OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 10, 2017

मोसूल्- रक्षां प्राप्तुं परिश्रमान् २३० जनान् ऐ एस् अहन् मृतेषु बालकाः अपि।
जनीवा> इराखस्य पश्चिम मोसूल् क्षेत्रात् पलायितं परिश्रमान् २३० जनान् इस्लामिक स्टेट् भीकराः अघ्नन्। यु एन् मनुष्यावकाश विभागमेधाविना सेयिद् राद् अल् हुसैनेन प्रख्यापितं इदम्। गतमासस्य षोडशदिनादारभ्य गणनमिदम्। मोसूलस्य समीपात् अल् षिफात् पलायितं परिश्रमान् पञ्चबालकैः सह सप्तविंशति जनान् मेई २६ दिनाङ्के अग्निगोलैः अघ्नन्।
अल्षिफायामेव गतमासस्य प्रथमे १६१ जनान् तृतीये ४१ जनान् च अघ्नन्। निरपराधिनां हननं युद्धापराधमस्तीति सेय्देन उक्तम्। धावतां बालानां हननं मृगीयमेवेति सः अयोजयत्।
अलङ्कारमत्स्यविपण्यां केन्द्रसर्वकारस्य नियन्त्रणम्।
कोच्ची>अलङ्कारमत्स्यानां परिपोषणे , प्रदर्शने , विक्रयणे च केन्द्रसर्वकारेण नियन्त्रणम् आयोजितम्। वनं - परिस्थितिमन्त्रालयेन असाधारण "गसट्" द्वारा एतदधिकृत्य विज्ञापनं प्रकाशितम्।
    १५८ प्रकाराणां मत्स्यानाम् एतन्नियन्त्रणेन बाधते। अलङ्कार - वत्सलमत्स्यानां स्वास्थ्यं शुचित्वम् इत्यादीनां स्थिरीकरणमेव अस्य विज्ञापनस्य लक्ष्यमिति उच्यते।  अनेन विज्ञापनेन  स्फाटिकपात्रेषु अलङ्कारमत्स्यानां पोषणं निरुद्धम्। अलङ्कारमत्स्यानां प्रदर्शनं विक्रयणं च निरुद्धम्। पोषणकेन्द्रेषु मत्स्यविदग्धस्य पशुवैद्यस्य वा सेवनम् आवश्यकम्।

Friday, June 9, 2017

चैनाया:  पाकिस्थानस्य च भीषणिम् अभिमुखीकर्तुम् भारतं सन्नद्धम्;      सेनाध्यक्षः।
नवदिल्ली >राष्ट्रान्तस्था: बहिस्थाश्च भीषणी:  अभिमुखीकर्तुम्  भारतसेना सन्नद्धेति सैनिकमेधावी  जनरल् बिपिन रावत्त: उक्तवान् । चैनापाकिस्थानयो: भीषणी: अभिमुखीकर्तुं तथा राष्ट्रे सुरक्षासज्जीकरणाय च भारतं सन्नद्धमेव , स: योजितवान् । जम्मु काश्मीरे  घटना:  समीपे एव सामान्यस्थितिम् प्राप्स्यन्ति इत्यपि विश्वसितीति   रावत्त: अवदत् । काश्मीरे यूनाम् मध्ये अबद्धधारणायुक्तदृश्यचित्राणि तथा सन्देशांश्च प्रचारयन्ति पाकिस्थानम् । तथा तत्र आकृष्टा: एतान् सन्देशान् अधित्यकायाम् न केवलम् प्रचारयन्ति किन्तु युवजनान् भीकरसङ्घटनाम् प्रति योजनाय प्रेरयन्ति च । प्रतिरोधसंविधानस्य  आधुनीकरणमधिकृत्य केन्द्रसर्वकारेण सह चर्चा क्रियमाणा वर्तते इत्यपि स: उक्तवान् । काश्मीरसङ्घर्षं  ""छायायुद्ध""मिति  विशेषितवान् रावत्त: तस्य हीनपरिश्रमम् अधिकृत्यापि  