OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 30, 2017

पञ्चराज्येषु नूतनाः राज्यपालाः। 
नवदिल्ली > मेघालया, असं, बीहार्, तमिल् नाट्, अरुणाचल् प्रदेश्, इत्येतेषु राज्येषु आन्डमान् निक्कोबार् केन्द्रशासनप्रदेशे च नूतनाः राज्यपालाः नियुक्ताः। राष्ट्रपतिना रामनाथकोविन्देनैव नियुक्तिः कृता। 
  राज्यं राज्यपालश्च - 
तमिल् नाट् - बन्वारि लाल् पुरोहितः,  मेघालया - गङ्गाप्रसादः, बि डि मिश्रा - अरुणाचल् प्रदेशः, सत्यपाल् मालिक् - बीहार् , डि के जोषी - आन्डमान् निक्कोबार्।
विजयदशमीपर्वणि केरलेषु शिशुभ्यः विद्यारम्भः।
     कोची >शिशावः अद्य प्रथमतया लिपि उपयुज्य अक्षराणि गुरोः पुरतः लिखन्ति। गुरुवरः सुवर्ण सूचिमुपयुज्य रसनायाम् ऊँ  इति लिखिति। अनन्तरं स्थालिकायां विद्यमानं अक्षते (तण्डुलः) शिष्यस्य अङ्गुलीं ग्रहीत्वा 'ऊँ हरि श्री गणपतये नमः अविघ्नमस्तु ' इति लिखति। अनेन मङ्गल लेखनेन शिशूनां विद्यारम्भ:। कैरली भाषया भवति साधारणतया अयं सम्प्रदायः। किन्तु कश्चन देवालयेषु संस्कृतभाषायामपि विद्यारम्भ लेखनं प्रचलन्ति। आदिशङ्करस्य जन्म स्थानस्य समीपदेशे अय्यम्पुष़ ग्रामस्य पुल्लोप्पार आश्वारूढ शास्तृ श्रीभद्रकाली  देवालये विशेषतया संस्कृतभाषायां विद्यारम्भं प्रचलति। सम्प्रतिवर्तायाः मुख्य सम्पादकः अय्यम्पुष़ हरिकुमारः  आचार्यः भवति।
सम्प्रतिवार्ता पत्रिकायै श्रृङ्गेरि शङ्कराचार्याणाम् अनुग्रहवर्षः!
         कालटी> अस्माकं सम्प्रति वार्ता नामिका इयं पत्रिका श्रृङ्गेरि मठाधिपतीनां श्रीमतां भारतीतीर्थस्वामिनाम् अनुग्रहेण अनुग्रहीता अभवत्। अधुना अनया पत्रिकया विद्यालयच्छात्रान् उपयुज्य प्रसारितं छात्रावार्ता वतारणम् अवगम्य परं तुष्टाः  आचार्यपादाः अस्मभ्यम् एकम् ऊरु-सङ्गणकयन्त्रं प्रदाय अधमर्णीकृतान् अस्मान् पुनः कर्मनिरतान् कारयामासुः। 
