OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 31, 2016

भीम् आप् विश्वे अत्भुतम् आरच्यते ।
नव दिल्ली >  युष्माकम् अङ्गुष्ठे एव वित्तकोश तथा वाणिज्यः चI बृहत्परिणामः आगमिष्यति। भीम् आप् विश्वस्य बृहदाकारकम् अत्‍भुतंभविष्यति। साङ्ख्य विनिमयाय निर्मतः 'आप्‌' विमोच्य भाषमाणः आसीत् प्रधानमन्त्री नरेन्द्रमोदी। नवीनमिदं आप् अन्तर्जालस्य अभावे अपि प्रवर्तनक्षमः भवति ।पञ्चाशत् गतदिनानियावत् पत्र माध्यमेषु प्रकाशिता वार्ताः सर्वकारस्य पद्धतयः क्रमीकर्तुं उपकारिका आसीत्। अतः माध्यम प्रवर्तकान् प्रति धन्यवादमर्पयामि इति च तेनोक्तम्।

पूर्वनिर्णयेन पुरावृत्तं न व्याख्यातव्यम् - भारतष्ट्रपतिः। 
अनन्तपुरी > पुरावृत्तानां व्याख्याने व्यक्तिनिष्ठः पूर्वनिर्णयः न युक्त इति भारतराष्ट्रपतिः प्रणब् मुखर्जी । पूर्ववृत्तान्तरचनायां विभिन्नानि समीक्षणानि अन्तर्भाव्यानि। तदर्थम् अतिसूक्ष्मं दर्शनसामर्थ्यम् अपेक्षितञ्च। अनन्तपुर्यां सप्तसप्ततितमायाः  भारतीयपुरावृत्तपरिषदः उद्घाटनं कुर्वन् भाषमाणः आसीत् प्रणब् वर्यः।
      न्यायाधीशस्य मनोव्यापारः भवेत् चरित्रकारस्यापि, नैव पक्षसमर्थकस्य। चरित्रं वस्तुनिष्ठतया उपगन्तव्यम्- राष्ट्रपतिः अभाषत। तर्क-वितर्क-सन्देहानाम् अनुकूल-प्रतिकूल-निस्सङ्गानां च भारतीयजनाधिपत्ये स्वातन्त्र्यमस्ति। अतः पुरावृत्तरचनायामपि इदं स्वातन्त्र्यम् अपेक्षितम्। सत्यनिर्णये पूर्वोक्तानां तर्कवितर्कादीनां साहाय्यम् अवश्यमेव। अतः पुरावृत्तव्याख्याने पूर्वपरिकल्पना न युक्ता। राष्ट्रपतिना उक्तम्।
    केरळराज्यपालः न्याया.पि सदाशिवम् अध्यक्षपदमलङ्कृतवान्। मुख्यमन्त्री पिणरायि विजयः मन्त्रिणौ कटकंपिल्लि सुरेन्द्रः , प्रोफ.सि रवीन्द्रनाथः च , विपक्षनेता रमेश् चेन्नित्तला इत्यादयः सन्निहिताः आसन्।

Friday, December 30, 2016

सांख्यक विनिमयसुविधायै दूरवाणी सङ्केतः - प्रधानमन्त्री।
 नव दिल्ली > विशेष दूरवाणी सङ्केतः धनविनिमयाय विमोच्यते इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। जनोपकारका भविष्यति अयम्। साङ्ख्यक विनिमय सुविधा वर्धनाय क्रियमाणाः पद्धतयः केन्द्रसर्वकारस्य साहाय्यम् अर्हन्ति इति च मोदिना टिट्वर् द्वारा सूचितम्। धनपत्रस्य निर्मूल्यीकरणानन्तरं पञ्चाशत् दिनानि अतीते नूतन आर्थिक विनिमयोपधयः प्रख्याप्यते।

