OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 1, 2017

सूर्यस्स रहस्यम् अध्येतुं नासा बहिराकाशपेटकंविक्षेपणं करिष्यति।
वाषिड्टण्>सूर्यस्य रहस्यम् अद्ध्येतुं बहिराकाशपेटकंविक्षेपणं करिष्यतीति नासा।यन्त्रमनुष्येण नियन्त्रितं पेटकं आगामिनि संवत्सरे प्रेषयितुमस्ति नासायाः निर्णयम्।पृथिवीतः पञ्चदशकोटि किमी दूरे अस्ति सूर्यः।षष्ठि लक्षं किमी समीपं यावत् गत्वा निरीक्षणं कर्तुं शक्यते इति विचारः।
प्रधानतया त्रीणि कार्याणि अद्ध्येतुम् उद्दिश्यते।सूर्यस्य अन्तरीक्षापेक्षया उपरिक्षेत्रे उष्णं कुतः  न्यूनं भवतीति क्लिष्टॉः प्रश्नःअस्ति प्रथमः।कोरोणा इति प्रथिते अन्तरीक्षे उष्णं विंशति लक्षं डिग्री चेत् उपरिक्षेत्रे फोटोस्फियरमद्ध्ये उष्णं केवलं ५५०० डिग्री अस्ति।सूर्यात् बहितः सर्वतः प्रति खण्डेषु दशलक्षं मैल वेगेन प्रसरिताः ऊर्जकणाः सन्ति।किन्तु तेषां एतावत् प्रसरणवेगं कुतः लभ्यते इति प्रश्नस्य समाधानान्वेषणं करिष्यति।कदाचित् सूर्यात् विनाशकाराः ऊर्जकणाः किमर्थं बहिर्गच्छतीति प्रश्नस्यापि अन्वेषणं करिष्यति।१३७० डिग्री पर्यन्तं उष्णसहनशेषिवन्तं पेटकं नासाद्वारा निर्मीयते।

ओस्कार् पुरस्काराः प्रख्यापिताः-  
मूण् लैट्  श्रेष्ठं चित्रं , डामियन् षासेल् निदेशकश्रेष्ठः।
होलिवुड् > २०१६ संवत्सरस्य ओस्कार्  पुरस्काराः प्रख्यापिताः। श्यामवंशीयस्य चरितप्रतिपादकं बारी जेन् किन्स् इत्यनेन निदेशितं  मूण् लैट् [ Moon Light] नामकं चलनचित्रं श्रेष्ठतमं निर्णीतम्। ला ला लान्ड् (La La Land) नामकचित्रस्य निदेशकः डामियन् षासेल् इत्यनेन  श्रेष्ठतमनिदेशकस्य पुरस्कारः प्राप्तः। ला ला लान्ड् चित्रस्य अभिनयेन एम्मा स्टोण् श्रेष्ठा अभिनेत्री रूपेण  समादृता। केसी अफ्लेक् श्रेष्ठनटः भविष्यति- चित्रं माञ्चस्टर् बै दि सी। ला ला लान्ट् षड् ओस्कार् पुरस्काराः लब्घाः!


" वृक्षरोपणेन प्रकृतिं संरक्षयन्तु " -  तालिबान्।
काबूल्> अफ्गान् भूमिं सुन्दरीं कर्त्तुं वृक्षरोपणाय उद्बोधनम् मकरोत् तालिबान् नेता हिब्बित्तुला अगुन्साद। राष्ट्रे सामान्याः सेनान्याः च  जनाः फलवृक्षान् अन्यवृक्षान् वा रोपयित्वा भूमेः सौन्दर्यं वर्धयन्तु इति नेतोः आह्वानम् ।

तालिबानस्य ओद्योगिक अन्तर्जाल-शृड़्खलाद्वारा एव आह्वानं रविवारे आगतम्। परिस्थिति संरक्षणम्, सामत्तिक विकसनम्, भूमेः सौन्दर्यवत्करणम् इत्यादिषुः वृक्षरोपणस्य प्राधान्यम् अतीव वर्तते इति तस्य अभिप्रायः। गत मईमासे सः तालिबानस्य नूतननेता इति पदवीम् आरूढवान्। तीव्रवादसड़्घनेतृत्वोपरि मतनेता इति परिवेषम् आर्जयितुं सः शक्तः अभवत्। क्रूरकृतचरित्रस्य तालिबानस्य अपकीर्तं दूरीकर्तुम् आगोलसमाजस्य पुरतः स्वीकार्यता लभ्यतायै च एषः परिश्रमः इति सर्वकारवृत्ताणाम् आरोपणम्। भीकरतया वननशीकरणात् भीता अफ्गानभूमिः। अनधिकृतदारुव्यवसाय एव वननशीकरणस्य प्रधानकारणम्।
Episode 35, Sanskrit News

Taraa G Std. 8, Bhavans Munshi Vidyasram, Thiruvankulam, Ernakulam, Kerala.

Tuesday, February 28, 2017

क्षालनयन्त्रे पतित्वा बालकयुगलौ मृतौ।
नवदिल्ली> पश्चिमदिल्ल्यां रोहिणी प्रविश्यायां त्रिवयस्कौ युगलबालकौ क्षालनयन्त्रे पतित्वा अकालमृत्युं प्राप्तौ। शनिवासरे मध्याह्ने आसीदियं दुर्घटना। यन्त्रे जलं पूरयित्वा फेनकचूर्णं क्रेतुं मातरि बहिर्गतवति एव बालकौ यन्त्रान्तर्भागं पतितवन्तौ।
निमेषाणामाभ्यन्तरे प्रत्यागता माता वत्सलौ अन्वीक्षणं कृतवत्यपि न दृष्टवती। वृत्तान्तं ज्ञात्वा आगतस्य भर्तुः मार्गणे अपत्यौ क्षालनयन्त्रान्तःप्रपूरिते जले पतितौ दृष्टौ।  झटित्येव आतुरशालां प्राप्तावपि तौ स्वर्गस्थौ आस्ताम्। रोहिणी प्रविश्यायां प्रथमखण्डे अवन्तिका आवासीयप्रकोष्ठे वसतोः रवीन्दर् राखी दम्पत्योः वत्सलापत्यौ  निषान्तः नक्ष्या नामकौ एव हतभाग्यौ अभवताम्।  शिशूनां संरक्षणविषये पितृॄणाम् अवधानता कीदृशीं सूक्ष्मतामर्हति इति इयं दुर्घटना अङ्गुल्या निर्दिशति।

