OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 5, 2017

एष्याभूखण्डस्य कायिकस्पर्धा अद्य समारभ्यते।
 भुवनेश्वरम्>एष्यायाः कायिकमेला [एष्यन् अत्लटिक् चाम्प्यन्षिप्] अद्य ओडीषाराज्ये भुवनेश्वरे समारभ्यते। मेलायाः औपचारिकम् उद्घाटनं कलिङ्गा क्रीडाङ्कणे अद्य सायं पञ्चवादने सम्पद्यते। स्पर्धाः श्वः आरप्स्यन्ते।  पञ्चचत्वारिंशत् राष्ट्रेभ्यः उपाष्टशतं कायिकताराः मेलायामस्यां स्पर्धिष्यन्ते। पुरुष-वनिताविभागेभ्यः ४२ विषयेषु स्पर्धाः सन्ति। प्रथमतया एव ओडीषा मेलायाः आतिथ्यं स्वीकरोति।
निर्झरीम् प्रति प्रकृतिस्नेहिभि: क्षिप्ता: द्वे दशांशम् पञ्च टण् मद्यकूप्य:।। 
मुम्बै>  मुम्बै मध्ये एकस्यां निर्झर्याम् मालिन्यनिर्मार्जनाय आगता: छात्रा: प्रदेशवासिनश्च स्तब्धा: अभवन्। निर्झरीत: एते द्वे दशांशम् पञ्च टण् मद्यकूपी: समाहृतवन्त:। सर्वाश्च सन्दर्शकै: क्षिप्ताश्च।  प्रकृतिस्नेहिन: कथम् प्रकृतिं दूषयन्ति इत्यस्य उत्तमोदाहरणम् एषा घटना। पारिस्थितिकजीवनम् (एन्वयोण्मेन्ट् लैफ्) इति सन्नद्धसंस्थाया: नेतृत्वे एव अषाने ग्रामे भीवपुरीनिर्झरीस्थानम् केन्द्रीकृत्य अष्ट निर्झर्य: शुचीकृता:। किन्तु निर्झर्यां विद्यमानानाम् मालिन्यानां केवलं दश प्रतिशतमेव समाहर्तुं शक्तवन्त: इति सन्नद्धसंस्थाया: प्रवर्तक: धरमेशबराई वदति।
EPISODE - 51Gokul R, St: Mary's UP School Thevara, Kochi -13

Tuesday, July 4, 2017

आधारकेन्द्राणि सर्वकार कर्यालयेषु नेतव्यानि।
नवदेहली>आधारकेन्द्राणि सप्तम्बर एकदिनाड्कादारभ्य सर्वकार कर्यालयेषु प्रवर्तनीयानि। आधारपत्रस्य प्रदानं नवीकरणं च अधिकारिणां साक्षात् निरीक्षणे भवितुं उद्दिश्य अस्ति एतत् निर्णयम्। आराष्ट्रं पञ्चविंशति सहस्रं आधारकेन्द्राणि सन्ति। आगस्त ३१ पूर्वं प्रक्रियाः यमाप्तव्याः इत्युक्त्वा यूणिक् ऐडण्टिफिक्केषन् अतोरिटि आफ् इण्डिया द्वारा  राज्यसर्वकारान् पत्रं प्रेषितम्।

जिल्ला कलक्ट्रेट् , जिल्ला पञ्चायत् कार्यालयः , राष्ट्रिय-शासनसंस्थानां कार्यालयः , आर्थिकालयाः इत्यादि राज्यसर्वकारस्य अधीने यस्मिन् कस्मिन्नपि कार्यालये प्रारब्धुं शक्यते इति  पत्रे वदति। आधारकेन्दराणि अवगन्तुं जनाः बहु क्लेशं अनुभवन्ति। अमितं शुल्कं स्वीक्रियतेति आवेदनमपि आगतम्। सर्वकारेतर संस्थाः नियन्त्रणं निबन्धनानां अलंघनाय साह्हाय्यं भवति। कार्यकरणं कृत्यतया निरीक्षतुं शक्यते। जनानां उपकाराय भवति । अधिकारिणः अवदन्।

सर्वकारकार्यालयानां परिधौ राज्यैः केन्द्राणि आरभ्भणीयानि। तत्र सर्वकारकर्मकरान् नियोक्तुं शक्यते। नो चेत् यु ऐ डी एफ् ऐ संस्थया सह मिलित्वा प्रवर्तितुं शक्यते। ब्लोक् तालूक् क्षेत्रेषु प्रारंभे केन्द्रत्रयस्य स्थापना करणीया। आवश्यकतां अनुसृत्य अनन्तरं अधिकानां स्थापना शक्यते। पान्पत्रस्य तथा विविधानां सर्वकारीय सेवानां कृते इदानीं आधारपत्रस्य अनिवार्यता वर्तते।