                 कालट्यां श्रृङ्गेरीमठस्य नवरात्रिसङ्गीतमण्डपे आयोजिते कार्यक्रमे कालटीमठस्य प्रबन्धकेन प्रोफसर् सुब्रह्मण्य अय्यर् वर्येण अभिनवशङ्कराचार्यस्य आदेशानुसारेण सङ्गणकयन्त्रं प्रदत्तम्। सम्प्रतिवार्तायाः मुख्यसम्पादकः अय्यम्पुष हरिकुमारः छात्रवार्तावतारकैः सकं अचार्यस्य सम्माननं स्वीकृतवान्। अस्मिन् आधुनिके युगे नवमाध्यमेषु अन्याभिः भाषाभिः सह स्वस्थानमलङ्कर्तुं संस्कृतभाषा सिद्धा भवति अपि च जनमानसेषु मधुरंसंवर्तितुं  बालकानां वार्तावतारण-कार्यक्रमेण प्रभवा च भवति  इत्येतत् अनेन प्रमाणीक्रियते इति सुब्रह्मण्यय्यर् वर्येण  प्रोक्तम्।
                प्रो. के पि बाबूदास्  अनुग्रहभाषणमकरोत्, सम्प्रतिवार्तायाः छात्र-वार्तावतारिका  कुमारी फात्तिमा मुण्डेत् वार्तावतारिकापदमारुह्य कथं स्वानुभवः इत्येतत् प्रकटितवती। सम्प्रतिवार्तायाः सम्पादकसमित्यङ्गौ ऐवर् काल रविकुमारः, श्रीमती पी रती च भाषणं कृतवन्तौ।
षार्जा कारागृहात् १४९ भारतीयाः मोचिताः। 
      षार्जा> आर्थिकापराधमभिव्याप्य लघुषु अपराधेषु दण्डनमनभूयमानाः केरलीयसहिताः नवचत्वारिंशदधिकशतं भारतीयाः षार्जा कारागृहेभ्यः मोचिताः। एषु २० आरभ्य ६८ पर्यन्तवयस्काः अन्तर्भवन्ति। 
                 षार्जाशासनाधिकारिणः शैख् सुल्त्तान् बिन् मुहम्मद् अल् खासिमीवर्यस्य  केरलसन्दर्शनवेलायां एतदधिकृत्य  प्रख्यापनमासीत्। आर्थिकापराधेषु अन्तर्भूतैः दीयमानाः दण्डशुल्काः सुल्त्तान् वर्येण समर्पयिष्यन्ते इत्यपि उद्घुष्टमासीत्। अत एव एतेषां मोचनं क्षिप्रसाध्यमकरोत्।
मुम्बै रयिल् निस्थाने अपघातः , मृतानां संख्या २२ ।
मुम्बै> महत्याः वृष्ट्याः पश्चात् मुम्बै समीपस्थे रयिल् निस्थाने जातेन जनसम्मर्देन मृतानां संख्या द्वाविंशतिः अभवत्। उपत्रिंशत् जनाः क्षतजाः च। मुम्बैस्मीपे एल्फिन्स्टण् रयिल् निस्थानस्य उपरितल मार्गपुले एव दुर्घटना जाता। प्रभाते पादोन एकादश (10.45) वादने आसीत् अपघातः। वृष्ट्यनन्तरं यात्रिकाः अधिकतया उपरितलपन्थानम् आश्रिताः ।   भाराधिक्येन पथः पार्श्वतः अपघातशब्दं श्रुत्वा चकिताः पलायिताः इत्यनेन केचन सम्मर्देन अतःपतिताः।
रियिल् निस्तानस्य समीपे कार्यालयाः संस्थाः च बहवः सन्ति इत्यनेन प्रदेशः सदा जनबहुलाः भवन्ति।