केरळे शासनदक्षाव्यवस्था आयोजयिष्यति। 
अनन्तपुरी >केरळस्य सचिवालये सामान्यशासनं वित्तकार्यम् इत्यादिषु त्रिंशत् विभागेषु केरल शासनदक्षा सेवाव्यवस्थां [Kerala Administrative Service] समायोजयितुं मन्त्रिसभया निश्चितम् । पि एस् सि संस्थायाः अनुमत्या नियमावलिं सज्जीकृत्य के ए एस् सफलीकर्तुम् उद्दिश्श्यते।
     यदि केएस् ए सफलीक्रियते तर्हि सचिवालयाभिव्यापकेषु सुप्रधानविभागेषु विद्यमानेभ्यः उन्नतस्थानेभ्यः पि एस् सि द्वारा साक्षान्नियुक्तिं कर्तुं शक्यते। तत्र अष्टसंवत्सरसेवनात्परं ऐ ए एस् पदवीं लब्धुमर्हतां लभते च।

Thursday, December 29, 2016

आभारतम् ऑण् लैन् सुरक्षायै गूगिलः आगमिष्यति। 
नवदिल्ली>ऑण् लेन् सुरक्षामधिकृत्य सुखबोधाय उपभोक्तृमन्त्रालयस्य सहकारितया पठनवर्गः आयोक्ष्यते । संवत्सरं यावत् वर्गः प्रचाल्यते । कथम् ऑण्लेन् सुरक्षां प्राप्नुयामः इति राष्ट्रियस्थरे कार्यक्रमाः आयोक्ष्यते इति गूगिलेन ज्ञापितः। उपभोक्तृदलानां कार्यक्षमता, अन्तर्जालसुरक्षा, अन्तर्जाल सङ्केतानधिकृत्य अवबोध वर्धनम् च लक्ष्यम् इति गूगिल् संस्थायाः भारतस्य वक्त्रा चेतन् कृष्णमूर्ति महोदयेन उक्तम्। प्रथमे परिशीलनसत्रे पञ्चशतम्  जनाः भागभाजःभविष्यन्ति। २०१७ जनुवरि मासे परिशीलनसत्रस्य आरम्भम् इति निश्चितम्।

संस्कृतस्य कृते आत्मनं समर्प्यप्य सुजा गतवती। 
सम्प्रतिवार्तायाः वार्ताहरा सुजाहरिदास् दिवङ्गता।
त्रिश्शिवपेरूर्> सम्प्रति वार्तायाः प्रारम्भात् आरभ्य वार्तालेखिकायाः कर्मणा संस्कृतसेवां कुर्वन्ती असीत् सुजा महाभागा। संस्कृतभारत्याः निस्वार्थसेविकारुपेण बहुकालं प्रवर्तनं कृतवती। त्रिशूर् जनपदस्य चेर्प्‌ सर्वकारीयविद्यालये संस्कृताध्यापिकापदम् अलङ्कुर्वन्ती आसीत् । ललितया रीत्‍या  संस्कृतकक्ष्याचालने सुजायाः नैपुणी बहुवारं प्रशंसिता आसीत्।  अनारोग्ये अपि संस्कृतभाषा प्रचाराय  स्वमृत्युपर्यन्तं प्रयत्नं कृतवती। वृक्करोगेण पीडिता सा गतमासादारभ्य एरणाकुळे औषधालये चिकित्सायाम् आसीत्। ह्यः रात्रौ आसीत् तस्याः निधनम्।
Anjana Shaji, MGM Govt. HSSS Nayathod, Ernakulam, Kerala.

