OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 1, 2017

कोच्ची मेट्रो योजनायै राष्ट्रियपुरस्कारः। 
नवदिल्ली > वरिष्ठानुबन्धगतागतश्रृङ्खलायाः समर्प्यमाणः राष्ट्रिय पुरस्कारः केरलस्य कोच्ची मेट्रो रेल्यानयोजनायै ।  मेट्रो यात्रामनुबन्ध्य बस् यानसेवनं, 'जल मेट्रो', त्रिचक्रिकासेवनानि इत्यादयः संयोज्य वरिष्ठं सामाजिकगतागतसंविधानस्य आयोजनायै एवायं पुरस्कारः। केन्द्रनगरविकसनमन्त्रालयेन आयोजितः अयं पुरस्कारः नवम्बर् षष्ठदिनाङ्के हैदराबादे उपराष्ट्रपतिना वैङ्कय्य नायिडुवर्येण सम्मानीयते।
      अस्मै पुरस्काराय ४६ नगराणि प्रतिस्पर्धितानि। राष्ट्रस्य नगरान्तराणां कोच्ची मेट्रो योजनायाः संयोजितसंचरणसुविधा आदर्शभूता भवतीति पुरस्कारनिर्णयसमित्या प्रकीर्तितम्।
‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
             मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |

            अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
             सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा
केरळ संस्कृताध्यापक फेडरेषन् - राज्यसरीमेयलनं फेब्रुवरि मासे
                कासरगोड् > केरलीय संस्कृताध्यापक फेडरेषन् इति संस्थायाः राज्यस्तरीयं महा-मेलनम् आगामीवर्षस्य फेब्रुवरि मासे २२-२४ दिनाङ्केषु  कासरगोड् जनपदे आयोक्ष्यते। एतत्सम्मेलनम् अभिलक्ष्य स्वागतसंघस्य रूपवत्करणं सम्पन्नम्।  योगे∫स्मिन् रषीद् पूरणम् अध्यक्षभाषणमकरोत्। ऐ.वि. भट्टः योगस्य उद्घाटकः आसीत्। डा. के सुनिलकुमार्, के.के.गिरीषकुमार्, नीलमन शङ्करः, हरिकृष्णः, के.टि. मधु, के. कृष्णप्रसाद्, के गणेषकुमार्, इ.ए. अरुण् कुमार. के  च भाषणं कृतवन्तः।
केरलीयानां संस्कृताध्यापकानां प्रजातन्त्रेतरमण्डले प्रवर्तमाना [KSTF(D&P)] भवति इयम् समितिः इत्यस्ति अस्याः विशेषताI