Friday, September 29, 2017

शतवर्षै: कुजग्रहे नगरनिर्माणं करिष्यतीति यू ए ई।। 
            अबुदाबी> बहिराकाशगवेषणाय नूतनपद्धतिभिस्सह यू ए ई मन्त्रिसभायोग:।  एतदर्थम् एकं दशांशं नव दशलक्षं चतुरश्रपादाकारकं बृहदेकं नवीनगवेषणकेन्द्रं निर्मातुमपि योगे निर्णय: स्वीकृत:। 'कुज- शास्त्रीय- नगरम्' ( मार्स् सयन्टिफिक् सिटि) इति नामकरणं कृतम् पद्धतिम् असाधारणदेशीयपद्धतिरिति विशेषितवन्त: यू ए ई उपराष्ट्रपति: प्रधानमन्त्री तथा दुबाई शासकश्च शैख् मुहम्मद् बिन् राषिद् अल् मक्तुम् योगेस्मिन्। पञ्चशतं दशलक्षं दिर्हम् व्ययम् प्रतीक्षते पद्धतो। आगामि परम्परायै उत्कृष्टशिक्षणजीवने तथा शक्तां सम्पद्घटनां दातुमेव वयं इच्छाम: इति पद्धतिप्रख्यापनावसरे शैख् मुहम्मद् अवदत्।     
               बहिराकाशगवेषणाय अवश्यसर्वसंविधानयुतपद्धते: चित्रं शैख् मुहम्मद् ट्वीट्टर् द्वारा प्रेषितवान्। वृत्ताकृतौ विद्यमानभवनानां चित्राणि तथा प्रैषयत्। सप्तदशोत्तरशताधिकद्विसहस्रतमवर्षाभ्यन्तरे कुजे नगरनिर्माणमेव यू ए ई बहिराकाशरङ्गं लक्षीकरोति इति स: गतवर्षे एव अभिप्रैतवान्।।
वृक्षस्य संरक्षणाय महिला वृक्षोपरि उषितवती
                 कालीफोर्णिया > वननशीकरणं विरुद्ध्य विशेषरीत्या प्रतिषेधः आचरिता जूलिया बट्टर् फ्लै हिल् नामिका महिला भवत्येषा। विशेषतया आन्दोलनानां आयोजनेन एषा श्रद्धास्पदा अभवत्। तस्याः त्रयोविंशत्यां वयसि एषा वृक्षसंरक्षण श्रमम् आरब्धम्।
अमेरिक्कराष्ट्रस्य दक्षिणभागे  'सेक्वय' नाम वृक्षाः अधिकतया आसन्। किन्तु व्यावसायिकावश्यकतया वृक्षाः च्छेदिताः। अनेन कारणोन परिस्थितिनाशः अभवत्। प्रकृति संरक्षकाः आन्दोलनमारब्धवन्तः। ते वृक्षस्य समीपे सुरक्षापालकवत् स्थातुं निश्चितवन्तः। 
                   इयं वनिता सहस्रसंवत्सरपुरातनं वृक्षस्य उपरि अशीत्यधिकशतं पादोन्नत्यां वृक्षशखायां वासमारभत। संवत्सरद्वयं यावत् अनुवर्तितः तस्याः समरः १९९९ दिसंबर् १८ समाप्य वृक्षात् अवतरिता।पसफिक् लुम्बर् नाम व्यवसायसंस्था आसीत् वृक्षच्छेदने व्यापृता। तया बहुवारं जूलियां वृक्षात् पातयितुं  श्रमं कृतम्। अन्ते जूलियायाः विशेषसमरेण पसफिक् लुम्बर् संस्थाया वृक्षच्छेदनात् प्रतिनिवृत्ता।
चतुर्थे एकदिने भारतस्य पराजयः। 
         बेङ्गलुरु > एकदिनस्पर्धासु दशानुस्यूतविजयः इति श्रेष्ठत्वम् आस्ट्रेलियां प्रति चतुर्थे एकदिने भारतस्य विनष्टमभवत्। चिन्नस्वामि क्रीडाङ्कणे प्रवृत्तायां स्पर्धायां भारतम् एकविंशति धावनाङ्कैः आस्ट्रेलिया दलेन पराजितम्। 
         आस्ट्रेलिया दलस्य उपनायकः तथा ताडनप्रोद्घाटकः डेविड् वार्णर् नामकस्य शतकेन (१२४) सह पञ्च कन्दुकताडकानां विनष्टे ओसीस् दलं ३३४ धावनाङ्कानि प्राप्तवत्। परन्तु भारतस्य धावनाङ्कप्राप्तिः अष्ट ताडकानां विनष्टे ३१३ धावनाङ्केषु परिमिता अभवत्।  ११९ कन्दुकान् स्वीकृत्य १२ चतुष्कैः चत्वारि षट्कैः च सह १२४ धावनाङ्कान् प्राप्तः वार्णर् वरिष्ठक्रीडकपदं सम्प्राप्तवान्।