श्रीपद्मनाभस्वामिमन्दिरसमीपे महती अग्निबाधा।
अनन्तपुरी>केरले श्रीपद्मनाभस्वामिमन्दिरस्य अतिसुरक्षामण्डलपरिसरे रविवासरस्य प्रत्यूषे महती अग्निबाधा सञ्जाता। मन्दिरस्य उत्तरद्वारे वर्तमानस्य पत्रालयस्य द्वे भवने अग्निसात्कृते जाते।
     मन्दिरस्य नियन्त्रणप्रकोष्ठस्थे सि सि टि वि संविधिनद्वारा एव अग्निज्वलनं प्रथमं दृष्टम्। वृत्तान्तं ज्ञात्वा अग्निशमनसेनायाः एकादश अंशाः  आगत्य होरात्रयेणैव अग्निशमनं कृतम्। षण्मासेभ्यः पूर्वमपि मन्दिरस्य पूर्वगोपुरसमीपं वर्तितायां वस्त्रसम्भरणशालायामपि अग्निबाधा सञ्जाता।
    घटनामधिकृत्य समग्रम् अन्वेषणं करिष्यतीति घटनास्थानं प्राप्तवता मन्त्रिणा कटकंपल्लि सुरेन्द्रेण उक्तम्।

वन्यजन्तवः तं मनुष्यं प्रतीक्षन्ते।
केनिया>केनिया राष्ट्रस्य सावो वेस्ट् राष्ट्रीयोद्याने संवत्सरेषु सन्दर्शकाः न आगच्छन्ति।किन्तु अत्रत्य नित्यसन्दर्शकः जलमनुष्यः इति प्रथितः पाट्रिक् किलोण्सो म्वावुला। पार्श्व ग्रामस्य कृषकः अस्ति सः। अगोलतापनेन केनिया ज्वलन्नवसरे वनान्तर्भागस्थानां जन्तूनां जलानयनकर्म सः स्वयं स्वीचकार। एषः कृषकः प्रतिदिनं किञ्चित्कालं एतेषां वनजन्तूनां कृते जलानयनाय उपयुज्यते। भाटकारूपेण स्वीकृतेन यानजलेन त्रिदिनं ३००० ग्यालन् जलं सः जलसंभरण्यां आनयति। उष्णबाधिते भूमौ तस्य आगमनं प्रतीक्ष्य शताधिकाः वनजन्तवः श्रेण्यायन्ते। गजाः,वनमहिषाः, रेखाड्किताष्वाः च तेषु अन्तर्भवन्ति। पातुं कणमपि जलरहिते अस्मिन् कानने म्वावुला अस्ति वनस्स रक्षकः।
   वनाय तथा वनजन्तवे अतीव स्निह्यमानस्य म्वावुलस्य कर्माणि अधिकृत्य श्रुताः तिस्रः विदेशयुवतयः साहाय्यवाग्दानम् अकुर्वन्। तस्य कर्मभ्यः गो फण्ट् मी इति धनसमाहरणमपि प्रारभत। म्वावुलाय नवीन यानजलस्य विक्रयणमस्ति आगामि सोपानम्।

Monday, February 27, 2017

राष्ट्रं तन्त्राधिगमयुगं प्रति प्रधावति- मन की बात कार्यक्रमे प्रधानमन्त्री।
नवदेहली>चतुरधिकैकशतान् उपग्रहान् समाहत्य विक्षिप्य ऐ एस् आर् ओ ऐतिहालसिकं प्राधान्यं प्रप्राप। सः स्तुत्यर्हमस्तीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्।तेषु कैर्टोस्टाट् श्रेण्याम् अन्तर्गतम् उपग्रहं कृषकाणाम् अत्यन्तम् उपकारकमिति तैः उक्तम्।स्व प्रतिमास आकाशवाणी कार्यक्रमं मन की बात कार्यक्रमं जनान् अभाषयन् आसन् ते।
  उपग्रहविक्षेपेणेन सह तस्य कर्मेषु आद्यन्तं प्रयतन्त्यः अस्माकं प्रगल्भवत्यः युवत्यः शास्त्रकारिण्यः सन्ति।अत एव एतत् दौत्यं अतीव मोददायकमिति तैः उक्तम्।अस्माकं समाजम् अतिशीघ्रं तन्त्राधिगमयुगं प्रति प्रधावति।दूरवाणीमुपयुज्य आर्थिकविनिमयरीतयः राष्ट्रं अभ्यसन् अस्तीति सः अयोजयत्।

व्याज-रुप्यकपत्राणि विनिमय-यन्त्रात् (ATM) लब्धानि
नव दिल्ली > एस् बी ऐ वित्तकोशस्य धनविनिमययन्त्रात् द्विसहस्रसंख्यायाः व्याजरुप्यक-पत्राणि लब्धानि। उत्तरप्रदेश् राज्यस्य षहान् पुर देशस्थ ATM यन्त्रात् एव एतादृशानां रुप्यकपत्राणाम् उपलब्धिः। पुनीत् गुप्ता नामकेन विनिमययन्त्रात् गृहीतेषु पञ्चसु द्विसहस्राणां रुप्यकपत्रेषु चत्वारि पत्राणि व्याजानि आसन्।
कतिपयदिनात् पूर्वं नवदिल्यामपि एतादृशा घटना जाता। तद्देशीयानां प्रतिषेध प्रकाशनानन्तरम् आरक्षकैः एकः ग्रहीतः। एषः एव यन्त्रे अन्तिमं धनपूरणं कृतवान्।

भारतसंस्कृतिः वैविध्याधिष्ठिता - नरेन्द्रमोदी।
कोयम्पत्तूर्> भारतसंस्कृतेः सार्वकालिकसविशेषता अस्ति वैविध्यमिति प्रधानमन्त्री नरेन्द्रमोदी। तमिल् नाट् राज्ये कोयम्पत्तूर् जनपदे वेल्लियङ्किरि पर्वतसानुप्रदेशे विद्यमाने ईषा योगकेन्द्रे स्थापितस्य द्वादशोत्तर-शताधिकपादसमुन्नतस्य आदियोगिनः [भगवतः परमेश्वरस्य] प्रतिमाम् अनावरणं कृत्वा भाषमाण आसीत् मोदिवर्यः।
    "परमेश्वरस्य गले पन्नगः विभूषणमस्ति। स्वस्यापत्ययोर्मध्ये गणेशस्य वाहनं मूषकः, षण्मुखस्य वाहनं मयूरश्च। मूषकसर्पमयूराणां शत्रुता विदिता एव। किन्तु परमेश्वरस्य अपत्यभावेन एते ऐकमत्येन वर्तन्ते स्म। एतत् वैविध्यं स्वांशीकर्तुम् अस्माकं संस्कृतिः अस्मान् उपदिशति - प्रधानमन्त्री अवदत्"।
       ईषा योगकेन्द्रस्य आश्रमम् अवलोक्य आरत्यादिषु कार्यक्रमेषु भागं गृहीत्वा एव मोदिवर्यः वेदिकां प्राप्तः। योगानुष्ठानमधिकृत्य ग्रन्थस्य प्रकाशनमपि तेन कृतम्।
    योगविद्यायाम् आदियोगिनः योगदानं महत्तरमिति ईषायोगकेन्द्रस्य स्थापकः सद्गुरुः जग्गी वासुदेवः अब्रवीत्। राज्यपालः सि विद्यासागररावः , मुख्यमन्त्री एडप्पाटी पलनिस्वामी , केन्द्रमन्त्री पोन् राधाकृष्णः , पोण्टिच्चेरी राज्यपालिका किरण् बेदी इत्यादयः कार्यक्रमे सान्निध्यमकुर्वन्।