Wednesday, December 28, 2016

त्रिंशद्दिनाङ्कात्पपरं निरुद्ध-मुद्रापत्र-वशवर्तिनः द्रव्यदण्ड्याः।
नवदिल्ली> निद्धाः पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।
      निर्मूल्यीकृतानि मुद्रारूप्यकाणि वित्तकोशलेखायां निक्षेप्तुम् अन्तिमदिनं भवति दिसम्बर् ३०। ततःपरं ५००,१००० रूप्यकाणां निरुद्धानि मुद्राणि दशसंख्याकात्परं हस्तगतानि भवन्ति चेत् द्रव्यदण्डः भवितव्यः इति अभिज्ञैः सूच्यते। तादृशैः मार्च ३१ पर्यन्तं रिसर्व् बाङ्कस्य प्रादेशिककार्यालयेषु निक्षेपाय अवसरः अस्ति। पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।

टोम् उष़ुन्नालस्य मोचनाय यतिष्यते - सुषमास्वराज्।
नवदिल्ली> येमन् देशात् ऐ एस् भीकरैः अपहृतस्य टोम् उष़ुन्नाल् नामकस्य क्रिस्तीयपुरोहितस्य मोचनाय पुनरपि  यावच्छक्यं यतिष्यते इति भारतस्य विदेशकार्यमन्त्रिणी सुषमास्वराजः ट्विटर द्वारा निगदितवती।
     भारतीयः इत्यतः स्वस्य मोचनाय का पि धर्मसंस्था को पि सर्वकारः वा  यत्किमपि सक्रियं प्रवर्तनं न करोति इति उष़ुन्नालस्य दृश्यनिवेदनं प्रकाशितमासीत्। तस्य प्रतिवचनरूपेणैव सुषमायाः ट्विटर् वचनम्। सर्वेषां भारतीयानां प्राणाः परमप्राधान्यमर्हन्तीति तया निगदितम्।

याचनया लब्धं- भगवते दत्तवान्
विजयवाटिका > आन्ध्राप्रदेशस्य गोण्डापरिसस्थ श्रीराममन्दिरे याचकेन सार्थैकलक्षस्य काच निर्मिततः किरीटः भगवते समर्पितम्। मुत्यालंपडु कोदण्डरामालयस्य यदि रढ्ढिनामकेन भिक्षुकेन एव किरीटः अर्पितः। पञ्चसप्तति वयस्कः अयं कौमारे विजयवाटिकायां आगतवान्। रिक्षावाहकः आसीत्। पञ्च वर्षेभ्यः पूर्वमेव याचकवृत्तिः स्वीकृता। बान्धवाः नास्ति इत्यनेन लब्धंधनं आध्यात्मिक-कार्याय उपयोक्तुं निश्चितवान्।

Tuesday, December 27, 2016

एकदिनात्मक वार्तावतरण परिशीलनवर्गः सम्पन्नः।
 कोच्ची > केरळे एरणाकुळं जनपदे सम्प्रति वार्तया आयोजितः एकदिनात्मक-वार्तावतरण पठनवर्ग:सम्पन्नः। जनपदस्य विविधेभ्यः भागेभ्यः १८ विद्यालय छात्राः पठनवर्गाय चिताः आसन्। वर्गस्योद्घाटनम् सर्व-शिक्षा अभियानस्य राज्यस्थरीय प्रयुक्तिपुरुषःऐवर्काला रविकुमारः निरवहत्। दिल्ली दूरदर्शनस्य वार्तावतारकेन नारायण दत्त मिश्र महोदयेन ऑण्‌ लैन् द्वारा वर्गः प्रचालितः इति छात्रेषु तुष्टिः अवर्धत।पुलियनम् सर्वकारीय उच्चतर विद्यालयस्य प्रथानाध्यापकस्य के उण्णिकृष्णस्य समापन सन्देशेन पठनवर्गः सम्पूर्णतां प्राप। एतैः छात्रैः आगामिदिनेषु वार्तावतरणं करिष्यते।
अग्निःपञ्चमः नाम बाणस्य परीक्षणविजयः।
नवदिल्ली > आणवायुधवहनक्षमः भूखण्डान्तरबाणः अग्निःपञ्चः इत्याख्यः परीक्षणे विजयं प्राप्तवान्। ओडीषा राज्यस्य कलां द्वीपतः सोमवासरे प्रातः आसीत्  विक्षेपणम्। परीक्षणस्य उत्तीर्णतया बालिस्टिक् राष्ट्राणां दले भरतस्यापि प्रवेशः अलभत। अमेरिका, रष्‍या, चैना, फ्रान्स् ब्रिटन् प्रभृतीनां राष्ट्राणां एव एतावत्पर्यन्तं
बाणस्य अधीशत्‍वम्। अस्य बाणस्य आक्रमण परिधिः पञ्चसहस्रं किलोमीटटर् एव। परीक्षायाः अन्तिमभागः अधुना समजायत