Thursday, September 28, 2017

म्यान्मर् सीम्नः नाग भीकरान् विरुध्य भारतस्य आक्रमणम् 
नवदेहली > म्यान्मर् देशस्य समीपे भारत सीमायां मेलितानां नाग-तीव्रवादिनां विरुद्ध्य भारतसेनायाः गम्भीराक्रमणम् प्रवृतम्। बुधवासरे प्रातः पादोनपञ्च वादने (4: 45)आसीत्। आयुधेन सहैव आसीत् आक्रमणम्। आक्रमणे बहवः नागदेशस्थाः  आतकङ्कवादिनः निहताः।
 भारत-म्यान्मर्  सीमायं निरीक्षणं कृतवत्भ्यः सेनया एव अक्रमणं कृतम्। भारतसेनया सीमा न उल्लङ्घिता। २०१५ तमे संवत्सरेपि  भारतसेनया सीमामुल्लङ्घ्य सैनिकप्रकिया  कृता आसीत् । तस्मिन् सन्दर्भे पञ्चदश आतङ्कवादिनः हताः।
'ओपरेषन् अर्जुनेन' सफलता - पाक् सैनिकाः चर्चायै आगताः।
नवदिल्ली> सीम्नि  पाक् सैनिकैः क्रियमाणः निरन्तराधिक्रमणानि प्रतिरोद्धुं भारत सैनिकैः नूतनं प्रकिया आरब्धा। ओपरेषन् अर्जुन् इति नामकरणं कृत्वा कृतायां प्रक्रियायां पाकिस्थानस्य सीम्नि उषिताः सैन्याधिपाः ऐ एस् गुप्तचाराः च लक्षीकृताः। सीमायां भारत भुमौ निलय प्रविष्टानां कृते साह्यकरणाय भवति तेषां सीम्निवासः। अधुना भारतस्य प्रक्रियायाः फलरूपेण भारतस्य बि एस् एफ् निदेशकः के के शर्मा पाकिस्थान् रेञ्चेर्सस्य पञ्चाब् निदेशकेन मेजर् जनरल् अस्कर् नवीदेन आहूतः। भारतस्य प्रहरः सोढुमशक्ताः ते चर्चायै सन्नद्धाः इत्यपि उक्तम्।
वैदिक उष़ुन्नालिल् अद्य भारतं प्राप्नोति। 
नवदिल्ली > यमन्मध्ये भीकरेभ्यः मोचितः क्रिस्तीयवैदिकः फादर् उष़ुन्नालिल् वर्यः अद्य स्वजन्मदेशं प्राप्नोति। प्रभाते ७.४० वादने दिल्ली विमानपत्तनं प्राप्यमानं वैदिकं केन्द्रविनोदसञ्चारसहमन्त्री अल्फोण्स् कण्णन्तानं, लोकसभासामाजिकौ के सि वेणुगोपालः, जोस् के माणी, वैदिकश्रेष्ठः आर्च् बिषप् मार् कुर्याक्कोस् भरणिक्कुलङ्ङरा इत्येते मिलित्वा स्वीकरिष्यन्ति।
    ततः प्रधानमन्त्री नरेन्द्रमोदी, विदेशकार्यमन्त्रिणी सुषमास्वराजः इत्येतौ सह मेलनं कृत्वा फा.उषुन्नालः सायं ६.३०वादने दिल्लीस्थे सेक्रड् हार्ट् देवालये प्रार्थनायां भागं करिष्यति। शुक्रवासरे प्रभाते सः बङ्गुरुं प्राप्स्यति।
     रविवासरे कोच्चीं प्राप्नुवन् सः सायं जन्मग्रामं रामपुरं गमिष्यति।