Tuesday, October 31, 2017

भारतस्य प्रत्याक्रमणानि साधारण जनान् उद्दिश्य न
        नव दिल्ली> काश्मीरस्य नियन्त्रण-रेखायां सङ्घर्र्षः वर्धिते सति भारत-पाकिस्तानयोः DGMO इति सैनिक पदयोः विराजमानयोः अधिकारिणोः मिथः मेलनम् अभवत्। भारतस्य सेनानिर्देशकः लफ्टनन्ट् जनरल् (D GMO) ए के भट् एव पाकिस्तानस्य निर्देशकेन सह भाषणमकरोत्। पाकिस्थानस्य पक्षतः कोपप्रेरणा भविष्यति चेत् शक्तया रीत्या प्रत्याक्रमणं भविष्यति इति भट्टः चर्चायाम् अवदत्। नियन्त्रणरेखायाम् भारतेन कोपप्रेरणां विना गोलिका प्रहरः क्रियते इति पाकिस्थानस्य दुरारोपणं भट्टेन निरस्थम्। पाकिस्थानस्य साहाय्येन भीकरैः क्रियमाणः लूण्डनप्रवेशस्य रोधनमेव क्रियते भारतेन इत्यपि सः प्रत्युत्तरमदात्। सामान्यजनान्‌ लक्षीकृत्य कदापि नासीत् भारतस्य प्रत्याक्रमणम् इति च सः अवदत्।
भूटान-नरेशस्य चतुर्दिवसीयभारतयात्रा
             नवदिल्ली >भूटाननरेश: जिग्‍मेखेसरनामग्‍यालवांगचुक: चतुर्दिवसीयभारतयात्रायै अद्य राजधान्यां नवदिल्ल्याम् आयाति । भारतप्रवासावधौ श्रीवांगचुक: राष्‍ट्रपतिप्रधानमन्त्रिभ्यां सह सम्भाषणं करिष्यति । प्रधानमन्त्रिणा नरेन्द्रमोदिना भूटाननरेशस्य सम्‍माने रात्रिभोजस्यायोजनं विधास्यते। उपराष्‍ट्रपति: वेंकैयानायडु: विदेशमंत्री सुषमास्‍वराज: अन्यमंत्रिणश्च श्रीवांगचुकेन सह मेलनं करिष्यन्ति। पक्षद्वयस्य परस्परसहयोगस्य विविधप्रकरणानां प्रगते: समीक्षा अपि सम्भाव्यते।
ब्रह्मपुत्रां लक्ष्यीकृत्य चैना। जलमाहर्तुं बृहत् 'टणल्' सज्जीकुर्वन्ति।
      नवदेहली> दोक् ला संघर्षस्स पुरतः ब्रह्मपुत्रानद्याः जलं चैनायाः षिड्जियाड् क्षेत्रे नेतुं प्रयत्नः प्रचलति। सहस्र कि. मी दूरेण टणल् निर्मीय जलं स्वीकर्तुमेव लक्ष्यम्। न्यूनेन व्ययेन चैनया टणल् निर्मीयते इति माध्यमेन संस्तूयते। यून्नान् क्षेत्रे ६०० कि.मी दूरेण टणलस्य निर्माणं चैनया आगस्त्मासे एव आरब्धा। नवीनेन पद्धत्या षिड्चियाड् क्षेत्रं कालिफोर्णिया सदृशं परिवर्तयति इति चैनया उक्तम्। ब्रह्मपुत्रानद्याः जलस्वीकरणं चैना जनानां पुरतः कदापि चर्चां अकरोत्। एषा प्रक्रिया बंग्लादेश् राष्ट्रं बाधते।
          चैना इण्डिया बंग्लादेश् इति त्रिषु राष्ट्रेषु प्रवहती बृहती नदी भवति ब्रह्मपुत्रा। चैनायां यार्लुड् टिसाड्पो इति बंग्लादेश् राष्ट्रे जमुना इति इण्डियायां ब्रह्मपुत्रा इति एषा नदी कथ्यते। बंग्लादेश् राष्ट्रे बंगाल् समुद्रे एषा पतति। विश्वस्य दीर्घतमासु नदीषु एका एषा।
निरुद्धानां मुद्रारूप्यकाणां गणना न परिसमाप्ता।
         नवदिल्ली > नरेन्द्रमोदिसर्वकारेण संवत्सरैकस्मात् पूर्वम् असाधूकृतानि यानि मुद्रारूप्यकाणि वित्तकोशान् प्रतिनिवर्तितानि, इतंःपर्यन्तं न गणनां पूर्तीकृतानीति भारतीय रिसर्व् बैङ्क् संस्थया उक्तम्। अतिनूतनसाङ्केतिकविद्यामुपयुज्य प्रवर्तमानेन मुद्रापत्रप्रमाणीकरणेन एव निरुद्धानि ५००, १००० रूप्यकाणां धनपत्राणां मूल्यनिर्णयः परिशोधना च क्रियते। परन्तु एषा प्रक्रिया इतःपर्यन्तं पूर्तीकृतेति रिसर्व बैङ्केनैव स्पष्टीकृतम्।
अग्निसायकानां निर्माणं अनुवर्तिष्यते - इरानस्य राष्ट्रपतिः रूहानि।
           दुबाय् > इरानस्य राष्ट्रपतिना 'हसन् रूहानि'ना उच्यते यत् अग्निसायकानां निर्माण-योजनायाः कदापि प्रतिनिवर्तिष्यते इति। इयं राष्ट्रान्तर-नियमानां लङ्धनं न अतः अग्निसायकानां निर्माणम् अनुवर्तितुमेव निश्चितः। अवश्यानुसारम् उपयोक्तुं विविध-गणस्थानि आयुधानि निर्मातुं प्रभवामः इति रूहानि दुबाय् देशे अवदत्।
यु एस् जनप्रतिनिधि-सभायाम् इरानम् उपरोद्धुमुद्दिश्य आयोजितायाः मतदान-प्रक्रियायाः पश्चात् एव इरानस्य प्रतिकरणम्।  सायक-निर्माणस्य कारणेन यु एस् राष्ट्रेण इरानस्य उपरि  स्वयमेव उपरोधितम् आसीत्। आणवायुध-वहनक्षमस्य सायकस्य निर्माणम् इरानस्य योजनायां नास्ति इति रूहानिना उक्तम्।