असूचयत् । वृत्तिहीनरीत्या काश्मीरे  एतादृशकार्याणि  प्रचारयन्ति । गत चत्वारिंशत् वर्षाभ्यन्तरे  भारत - चैनासीमायाम्  एकमपि गोलिकास्त्रम् प्रयोक्तव्यं नाभवत् इति प्रधानमन्त्रिणापि सूचितमेव । महते युद्धायापि भारतं सन्नद्धमेव । किन्तु तस्मै युद्धाय भारतेन सज्जता क्रियते , न तत् किञ्चन राष्ट्रं विरुद्ध्य इत्यपि रावत्त: सगौरवम् उक्तवान् ।
इत: परम् प्रतिदिनम् मृत्तैलमूल्यं नवीकरिष्यति: जूण् षोडशदिनाङ्कत: प्राबल्ये।
 नवदिल्ली >राष्ट्रे मृत्तैलमूल्यम् प्रतिदिनं नवीकर्तुं सामान्यमेखलातैलशालानां निर्णय:। अस्य मासस्य षोडशदिनाङ्कत: एषा रीति: राष्ट्रे सर्वत्र प्राबल्यम्  भवेत्। पूर्वम्, परीक्षणरूपेण पञ्चनगरेषु गतमासे एषा रीति: प्रवृत्तिपथम् आनीता आसीत्। तैलमूल्यपरिष्कार: पक्षे एकवारम् इति रीति: अवलम्बिता आसीत् राष्ट्रे। किन्तु आगोलविपणिषु  सर्वत्र दिनम् प्रति तैलमूल्यपरिष्करणरीति: अनुवर्तते।  गतमईमासे प्रथमदिनाङ्कत: एव   राष्ट्रे पञ्च नगरेषु  प्रतिदिनं तैलमूल्यम् परिष्कृत्य परीक्षितम् । विशाखपत्तनम्,पुतुच्चेरी, जंषड्पुरम् , चण्डिगढ:, उदयपुरम्  एतेषु नगरेषु  परीक्षिता एषा रीति:।।

Thursday, June 8, 2017

१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि।
याङ्कूणः>१२० यात्रिकैः सह अप्रत्यक्षस्य म्यान्मार विमानस्य अवशिष्टानि प्राप्तानि। आण्डमान समुद्रे विमानस्य इति शङ्कितानि अवशिष्टानि प्राप्तानि। सेनापुरुषाः तेषां परिवारः मिलित्वा १०६ यात्रिकैः तथा चतुर्दश विमान कर्मकाराः च आसन् विमाने। दावे नगरात् १३६ कि मी दूरे अवशिष्टानि प्राप्तानि। अन्वेषणं प्रचलति। विमानानि नौकाः च अन्वेषणे भागं भजन्ति।
दक्षिणनगरस्य मेय्कस्य रंगूणस्य च मध्ये विमानं अप्रत्यक्षं जादम्। प्रादेशिकसमयं मध्याह्ने १.३५ समये विमानेन सह बन्धं च्छिन्नं जातम्। विमानस्य केनापि साङ्केतिक समस्याहेतुना अप्रत्यक्षं जातमिति सूचना।
भारते राष्ट्रपतेः निर्वाचनं जूलैमासस्य १७तमे दिने, फलं २० दिने
नवदिल्ली> भारतस्य पञ्चाशत् तमं राष्ट्रपतिं निर्वाचयितुम् निर्वाचनप्रक्रिया जूलैमासस्य सप्तदशे दिने भविष्यति। फलविज्ञप्तिः विंशति दिनाङ्गे च। राज्यसभायाः तथा लोकसभायाः निर्वाचिताः षण्णवत्यधिकाष्टशतोत्तरचतुस्सहस्र संख्याकानां (४८९६) सामाजिकानां निर्वाचनाधिकारः अस्ति। सप्तदश दिनाङ्के प्रातः दश(१०) वादनादारभ्य पञ्चवादनपर्यन्तं निर्वाचनक्रमः प्रचलिष्यति। अस्मिन् सन्दर्भे निर्वाचनालेखनाय विशेषलेखनी अपि निर्वाचनयोगेन दास्यते।
 खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतुं भारतम् 
नवदेहली>खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छिद्य अरब्राष्ट्राणां प्रवर्तने भारतस्य चिन्ता। बहरिन् ईजिप्त् सौदि अरेब्या यु एस् ई इत्यादि राष्ट्राणि खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतितवन्तः। गतागतमपि तैः निरोधितम्। स्व राष्ट्रेषु वर्तमानान् खत्तरपौरान् देशात् गन्तुं द्विसप्ताह समयं प्रदत्तम्।
मुस्लिम् ब्रदरह् इत्यादि भीकरसंस्थाः खत्तर आर्थिकसाहाय्यं ददाति इत्यारोप्य अरब्राष्ट्रैः एषा प्रक्रिया स्वीकृता।
अशीतिलक्षं भारतीयानां कर्मक्षेत्रं भवति अरेब्या। खत्तरे तथा सर्वत्र अरब्राष्ट्रेषु भारतीयानां विशिष्य केरलीयानां सान्निध्यं बृहत्तरमस्ति। खत्तरराष्ट्रस्य अस्मिन् प्रतिसन्ध्यां तत्रत्य कर्मकराणां अन्यत्र गन्तुं आगन्तुं च न शक्यन्ते।
खत्तर राष्ट्रं प्रति भारतात् उत्पन्नानां विक्रयणं तथा ततः क्रयणं च प्रचलति। खत्तरेण सह भारतस्य तन्त्रप्रधानं सहवर्त्तित्वं वर्तते । ऊर्जरंगे प्रतिरोधरंगे च एतत् सहवर्त्तित्वं।अत्यधिकं प्रकृतिवातकं खत्तरराष्ट्रात् भारतं स्वीकरोति। खत्तरेण सह भारतं पञ्चविंशति वर्षाणां समयः निर्मितः। गतदिसंबर मासे आसीत् सः समयः। गत केषुचित् संवत्सरेषु खत्तरेण सह भारतस्य बन्धं दृढीकृतम्।अत एव राष्ट्रस्य अस्य एषा अवस्था भारतमपि बाधते इति आर्थिकविदग्धाः वदन्ति।
२०२२ तमस्य विश्वचषक (world cup) पादकन्दुक क्रीडार्थं खत्तर राष्ट्रे बहूनि निर्माणप्रवर्तनानि प्रचलन्ति। सहस्रशः भारतीयाः गत संवत्सरेषु खत्तरराष्ट्रे आगताः। राष्ट्रस्य अस्य चिन्ता एषा पादकन्दुकक्रीडायाः कार्यकरणमेव।
प्रतिसन्धिः एषा इदानीं राष्ट्रं न बाधते चेदपि भविष्ये अवस्था भिन्ना भवेत्। विनेदसञ्चारक्षेत्रे खत्तरस्य आयः न्यूनः भविष्यति।एवं सम्पन्नस्य अस्य राष्ट्रस्य अवस्था भिन्ना भविष्यति।
संस्कृतं वा शीलम् ????? बालिकामुपहस्य सी एन् एन् दूरदर्शनावतारिका।
 न्यूयोर्क्>अमेरिक्कायाम् प्रवृत्तायाम्  आङ्गलपदानाम् अक्षरविवेचनस्पर्धायाम्  प्रथमस्थानम् प्राप्तां कैरलीबालिकाम्  अनन्या विनयम् (१२ वयस्कां ) उपहस्य सी एन् एन् दूरदर्शनशृङ्खलावतारिकाया: वंशीयपरामर्श:। गतसप्ताहे वाषिङ्टणे प्रवृत्तायाम् अक्षरविवेचनस्पर्धायाम् प्रथमस्थानम् प्राप्ताम् अनन्याम् अवतारिके अलिसिन् कामिरोटा  , क्रिस्  कोमो च मिलित्वा  अभिमुखं