Monday, July 3, 2017

एय्म अक्षरमुद्रा पुरस्कारः के वि मेहनकुमाराय
चेन्नै> अखिलभारतमलयाली संघस्य (All India Malayalee Association- AIMA) एय्म पुरस्कारेण के वि मोहनकुमारः समादरिष्यति।  संघस्य द्वितीयः पुरस्कारः भवति अयम्।  उष्णराशिः नाम नवकथाग्रन्थस्य रचनायै एवायम् अङ्गीकारः। कथा, नवकथा, (Novel) बाल साहित्यम् इत्यस्मिन् मण्डलेषु अष्टादशग्रन्थाः प्रकाशिताः सन्ति।  शिल्पेन सह पञ्चविंशति सहस्रं धनराशिः प्रशस्तिपत्रं च पारितोषिकत्वेन दीयते इति एय्म संघस्य अध्यक्षेण गोकुलं गोपालेन उक्तम्। मोहन कुमारः इदानीं केरलसर्वकारस्य सार्वजनिन शिक्षानिर्देशकः(DPI)भवति।
युवानः कर्मदातारः भवन्तु - मन्त्री हर्षवर्धनः
अनन्तपुरी > अद्यतनः कर्मान्वेषकाः श्वस्तनः कर्मदातारः भवितव्याः इति केन्द्र-वैज्ञानिक-साङ्केतिक-मन्त्रिणा डॉ. हर्षवर्धनेन युवानः उपदिष्टः।  अनुकूलावस्था इदानीं जता अस्ति।  केन्द्र-कर्ममन्त्रालयः तथा कोच्ची सैन् चेम्बर् आफ् कोमेर्स च संयुक्ततया आयोजितायां कर्ममेलने भाषमाणः आसीत् सः।  कर्मान्वेषकाः कर्मसंरम्भकाः भवन्तु।  अपि च सहस्रेभ्यः युवकेभ्यः कर्मदायिनः भवन्तु।  केन्द्रसर्वकारेण अविष्कृते डिजिट्टल् इन्त्या, मेक् इन् इन्त्या, स्किल् इन्त्या आदयाः योजनाः एतदर्थं सहायकम् इति च तेन उक्तम्।  केन्द्र-कर्ममन्त्रालयस्य साह्येन कृता चतुर्दशतमा मेलेयम्।
अभयार्थिनः शिबिराणि अग्निबाधितानि। द्वाै मृतौ।
बेय् रूट्> लबनन् देशास्य बेक्का सानुप्रदेशे सिरियायाः अभयार्थिनः शिबिरे एव अग्निदुर्घटना जाता।  द्वौ मृतौ। षट् जनाः अग्निना व्रणिताः। एते समीपस्थे आतुरालये प्रविष्टाः।  रविवासरे एव दुरन्तः जातः।

इतोप्यधिकाः जनाः मृत्युवशं गन्तुं सन्दर्भः भविष्यति इति रोयिट्टरेण आवेदितम्। लबनराष्ट्रस्य राजधानीतः बेय्रुट्टतः एकघण्टा दैर्घ्यमस्ति क्वाब् एलियास् नगरं प्रति। तस्मिन् नगरपरिसरे आसीत् अभयार्थिनः बासशिबिराणि। शताधिकानि शिबिराणि अग्निबाधिधानि।  अत्र द्वयाधिकशतम् (१०२) कुटुम्बाः उषितवन्तः इति युणैट्टट् नेषन् है कम्मीषन् फोर् रेफ्यूजीस् अङ्गः डयानास्लीमान् महाभागा अवदत्।  आभ्यन्तरथुद्धस्य कारणेन पलायितेषु  सिरियाजनेषु दशलक्षं जनाः लबन् देशे सन्ति इति गण्यते।⁠⁠⁠⁠
भारत-चीना सीमानं  प्रति अधिकाः सैनिकाः
नव दिल्ली > सिक्किम् राज्ये भारत-चीनयोः सीमनि सङ्घर्षः वर्धितः। सीमनि सैनिकविन्यासः शक्तं कर्तुं भारतेन निश्चितम्। द्विषष्ट्यधिक एकोनविंशतितमस्य (१९६२) वर्षस्य युद्धानन्तरम् इदानीमेव एतादृशी सङ्घर्षात्मिका दशा जाता। सीमनि भारतस्य भूप्रदेशं प्रति अतिक्राम्य प्रविष्टैः चीनासैनिकैः भारतस्य द्वौ सैनिकशिबिरौ भग्नौ। एतत् सैनिक-सुरक्षां वर्धयितुं भारतं प्रेरितम्। युद्धसमाना अवस्था इदानीं न जाता तथापि प्रतिरोद्धुं सज्जा अभवत् भारतसेना। शिबिरस्थानानि भारत-भूटानयोः न। तत् चीनायाः एव इति उक्त्वा आसीत् चीनायाः अतिक्रमणम्। २०१२ तमे दोलक्लै समीपस्थस्य लाल्टन् मध्ये भारतेन निर्मितौ द्वौ शिबिरौ स्थानान्तरं करणीयौ इति तैः निगतितम्। किन्तु भारतेन निरस्तमासीत्। तदा जूण् मासे चीनया शिबिरौ भाग्नौ च।