Wednesday, September 27, 2017

सौदिराष्ट्रे वनिताभ्यः यानचालनाय अनुज्ञा।
रियाद् > सौदिराष्ट्रे यानचालनाय वनिताभ्यः अनुज्ञां दत्वा राज्ञः सल्मानस्य आदेशः। १०१८तमे जूण्मासतः आदेशः प्रबलः भविष्यति इति राष्ट्रस्य दृश्यवाहिनिना आवेदितः I आदेशस्य प्रवर्तनाय आभन्तर-धन-कर्म-सार्वजनिक-विभागानां प्राधिनित्येन सह उन्नताधिकार-समितिः अपि आयोजिता।  तैः त्रिंशत् दिनाभ्यन्तरेण आवेदनं करणीयम्।
शनिवासरे आयोजिते राष्ट्रियदिनाघोषे रियादस्य  'राज -फहदः' नाम क्रीडाङ्कणे इदं प्रथमतया शतशतं विनताः अपि मिलिताः इति श्रद्धेयः आसीत्। इतः पूर्वं सार्वजनिकमेलने स्त्री पुरुषाणाम् एकत्र मेलनं निसस्तमासीत्।
अद्य केरले लक्ष्यकन्दुकताडनमहोत्सवः। 
          कोच्ची > 'फिफा अण्टर् १७' भुवनचषकपादकन्दुकस्पर्धायाः प्रचारणार्थं केरले सर्वत्र अद्य दशलक्षं लक्ष्यकन्दुकाः प्रहार्यन्ते। केरलस्य सर्वेषु ग्रामेषु निश्चितस्थानेषु सज्जीकृतानि लक्ष्यकन्दुकस्थानानि लक्ष्यीकृत्य आबालवृद्धम् आराधकैः अद्य सायं त्रिवादनादारभ्य सप्तवादनपर्यन्तं दशलक्षं लक्ष्यकन्दुकाः पातयिष्यन्ते। 
          तिरुवनंतपुरं सेन्ट्रल् स्टेडियं मध्ये आयोज्यमाने कार्यक्रमे मुख्यमन्त्री पिणरायी विजयः उद्घाटनं करिष्यति। ९४१ ग्रामेषु , ८७ नगरेषु, ६ महानगरेषु तथा सर्वेषु विद्यालयेषु कलालयेषु च लक्ष्यकन्दुकस्तम्भाः एतदर्थं सज्जीकृताः सन्ति।
GST नाम करव्यवस्थायाम् आयोज्य मृत्तैलस्य मूल्यनियन्त्रणम् ।
‍                 त्रिश्शिव पेरूर्> मृत्तैलानां मूल्यं पण्यकर सेवननियमे अन्तर्भावयति चेत् (जि एस् टि ) मुल्यनियन्त्रणं शक्यते इति पेट्रोलियं मन्त्री धर्मेन्द्र -प्रधानः अवदत्I एतदर्थं पेट्रोलियंमन्त्रालयः केन्द्रसर्वकाराय पत्रं प्रेषितवान् इति मन्त्रिणा वार्तासम्मेलने उक्तम्।
                आयः न्यूनीकृत्य मूल्यं न्यूनीकर्तुम्   मृत्तैलशालाः आदिष्टाः च। राज्यसर्वकारेण तेषां आयवर्धनाय करः २६% तः ३४% इति वर्धितः।  एतदेव मूल्यवर्धनस्य मुख्यं कारणम् इति सः अवदत्।

Tuesday, September 26, 2017

‘मन की बात’ अथवा “मनोगतम्” Episode 36  (प्रसारण-तिथि:- 24.09.2017) 

[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                
भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर 