कृतवत्यौ। अभिमुखभाषणमध्ये  कामिरोटा अनन्याम् प्रति  अमेरिक्का राष्ट्रपते: डोणाल्ड् ट्रम्पस्य ट्वीट्टर् सन्देशान्तर्गतस्य "कोव्फेफे" इति प्रशस्तस्य असम्बन्धपदस्य अक्षरविन्यासक्रमं ताम् अपृच्छत् । तस्य पदस्य निर्वचनम् मूलभाषां च अनन्या ताम् प्रत्यपृच्छत् । आत्मार्थतया तस्य पदस्य अक्षरविन्यासं वक्तुं कृतपरिश्रमा सा बालिका अन्ते "कोफेफे" इति अक्षरविन्यासम् उक्तवती। वस्तुत: अक्षरविन्यास: "कोव्फेफे" इति स्पष्टीकृत्य कामिरोटा, एतत् असम्बन्धपदमिति च उक्त्वा एतस्य उद्भव: यथार्थतया संस्कृतात् वेति  अस्माकं निश्चय: नास्तीत्यपि सूचितवती।  संस्कृतमेव खलु नित्यमुपयुज्यते भवद्भि: इत्यपि योजितवती। अवतारक: क्रिस् कोमो  अनन्याया: सफलताम् अभिनन्दितवान् तथापि  संस्कृतसम्बन्धेन सह कामिरोटया कृतपरामर्शं विरुध्य समाजमाध्यमेषु व्यापकप्रतिषेधा: प्रसरन्ति।
विद्यालयेषु परीक्षाप्रणालिः परिष्क्रियते।
अनन्तपुरी> केरले प्रथमकक्ष्यायाः आरभ्य द्वादशकक्ष्यापर्यन्तं परीक्षाप्रणालिः आपादमस्तकं परिष्क्रियते। शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य नेतृत्वे एस् सि ई आर् टि आस्थाने सम्पन्ने उन्नताधिकारिणाम् उपवेशने एतदधिकृत्य निर्णयः जातः। आगस्ट् मासस्य पादवार्षिकमूल्यनिर्णयादारभ्य नूतनसम्प्रदायः प्रवृत्तिपथमागमिष्यति।
     निरन्तरमूल्यनिर्णयम् इतःपरं युक्तियुक्तं कारयिष्यति। एतदर्थं दीयमानः अङ्कः विभिन्नघटकैः विभज्यते। सर्वेभ्यः छात्रेभ्यः सम्पूर्णमङ्कानां दानेन  विजयमानं कृत्रिमेण वर्धयतीति आरोपणमस्ति। अङ्कविभजनं निर्णेतुं एस् सि ई आर् टि संस्थायै उत्तरदायित्वमदात्।
     प्रतिशतं २५ अङ्कानां प्रश्नाः अधिकं दीयन्त इति अन्यः परिष्कारः। विपुलं प्रश्नशेखरमपि सज्जीकरिष्यति।
 भारतस्य अभिमानम्  "स्थूलबाल:"( फाट् बोय् ) भ्रमणपथे, विक्षेपणं राष्ट्रस्य विजय:        
श्रीहरिक्कोट्टा>आधुनिकसाङ्केतिकताया: प्राबल्येन जी एस् एल् वी - मारक् त्रीणि उपग्रहवाहनं श्रीहरिक्कोट्टाया: विक्षेपितम् । विक्षेपणं विजयकरमिति ऐ एस् आर् ओ  न्यवेदयत् । "स्थूलबाल:"( फाट् बोय् )  इति आहूतस्य उपग्रहवाहनस्य विक्षेपणम्  मनुष्यबहिराकाशगमनं साधयेदिति  ऐ एस् आर् ओ  संस्थाया: स्वप्नपद्धते: निर्णायकपादस्थापनमेव । सी ई २०  इति क्रयोजनिकमुखयन्त्रेण सहिता: नैका: सविशेषता: अस्य वर्तन्ते । विक्षेपणस्य विजयकर्तॄन् शास्त्रज्ञान् राष्ट्रपति: प्रणब मुखर्जी, प्रधानमन्त्री नरेन्द्रमोदी, केरलस्य