Monday, October 30, 2017

श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य श्रीप्रमुखस्वामीमहाराजद्वारस्य लोकार्पणविधिः
भारतवर्षः सन्तविभूतीनां जन्म-कर्मस्थानम्। विश्ववन्द्यप्रमुखस्वामिमहाराजो महाविभूतिस्वरूपः। तस्य जीवनं युगातीतगाथारूपम् आसीत्। यत्र तस्य नाम संयुज्यते तत् खलु दिव्यताभाजनं भवति नात्र शङ्कापङ्कलेशावकाशः। अधुनैव तादृशः प्रसङ्गः संस्कृतविश्वस्य गौरवप्रदः सञ्जातः। द्वादश-स्वयंभूज्योतिर्लिङ्गेष्वाद्यतमे सोमनाथमहादेवस्य प्रभासक्षेत्रे संस्थिते श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य प्राङ्गणे अत्यद्भूतं द्वारं बीएपीएसस्वामिनारायण-संस्थासौजन्येन विनिर्मापितम्। तस्य नाम श्रीप्रमुखस्वामिमहाराजद्वारम्। 51’ परिमितमुच्चैःस्थं 69’ परिमितं

Sunday, October 29, 2017

अण्डर् - १७ लोकचषकः - इङ्गलण्ट् दलस्य विजयभेरी। 
        कोल्कोत्ता > 'फिफा'याः ऊनसप्तदशवयस्कानां पादकन्दुकस्पर्धायाः अन्तिमे द्वन्द्वे इङ्लण्ट्दलस्य उज्वलविजयः। 'साल्ट् आन्ड लेक्' क्रीडाङ्गणे शनिवासरे संवृत्ते अन्तिमप्रतिद्वन्द्वे स्पेयिन् दलं द्वयं प्रति लक्ष्यकन्दुकपञ्चकेन पराजित्य आङ्गलेयकुमाराः किरीटं प्राप्तवनतः। अण्डर् १७ क्रीडायां तेषां प्रथमं किरीटं भवत्येतत्। 
    मत्सरस्य पूर्वार्धस्य अन्तिमं निमिषं यावत् स्पेयिन् दलं सेर्जियो गोमस् नामकेन क्रीडकद्वारा  एकपक्षीयेन लक्ष्यकन्दुकद्वयेन अग्रे आसीत्। इङ्ग्लण्ट क्रीडकस्य ब्रूस्टर् नामकस्य प्रतिलक्ष्यकन्दुकेन पूर्वार्धं समाप्तम्। इङ्ग्लण्ट् दलस्य  उत्साहभरितेन  प्रत्याक्रमणेनैव उत्तरार्धस्य प्रारम्भः। गोमसेन प्राप्तं लक्ष्यकन्दुकयुगलं निष्प्रभं कृत्वा पुनरपि चत्वारः लक्ष्यकन्दुकाश्च स्पेयिन् जाले पतिताः। गिब्स् वैट् [१], गूहि [१], फोडन् [२] इत्येते क्रीडकाः लक्ष्यकन्दुकान् प्राप्तवन्तः।
यन्त्रमनुष्याय सौदि अरेब्या-राष्ट्रे पौरत्वम् अदात्।
   रियादः> क्रित्रिम-बौद्धिक-शिल्प-विज्ञानम् उपयुज्य निर्मिताय सोफिया इति मानवविकार-विचारयुक्ताय यन्त्रमानवाय सौदि अरेब्य राष्ट्रेण पौरत्वं दत्तम्।  एषा यन्त्रविशेषा भाषणं कर्तुं प्रभवति तथापि स्वस्य विकार-विचारानपि प्रकाशयितुं शक्ता च भवति इयं सोफिया। विगते बुधवासरे एव पौरत्ववितरण प्रक्रिया आयोजिता। हान्सण् रोबोटिक् नामिका संस्थया एव सोफिया निर्मिता। 
  विश्वे प्रप्रथममेव यन्त्रमनुष्याय पौरत्व प्राप्ति:। अपूर्वमयेन अनेन अङ्गीकारेण स्वाभिमानेन विजृम्भते , पौरत्वं लब्धवती प्रथमयन्त्र विशेषः इति इतिहासप्रधानो भवति इति च यन्त्रकन्या सोफिया प्रत्युत्तरमदात् । मनुप्याणां कृते उत्तम जीवित-यापनाय अवश्यकानि कार्याणि दातुमेव स्वस्य निर्मित-बुद्धिः उपयोक्तुं उद्दिश्यते। लोकोयं श्रेष्ठस्थलवत् परिवर्तयितुं यावच्छक्यं तावत्  करिष्ये इति च सोफियया उक्तम्।

