुः दुःखाश्रुः सन्तोषाश्रुवत् परिणमति।
        दौर्लभ्यस्य आधिक्ये आसीत्  प्रथमेशस्य जीवनम्। ततः सम्यक् अध्ययनं कृत्वा एव एषः प्रथमेशः ऐ एस् आर् ओ वैज्ञानिकस्य  पदे प्रविशाति। विद्युत् विज्ञानविभागे एव अस्य नियुक्तिः। बल्ये मातापितरौ तं  कस्यचन भाविनिकालाध्ययन-निर्देशकस्य समीपं अनयत् । सः तं साहित्याध्ययनाय निरदिशत् । किन्तु यन्त्रविज्ञानीयम् अध्येतुमेव अस्ति पुत्रस्य अभिलाषः इति ज्ञात्वा तदर्थं पितरौ साह्यमकुरुताम् । प्रथमेशः विद्युत्यन्त्र वैज्ञानिकं अध्येतुमारब्धवान् च।
          कालः अतीतः। इदानीं ऐ एस्‌ आर् ओ संस्थया उपषोडशसहस्रम् (१६०००)आवेदनपत्रेभ्यः चितानां नवसंख्यानां मध्ये  प्रथमेशोऽपि अन्तर्भवति।

Wednesday, December 6, 2017

उत्तरभारतस्य विविधेषु प्रदेशेषु भूचलनम् - 
प्रभवकेन्द्रः डेराडूणस्य पूर्वस्यां दिशि - तीव्रता ५.५।
             नवदिल्ली > अतरभारतस्य विविधेषु प्रदेशेषु भूकम्पः। दिल्यां समीपप्रदेशे गुड्गावे च भूचलनं शक्तया रीत्या आसीत्I  बुधवासरस्य  रात्रौ आधुना ८.५१ समये आसीत् भूचलनम्। चण्डीगड्, उत्तराघण्ड इत्यत्रापि भूकम्प : जातः इति आवेदनं लब्धम् । उत्तराखण्टस्य रूर्खि तथा डोराडूणे च शक्तं भूचलनं अजायत। भूकम्पस्य तीव्रतता 5.5 इति रिक्टर् मापिकायां
अङ्कितम्  अस्ति।
ड्रम्पस्य ब्रिट्टण् सन्दर्शनं फेब्रुवरिमासे- लक्षशान् सम्मिल्य प्रतिषेध-सञ्चलनम्।
          लण्डनदेशः > यु एस् राष्ट्रपतेः डोणाल्ड् ड्रम्पस्य सन्दर्शनं विरुद्ध्य ब्रिट्टण् देशे प्रतिषेधः शक्तः अभवत्। लक्षशान् जनान् सम्मिल्य प्रतिषेधसमराय ट्रम्प् विरोधिनः यतन्ते। जनानाम् अनिष्टकारणेन प्रतिषेध: भविष्यति इति आवेदनेन अतिथितिरूपसन्दर्शनं परित्यज्य प्रवर्तन सन्दर्शनवत् द्विनद्वयस्य सन्दर्शनमेव इदानीं ट्रम्पेन उद्दिश्यते। फेब्रुवरिमासस्य द्वाविंशति सप्त,विंशति दिनाङ्कयोः एव सन्दर्शनं क्रमीकृतम् अस्ति। लण्डनस्थस्य नवीन दूतावासस्य उद्घाटनानुबन्धतया एव  अमेरिका राष्ट्रपतेः प्रप्रथम ब्रिट्टण् सन्दर्शनम्।
         ड्रम्पस्य आगमनदिने प्रधानमन्त्रिणः औद्योगिकीं वसतीं प्रति प्रतिषेधसञ्चलनम् आयोक्ष्यतुम् एव 'STOP TRUMP CAMPAIGN' नाम दलायोजनस्य लक्ष्यम् I ब्रिट्टणस्य इतिहासे बृहत्तमं प्रतिषेधसङ्गमम् रचयितुमेव तेषां प्रयत्नः ।
महाराष्ट्रे ओखि ताण्डवम्;  केरलम् प्रत्यागन्तुं द्विनवति: जना:।।
             मुम्बै> केरले तमिल्नाडे च तीव्रविनाशकार: ओखि चक्रवातस्य ताण्डवम् महाराष्ट्रे च। तथा च गुजराते सूरत् समीपं वीजमानमेनम् अनुवर्त्य महाराष्ट्रे अतिवृष्टि:। सोमवारे रात्रौ आरब्धा वृष्टि: एतावता न शमनं गता। ओखिवातस्य पश्चात्तले मुम्बै मध्ये समीपमण्डलेषु च शिक्षा संस्थानां कृते विराम: कल्पित:। अमित् षा महोदयस्य नेतृत्वे गुजराते प्रचालनीयानि निर्वाचनप्रचरणानि स्थगितानि।   जाग्रतया महाराष्ट्रम् -चक्रवातेन या कापि गुरुतरावस्था सञ्जाता चेत् तां सम्मुखीकर्तुं सक्रियमार्गै: सह महाराष्ट्रसर्वकार:। यात्रिकाणां नियन्त्रणाय पश्चिमरेलविभाग: अधिककर्मकरान् विन्यसत्। मुम्बै मेट्रोपोलिटन् नगरम्, सिन्धुदुर्गा, ताने, रायगड्, पलसार् इत्येतेषु स्थानेषु विद्यालयानां कलालयानां च विराम: दत्त:। समुद्रतीराणि मा सन्दर्शयेयु: इति जनानां कृते जाग्रतानिर्देशो दत्त:।।