मुख्यमन्त्री पिणराई विजय:, ऐ एस् आर् ओ निर्देशक: किरणकुमार: एते अभिनन्दितवन्त: । जी एस् एल् वी उपग्रहयन्त्रस्य विक्षेपणेन  उपग्रहयन्त्रविक्षेपणे साङ्केतिकविद्यायां  च  भारतम् अग्रिमतलम् प्रविष्टम् इति प्रधानमन्त्रिणा सूचितम् । भारतेन तद्देशीयरीत्या  विकासितम् अतिभारयुक्तम् उपग्रहवाहनमेव क्रयोजनिकमुखयन्त्रसहितं श्रीहरिक्कोट्टाया: विक्षेपितमिति मुख्यमन्त्रिणा पि प्रदर्शितम्   । पादशतकातिलम्बितस्य शास्त्राज्ञानाम् परिश्रमस्य फलमेव विजयोयम् । बहिराकाशं प्रति मानवम् प्रेषयेत् इति भारतसमय स्वप्नपद्धतिं याथार्थ्यं क़र्तुम्
 भारतस्य़ पादन्यास:इत्यपि एतत् परिदृश्यते इत्यपि स: असूचयत्।।

Wednesday, June 7, 2017

मध्यप्रदेशे कृषक प्रक्षोभः - भुषुण्डिप्रयोगे पञ्च हताः। 
भोपाल् >मध्यप्रदेश राज्यस्य  मन्सोर् जनपदे कृषकान् प्रति आरक्षकैः कृतेन भुषुण्डिशस्त्रप्रयोगेण पञ्च हताः। अनावृष्टिबाधिते जनपदे कार्षिकोत्पन्नानां कृते अधिकमूल्यं याचमानैः कृषकैः कृतस्य आन्दोलस्य मध्ये  आसीदियं घटना। नैकाः आहताः।
     प्रक्षोभे भागं भजमानाः कृषकाः पिपालिया आरक्षकालयस्थानि वाहनानि अग्निसात्कृतानि , तेन कारणेनैव भुषुण्डिप्रयोगः कृत इति श्रूयते।
खत्तर् राष्ट्रस्य पृथक्करणं - विषयपरिहाराय तीव्रयत्नः आरब्धः। 
दुबाय् > गल्फ् - अरब मण्डलेषु सञ्जातं प्रतिसन्धिं परिहर्तुं तीव्रयत्नः आरब्धः। कुवैट् राष्ट्रस्य शासकः [अमीर्] सौदीराजं सन्दर्श्य चर्चां कृतवान्।
   सौदी अरेब्या राष्ट्रस्य नेतृत्वे यु ए ई , बहरिन् , ईजिप्ट् , यमन् इत्यादीनि सप्त राष्ट्राणि खत्तरेण सह नयतन्त्रबन्धान् विच्छेदितवतः आसन्। भीकरसंस्थाभ्यः खत्तर् राष्ट्रं साहाय्यं करोति इत्यारोप्य एव  तस्य पृथक्करणं कृतम्।
Episode 49- Sanskrit News
Meenakshi NV, Std.10,Brahmanandodayam, Ernakulam, Kerala.

Tuesday, June 6, 2017

लण्टने पुनरपि भीकराक्रमणम् - सप्त हताः। 
लण्टन् >शनिवासरे रात्रौ लण्टन्नगरे संवृत्ते भीकराक्रमणे सप्त जनाः हताः। ४८जनाः आहताः। आक्रमणकारिषु त्रयः आरक्षकैः निहताः च। नगरे प्रसिद्धेन "लण्टन् सेतु" मार्गेण सञ्चरन्तः पादचारिणः केनचन कार् यानेन दूरं विक्षिप्ताः।  अनन्तरं कार् यानात् अवतीर्णाः अाक्रमकारिणःसमीपस्थे आपणे स्थितान् जनान् छुरिकया आक्रमितवन्तः।

Monday, June 5, 2017

अमेरिक्कायाम् आङ्गलपदानाम् अक्षरविवेचनस्पर्धायां त्रुटिं विना  अनन्याविजयिनी।    