ऐ एस् संबन्धः - केरलात् अप्रत्यक्षेषु एकः हतः।
कासर्कोड् > केरलतः ऐ एस् नामिकायाः भीकरसंस्थायाः शिबिरं प्राप्तवत्सु द्वाविंशतिषु युवकेषु एकः हत इति बन्धुजनेभ्यः सूचना प्राप्ता।
    कासर्कोड् जनपदस्य पटन्ना प्रान्तीयः टि के हाफिसुद्दीनः एव गतदिने "ड्रोण् "नामकस्य स्वयंप्रेरितविमानस्य आक्रमणे हत इति "टेलिग्राम् मेसेञ्जर्" योजनद्वारा सन्देशः लब्धः। शिबिरवासिना अन्येन केनचित्  मित्रेणैव सन्देशः प्रेषितः। किन्तु घटना कुत्र सम्पन्नेति न स्पष्टीकृतम्। मृतदेहसंस्कारादिक्रियाः समाप्ताः इति सूचितमस्ति।
    हाफिसुद्दीनः हत इति वृत्तान्तम् आधारीकृत्य "एन् ऐ ए" तथा "रो" संस्थाभ्यां अन्वेषणम् आरब्धम्।

 वार्तामुक्तकानि
अगर्त्तला >अरुणाचलप्रदेशे तथा त्रिपुरायां च शनिवासरे भूकम्पः सञ्जातः। जीवहानिः द्रव्यहानिर्वा अजायत इति सूचना नास्ति। अरुणाचले भूकम्पः रिक्टर् मापिकायां ३.५ रेखितः । त्रिपुरायां तु ४ रेखितः।

चण्डीगड् > हरियानायां जाट् वर्गैः रविवासरे श्यामदिनम् आचरितम्। स्वसमुदायेन उन्नीतानि आवश्यकानि अङ्गीकर्तुं राज्यसर्वकारस्य विमुखतां विरुध्य आरब्धम् आन्दोलनं शनिवासरे २८ दिनानि अतीतानि।

राञ्चि > झार्खण्ड् राज्ये राञ्ची प्रविश्यातः पञ्च मावोवादिनः आरक्षकैः निगृहीताः। एतेभ्यः लघुलेखाः भुषुण्ड्यादि आयुधानि च प्रगृहीतानि।

Sunday, February 26, 2017

वंशीयविद्वेषः - अमेरिक्कायां भारतीयः भुषुण्डिप्रयोगेण हतः।
वाषिङ्टण्> अमेरिक्कायां कान्सस् प्रविश्यायां भारतीयं तन्त्रवैज्ञानिकं [ ] भूतपूर्वः यू एस् नाविकोद्योगस्थः भुषुण्डिप्रयोगेण मारितवान्। हैदराबाद् स्वदेशीयः श्रीनिवास एव हतभाग्यः। वंशीयविद्वेष अस्ति हननकारणमिति सूच्यते।
    किन्तु वधोद्यमात् भारतीयं रक्षितुम् उद्युक्तःअन्यः अमेरिक्कादेशीयः इयान् ग्रिलोट् नामकः भुषुण्डिप्रयोगेण व्रणितः तीव्रपरिचरणविभागे वर्तते। भुषुण्डिप्रयोगं कृतवान् आदं प्यूरिन्टण् नामकः तदनन्तरं मिसौरी प्रदेशात् आरक्षकैः गृहीतः।

साङकेतिकविदग्धानां भारतीयानां अवगणना अबद्धा सञ्ज्ञाता इति चीना देशः।  
बेय्जिङ्> शास्त्रसाङ्‌केतिकस्तरेषु विद्यमानान् भारतीयान् विदग्धान् उद्दिश्य कृता अवगणना अबद्धा सञ्जाता इति चीना देश:। नूतन कार्याणि आविष्कृत्य राष्ट्रस्य पुरोगमनसामर्थ्यं प्रतिष्ठापनीयं चेत् उच्चस्तरीयाः भारतीया: साङ्केतिकविदग्धा: चीना देशं प्रति आकर्षणीयाः इति औद्योगिकमाध्यमं आवेदयति स्म। भारतीयानां अवगणनाम् अनुवर्तयन् चीना देशः तत्स्थाने अमेरिक्का यूरोप् इत्यादीनां देशानां विदग्धानां कृते एव प्रामुख्यम् अयच्छत् इति ग्लोबल् टैंस्  पत्रलेखनं वदति।

साङ्केतिकस्तरे अत्युच्चस्थानप्राप्तिः एव समीपदिनेषु  अयं देशः साक्ष्यमावहति। विदेशानम् । गवेषणविकसनकेन्द्राणाम्  अति प्रियं केन्द्रमासीत् चीनादेशः। किन्तु काचित् हैटेक् संस्थाभिः चीनादेशतः तासाम्  अवधानं भारतं प्रति परिवर्तितम्। भारते कर्मकराणां वेतनं अल्पमेव इति अस्य कारणम् । नवीनाशयान् प्रवृत्ति पथमानेतुं चीनादेशस्य अग्रे विद्यमानेषु मार्गेषु अन्यतम: भवति भारतीयानां विदग्धानां चीनादेशं प्रत्यानयनम् ।

अमेरिकायां विद्यमानस्य टेक्नलजीस् इत्यस्य चीना देशस्थं गवेषणविकसनकेन्द्रं पिहितम् इति वार्तायाः समनन्तरमेव ग्लोबल् टैंस् पत्रस्थम् इदं लेखनम् । किञ्च सि ए टेक्नोलजीस् इत्यस्य भारतस्थम् केन्द्रं प्रवर्धमानमस्ति इत्यपि आवेदनानि आसन् ।

वनाग्निना उपसहस्रं हेक्टर् परिमितं वनं केरले विनष्टम्। 
कोच्ची >मासद्वयेन अनुवर्तमानेन बडवानलेन केरलानां द्विसप्तत्यधिक नवशतं हेक्टर् परिमितः वनसञ्चयः केरलाय विनष्ट इति औद्योगिकवृत्तान्तः। द्वादशसंवत्सराभ्यन्तरे सञ्जातः बृहत्तमः विनष्टः एष इति वनसंरक्षणविभागाधिकृतैः सूचितम्। राज्ये वर्धमानः अतितापः तदनुसृत्य प्रतिरोधपदक्षेपानाम् अभावश्चास्य कारणम्।