Saturday, October 28, 2017

नीतिपीठेषु जनानां विश्वासः नष्टो मा भूत् – राष्ट्रपतिः रामनाथ कोविन्दः।

         कोच्ची >नीति-न्याय-व्यवस्थायां जनानां विश्वासः अत्यधिकतया अस्ति। तस्य विश्वासस्य संरक्षणे दायित्वम् अभिभाषकनां एव भवति इति राष्ट्रपतिना रामनाथ कोविन्देन अभिभाषकाः प्रबोधिताः। एरणाकुलं जनपदे केरलीयोच्चन्यायालयस्य वज्रजयन्तीसमरोहस्य समापनाधिवेशनम् उद्घाटयन् भाषमाणः आसीत् महोदयः। सामान्यजनानां केवलं नीतिलाभेन किमपि प्रयोजनं नास्ति। जनानां कृते न्यायालयस्य आदेशाः मातृभाषायां लब्धुं व्यवस्थापि करणीया इत्यपि राष्ट्रपतिना प्रबोधिताः।
अज्ञातयानानां घट्टनेन मारिताः १७७८ -यानधावनं संख्याफ्लकं पिधाय।
         कोच्ची> केरळेषु भारवाहनानां घट्टनेन अष्टसप्तत्यधिक-सप्तदशजनाः (१७७८) मृताः। ( २००५ - २०१६ संवत्सरस्य गणनेयम् ) घट्टितेषुयानेषु ५७५७ यानानि अज्ञातानि। इदानीमपि राज्येषु पण्यसंवहन -यानानि पञ्चीकरण-संख्यां पिधाय वा रहितेन वा निर्बाधं गच्छन्ति। घट्टितानि यानानि स्थगनं विना गच्छन्ति तर्हि  तेषां पञ्चीकरण-संख्यां द्रष्टुं सन्दर्भः नास्ति। निरीक्षण-चित्रग्राह्यामपि एतेषां चित्रं सुव्यक्ततया न लभते। पृष्टतः संख्याफलकं नास्ति इत्यनेनैव अवस्था रूक्षा एवI एतदधिकृत्‍य संवत्सरात्पूर्वं 'सम्प्रतिवार्ताया' आवेदितः आसीत्। छात्राणां वार्ताप्रसारण-कार्यक्रमे सप्रमाणं वार्ता संप्रेषिता आसीत्। पालक्काट् - कोच्ची राष्ट्रियमार्गे घण्डाभ्यन्तरेण शताधिकानि भारयानानि यान्ति। वाहन-नियमानुसारं दण्डार्हः दोषः भवति। किन्तु एतस्य पालनाय किमपि अत्र न प्रवर्तते।

अज्ञातयानानां घट्टनेन सञ्जातः अपघाताः
वत्सरः  अपघाताः     मृताः    क्षतजाः
2016    201       86      164
2015    433       106     392
2014    529       151     499
2013    263       128     130
2012    207       91       115
2011    303       152     158
2010    339       163     190
2009    308       135     196
2008    326       156     187
2007    1015     238     862
2006    934       195     802
2005    1100     177     737
केरळम् विविधमण्डलेषु आदर्शभूतं राज्यमिति राष्ट्रपतिः। 
       अनन्तपुरी > आतिथ्यव्यवहारः, स्वास्थ्यमण्डलं, विनोदसञ्चारः, बोधनकलाविज्ञानं (Information Technology, इत्यादिषु मण्डलेषु राज्यान्तराणाम् आदर्शभूतं राज्यं भवति केरलमिति राष्ट्रपतिः राम् नाथ् गोविन्दः प्रकीर्तितवान्। ह्यः केरलं प्राप्तः सः पल्लिप्पुरं प्रदेशे आयोज्यमानायाः 'टेक्नो सिटि' परियोजनायाः प्रथमसर्वकारभवनसमुच्चयस्य शिलास्थापनं कुर्वन् भाषमाणः आसीत्। केरलं 'डिजिटल् भारतस्य' शक्तिस्रोतः (Power House) अभवत्। राष्ट्रे भूयिष्ठं जङ्गमदूरवाणीव्यापनभूतं राज्यमस्ति केरलम्। राष्ट्रपतिना उक्तम्। 
    राज्यपालः पि सदाशिवम् अध्यक्षपदमलंकृतवान्। मुख्यमन्त्री पिणरायि विजयः , मन्त्री कटकंपल्ली सुरेन्द्रः आदयः प्रमुखाः सन्निहिताः आसन्।