भारतोपभूखण्डस्य कलापारम्पर्यम्  संस्कृतसम्पन्नम्-
अश्वति तिरुनाल् गौरी महाराज्ञी। 
श्रीशङ्कर नृत्तविद्यालयस्य २५तम वार्षिकाघोषाणाम् उद्घाटनं निर्वहन्ती महाराज्ञी गौरी लक्ष्मी भायी।
कालटी> भारतोपभूखण्डस्य संगीतनृत्तादिकलापारम्पर्यः संस्कृतभाषायाः अधीशत्वे विकासं प्राप्य अग्रिमस्थानमर्हतीति तिरुवितांकोट् देशस्य राज्ञीस्थानमलङ्कुर्वन्ती अश्वतितिरुनाल् [अश्वतीनक्षत्रजाता] गौरी लक्ष्मीभायी अवदत्। कालट्यां श्रीशङ्करा स्कूल् आफ् डान्स् इति नृत्तविद्यालयस्य पञ्चविंशतितमसंवत्सरीयमहोत्सवम् उद्घाटनंकुर्वन्ती भाषमाणा आसीत् महाराज्ञी। भारतस्य दक्षिणराज्यस्य केरलस्य कूटियाट्टमिति कलारूपं ऐक्यराष्ट्रसभायाः युनेस्को संस्थया पैतृक-पारम्पर्यकलारूपेण अङ्गीकृतमिति केरळस्य कलापारम्पर्यस्य संस्कृतपारम्पर्यस्य च उत्तमनिदर्शनमिति महाभागया प्रस्तौतम्। अनुबन्धकलारूपाणां पट्टिकायां केरळस्यैव मुटियेट् इति कलारूपमपि अन्तर्भूतम्।
      सम्मेलने स्मिन् कालटि श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ.एम् सि दिलीप् कुमारः, केरलकलामण्डलं कल्पित-विश्वविद्यालयस्य भूतपूर्वोपकुलपतिः डॉ.के जि पौलोस्,  नाट्यकलागुरुः कलामण्डलं कल्याणिक्कुट्टियम्मा इत्यादयः सन्निहिताः आसन्।

Monday, December 26, 2016

भगवतः अयप्पमंदिरे जनसम्मर्दः
३१ जनाः व्रणिताः।

कोच्ची> केरळे शबरीगिरौ भगवतः अयप्पस्य मंदिरे गतदिने दुरापादिते सम्मर्दे न्यूनातिन्यूनं ३१ व्रतधारिणः व्रणिताः। व्रणिताः अय्यप्पददृशवः भक्ताः कोट्टयं चिकित्यालये अथ च  स्थानीये पम्बा चिकित्सालये शुश्रूषिताः वर्तन्ते।। पत्तनंतिट्टायाः  जनपदााधिकारिणा प्रोदीरितं यत् तीर्थाटकानां भूरिसंख्याकारणेन आरक्षिबन्धस्य खण्डनमभवत् येन दुर्घटनेयं दुरापादिता। जनोद्धाराय सुरक्षादृशा च राष्ट्रियापदुद्धारबलं घटनास्थले सक्रियतामादधाति।