Saturday, February 25, 2017

सप्तग्रहैः सह नूतनं नक्षत्रम् । 
वाषिङ्टण् >भूमिं विहाय जीवस्पन्दः विद्यमानः कोऽपि ग्रहः द्रक्ष्यति इति अन्वेषणात्मकं नूतनं अनुसन्धानम्। नासया कृतान्वेषणे भूपरिमिताकारयुतं सप्तग्रहान् परितः भ्रमन्तः नक्षत्रयूथः दृष्टः। एषु ग्रहेषु त्रिषु अपि जीवानुकूलवातावरणमिति अनुमीयते। नासायाः स्पिट्टर् नाम दूरदर्शिन्याः साह्येन एषा सविशेषता दृष्टा। भूमीतः चत्वारिंशत् प्रकाशवर्षदूरे सौरयूथस्य समानरीत्या परिभ्रमन्ताः ग्रहाः दृष्टाः। विद्यमानानं ग्रहाणां भूसमानाः आकाराः सन्ति।ट्रापिस्ट् वण् इति नामकम् नक्षत्रं परित एव ग्रहाणां सञ्चारः। सूर्यादपि लघु भवति एतत् नक्षत्रम् । एषु ग्रहेषु त्रिषु ग्रहेषु जीवानुकूलावस्थाः सन्ति। इदानीं जीवः नास्ति चेदपि भाविनिकाले भवितुमर्हति इति वैज्ञानिकैः उच्यते। 

कौमारकायिकोत्सवः - विजयपीठे केरलम्।
वडोदरा> देशीयजूनियर् अत्लटिक् मेलायां केरलराज्यस्य किरीटप्राप्तिः। द्वादश सुवर्णपतकानि , पञ्च रजतानि ,सप्त कांस्यानि च प्रथमस्थानं प्राप्तस्य केरलस्य शोभां वर्धयति। द्वितीयस्थानं प्राप्तेन हरियाना राज्येन सुवर्ण-रजत-कांस्यानि यथाक्रमं चत्वारि-पञ्च-पञ्च इति रीत्या प्राप्तानि। तृतीयस्थानं दिल्ली राज्येन करस्थीकृतम्।

अभिनेत्र्याक्रमणविषयः - निलीतवन्तौ अपराधिनावपि गृहीतौ।
कोच्ची> प्रसिद्धा दक्षिणभारतचलच्चित्राभिनेत्री कोच्चीनगरे आक्रमणविधेया अभवत् इत्यस्मिन् विषये सर्वे अपराधिनः आरक्षकैः निगृहीताः। साप्ताहिकं यावत् गूढसङ्केते उषितवन्तौ पल्सर् सुनी इत्याख्यः सुनिल्कुमारः , विजीष् इत्याख्यश्च ह्यः एरणाकुलं न्यायालयपरिसरे गृहीतौ।

 संस्कृतनाट्यसमारोहः समायोक्ष्यते
नवदिल्ली> नवदिल्लीस्थेन राष्ट्रिय-संस्कृतसंस्थानेन चतुर्दश-संस्कृतनाट्यसमारोहः दिल्ल्याम् छावनीक्षेत्रे द्वितीयसंख्याके केन्द्रियविद्यालयीये डॉ. सर्वपल्लीरधाकृष्णन् सभागारे समायोसमायोक्ष्यते| समारोहायोजनस्यानुष्ठानात् प्राग् दिल्ल्यां शुक्रवासरे प्रेसक्लब मध्ये  वार्ताहर-सम्मेलनमेकं प्रवर्तितं। तत्र च संस्थानस्य कुलपतिना प्रो. परमेश्वरनारायणशास्त्रिणा, नाट्य-महोत्सवसंयोजकेन प्रो. रमाकान्त-पाण्डेयवर्येण, पत्रकारा: समारोहस्यायोजनविषये सम्बोधिता:।
  संस्थानस्य कुलपतिना विज्ञापितं यत् ऐषमो नाट्य- आयोजनं विशिष्टं वर्तते। यतोहि ऐषमो वर्षे अद्यावधिम् यावत् अभिनीत-नाटकानां संख्या सार्द्धैकशतमिता भविष्यति। अस्मिन् वर्षे समसामयिक-संस्कृतनाट्यरचनानाम् मञ्चनं भविष्यति। ध्यातव्यं यत् समारोहस्यास्य आयोजनं अस्य मासस्य सप्तविंश दिनाङ्गात् मार्चमासस्य प्रथमदिवसम् यावत् भविष्यति।

Friday, February 24, 2017

नूतनं सहस्रं न प्रकाशयिष्यते। 
 नवदिल्ली> सहस्ररूप्यकाणां नूतनानि मुद्रापत्राणि न प्रकाशयिष्यन्ते इति केन्द्रवित्तमन्त्रालयेन निगदितम्। पञ्चशतमूल्यकानां तदूनमूल्यकानां च मुद्रापत्रकानां प्रकाशनाय एव जाग्रतां दास्यतीति वित्तकार्यसचिवः शक्तिकान्तदासः उक्तवान्। धनप्रत्यर्पणयन्त्रेषु [ए टि एम्] इदानीं यथेच्छं धनमस्ति। यन्त्रेषु धनपूरणमधिकृत्य अधिक्षेपाः परिहृतप्रायाः वर्तन्ते इति च तेन स्पष्टीकृतम्।

राजनैतिकहत्यासु अनुयायिनः आमिषतां यान्ति - उच्चन्यायालयः।
कोच्ची>राजनैतिकसंहिताः मानवराशेः उन्नमनायेति सत्यं विस्मृत्य सामान्यजनेषु वैरचिन्ताम् उत्पाद्य परस्परहननाय नेतारः प्रेरयन्तीति केरलस्य उच्चन्यायालयस्य निरीक्षणम्। राजनैतिकदलानां आध्यक्ष्यं वहन्तः नेतारः हिंसाकर्मणाम् आसूत्रणं कृत्वा सुरक्षिताः वर्तन्ते। केवलम् अनुयायिनः भटाः एव  द्विषामामिषतां यान्ति। ततः तेषां नाम्नि बलिदिनाचरणं कृत्वा नक्राश्रुं वर्षन्ति च।
    कण्णूर् जनपदे पानूर् अशोकः इत्यस्य हत्याविषये तलश्शेरी सेषन्स् न्यायालयस्य आदेशं विरुध्यमानां याचिकाम् अङ्गीकृत्य आसीत् नीतिपीठस्य इदं निरीक्षणम्।