Sunday, July 2, 2017

केरले ई-मालिन्यसंस्करणयोजना समारभ्यते।
अनन्तपुरी> केरले विद्यालयेषु विद्यमानानि एककोटिकिलोपरिमितानि 'इलक्ट्रोणिक्' मालिन्यानि सम्भृत्य संस्क्रियमाणा परियोजना सर्वकारेण समारभ्यते इति मुख्यमन्त्री पिणरायी विजयः। ई-मालिन्यानि शास्त्रीयरीत्या निर्णीय पुनःचंक्रमणाय संस्करणाय च अवश्यानि क्रमीकरणानि सज्जीकर्तुं 'ऐ टि अट् स्कूल्' विभागस्य 'क्लीन् केरला' विभागस्य च संयुक्तयोजनायै सर्वकारेण अनुमतिः दत्तेति मुख्यमन्त्रिणा फेस्ब्क् द्वारा निगदितम्।
    इलक्ट्रोणिक् उपकरणेषु विद्यमानानि मेर्कुरि, लेड्, काड्मियं, बेरियं, बेरिलियम् इत्यादयः पदार्थाः मनुष्यशरीराय परिस्थितये च दोषाय वर्तन्ते इत्यतः तदन्तर्गतानि मालिन्यानि हैदराबादे विद्यमाने केन्द्रे शास्त्रियरीत्या संस्कर्तुमेव उद्दिष्टेति तेनोक्तम्।
दिल्ल्यां प्रतिशतं 75% सरणि चिह्नानि दोषयुक्तानि
नवदिल्ली>नव दिल्ल्यां मार्गेषु दोषपूर्णानि चिह्नानि विद्यन्ते येन विगतवर्षे 1622 जनाः मृताः, मृतकेषु 684 पथिकाः आसन्। इंस्टिट्यूट ऑफ रोड ट्रैफिक एजुकेशन (IRTE) इत्यस्यानुसारेण राजधान्यां 75% सरणिचिह्नानि IRC इत्यस्य निर्धारितमानकाधारितानि न सन्ति। अनेन दिल्ल्यां मुकरबा चौक अथ च  पीरागढ़ीचौक सर्वाधिकप्रभावितस्थलौ स्तः। गुरुग्रामस्य इफकोचौक इत्यत्र विगतवर्षे 365 जनाः मृत्युमुपगताः । IRTE इत्यनेन दिल्ल्यां 14 सरणीनां 85 किलोमीटरमितमार्गे  1514 चिह्नानि अवलोकितानि येषु 1098 चिह्नानि दोषपूर्णानि विद्यन्तेे।
केरलेपि जि एस् टी समारब्धम्, करायः प्रतिशतं विंशतिः वर्धिष्यन्ते इति वित्तमन्त्री।
कोच्ची > पण्य-सेवनकरे प्राबल्ये वर्तिते राज्यस्य करायः प्रतिसंवत्सरं २०% क्रमेण वृद्धिः भविष्यतीति केरलवित्तमन्त्रिणा डा. तोमस् ऐसक् वर्येण उक्तम्। जि एस् टि करव्यवस्थायाः राज्यस्तरीयोद्घाटनं कुर्वन् भाषमाणः आसीत् सः। चतुस्संवत्सराभ्य्यन्तरे केरलं राजस्वार्थिकलोपात् रक्षां प्राप्तुं शक्यतेति सः प्रतीक्षां प्राकटयत्।  जि एस् टी निर्णेतुम् उपयुज्यमानं "सोफ्ट् वेर्" केरलानां व्यापारिणां कृते मासद्वयाभ्यन्तरे निश्शुल्केन दास्यते इति डो़ तोमस् ऐसक्केन उक्तम्।
जी एस् टी सर्वेषां विजयः।
नवदेहली>सर्दार वल्लभाई पट्टेलेन कृतस्य भारतस्य एकीकरणमिव कृतं आर्थिकसंयोजनं भवति जी एस् टी इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। जी एस् टी सरला करग्रहणप्रक्रिया भवतीति सः अयोजयत्। लोकसभायाः केन्द्रप्रकोष्ठे आयोजिते जी एस् टी प्रख्यापन सम्मेलने भाषयन्नासीत् सः। जी एस् टी कृते good and simple tax इति निर्वचनं दत्वा आसीत् प्रधानमन्त्रिणः भाषणम्। विभिन्नानां करग्रहणरीतीनां क्लिष्टताः दोषाः च दूरीकर्तुं जी एस् टी प्रभवति इति सः उक्तवान्। नवीनस्य करग्रहणरीतेः  गुणफलानि गुणभोक्तृभ्यः विक्रेतारः दास्यन्तीति प्रतीक्षते। जी एस् टी न केवलं करपरिष्कारः अपि तु सहवर्त्तित्वात्मक जनाधिपत्यस्य निदर्शनमिति सः अवदत्।