Sunday, December 25, 2016

National Seminar on Holistic way of Life & Living Day3
ज्ञानपीठपुरस्कारः शङ्खघोषवर्याय। 
 नवदिल्ली> अस्य संवत्सरस्य ज्ञानपीठपुरस्काराय वंगराज्यस्य प्रशस्तकविः तथा निरूपकः शङखघोषवर्यः अर्हति। वंगसाहित्ये रवीन्द्रनाथटाक्कुरस्य मार्गम् अनुगच्छन्नस्ति अयम्। प्रसिद्धः साहित्यकारः चिन्तकः नंवर् सिंहः इत्यस्य नेतृत्वे विद्यमाना समितिरेव इमं निर्णयं कृतवती। सामाजिकप्रश्नान् उपेत्य निरीक्ष्यमाणाः कविताः तस्य जीवनकालं सामाजिकावस्थां च याथातथ्येन अङ्कयतीति पुरस्कारसमित्या निर्णीतम्। मानवस्य अन्तर्वैरुध्यान्येव शङघघोषस्य कविताभिः सामान्येन प्रकाश्यमाणानि वर्तन्ते। भाषायाः कृतहस्तता तस्य कवितानां मुखमुद्रा भवति। आशयागाधतयया सौन्दर्येण च तस्य रचनाः नितराम् उत्कृष्टाः विद्यन्ते।

छात्रवैद्यसमूहाः ग्रामेषु पर्यटनं कृत्वा रोगनिवारणोपाया: अध्ययनं करणीयम्-चन्द्रबाबुनायुडु:।
विजयवाडा> स्वास्थ्यविद्यावाहिनि कार्यक्रमे ये वैद्यछात्रा: भागं ग्रहिष्यन्ति तेषामधिक अङ्का: यच्छाम: इति आन्ध्रप्रदेश मुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अवदत् । विजयवाडा नगरे शनिवासरे मुख्यमन्त्री अस्याः योजनायाः प्ररम्भं कृत्वा भाषणं दत्तवान् यत् “जनवरि मासस्य द्वितीयदिनाङ्कादारभ्य अक्टोबर् मास पर्यन्तं दशमासा: प्रतिदिनं षट्चत्वारिंशदधिकचतुश्शतं(४४६)
वैद्यसमूहैः ग्रामेषु पर्यटनं कृत्वा तत्र पर्यावरणम्,  प्रस्तुतस्थितिगतय:, रोगनिवारणोपाया: च अध्ययनं करणीयम्। अस्मिन् उद्यमे ये छात्रा: भागं ग्रहिष्यन्ति ते प्रयोगात्मकपरीक्षासु अधिकाङ्का: प्राप्तुं शक्नुवन्तीति मुख्यमन्त्री अवदत्।                       

नववैद्या: एव भारतनिर्मातार: - श्री प्रणवमुखर्जी।
जवहार्नगरम् >नववैद्या: भारतनिर्मातार: भवितव्यः इति भारतराष्ट्रपतिना श्री प्रणवमुखर्जी महोदयेन उक्तम्। हैदरबाद् सैनिक-दन्तवैद्यकलाशालाया:                         स्नातकोत्तर-बिरुद-प्रदानोत्सवे मुख्यतिथिर्भूत्वा उत्तम-पठनपरिणामं प्राप्तवतां छात्राणां पुरस्कारप्रदानं कृत्वा भाषमाणः आसीत् सः। वैद्यकलाशालाया: एकादशीय स्नातकोत्सव महोत्सवः आसीदयम् । अस्मिन् अवसरे भाषणं दत्तवान् यत् वैद्यछात्रा: भारतनिर्मातार: भवन्ति। तेषां ज्ञानं समाजकल्याणाय भवतु , नववैद्यैः वैद्यसेवाः मानुषत्वेन करणीयाः इति च तेन महामहिमवर्येण उक्तम् । अष्टसहस्र नगरीयजनानां एक: दन्तवैद्य:, एवमेव पञ्चसहस्र ग्राम्यजनानां एक: दन्तवैद्य: एव अस्ति। अत: नववैद्या: प्रतिग्रामं गत्वा दन्तवैद्य-शिबिरा: स्थापनीया: इति तेन वैद्याः उपदिष्टाः। अस्मिन् स्नातकोत्सवे राज्यपाल: श्री नरसिंहन् , तेलंगाना उपमुख्यमन्त्री महम्मद् अलि, कालोजी आरोग्य-विश्वविद्यालयस्य उपकुलपति: करुणाकररेड्डि: अन्ये कलाशालाध्यापकाध्यापिकाश्च भागं गृहीतवन्त:।