Thursday, February 23, 2017

 पाकिस्थान् न्यायालये आत्मघात्याक्रमणं - सप्त मारिताः।
ताङ्गि>उत्तरपाकिस्थानस्थे चर्सदा जनपदे ताङ्गि प्रविश्यायां कस्मिंश्चित् न्यायालये संवृत्ते आत्मघातिसङ्घस्य आक्रमणे सप्त जनाः मारिताः , पञ्चदशाधिकाः व्रणिताश्च। न्यायालयाङ्कणम् अतिक्रम्य प्रविष्टवन्तः त्रयः भीकराः सुरक्षासेनां प्रति भुषुण्डिप्रयोगं कृतवन्तः ग्रनेड् शस्त्राणि विक्षिप्तवन्तः च। आक्रमणस्य उत्तरदायित्वं पाकिस्थान् तालिबानस्य जमा अत् उल् अह्रर् नामकेन विभागेन स्वीकृतम्। आरक्षकैः सह संघट्टने द्वौ भीकरौ मृतौ। तृतीयस्तु न्यायालयाद् बहिः स्वयमेव विस्फोटने भग्नीकृतः। अष्ट किलो.परिमितं स्फोटकवस्तूनि एकैकस्य भीकरस्य सकाशे आसन्निति सुरक्षाविदग्धैः निगदितम्।पाकिस्थानस्य प्रधानमन्त्रिणा नवास् षरीफेन आक्रमणमिदम् अपलपितम्।
सर्वासां समस्यानां समाधानं गीता
लखनऊ>संस्कृतभारत्या अवधप्रान्तान्तर्गतं लखनऊदक्षिणम् इत्यस्य तत्त्वावधाने २०-२२ फरवरी २०१७पर्यन्तं नाबार्डपरिसरे त्रिदिवसीय: गीताशिक्षकप्रशिक्षणं समग्रचिन्तनञ्चेति आवासीय: वर्ग: आयोजित:। वर्गेऽस्मिन् प्रायेण ३५ प्रतिभागिन: प्रशिक्षणं प्राप्तवन्त: येषु वित्तकोषाधिकारिण: आयुक्तचरा: अभियन्तार: व्यवसायिन: शोधच्छात्रा: वाक्कीलाश्चेत्यादय आसन्।
वर्गे गीतापारायणं व्याकरणस्वाध्याय: आकांक्षापद्धत्या गीतामन्त्राणां व्याख्या समत्वयोग: दैवीसम्पत् गीतारामचरितमानसयो: तुलनात्मकविमर्श: मोक्षमार्गश्चेति विषयेषु विशेषज्ञानामुद्बोधनानि च जातानि।
उद्घाटनसत्रे सभाध्यक्ष: दयानन्द इण्टरकॉलेज इत्यस्य प्रधानाचार्य: श्री राम उजागरशुक्ल: मुख्यवक्ता च संस्कृतभारत्या: उत्तरप्रदेशोत्तराञ्चलयो: सङ्घटनमन्त्री डॉ. सञ्जीवराय आसीत्। अवधप्रान्तस्याध्यक्षस्य श्री शोभनलाल उकिलमहोदयस्य सान्निध्यम् आसीत्।
समारोपसत्रे सभाध्यक्षपदं लखनऊविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचर: डॉ. कृष्णकुमारमिश्र: मुख्यवक्तृपदं डॉ. कन्हैया लाल झा विशिष्टातिथिपदञ्च ज्योतिर्विज्ञान-विभागस्य सह- आचार्य: डॉ. विष्णुकान्तशुक्लोऽलञ्चक्रु: ।
वर्गस्य विविधसत्रेषु काशी गोरक्षपुरं कानपुरम् अवधश्चेति प्रान्तेभ्य: समागता अधिकारिण: डॉ. सञ्जीव राय: डॉ. कन्हैयालाल झा श्री शोभनलाल उकिल: श्री प्रकाश झा च प्रशिक्षणार्थिन उद्बोधितवन्त:।
वर्गस्य संयोजनं श्रीशीतल प्रसादवर्मा सहसंयोजनञ्च श्री सहदेवसिंह कुशवाह: कृतवन्तौ।

 नगरमार्गे महती अग्निबाधा - कोटिरूप्यकाणां विनष्टः।
कोष़िक्कोट्> केरलस्य कोष़िक्कोट् नगरस्थे मिठायित्तेरुव् नामके प्रशस्ते पैतृक संरक्षितमार्गे संञ्जाताया महत्या  अग्निबाधया एककोट्यधिकरूप्यकाणां नाशनष्टाः सम्भूताः। मार्गपार्श्वस्थे बहुश्रेणीभवने वर्तमाना तान्तवव्यापारशाला पूर्णतया भस्मीकृता। बुधवासरे प्रभाते सार्धैकवादने आसीत् अनलबाधा। जीवहानिः न सञ्जातः।

Wednesday, February 22, 2017

चलनचित्रम् 'इति वार्ताः'

विजय् मल्यां भारताय दीयते- ब्रिट्टन्। आधारपत्राणि अपृच्छत्।
नवदेहली>नवसहस्रकोटि रुप्यकाणां र्णभारेण भारतात् पलायितं विवाद व्यवसायिं विजय् मल्यां भारताय दातुं सन्नद्धः इति ब्रिट्टन् राष्ट्रः।मल्या संबन्धि पत्राणि दातव्यानि इति सभारतं प्रति ब्रिट्टन् अपृच्छत्।धनदातॄन् अर्थालयान् वञ्चयित्वा २०१६ मार्च् मासे मल्या भारतात् अपलाययत्।
  भारत यूके परस्पर नियम सामान्य रीति(MLAT)भागत्वेन मल्यां भारतं आनयनं कार्यं इति इति निर्देशेन एण्डोर्स्मेण्ट् डयरक्ट्रेट्(ED)मुम्बाई विशिष्ट न्यायालये आवेदनं असमर्पयत्।न्यायालयेन अस्य अड्गीकारः अदात्।
 ब्रिट्टन् राष्ट्रात् पञ्च अड्गप्रतिनिधयः अस्मिन् विषये ह्यः अद्य च नवदेहल्यां चर्चांम् अनयन्।भारतस्य गृह नियम सचिवालय प्रतिनिधयः सीबीई इटी प्रतिनिधयः च चर्चायां भागम् अभजन्।
गत नवंबरमासे यूके प्रधानसचिवस्य तेरेसा मे महोदयस्य भारतागमनवेलायां अस्मिन् विषये चर्चां कर्तुं निर्णितमासीत्।मल्या सह षष्ठि जनान् दातव्यमिति भारतेन वाञ्चितमासीत्।भारतात् सप्तदशजनान् दातव्यमिति ब्रिट्टन् राष्ट्रेणापि निर्दिष्टमासीत्।