अमेरिक्कायाम् प्रचलिते  नवतितमे देशीयाङ्गलपदस्थाक्षरविवेचनस्पर्धायां (स्पेल्लिङ्ग् कण्टेस्ट् )  भारतवंशजाया:  अनन्यानामिकाया:(१२ वयस्काया: ) कृते विजयकिरीटम् । भारतवंशजं रोहन राजीवं नाम बालकं विजित्यैव  अनन्या स्पर्धायामस्यां जेत्री अभवत् । उपपञ्चविंशति: लक्षं रूप्यकाणाम् मूल्ययुतं  डोळर्  तथा फलकं (ट्रोफी) च पुरस्कार: । अनन्तपुर्याम् पूजप्पुरायां विनुभवने विनयश्रीकुमारस्य तृश्शिवपुरे चेलक्कोट्टुकरायाम्  पोलियेडत्त् गृहे  डा अनुपमायाश्च  पुत्रीयम् । कालिफोर्णियायाम्  फुगमान् एलिमेन्टरी विद्यालयस्य विद्यार्थिनी चेयम् बालिका । द्वितीयकक्ष्याछात्र:  अच्युत: सहोदर: । गुरुवारे रात्रौ मेरिलान्ड् गेलोर्ड् नाशनल् रिसोर्ट्  मध्ये प्रचलिते अतिशक्तायां स्पर्धायाम् एव अनन्या रोहनम् पराजितवती । " मारोकेन् "  इति पदं दोषं विना उच्चार्यैव  अनन्या किरीटं स्वायत्तमकरोत् । एकस्य विशिष्टवस्त्रविशेषस्य  नाम इदम् पदम् ।
श्वासवायुस्तूपिकां विना चत्वारो  भारतसैनिका: एवरस्ट् शृङ्गे ।
काठमण्डु:> श्वासवायुस्तूपिकां विना एवरस्ड् शृङ्गम् अधिरुह्य चत्वारो भारतसैनिका:।   कुञ्जोक्क् टेण्ट:  , केलषाङ् दोर्जि भूट्टिया , कलदेन् पञ्जूरः, सोनम् फन्तोस्क:  एते सैनिका: धीरसाफल्यम् प्राप्तवन्त:। मई एकविंशतिदिनाङ्के एतेषां सङ्घ:  एवरस्ट् अध्यारोहत् । शुक्रवारे प्रत्यागतवन्तश्च । चतुर्दशजनानां सङ्घ: दौत्याय सन्नद्ध:  प्रस्थितश्च। श्वासवायुस्तूपिकां विना एवरस्ट् आरोढुं  दशजनानां सङ्घ: रूपीकृत:। एतेषु चत्वार: एव दौत्यविजेतार: इति दौत्यसङ्घनायक: केणल् विशालदुबे उक्तवान्। " हिमसिंह: एवरस्ट् एक्स्पडिषन् २०१७ " ( स्नो लयण् एवरस्ट् एक्स्पडिषन् सप्तदशोत्तरद्विसहस्रम् )  इत्यासीत् दौत्यस्य नाम । अष्टचत्वारिंशदुत्तराष्टशताधिकाष्टसहस्रम् मीटर् उन्नतम् एवरस्ट् शृङ्गम् एतावता चतुस्सहस्राधिका:  आरूढवन्त:। एतेषु  सप्ताशीत्यधिकशतम् पर्वतारोहका: एव श्वासवायुस्तूपिकां विहाय शृङ्गमिदमारूढवन्त:। षट् षेर्पा मार्गनिर्देशकाश्च  सफलप्रयत्ना: । इदंप्रथमतया एक: सङ्घ: साहसिकयात्रायै प्रस्थित: इति वैशिष्ट्यम् भारतसेनाया: ।  लोकमूर्ध्नि  मानवेन पादस्पर्शं कृत्वा चतुष्षष्टिवर्षेषु पूर्तीकृतेषु  सुवर्णनिमिषेस्मिन्नेव सेनाया: दौत्यसाफल्यमित्यपि कौतुककरम्। त्रिपञ्चाशदुत्तरनवशताधिकसहस्रतमे  एड्मण्ड् हिलारि:  टेन्सिंग् नोर्गे च मिलित्वा  प्रप्रथमंम्  एवरस्ट् अधिरूढवन्तौ । एकसप्तत्युत्तरत्रिशतम्  पर्वतारोहकाणां कृते  अस्याम् ऋतौ  एवरस्ट् आरोढुम् अनुमतिर्दत्ता वर्तते नेपालेन । अस्मिन् वर्षे आहत्य एतावत्पर्यन्तं दश पर्वतारोहका: मृता:। आहत्य एतावता त्रिशतम् च मृतवन्त: । तेषु द्विशतानाम् मृतदेहोपि न प्राप्त:॥