जी एस् टी सर्वेषां विजयः भवति। अस्य प्रख्यापनाय लोकसभायाः केन्द्रप्रकोष्ठं अतीव उचितं स्थानमिति सः अवदत्। आरम्भकेलेशानि शीघ्रं परिहरणीयानि। तत्रैव विजयः इति राष्ट्रपतिना प्रणाब मुखर्जी महोदयेन अस्मारयत्।
जी एस् टी इत्यस्य आनयनेन जनाधिपत्यस्य पक्वता विवेकं च व्यक्तीकृते। अस्मिन् भागभाक् भवितुं वैय्यक्तिकं तोषं अनुभवामि। शासनरेखा भेदगति पत्रं प्रथमतया लोकसभायां मया एव प्रस्तुतीकृतमिति राष्ट्रपतिः अस्मारयत्।

Saturday, July 1, 2017

सी -१७ जट् विमानं भारताय विक्रेतुं पेण्डगणेन निर्णीतम्।
वाषिड्टण्> आधुनिकरीत्या निर्मितं बहुभारं वोढुं शक्तं च सी-१७ जट्विमानं भारताय विक्रेतुं यु एस् पेण्डगणेन निर्णीतम्। एतेन विनिमयेन व्योमयानक्षेत्रे भारतस्य उन्नतिः भविष्यतीति परिगणयति। सी-१७ यात्राविमानस्य ३६६.२ कोटि रुप्यकाणां मूल्यं भवति। अनेके आधुनिकविशेषताः विमाने सन्ति। अपायसूचनां दातुं सौविध्यानि , प्रत्याक्रमणक्रमीकरणानि च विमाने वर्तन्ते। अतिरिच्य आधुनिकाः वण् ऐडण्टिफिक्केषन् फ्रण्ड् , ड्रान्स् पोण्डर इत्यादि सौविध्ये विमाने सज्जीकृते स्तः। युद्धयात्राविमानक्षेत्रे तथा दुरिताश्वासक्षेत्रे च अस्य विमानस्य सेवां उपयोक्तुं शक्यते। सेनाक्षेत्रे विना क्लेशं विमानमेतत् उपयोक्तुं शक्यते। राष्ट्रयोः नयतन्त्रबन्धमाधारीकृत्य एषः  निर्णयः इति पेण्डगणेन व्यक्तीकृतम्।
महावृष्टि:, मृत्पात:पार्श्वयो: अमरनाथयात्रा स्थगिता।
  श्रीनगरम्> महावृष्ट्या पार्श्वयो: मृत्पातेन च अमरनाथयात्राया: तात्कालिकं स्थगनम्। वार्षिकतीर्थाटने आरब्धे तथा प्रथमदिने अतीते च मृत्पातेन यात्रा स्थगनीया अभवत्। अमरनाथम् प्रति मार्गयो: द्वयोरपि महती वृष्टि: तथैव मृत्पातश्च सञ्जात: इत्यत: यात्रा तात्कालिकं स्थगनीया इति श्री अमरनाथ श्रीन् बोर्ड् ( एस् ए एस् बी) उद्योगस्थ: सूचितवान्। वृष्ट्या मार्गे बहुत्र पदस्खलनमपि संवृत्तम्। बेय्स् क्याम्प् मध्ये विद्यमानतीर्थाटकानां कृते यात्राकार्याणि ज्ञातुं नियन्त्रणकक्ष्याम् प्रति एस् ए एस् बी द्वारा क्रमीकृतसहायशृङ्खलाम् प्रति वा सम्पर्क: कर्तुं शक्य: इत्यपि स: उक्तवान्। एतस्मिन्नन्तरे मृत्पातात् जम्मु- श्रीनगरदेशीयमार्ग: अपि पिहित:।
चैनासेना भारते अतिक्रम्य प्रविष्टा- विदेशकार्य-मन्त्रालयः।
नवदेहली- चैनासेना भारतस्य डोङ्लाङ् क्षेत्रे अतिक्रम्य प्रविष्टा इति भारतविदेशकार्यमन्त्रालयेन उक्तम्। एतत्सीमायां वर्तमानां अवस्थां भिन्नीकर्तुं गौरवतरान् सुरक्षाप्रत्याघातान् निर्मातुं  योग्यं च भवति। सिक्किं राज्यस्य डोङ्लाङ् क्षेत्रे वीथीं  निर्मातुं चैनायाः निर्णयः अत्यन्तं भीतिजनकः भवति।  संयमनं पालयितुं भारतेन
चैना अभ्यर्थिता। डोङ्लाङ् क्षेत्रे वीथीनिर्माणे मग्नः भविष्यति चेत् गौरवप्रत्याघातः भविष्यति इति भारतेन सूचना दत्ता।