शबरिगिरिं महिलाप्रवेशः - निर्णयः शासनसंविधानपीठेन।
नवदिल्ली> दक्षिणभारते प्रशस्तं तीर्थाटनस्थानभूतं शबरिगिरिं महिनानां प्रवेशाय अनुज्ञा दातव्या न वेति विषये परमोन्नतनीतिपीठस्य शासनसंविधानविभागेन निर्णयः करिष्यतीति न्याया.दीपक् मिश्रा वर्यस्य आध्यक्ष्ये वर्तमानेन त्र्यङ्गनीतिपीठेन उक्तम्।
     शबरिगिरौ धर्मशास्तृसन्निधाने दशतः आरभ्य षष्टिवयःपर्यन्तानां महिलाजनानां प्रवेशः आचारानुष्ठानरीतिमनुसृत्य इदानीं निषिद्ध अस्ति। किन्तु भारतशासनानुसृतं वैयक्तिकस्वातन्त्र्यं पूर्वोक्तानां भक्तानामपि अधिकारः इति काचन याचिका अस्ति। तथा शबरिगितीर्थाटकानां अधिकारः संरक्षणीय इति प्रतिवादश्चास्ति। शासनानुसृतं वैयक्तिकस्वातन्त्र्यं आचारानुष्ठानैः तरणं कर्तुं शक्यते वेति शोधनीयमिति राज्यसर्वकारेणापि निर्दिष्टमस्ति। एवं स्थिते सति विषयः शासनसंविधानपीठेनैव निर्णेतव्य इति परमोच्चन्यायालयेन निर्णीतः।

ट्रम्पस्य एकमासस्य व्ययः = ओबामायाः एकस्य संवत्सरस्य व्ययः
वाषिङ्टण्>यू एस् राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः  जीविनव्ययः अत्यधिकः भवति। अस्य तथा कुटुम्बस्य च एकस्य मासस्य यात्राव्ययः ६५ कोटि रुप्यकाणि अभवत्। किन्तु भूतपूर्वराष्ट्रपतेः एकस्य संवत्सरस्य यात्राव्यस्य तुल्यः एव। ट्रम्पं विहाय तस्य पुत्रस्य वाणिज्यसंबन्धयात्रायाः व्ययः अपि वैट्हौस् द्वारा प्रचलति इति श्रूयते।



Episode 34- Sanskrit News
Fathima Mundeth, Std 8, Brahmanandodayam HS, Kalady, Ernakulam, Kerala.

Tuesday, February 21, 2017

 भारते विनिमयाय सहस्र कोटि रूप्यकाणां व्याजरूप्यक पत्राणि
 नव दिल्ली > भारतेषु निलीय विनिमयाय सहस्रकोटि रूप्यकाणां व्याजपत्ररूप्यकाणि पाकिस्थाने सज्जीकृतानि। रावल्पिण्ड्यां एव व्याजधनस्य मुद्रणं कृतम् । विविधानां चारकर्मकराणां विभागेन सह व्याजरुप्यक पत्राणां विनिमयः उद्दिश्यते इति भारतस्य बौद्धिक प्रमुखानां (IB)उल्लेखः वर्तते। व्याज रूप्यकद्वारा ग्रहीतौ अमानुल्ला खालिद् इत्येतौ प्रति कृते प्रतिभाषणे एव अभिज्ञानं लब्धम्।
व्याज मुद्रापत्राणि रावल्पिण्टीतः दुबाय् आनयति। ततः बंल्लादेशं ततः भारतं च । एतदर्थं पाकिस्थानस्य 'विसा' उपयुज्यते। एतदधिकृत्य पश्चिमबंगालस्य आरक्षकेभ्यः निर्देशः दत्तः आसीत् । तथापि अचित प्रतिक्रिया नासीत् इति रहस्यविज्ञानकेन्द्रेण (IB) उक्तम् ।

नागालान्ट् मुख्यमन्त्री टि आर् सेलियाङ् त्यागपत्रं समर्पितवान्।
कोहिमा> नागालान्ट् राज्यस्य शासनप्रतिसन्धिः समाप्यते इति सूचयित्वा मुख्यमन्त्री टि आर् सेलियाङ् स्वस्थानम् अत्यजत्। राज्यपालेन पि बि आचार्येण त्यागपत्रं स्वीकृतमिति औद्योगिकवृत्तैः सूचितम्। राज्यस्य एकैकः लोकसभाङ्गः नेय्फु रियो आगामी मुख्यमन्त्री भवेत्।

Monday, February 20, 2017

यू पि तृतीयपादं - मतदानं प्रतिशतम्  एकषष्टिः।
लख्नौ>उत्तरप्रदेशे विधानसभानिर्वाचनस्य तृतीयसोपानं समाप्तम्। प्रतिशतम् एकषष्ट्यधिकं  मतदातारः स्वाभिमतं कृतवन्तः। एकोनसप्ततिषु मण्डलेषु आसीत् तृतीयपादे निर्वाचनं संवृत्तम्। ८२६ स्थानाशिनः स्पर्धारङ्गे आसन्।

 न्याया. अल्त्तमास् कबीर् दिवंगतः।
कोल्कोत्ता> सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः अल्त्तमास् कबीर् निर्यातः। अष्टषष्टिवयस्कः सः वृक्करोगबाधया कोल्क्कोत्तायाम् आतुरालये चिकित्साश्रितः आसीत्।
     द्वादशोत्तर द्विसहस्रतमे संवत्सरे भारतस्य नवत्रिंशत्तमः मुख्यन्यायाधिपरूपेण नियुक्तः सः मानवाधिकार निर्वाचनादि विषयेषु नीतियुक्ताः सुप्रधानविधयः प्रकाशितवान्।



उच्चन्यायालयेषु हिन्दी भाषा तथा आन्याःप्रान्तीयभाषाः अपि उपयोक्तव्याः - विधानसभा कार्यसमितिः ।
नव दिल्ली > हिन्दीभाषा तथा आन्याः  प्रान्तीयभाषा अपि उच्यन्यायालयेषु उपयोक्तव्याः इति विधानसभासमितिना निर्दिष्टः। नीतिसंविधानस्य अनुज्ञां विना कार्यनिर्वहणाय केन्द्रसर्वकारस्य अधिकारः आस्ति इति समित्या अभिप्रेतम्। इदानीं सर्वोच्च न्यायालयेषु तथा राष्ट्रस्य २४ उच्च न्यायालयेषु च आङ्गलेय भाषायामेव विधिन्यायाः प्रस्थाप्यन्ते| कोल्कत्त, मद्रास्, गुजरात्, छत्तीस्गढ् , कर्णाटक उच्च न्यायालयेषु प्रान्तीयभाषाः उपयोक्तव्याः इति आवेदनं सर्वकाराय लब्धमासीत्। किन्तु निवेदनानि सर्वाणि सर्वोच्चन्यायालयेन निरस्थानि। भारतसंविधानस्य ३ ४८ तम विभागानुसारं उच्च न्यायालयेषु पट्टिकायं अन्तर्गतभाषायाः उपयोगाय  न्यायाधीशेन सह चर्चा न आवश्यकी।