दीर्घायुर्युता इन्द्र चापः।  


ताय् पोय् > सौभाग्यनिमेष: ।अध्यापकेन दृष्टम् इदं दृश्यं पथमतया। इदानीं प्रमाणीकृत रेखापुस्तके निवेष्टुं प्रयत्नं करोति सः।

Tuesday, December 5, 2017

एक रुप्यकस्य शतम् आयुः।

        नवदिल्ली> सर्वोच्च वित्तकोशपालस्य हस्ताक्षरं विना विराजमानं रुप्यकपत्रं भवति एकरुप्यकम्।   इदानीं एतत् रुप्यकपत्रस्य आविर्भावानन्तरं शतं संवत्सराणि अतीतानि।
 सप्त-दशाधिक-नवदश-सहस्रतमे (१९१७) नवम्बर् मासस्य त्रिंशत् दिनाङ्के एव रुप्यकपत्रस्य प्रथम-प्रकाशनमभवत्। चतुर्नवाधिकनव-शतोत्तरैक-सहस्रतमे एकरुप्यकपत्राणां मुद्रणं स्तगयितं चेदपि जनानां निवेदनेन पञ्चदशाधिक-द्विसहस्र (२०१५) तमे मुद्रणं पुनरपि आरब्धम्। नाणकानि एव प्रथमतया मुद्रितानि । किन्तु प्रथमेषु लोकमहायुद्धकालेषु रजतलोहस्य मूल्यं वर्धितम् इत्यनेन जनाः नाणकानि अग्निना द्रवीकृत्य विक्रेतुम् उद्युक्ताः इत्यनेन काकदे मुद्रणम् आरब्धम्। एकत्रिंशदधिकनवशतोत्तरैक-सहस्रतमे (१९३१) एप्रिल् मासस्य पञ्चमदिनाङ्के एव रुप्यकपत्रस्य मुद्रणाय रिजर्व बैंकाय अनुज्ञा लब्धा।
मध्यप्रदेशे बालिकाबलात्काराय मृत्युदण्डः। 
      भोपाल् > ऊनद्वादशवयस्कानां बालिकानां विरुध्य बलात्कारापराधाय मृत्युदण्डनं विधातुं मध्यप्रदेशविधानसभया निर्णीतम्। एतदर्थं विधेयकं विधानसभया ऐककण्ठ्येन अङ्गीकृतम्। 
         राष्ट्रे एतादृशं विधायकम् अङ्गीक्रियमाणं प्रथमं राज्यमस्ति मध्यप्रदेशः। नीतिमन्त्रिणा राम् पाल् सिंहेन देयकमवतारितम्। राष्ट्रपतेः अङ्गीकारेण विधायकम् अनुशासनं भविष्यति।
"मम पार्श्वे माता अस्ति" इति उक्त्यर्थं प्रसिद्धः अभिनेता शशि कपूरः दिवङ्गतः ||
डा. घनश्यामभट्टः
         पद्मं भूषण-पुरस्कारेण सम्मानितः अभिनेता शशि कपूरः सोमवासरस्य संध्याकाले दिवङ्गतः  अभवत् | एकोनाशीतिः वर्षदेशीयः सः दिर्घकालात् रुग्णः आसीत् | मुमब्य्यां कोकिलाबेन चिकित्सालये सः अन्तिमश्वशनं अकरोत्| हृदयपीडानन्तरं सः चिकित्सालये अन्तर्नियुक्तः आसीत् | शशे: जन्म कोलकाता नगरे ख्रिस्तब्दे 1938 तमे वर्षे मार्च मासे 18 दिनाङ्के अभवन्| सः  2011 तमे वर्षे  पद्म भूषणं 2015 तमे वर्षे दादासाहेब फ़ाल्के इति पुरस्कारेण सम्मानितः | राष्ट्रपतिना  प्रधानमन्त्रिणा च तस्य निधने शोकः प्रदर्शितः
संस्कृतस्य प्रसारार्थं दीर्घधावनम्