Friday, June 30, 2017

राष्ट्रपतिनिर्वाचनं - द्वे विहाय सर्वाः पत्रिकाः निरस्ताः।
 राष्ट्रपतिनिर्वाचनार्थं समर्पिताः त्रिनवतिस्थानाशिनां नामनिर्देशपत्रिकाः सूक्ष्मपरिशोधनानन्तरं निरस्ताः। एन् डी ए स्थानाशी रामनाथकोविन्दः , संयुक्तविपक्षस्थानाशिनी मीराकुमारः इत्येतयोः पत्रिके एव साध्व्यौ अभवताम्। अन्येषां कृते राष्ट्रपतिस्थानाशिनं भवितुम् अावश्यकः जनप्रतिनिधीनां सहयोगः न लब्धः इत्यत एव ९३ पत्रिकाणां निरासस्य कारणम्।
श्वः आरभ्य भारते एकीकृतकरः।
नवदिल्ली > अद्य अर्धरात्रौ भारतसंसद्मन्दिरस्य सभामण्डपः अन्यस्मै चरित्रमुहूर्ताय साक्षीभूयते। एकराष्ट्रम् एकशुल्कम् इत्यस्य लक्ष्यस्य समारम्भः क्रियते तत्र।
     श्व आरभ्य भारतम् एकीकृतपण्यसेवाकरपरियोजनायाः अधीने भविष्यति। अद्य रात्रौ एकादशवादनादारभ्य द्वादशवादनपर्यन्तं संसद्सभागारे आयोज्यमाने सविशेषसंसद्सम्मेलने अस्याः परियोजनायाः उद्घाटनं सम्पत्स्यते। उद्घाटनवेलायां राष्ट्रपतिः , प्रधानमन्त्री , उपराष्ट्रपतिः , वित्तमन्त्री च संसदीयान् अभिसम्बोधय़िष्यन्ति।  किन्तु कोण्ग्रस् नेतृत्वे विद्यमानानि विपक्षदलानि उद्घाटनसमारोहं बहिष्करिष्यन्तीति विज्ञापितम्।
उपराष्ट्रपते: निर्वाचनम्; दिनाङ्क: प्रख्यापित:।  
नवदिल्ली> नूतनस्य उपराष्ट्रपते: निर्वाचनाय दिनाङ्क:देशीयनिर्वाचनसमित्या प्रख्यापित:। आगस्ट् पञ्चमे प्रचाल्यमानस्य निर्वाचनस्य फलं तद्दिने एव प्रख्यापयिष्यति। इदानीन्तनस्य उपराष्ट्रपते: हमीद् अनसारि महाभागस्य सेवनकाल: आगस्ट् दशमे  परिसमाप्यते इति पश्चात्तले  नूतनम् उपराष्ट्रपतिम् निर्वाचयिष्यति। नवत्युत्तरसप्तशतम् सङ्ख्याकानि लोकसभाङ्गानि गुप्तनिर्वाचनपत्रद्वारा एव उपराष्ट्रपतिं चिन्वन्ति। जुलै सप्तदशे राष्ट्रपते: निर्वाचनमपि चलेत्। भा ज पा दलस्य स्थानार्थी रामनाथकोविन्द:, प्रतिपक्षस्थानार्थी  गतसभानियन्त्रिका अध्यक्षा मीरा कुमारश्च मत्सरिष्यन्ति