Sunday, February 19, 2017

विश्वासमतं प्राप्य पलानीस्वामी शपथ: ग्रहीतवान् ।
चेन्नै >दशदिनानि यावत् तमिलनाडु राज्ये राजनैतिक नाटकं प्राचलत् । दीर्घ नाटकानन्तरं ई पलानीस्वामी अद्य शनिवासरे विधानसभा परिसरे विश्वासमतं प्राप्य मुख्यमन्त्री  पदस्य शपथ: ग्रहीतवान् । पूर्व  मुख्यमंत्री ओ पन्नीरसेल्वमस्य समर्थक दलै: विधानसभा त: वॉक आउट कृतं । पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: ।
बहुमत प्राप्त्यर्थं तमिलनाडु विधानसभायां ११७ विधायकानां मत प्राप्ति अपेक्षितं भवति परञ्च पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: । तस्मिन समये विधानसभा परिसरे विपक्षजनै: बहु उत्पात: कृत: ।

Saturday, February 18, 2017

एस् बि ऐ - एस् बि टि विलयनम् एप्रिल् मासे सम्पूर्णं भविष्यति।
अनन्तपुरी> केरळे वर्तमानाः स्टेट् बैंक् आफ् ट्रावन्कूर् [एस् बि टि] नामकाः वित्तकोशाः चत्वारः अन्ये वित्तकोशाश्च भारतीय स्टेट् बैङ्के लाययितुं पदक्षेपाःएप्रिल् मासे पूर्ण भविष्यन्ति। लयनानन्तरं कालक्रमेण केरले पञ्चानाम् अनुबन्धबैङ्कानां चतुश्शतं शाखाःपिहितव्याः भवेयुः।
    केरळे एस् बि टि संस्थायाः ८५१ शाखासु २०४परिमितानां संख्यकानां पिधानं भविष्यतीति सूच्यते। तमिल् नाट् राज्ये ५९ संख्यकानां च। वित्तकोशसेवाकराणां राज्यसर्वकारस्य च विमतं विगणय्य गतदिने एव केन्द्रसर्वकारेण निमज्जनाङ्गीकारः कृतः। मैसूर् राज्यकीयवित्तकोशः तथा हैदराबाद्, पाट्याला, बिक्कानीर् आन्ड् जय्पूर्  वित्तकॊशाः लयनविधेयाः भविष्यन्ति।

 विश्वस्य बृहत्तरं पृथ्वी-जलविमानं चैना राष्ट्रे।
बीजिंग्>पृथिव्यां जले च अवरोढुम् आरोढुं सक्षमं बृहत्तरं विमानं चैना राष्ट्रे निर्मितम्।एतत् विमानं अस्मिन् वर्षे एव प्राथमिक डयनं करिष्यति।
 एजी ६०० नाम्ना प्रथितं एतत् विमानं गत जूलाई मासे चैनायाः दक्षिणनगरे सुहायां निर्माणम् आरभत।विमानस्य३७ मीट्टर दीर्घमस्ति ।
 उभयविमानानि अतिशीघ्ररक्षा प्रवर्तनेषु उपयुज्यते।५३.५ डण् भारं वोढुं शक्यते।२० सेकण्ट् समयेन १२ डण् जलं स्वीकर्तुं शक्यते।७० जनाः सप्तवर्षेण अस्य निर्माणं कृतम्।

डोनल्डट्रम्पस्य आव्रजनादेशोद्घोषणा
अमेरिकीयेन राष्ट्राध्यक्षेण डोनल्डट्रंपेण आगामिसप्ताहे नवीन-आव्रजनादेशोद्घोषणायाः निश्चयो विहितः।  तदीयेन प्रशासनेन न्यायालये प्रदत्तप्रपत्रेषु प्रतिपादितं यदसौ सप्तमुस्लिमराष्ट्राणां  प्रतिबन्धप्रकरणे परिवर्तनं करिष्यति।

विश्वमानांकने पी. वी. सिन्धु: पञ्चमस्थानं प्राप्तवती
रियो-ओलम्पिकस्पर्धायां रजतपदकविजेतृ-भारतीय-बैडमिंटनक्रीडिका पी.वी. सिन्धु: विश्वमानांकने पञ्चमस्थानमधिगतवती। एतद् हि सिन्धोः क्रीडाप्रदर्शनस्य  सर्वश्रेष्ठं मानाकनं  विद्यते ।।

Friday, February 17, 2017

उसैन् बोल्ट् श्रेष्ठतमं पुंस्कायिकतारम्,
स्त्री तु सिमोणा।
मोणाक्को> विश्वस्य श्रेष्ठतमाय पुरुषकायिकताराय दीयमाना लोरस् पुरस्काराय जमैक्कादेशस्य कायिकेतिहासः उसैन् बोल्ट् वर्यः अर्हति। महिलाताराय पुरस्कारस्तु अमेरिक्कायाः जिंनास्टिक् निपुणा सिमोणा बैल्स् महाभागायै प्राप्नोति।
    गतदिने फ्रान्स् देशस्य मोणाक्को नगरे एव पुरस्कारः विज्ञापितः। लोरस् स्पोर्ट्स फौण्टेषन् संस्थया एव पुरस्कारः दीयते।






स्वामि निर्मालानन्दगिरि महाराजः शिवपदमगात्।
पालक्काट्>  निर्मलः संन्यासि श्रेष्ठः मिर्मलानन्दगिरिः महाराजः समाधिस्थः अभवत्। ९१ वयस्क: एषः वार्धक्यसहजेन रोगोण श्रान्तः आसीत्। शिवानन्दमार्गस्य प्रयोक्ता आसीत्। आयुर्वेद वैद्यः च आरसीदयं महात्मा । संस्कृतं वैद्यं, मर्म चिकित्सा आदिषु निष्णादः अस्य गीता-ज्ञानयज्ञादयः दक्षिण भारते सुप्रसिद्धा एव।
गीताचार्यः, चिकित्सकः , प्रभाषकः, पणडितः इत्यादि रूपेण तेन समाजः सेवितः। रोगिभ्यः औषधं उपदेशं च युगपद् दत्वा कृतः चिकित्सारीतिः सर्वान् आकर्षयत्। दक्षिणभारते विशेषतया केरले सर्वत्र जनपदेषु यात्रां कृत्वा चिकित्सां अकरोत् इति भवति तस्य संन्यासकौशलम् ।

ड्यन्तं कार्-यानं विक्रयणाय सुसज्जम्।
आम्स्टर् डाम् > वाणिज्याय निर्मितं विश्वस्य प्रप्रथमं कार् यानं विक्रयणाय सज्जम् अभवत् । पि ए एल् वि नाम डच् कम्पनि द्वारा निर्मितस्य कार् यानस्य नाम लिबर्टी इत्यस्ति। लिबर्टी स्पोर्ट, लिबर्टी पयनियर् इति द्वे निर्मितिः (Model) स्तः।