मम प्रियाः देश-वासिनः !
             भवद्भ्यः सर्वेभ्यः नमस्कारः | आकाशवाणी-माध्यमेन ‘मन की बात’ इति ‘मनोगतम्’ प्रसारयन् वर्ष-त्रयं पूर्णतां नीतवान् | अद्य इदं षट्-त्रिंशत्तमम् आख्यानं वर्तते | ‘मन की बात’ इति प्रसारणं हि, भारतस्य सकारात्मक-शक्त्या, देशस्य प्रत्येकमपि कोणेषु संभरिताभिः भावनाभिः, इच्छाभिः, अपेक्षाभिः, कुत्रचिच्च परिदेवनैः, समुच्छलद्भिः जनानां मनोभावैः च, साकं मां संयोजितवत् | अमुना प्रसारण-व्याजेन एतैः सर्व-विध-भावैः साकं आत्मानं संयोजयितुम् अद्भुतमेकम् अवसरमहं प्राप्तवान् | नाहं कदापि एतद् अवोचम् यत् इदं हि मम मनोगतं वर्तते | इदं मनोगतं हि देशवासिनां मनोभिः मनोभावैः च सार्धं संपृक्तम् अस्ति | तेषाम् आशाभिः अपेक्षाभिः च साकं संपृक्तं वर्तते | मनकी बात-प्रसारणे यान् विषयान् अहं प्रस्तौमि, ते विषयाः देशस्य प्रायेण प्रत्येकमपि कोणेभ्यः जनैः प्रेषितेषु विविध-विषयेषु प्रायेण अन्यतमान् कांश्चन एव अत्र उपस्थापयितुं प्रभवामि, परञ्च अहन्तु बहु लाभान्वितो भवामि | भवतु नाम ईमेल्-माध्यमं वा दूरभाष-सन्देशः, आहोस्वित् भवतु Mygov, वा NarendraModiApp - इति, एतान् विविधान् विषयान् अहम् अवाप्नोमि | एतेषु अधिसंख्यन्तु मह्यं प्रेरणादायि एव, अधिकतमाः च विषयाः भवन्ति प्रशासन-परिष्कारार्थम् |
सम्पद्मण्डलं श्रेयस्कर्तुं उपदेशकसमितिः। 
नवदिल्ली > राष्ट्रस्य आर्थिकस्थितिम् अवलोकयितुम् अपेक्षिताः क्रियाविधयः निर्देष्टुं च आर्थिकोपदेशसमितिः प्रधानमन्त्रिणा नरेन्द्रमोदिना रूपवत्कृता। वृद्धिमाने न्यूने अङ्किते सत्वरपदक्षेपाणां निर्देशाय एव समित्याः रूपवत्करणम्। नीति आयोग योजनायाः अङ्गेषु अन्यतमः डो. बिबेक् देब्रोयी समित्याः नेता भविष्यति।
राष्ट्रे विद्युत् विप्लवः । दरिद्रपरिवाराणां कृते मुक्तविद्युत्।
नवदेहली> राष्ट्रे सर्वत्र विद्युत् नेतुं पद्धतिः प्रधानमन्त्रिणा प्रख्यापिता। २०१९ मार्च् ३१ पर्यन्तं सर्वेषु परिवारेषु विद्युत् लभ्येयुः। बि पी एल् पत्रं येषां अस्ति तेषां कृते मुक्तरूपेण विद्युत् दास्यति। तदर्थं १६,३२० कोटिव्ययः भविष्यतीति तेन व्यक्तीकृतम्।  सौभाग्य योजना, दीनदयाल ऊर्जाभवनम एतयोः उद्घाटनवेलायां आसीत् तस्य इदं प्रख्यापनम्।

Monday, September 25, 2017

षार्जा सुल्त्तान् केरलं सम्प्राप्तः। 
अनन्तपुरी > षार्जादेशस्य शासनाधिकारी डो. शैख् सुल्त्तान् बिन् मुहम्मद् अल् खासिमि औद्योगिकसन्दर्शनार्थं केरलं सम्प्राप्तः। तिरुवनंतपुरं विमानपत्तने मुख्यमन्त्रिणः पिणरायी विजयस्य नेतृत्वे तस्मै ऊष्मलं स्वागतमदात्।
    अद्य राज्यपालेन न्याया. सदाशिवं वर्येण सह मेलनं भविष्यति।अनन्तरं मुख्यमन्त्रिणा सह प्रवासिसम्बन्धिनः विविधविषयानधिकृत्य चर्चा भविष्यति।
   श्वः कोष़िक्कोट् विश्वविद्यालयेन दीयमानं 'डि लिट्' बिरुदं सुल्त्तान् वर्यः स्वीकरिष्यति। केरलसर्वकारस्य अतिविशिष्टातिथिः भवत्ययम्।