 अत्यन्तोन्नत छत्रपतिशिवाजिमूर्तेः निर्माणम्- अरेबियन् महासमुद्रे।
 भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
मुम्बई> मुम्बई नगरस्य समीपे अरेबियन् महासमुद्रे अत्यन्तोन्नत शिवाजिमहाराज्ञ: मूर्ते: निर्माणं भविष्यति। अयं मूर्ति: षट्शतत्रिंशत्पदम् उच्चतां भूत्वा विश्वविक्रमे स्थानं प्राप्स्यति। अस्य मूर्ते: निर्माणार्थं त्रिसहस्रषट्शतकोटि रूप्यकाणि व्ययं भविष्यति। शनिवासरे शिवाजिमूर्तेः निर्माणस्य प्रारम्भोत्सवे भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।

अद्य क्रिस्तुजयन्ति आचरन्ति लोकाः 
चित्रशेखरात्
 
वत्तिक्कान् नगरे सेन्ट्.पेट्टर् देवालये फ़्रान्सिस् मार्पप्पा आराधनं  करोति

Saturday, December 24, 2016

National Seminar on Holistic way of Life & Living Day 2
कृष्णानदी तीरे पञ्चम अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सव:।
अमरावती > कृष्णानदी परीवाहकप्रान्त: कूचिपूडि: विश्वप्रसिद्ध:। अस्मिन् ग्रामे प्रचलिते अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सवे भागं ग्रहीतुं देश,विदेशेभ्यश्च नृत्यकलाकरा: आगतवन्ता:। अयं नृत्योत्सवकार्यक्रम: दिसेम्बर् २३ दिनाङ्कादारभ्य दिसेम्बर् २५ दिनाङ्कपर्यन्तं भविष्यति। आन्ध्रभाषासांस्कृतिकशाखा, सिलिकानान्ध्रा च  संस्थे मिलित्वा अयोजितः भवति कार्यक्रमः। द्विशत-पञ्चाशत् गुरव: तेषां शिष्याश्च अस्मिन् कार्यक्रमे नृत्यं प्रदर्शयिष्यति। अद्य सार्ध-नववादने आन्ध्रप्रदेशमुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अयं कार्यक्रमस्य प्रारम्भ: कृत:। अस्मिन् कार्यक्रमे तृतीयदिने षट्सहस्रं कलाकरा: मिलित्वा नृत्यं करिष्यन्ति। कूचिपूडि नृत्यं आगामि संवत्सरादारभ्य सप्तमकक्ष्याया: पाठ्यपुस्तके पाठ्यांश रूपेण भविष्यतीति मुख्यमन्त्री अवदत्।

तमिल् नाडुराज्यस्य नूतन प्रधानसचिवा श्रीमति गिरिजा वैद्यनाथन्।
श्रीमती गिरिजा वैद्यनाथन् तमिलनाडु राज्यस्य मुख्यकार्यनिर्वाहिका रूपेण अद्य पदवीमलङ्कृतवती। भारतीय प्रौद्योगिकी संस्थाय़ामुपाधिं सम्पाद्य  “संक्षेमं-आर्थिकप्रगति:” इत्यस्मिन् विषये विद्यावारधिं प्राप्तवती। डा.गिरिजा वैद्यनाथन् १९८१ संवत्सरे भारतीय प्रशासनिक सेवायां प्रशिक्षणं कृतवती। अनन्तरं तमिलनाडु आरोग्यशाखायां अधिकारिणी आसीत्। तत्र तस्या: सेवा: प्रशंसनीया: आसन्।