        लिबर्टी स्पोर्ट् कार्-यानस्य ३,९९,००० डोलर् (२.६६ कोटि रुण्यकाणि) पयनियर् निर्मितेः ५.९९ लक्षं डोलर् च मूल्यम्। भूमौ आकाशे च उपयुज्यमानं कार् यानं ३५०० मीट्टर् उपरि डयितुं प्रभवति। आकाशवेगः प्रतिघण्टं११२ किलोमीट्टर् एव। भूमौ१०० च ।

        त्रिचक्रयुत-यानस्य यूरोप्यन् एवियेषन् सेफ्टी संघस्य तथा यू एस् फेडरल् एवियेषन् शासनविभागस्य च मानदण्डानुसारमेव निर्माणमिति निर्मातारः वदन्ति। कार् चालनाय चालनानुमतिपत्रं तथा डयनानुमतिपत्रं च आवश्यके। एकवारं इन्धनपूरितं चेत् १३१४ किलोमीट्टर् दूरं यावत् डयितुं शक्यते।

पाकिस्थानस्य सिन्ध् प्रविश्यायां माहम्मदीये देवालये विस्फोटः।
८० जनाः  मृताः।
कराच्ची > पाकिस्थानस्य सिन्ध् प्रविश्याया: सूफि देवालये बोंब् उपयुज्य कृतेन विस्फोटनेन ८० जनाः कालकवलीभूताः। शताधिकाः व्रणिताः। सेह् वान् नगरस्य लल्षाबास् खलन्दर् सूफि देवालये एव विस्फोट: जातः। विस्फोटस्य उत्तरदायित्वम् इस्लामिक्‌स्टेट् नाम भीकर सङ्खटनया स्वीकृतः। अस्मिन् सप्ताहे क्रियमाणः पञ्चमः विस्फोटः भवति अयम्।

Thursday, February 16, 2017

ISRO -राष्ट्रपतिना प्रधानमन्त्रिणा च अभिनन्दितः।
नवदिल्ली > बाह्याकाशा-नुसन्धान-मण्डलेषु ऐतिहासिक पदन्यासेन श्रद्धा बिन्दुः अभवत् एकस्मिन् विक्षेपणे १०४ उपग्रहाः भ्रमणपथं सन्निवेश्य भारतस्य  स्वाभिमानः विश्वखिलं पूरिताः वैज्ञानिकाः इति राष्ट्रपतिना प्रणाब् मुखर्जीना उक्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना च वैज्ञानिकाः अभिनन्दिताः। बाह्यकाशानुसन्धान -मण्डले सुव्यक्तः सुवर्ण दिनत्वेन अद्यतनंदिनं प्रमाणीक्रियते इति च राष्ट्रपतिना उक्तम्। प्रधानमन्त्रिणा ट्विटर् द्वारा वैज्ञानिकाः प्रकीर्तिताः ।

एस् बी ऐ वित्तकोशलयनाय केन्द्र मन्त्रिसभायाः अङ्‌गीकारः।
नवदिल्ली > त्रावण्कोर् राज्य स्तरीयवित्तकोशेन सह(SBT) अन्ये चत्वारान् अनुबन्धवित्तको शान् च भारतीय वित्तकोशे (SBI) लयनाय केन्द्रमन्त्रिसभया अनुमतिः दत्तः। बिक्कानीर् राज्यस्थरीय वित्तकोशः, मैसूर् राज्यवित्तकोश: (SBM), पाड्याला राज्यवित्तकोशः(SBP) हैदराबाद् राज्यवित्तकोशः (एस् बीएच्) एते लयनाय सन्नद्धाः वित्तकोशाः सन्ति। केरळेन लयनाय असहिष्णुता प्रकटिता आसीत्)
अधुना १६५०० शाखाः एस् बी ऐ वित्तकोशाय सन्ति। ३६ राज्येषु १९१ कार्यालयाश्च। लयनेन तस्य स्थावरसम्पदः ३७ लक्षं कोटिरुप्यकाणि भवेत्। २२५०० शाखाः ५८००० ATM केन्द्राणि च भवेयुः। उपभोक्तृृऋणां संख्या ५० कोटिःच। एवं एष्यायाः बृहत्तमः वित्तकोशः इति ख्यातिः भारतीय स्टेट्बैंकाय भविष्यति।


चलनचित्ररङ्गं कल्पयित्वा विद्यालये शूलक्षेपः। विद्यार्थिनी अक्ष्णा काणा जाता।
आलप्पुष़ा > 'पुलिमुरुकन्'‘ नाम प्रथितः चलनचित्रस्य भागं अनुकृत्य अयोर्मितेन शूलेन क्षिप्त्वा बालिकायाः नेत्रं विनष्टम्I दशमकक्ष्यायाः छात्रेण एव शूलं विक्षिप्तम्I कोट्टयं जनपदस्य वैद्यकलाशालायां प्रविष्टाबालिकायाः नेत्रे २२ सीवनानि सन्ति। कोर्णिय, रेट्टिन आदि भागेषु रन्ध्रः जातः। 

Wednesday, February 15, 2017

इतिहासं विरचय्य ISRO.१०४ उपग्रहाः भ्रमणपथे।

चेन्नै> एकेन विक्षेपणेन१०४ उपग्रहाः भ्रमणपथं प्रापिताः। भारत-बाह्याकाशसंघेन कृतस्य परिश्रमस्य फलप्राप्तिः अभवत्। पि एस् एल् वि सि-३७ नाम उपग्रहविक्षेपण्या अद्य प्रातः ९: २८ वादने हरिकोट्टानाम भारतस्य स्वाभिमानभूमीतः विक्षिप्ताः। उपग्रहाः आहत्य१३७८ किलो मिताः भवन्ति । अस्मिन्विशेषत्वं ७१४ किलोमितानां कार्टोसाट् द्वे इत्यस्य भवति। अन्ये ९६ उपग्रहाः यू एस् साम्राज्यस्थानां विविध-संस्थायाः भवन्ति। इस्रायेल्, कसख्स्थान्, नेतर् लान्ट्, स्विस्वर लान्ट्,यूए ई राष्ट्राणामेव।
    पूर्वस्मिन् काले रष्यायाः बाह्याकाश-संस्थया अनेन प्रकारेण ३७ अन्ये उपग्रहाः विक्षिप्ताः आसन् इति प्रमाणिताः। अद्य भारतेन नूतनं प्रमाणं विरचितम्। भारतस्य राष्ट्रपतिः तथा प्रधानमन्त्री च सर्वान् वैज्ञानिकान् अभिनन्दितवन्तौ।