रेलमार्गं विहाय रथ्यया अपि रेल्यानं चालयितुं शक्यते इति चैनया स्पष्टीकृतम् ।
         रथ्ययापि रेलयानं धावति किम् ?     धावतीति चैना स्पष्टीकरोति । रेलमार्गं त्यक्त्वा रथ्यया सञ्चरत: रेलयानस्य दृश्यचित्राणि सामान्यचित्राणि  च चैनया बहिरानीतानि वर्तन्ते । लोके एव प्रप्रथमं  स्यादिदम् परीक्षणम् । किन्तु  सामान्यरेलयानेषु उपयुज्यमानानि दृढायोनिर्मितानि चक्राणि विहाय  रबर् चक्राणि एव एव रेलयानेषु  उपयुक्तानि। चैनानगरस्य ह्यूनानप्रविश्यायां जूण् द्वितीयदिनाङ्के  रेलयानस्य नूतनसेवनम् आरब्धम् । अत्याधुनिकसाङ्केतिकज्ञानसाह्येन निर्मितं रेलयानमिदं लोके एव विप्लवात्मकपरिवर्तनम् आनयेत् इति विश्वास:।  त्रयोदशोत्तरद्विसहस्रतमे  एव  अस्या: कल्पनाया: बलेन यत्नोयं सफलीकृतम् । चैनाया: रेल् कोर्परेषन् संस्थाया: नूतनसंरम्भ: अयम् पूर्णतया अष्टादशोत्तरद्विसहस्रतमे एव प्रवर्तनक्षमम् भवेत्। सामान्यमार्गेषु  निर्दिष्टचिह्नितमार्गेण एव रेलयानं सञ्चरेत् । रेलयाननियन्त्रणाय  अनेकानि सेन्सर् यन्त्राणि  च उपयुज्यन्ते । एतेषां सेन्सर् यन्त्राणां साहाय्येन चालक:  मार्गस्थरेलमार्गम् अभिव्यनक्ति । घण्टायां सप्तति: कि मी वेगमानकयुतं  मुखयन्त्रसहितं ( एन्जिन् ) रेलयानं दशनिमेषाणां वैद्युतिग्रहणेन पञ्चविंशति: कि मी पर्यन्तं दूरं सञ्चरेत् ।
भारतीयवीथ्यः विद्युत् यानानि आधिपत्यं स्थापयिष्यति।
नवदेहली>त्रयोदशसंवत्सराभ्यन्तरे भारतस्य वीथ्यः विद्युत् यानैः पूर्णं भविष्यन्ति। तदर्थमेका पद्धतिः केन्द्रसर्वकारेण निर्मिता। पद्धतेः कार्यान्वियानन्तरं शिलातैलयानानां विक्रयणं पूर्णतया समापिष्यति।
खननव्यवसाय विभागः नीति आयोगः च मिलित्वा विद्युत् यानानां उपयोगाय बृहती प्रचारणपद्धतिः आरब्धौ।
व्ययन्यूनत्वं संभवति चेत् जनाः विद्युत् यानानां उपयोगं करिष्तन्ति इति ऊर्जमन्त्रि पीयूष् गोयल् अवदत्। २०३० तमेन शिलातैलयानानां विक्रयणं राष्ट्रे न संभवेदिति पीयूष् गोयल् अवदत्।
द्वयेन त्रयेन वा वर्षेन शिलातैलयानेभ्यः विद्युत् यानानि स्वीकर्तुं सर्वकारः साहाय्यं दास्यति। त्रि वर्षत्रयाभ्यन्तरे बृहत्या रीत्या विद्युत् यानानि वीथ्यां आगमिष्यन्ति। तदर्थं करः न्यूनता प्रख्यापनमपि भविष्यति।