प्राचार्य योग्यता परीक्षा – सी.बी.एस्.सी
 नवदिल्ली>ये अध्यापका: प्राचार्याः भवितुमिच्छन्ति तेषां सी.बी.एस्.सी संस्था प्राचार्य योग्यता परीक्षां निर्वहिष्यन्ति। सी.बी.यस्.सी ५३ (१) नियमानुसारं न्यूनतमयोग्यता भवति चेत् प्राचार्य योग्यता परीक्षा लेखितुं शक्यते परन्तु इयं परीक्षा केवलं अर्हता कृते एव न तु सर्वकारविद्यालयेषु प्राचार्योद्योगाय।

Friday, December 23, 2016

National Seminar on Holistic way of Life & Living Day 1
सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्।, प्रतिमासं ७०० रियाल्। 

रियाद् > प्रवासिजनानां सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्। सन्दर्भेऽस्मिन्  प्रवासि जनाः  प्रति मासं सप्तशतं रियाल् (७००) करं दातुं निर्बन्धिताः भवेयुः। आश्रित विसायां गतेभ्यः द्वि शतादारभ्य चतुश्शत पर्यन्तं (२००-४००) भवति करः। आगामि नूतनसंवत्सरस्य  आर्थिक-विनिमय-निर्देशे एव इमं निर्देशं अन्तर्भावयति। भारतात् बहवः जनाः तत्र कर्म कुर्वन्ति। तेषां अवस्था दुरितमया भविष्यति। स्वदेशवत्करणस्य अनुबन्धतया भवति अयं निर्देशः

सी.बी.एस्.सी विद्यालयेषु संस्कृतम् अनिवार्यम्, दशमी पर्यन्तं त्रिभाषासूत्रम्  – श्री प्रकाश जवेद्कर:
नवदिल्ली>सी.बी.यस्.सी विद्यालयेषु त्रिभाषासूत्रमचिरेण प्रारप्स्यते। षष्ठ-कक्ष्यादारभ्य दशमकक्ष्या पर्यन्तं त्रिभाषासूत्रमुद्घोषितम्। परन्तु पाठशालासु का पि भाषा समाहिता न भवति। संस्कृतभाषा दशम-पर्यन्तमनिवार्यं भविष्यतीति जवेद्कर: अवदत्। तमिलनाडुं त्यक्त्वा देशेषु  सर्वेषु राज्येषु एका अन्ताराष्ट्रियभाषा आङ्गलम् , अन्या देशीयभाषा हिन्दी , अपरा संस्कृतं अथवा एका प्रान्तीयभाषा भविष्यति। परन्तु येषां हिन्दी प्रान्तीयभाषा भवति तेषां तृतीयाभाषारूपेण संस्कृतमनिवार्यं भविष्यति । ये जना: पाश्चात्यभाषा-पठनार्थमुत्सुका: भवन्ति ते ऐच्छिकरूपेण चतुर्थभाषारूपेण पठितुमर्हन्तीति श्री जवेद्कर: अवदत्।
                     
 ८०००० शिशवः अनशनतया मृताः भविष्यन्ति -यू एन्।
लोगोस् (नैजीरिया ) >पोषकाहारस्य अभावेन आगामी संवत्सरे अशीति सहस्रं शिशवः मृत्युवशं गमिष्यति इति यू एन् संस्थायाः शिशुविभागेन सूचना दत्ता। चतुर्लक्षं शिशवः अनशनाः भविष्यन्ति। बोक्को हरां भीकराणां वर्धनेन राष्ट्रेषु महान् विघ्नाः जाताः। अस्य विघ्नस्य परिणाम-वशात् दुरन्तः भविष्यति इति युनिसेफ् दलस्य निर्वाहण निर्देशकः अन्टोणि लेक् अवदत्।