           नवदिल्ली>संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च ग​तेषु ​दिने​षु ​[​१९​-नवम्बर’२०१​७, रविवासरे ] नवदिल्ल्यां जवाहरलाल-नेहरु-क्रीडाङ्गणतः दीर्घ-धावनम् आयोजितम् | अस्मिन् अनन्यतमायाः "नेक्टरलेण्ड्" [ NectarLand ] इति संस्कृतस्य स्वयं-सेविसंस्थायाः अनेकैः सदस्यैः सोत्साहं सहभागित्वं निर्व्यूढम् | नवम्बर-मासे प्रतिवर्षम् आयोज्यमाने अस्मिन् दीर्घधावने "नेक्टरलेण्ड्" [ NectarLand ]- इत्यस्याः इदं​ चतुर्थं ​सहभागित्वं वर्तते | एषा संस्था अभिकल्पनाभिः विविध-वर्णैः चित्रैश्च प्रकाशितैः हिन्दी-आङ्ग्ल-अनुवाद-लिप्यन्तरणयुतैः लघु-लघु-पुस्तकैः जनेषु, विशेषेण च युवजनेषु संस्कृतानुरागिषु च संस्कृत-भाषां संस्कृत-साहित्यञ्च प्रति पठन-संभाषण-रुचिं समुत्पाद्य “भाषैषा कठिना” इति भ्रान्तिम् अपनोदयति | ​अस्मिन् दीर्घ-धावने सहभागिभिः सम्भूय तारस्वरेण यदा "जयतु जयतु संस्कृतभाषा, वदतु वदतु संस्कृतभाषा", "सरला भाषा संस्कृतभाषा, सुगमा भाषा संस्कृतभाषा" चेति समाघोषाः उच्चारिता, तदा पूर्णोsपि परिवेशः संस्कृतमयः सञ्जातः | ​

        ​ ​अनया संस्थया वर्ष​-द्वय-पूर्वं​ भारतीय-संस्कृत-पत्रकार-संघेन आयोजितायां पञ्चम्यां संस्कृत-पत्रकार-संगोष्ठ्यां सहभागित्वम् आदाय संस्कृत-शिक्षणस्य कृते समाजे विहितानि संस्कृत-विषयकाणि विविध-कार्याणि प्रदर्शितानि आसन् | अस्याः संस्थायाः वैशिष्ट्यमस्ति यत् प्रायेण युवानः वैज्ञानिकाः, अभिकल्पकाः [ designers ], प्रविधिज्ञाः [ technicians ], अभियन्तारः, चित्रमुद्रण-विशेषज्ञाः [ graphic-experts ] च सदस्यत्वेन संस्कृत-कार्याणि परिनिष्ठित-भावेन समाचरन्ति |

षट् आणव अन्तर्वाहिनानां निर्माणं भारतेन आरब्धम्। 
        दिल्ली>भारत महासमुद्र मण्डले अधीनत्वम् आरोढुम्  षट् आणव अन्तर्वहिनीनां प्रयोगाय भारतेन सिद्धोभूत् । चैना राष्ट्रस्य अधीशत्वस्य  अन्त्यत्वसम्पादनम् अस्य पृष्टतः भवतीति अट्मिरल् सुनिल् लाम्ब महाशयेन उक्तम् । अस्य नूतन-पद्धतिमधिकृत्य नाधिकं वक्तुनिष्टवान् सः । आणवोर्जे प्रवर्तमान ऐ एन् एस् अरिहन्त- , ऐ एन् एस् चक्र इत्यादयः मिलित्वा त्रयोविंशति (२३) अन्तर्वाहिनी नौकाः सन्ति ।
अध्ययनानुभवः हृदयानुकूलं भवतु – शिक्षामन्त्री।
             आलुवा – समाजे पार्श्वीकृतानां रक्षायै समतायै च सामान्य शिक्षायाः पन्थानः संरक्षणीयाः। पूर्वकाले या अध्यापककेन्द्रीकृता पठनप्रणाली आसीत् सा इदानीं छात्रकेन्द्रीकृता सञ्जाता 'सामान्यविद्याभ्यास-संरक्षणयज्ञ'स्य समालोचनायां प्राध्यापकैः सह सम्भाषमाणः आसीत्  प्रोफ. सी रवीन्द्रनाथः।  सामान्य शिक्षा -संरक्षणे त्रयः स्तराः तेन स्मारिताः। प्रथमं तस्य दर्शनं, द्वितीया प्रवर्तनपद्धतिः, तृतीयस्तु कार्यक्रमाश्च। तस्मिन् संरक्षिते सत्येतत् सर्वं समाजं संरक्षितं भवेत्, शुचित्वयुक्ता पाकशाला-भोजनशाला, जैववैविद्ययुक्ताङ्कणः, शौचनालयादयश्च सर्वकारीयेषु तथा इतरविद्यालयेषु अवश्यं स्थापयितव्याः इति च सः अवदत्।