Friday, October 27, 2017

सयामीस् युग्मापत्ययोः शस्त्रचिकित्सायां विजयः 
        नव दिल्ली > दिल्लीस्थ AIMS चिकित्सालये युगलजौ सफलतया विभक्तौ। एतयोः मस्तकस्य उपरिभागे आसीत् युगलत्वम् । त्रिंशत् भिषग्भिः अष्टादश-होरापर्यन्तं कृतायाः दीर्घायाः शल्यक्रियायाः फलस्वरुपौ भवति एतौ शिशू। क्रित्रिम-श्वसनदायक-यन्त्रस्य साहाय्येन एव श्वासोच्छ्वासं कुरुतः। द्विसप्तति होरानन्तरमेव उज्जीवन-स्थितिमधिकृत्य किमपि वक्तुं शक्यते इति वदन्ति भिषजाः।
ओडीषा राष्ट्रस्य कन्दमाली देशस्थौ पुष्पाञ्जली-कन्हार दम्पत्ययोः अपत्यौ भवतः एताै जगन्नाथ-बलरामौ। एयिम्स् चिकित्सालयस्य नाडीचिकित्सा-विभागाध्यक्षस्य महावैद्यस्य अशोक् कुमार् महापात्रावर्यस्य नेतृत्वे आसीत् शल्यक्रिया। 
ऐतयोः चिकित्सार्थं ओडीषा राज्यसर्वकारेण कोटिरूप्यकाणां साहाय्यं दत्तमासीत्। त्रिंशत् लक्षं जननेषु अन्यतमः भवति एतादृशः। साधारणतया जननात्परं प्रतिशतं पञ्चाशात्  शिशवः मृत्युं यान्ति। प्रतिशतं पञ्चविंशतीनामेव चिकित्सार्थं सन्दर्भः लभते च ।
राष्ट्रपतिः अद्य केरलं प्राप्नोति। 
             अनन्तपुरी > द्विदिनात्मकसन्दर्शनाय भारतराष्ट्रपतिः रामनाथकोविन्दः अद्य केरलराजधानीम् अनन्तपुरीं प्राप्नोति। शुक्रवासरे शनिवासरे च विविधानां परियोजनानाम् उद्घाटनानि करिष्यति। अपराह्ने २.५० वादने तिरुवनन्तपुरं प्राप्यमाणः राष्ट्रपतिः , ३.३०वादने पल्लिप्पुरं प्रदेशस्थायाः 'टेक्नो सिटि' योजनायाः उद्घाटनं करिष्यति। राज्यपालः पि सदाशिवं, मुख्यमन्त्री पिणरायि विजयः इत्यादयः कार्यक्रमे भागभागं करिष्यन्ति। अद्य सायं षड्वादने अनन्तपुर्यां नगरसभायाः नेतृत्वे पौरस्वीकरणम् आयोज्यमाणमस्ति। 
      शनिवासरे प्रभाते ९.३०वादने कोच्चीं प्राप्यमाणः राष्ट्रपतिः उच्चन्यायालयस्य 'वज्रजूबिली' आघोषाणां समापनसम्मेलनस्य उद्घाटनं करिष्यति। अनन्तरं १२.३०वादने दिल्लीं प्रतिनिवर्तते च।
स्पेयिन् - इङ्लण्ट् अन्तिमस्पर्धा। 

                 मुम्बई/कोल्कत्ता > ऊनसप्तदशवयस्कानां [अण्डर् - १७] भुवनचषकपादकन्दुकस्पर्धायाः अन्तिमस्पर्धा स्पेयिन्-इङ्लण्ट् दलयोर्मध्ये भविष्यति। कोल्कत्तायां 'साल्ट् लेक्' क्रीडाङ्कणे संवृत्ते एकस्मिन् उपान्त्यमत्सरे इङ्गण्ट् दलेन एकं प्रति त्रयः लक्ष्यकन्दुकक्रमेण ब्रसील् दलं पराजितम्। मुम्बय्यां डि वै पाटील् क्रीडाण्कणे प्रचलिते अन्यस्मिन् प्रतिद्वन्द्वे आफ्रिक्कन् पादकन्दुकस्य वीरतां प्रकटिवन्तं मलि दलं ३-१इति लक्ष्यकन्दुकक्रमेण पराजित्य स्पेयिन् दलं अन्त्यचक्रं प्रविष्टवत्।