Thursday, December 22, 2016

विश्वसम्पद्व्यवस्था - भारतं षष्ठस्थाने।
वाषिङ्टण्> ब्रिटेन राष्ट्रं पृष्टतः कृत्वा भारतं विश्वस्य षष्ठं महदार्थिकव्यवस्थायुक्तं राष्ट्रं समजायत इति फोरिन् पोलिसि नामिकायाः मासिक्याः वृत्तान्तख्यातिः। शतसंवत्सराभ्यन्तरे प्रथमतया भवति ब्रिटेन राष्ट्रात् भारतस्य पुरतःप्राप्तिः।
      अतिशीघ्रः आर्थिकाभिवृद्धिः तथा यूरोप्यन् संगमात् ब्रिटनस्य बहिर्गमनेन  [ब्रक्सिट्] आर्थिकमण्डले सञ्जातम् अनिश्चितत्वं च भारतस्य प्रयोजनाय अभवताम्। पञ्चविंशतिसंवत्सराभ्यन्तरे भारतस्य सम्पूर्णाभ्यन्तर उत्पादने [जि डि पि] अभूतपूर्व अभिवृद्धिः सञ्जातः।तथा च संवत्सरैकाभ्यन्तरे ब्रिटिष्पौण्ट् मुद्रायाः मूल्यमपि बहुवारम् अधःपपात इत्येतच्च भारताय सहायकम् अभवदिति विज्ञप्तिपत्रेण ज्ञायते।

Wednesday, December 21, 2016

करुणस्य वीरत्वेन भारतं विजयपीठे।
चेन्नै> करुण् नायर् नामकस्य केरलीयक्रिक्कट् क्रीडकस्य लगुडेन लब्धानां त्र्यधिकत्रिशतं [३०३] धावनाङ्कानाम् अधीशत्वे इङ्लण्ट् सङ्घस्योपरि भारतस्य एक इन्निङ्स् तथा पञ्चसप्तति धावनाङ्कानां च समुज्वलविजयः।विरसा भवेदिति विचिन्तिता स्पर्धा एव करुणस्य अनितरसाधारणवैभवेन भारतानुकूला परिवर्तिता।अनेन विजयेन ४-० इत्यङ्कविन्यासे भारतं इङ्लन्टराष्ट्रं विरुध्य निकषस्पर्धापरम्परामपि स्वायत्तमकरोत्।
    प्रथम इन्निङ्स् क्रीडायाम् अतिथिराष्ट्रेण ४७७ धावनाङ्कानि, भारतेन ७कन्दुकताडकविनष्टे ७५९ धावनाङ्कानि च प्राप्तानि। द्वितीयेन्निङ्स्मध्ये इङ्लण्टदलं २०७ धावनाङ्कैः सर्वे ताडकाः बहिर्गताः। रवीन्द्र जडेजा नामकः चक्रगेन्दकः तस्य ऐन्द्रजालिकप्रकटनेन सप्त कन्दुकताडकान् बहिर्गमयितवान्। अतः आङ्गलेयानां समस्थितिप्रतीक्षा अपि अस्तंगता। चतस्रः स्पर्धाः अपि भारतेन स्वायत्तीकृताः।

जगन्नाथवर्मा दिवंगतः।
अनन्तपुरी> प्रशस्तः कैरलीचलच्चित्र-दूरदर्शनपरम्परानटः जगन्नाथवर्मा निर्यातः। सप्तसप्ततिवयस्कः आसीत्।
    केरलस्य आरक्षकविभागे उच्चस्थानमलंकृतवान् सः पञ्चशताधिकेषु चलनचित्रेषु स्वीयकलावैभवं प्रदर्शितवान्। शङ्कराभरणम् इति उत्कृष्टतेलुगुचलच्चित्रस्य कैरलीपाठान्तरे सोमयाजलुवर्येण अवतारितस्य शङ्करशास्त्रिणः शब्दः जगन्नाथवर्मणा कृतः आसीत्। कथाकेलिः चेण्टवाद्यम् इत्यादिषु कलारूपेषु अपि निपुणः आसीत्।