        एरणाकुलं जानपदीय  शिक्षाधिकारी सि ए सन्तोष् अस्मिन् योगे आध्यक्ष्यम् आवहत्। श्री सुधीर् बेबि ऐ.ए.एस्, श्रीमती जया ऐ.ए.एस् च आशंसाः अर्पितवन्तौ।

Monday, December 4, 2017

देहल्याः अन्तरिक्षमलिनीकरणं व्यत्ययं विना अनुवर्तिष्यतेI
             नवदेहली> देहल्याः अन्तरिक्षमलिनीकरणानुपातः अद्य श्वः च व्यत्ययं विना अनुवर्तिष्यते इति विज्ञाः वदन्ति।  तापमानस्य न्यूनतया अनिलस्य अभावेन च रविवासरे राजधान्याः अन्तरिक्षं विषमयं आसीत् । वायुमलिनीकरणसूचिका ५००/३६५ इति अधिक मानत्वेन रविवासरे आवेदिता आसीत्I शनिवासरे ३३१ इति मानकेन आसीत्। 
           मासान्तेरेण अनुवर्त्यमाणेन वायुमलिनीकरणेन जनान् श्वास-कोश-रोगाः पीडयन्ति। एषा अवस्ता अनुवर्त्यते चेत्  कासा'दयः श्वासकोशरोगाः व्याप्यन्ते वैद्यप्रकाशने संसूच्यते।
भोप्पाल् दुरन्तानन्तरम् अतीतानि ३३ संवत्सराणिI नीतिनिषेधः अनुवर्तते।
          भोप्पालः> विषवातक दुरन्तानन्तरं त्रयस्त्रिंशत् संवत्सराणि अतीत्यापि नष्टपरिहाराय तिष्टन्ति अर्हाः बहवः। रोगबाधिताः मृतानां बान्धवाः च  नष्टपरिहारवत् अधिक -धनार्जनाय संग्रामं कूर्वन्तः सन्ति।
यूणियन् कार्बैड् नाम कीटनाशिनी निर्माणशालातः निर्गतः विषवायोः श्वसनेन बहुविध-रोगग्रसेनन पीड्यन्ते जनाः। एतैः अधिक परिहारधनाय २०१० दिसंबर् मासे सर्वकारेण समर्पिते परिष्कृत-न्यायव्यवहारे वादं श्रोतव्यमिति निवेद्यते सर्वोचन्यायालयः।
         यु एस् प्रधानस्थानत्वेन विराजमानया यूणियन् कार्बैड् संस्थया पच्चदशाधिक सप्तशतं (८१५ )कोटि मितानि रुप्यकाणि एव नष्टपरिहारत्वेन ( क्षितिपूर्तिः) दत्तानि। सहस्र कोटि (१०००) रुण्यकाणि अपि परिहारवत् दातव्यानि इति परिष्कृतनिवेदने अभिलक्ष्यते ।
मध्येष्यां प्रति मार्गमुद्घाट्य भारतम्।
          नवदिल्ली > पाक् चीना आर्थिक मध्यमार्गं तथा चीनया पाकिस्थाने निर्मीयमाणे ग्वदार् महानौकानिलयं च लक्ष्यीकृत्य इरान् देशे भारतेन निर्मितं छब्बार् महानौकानिलयं सफलम् अभवत्। इरानस्य राष्ट्रपतिः हसन् रोहनि प्रथमपादस्य उद्घाटनमकरोत्। पाकिस्थानं निरस्य इरान् - अफ्गानिस्थान मार्गेण मध्येष्यां प्रति वाणिज्य बन्धस्य शुभारम्भः भवति छब्बार् पद्धतिः। चत्वारिंशदधिक त्रिशतं (३४०) मिल्यण् डोलर् धनस्य व्ययेन निर्मिता इयं योजना इरान भारतयोः संयुक्तसंरम्भः एव। ८.५ मिल्यण् टण् नौभाण्डानि रोधुमवरोधुं च शक्ता भवति छब्बार्।  उद्घाटन सभायां भारत खत्तर् अफ्गानिस्थानयोः प्रमुखाः सन्निहिताः आसन्।