OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 30, 2016

काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम् -सप्तसैनिकानां वीरमृत्युः।
 श्रीनगरम् > जम्मुकाश्मीरस्य नग्रोड प्रविश्यायां भारतसैन्यस्य षोडशतमं मुख्यास्थानं प्रति मङ्गलवासरे प्रत्युषसि संवृत्ते भीकराक्रमणे सप्त भारतीयसैनिकाः वीरमृत्युम् उपगताः। आरक्षकवेषं धृत्वा आगताः भीकराः सैनिकालयस्य महानससमीपं भवनं प्रविश्य भुषुण्डिप्रयोगं कृतवन्तः। सैन्यस्य प्रत्याक्रमणे त्रयः भीकराः यमपुरीं प्राप्ताः। समीपकाले प्रवृत्तयोः उरि, पठान्कोट्ट् आक्रमणयोः अनन्तरं संपन्नेन अनेन आक्रमणेन जनाः सम्भीताः आशङ्काकुलाश्च संवृत्ताः।

वाहनचालकस्य धनजनयोजना लेखायां ९८०६ कोटिरूप्यकाणि।
चण्डीघर् > स: एक: वाहनचालक:। तस्य नाम बलवीर् सिंह:। पञ्जाब् प्रान्ते निवसति। एस्.बी.ऐ. धन जन योजनायां तस्य एका लेखा अस्ति। अस्मिन् मासे चतुर्थदिनाङ्के तस्य  लेखायां ९८०६ कोटि रूप्यकाणि नेक्षिप्त: अभवत्। एतद्धनं दृष्ट्वा स: आश्चर्यचकित: अभवत् । चलवाणी संदेशं दृष्ट्वा आनन्दितवान् । परन्तु दिनद्वयानन्तरं तद्धनं सर्वं तस्य लेखाया: बहिर्गतम्। स: तु तस्य लेखायां ३,००० रूप्यकाणि एव सन्ति। ९८०६ कोटि रूप्यकाणि कुत: आगतानि स: न जानाति इति अवदत् । स: वित्तकोशं गत्वा वित्तकोशस्य अधिकारीं पृष्टवान् कोsपि उत्तरं न दत्तवन्त: इति स: अवदत्। स: एतत् सर्वं आयकर शाखाधिकारीं प्रति अवदत्। वित्तकोश प्रबन्धक: सन्दीप: तस्य विवरणं दत्तवान्। तस्य लेखायां २००रूप्यकाणि निक्षेपणसमये वित्तकोश धनाधिकारी सङ्ख्या दोषेण कृतवान् अत: तस्य लेखायां ९८०६ कोटिरूप्यकणि आगतानीति वित्तकोश प्रबन्धक: अवदत् । अनन्तर दिवसे तच्छुद्धं च कृतमिति अवदत्।

विपक्षिदलानां सहायनिराकरणोद्यमस्य समाप्ति:
जनानां धनपत्राणां कष्टान् केन्द्रं प्रति नीत्वा समस्याया: परिहाराय विपक्षिदल-नेतार: तेलंगाना, आन्ध्र प्रान्तयो: पिधानाय वै.एस्.आर्.सीपी प्रयत्न: कृत:। परन्तु कुत्रापि तस्य प्रभाव: न अभवत् । बस् यानानि पिधानार्थं विपक्षिदल-नेतार: आन्दोलनं कृतवन्त: । आन्दोलनकारान् रक्षकभटा: कारागृहं नीतवन्त:। भारतकान्ग्रेस् तु  भारतपिधानं नास्ति केवलं आक्रोशदिवस: एव इति प्रकटित:। हैदराबाद् नगरे पिधानस्य प्रभाव: कुत्रापि न दृष्ट:। एम्.जी.बी.एस् बस् यान स्थानत: बस् यानानि यदेच्छेन चलितानि।

 उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकम्
प्रपञ्चे अन्तर्जाल शोधनं उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकमस्तीति एका सर्वेक्षण संस्था उद्घोषिता। अभिज्ञचलवाणी (Smart Mobile) आगमनान्तरं चलवाण्यामेव अन्तर्जालान्वेषणम् कर्तुं जना: रता: भवन्ति। अत: सर्वे वाणिज्य संस्था: अन्येतर संस्था: च जालदेशापेक्षया चलवाणी जालदेशस्य अधिकं प्राधान्यं यच्छेदिति निपुणा: वदन्ति। भारते ७०% जना: चलवाण्यामेव अन्तर्जालमेव उपयोगं कुर्वन्तीति निपुणा: वदन्ति।
सोपानम्-22 Taara G. Bhavan's Munshi Vidyashram, Thiruvankulam,Trippunithura.


Tuesday, November 29, 2016

 व्याजधनं प्रकाशयितुम् एकोsपि सन्दर्भः।
नवदिल्ली> येषां सकाशे असाधुपत्ररूप्यकसहितानि व्याजधनानि सन्ति तादृशधनानि प्रकाशयितुम् एकवारमपि समयः केन्द्रसर्वकारेण लभ्यते। याथातथ्यप्रमाणं विना सम्भृतानि ५००, १००० रूप्यकाणां धनपत्राणि डिसम्बर् ३०तम दिनाङ्कात् पूर्वं स्वमेधया प्रकाश्य वित्तकोशेषु निक्षिप्यन्ते तर्हि केवलं ५० शतमानपरिमितं शुल्कं देयम्। अथवा ५० शतमानपरिमितं शुल्कं दत्वा प्रधानमन्त्रिणःगरीब् कल्याण् योजनानुसारं प्रतिज्ञापत्रेषु निक्षेप्तुम् अर्हन्ति। किन्तु निक्षेपाणां स्रोतः यदि न प्रकाश्यते , अधिकृतैः अवगम्यते तर्हि शुल्क-दण्डन रूपेण ९० शतमानपरिमितं दातव्यम्।

अवैधधनप्रकरणे केंन्द्रप्रशासनस्य महत्त्वपूर्णनिर्णयः
नवदिल्ली>अवैधधनप्रकरणमालक्ष्य केन्द्रप्रशासनेन महत्त्वपूर्णपदक्षेपं विधाय आयकरविधौ  संशोधनार्थं लोकसभायां  विधेयकमेकमुपस्थापितम्। नवंबरमासस्य अष्टमदिनानन्तरं सञ्चितावैधधनस्योपरि प्रतिशतं पञ्चाशतमित: करदण्डः भविष्यति, यस्य प्रतिशतं पञ्चविंशतिमितं धनं निर्धन-कल्याण-योजनायै प्रयोक्ष्यते। शेष-धनस्य प्रत्यावर्तनं वर्षचतुष्ट्यानन्तरं भविष्यति , अघोषित-आयस्य स्वत: प्रकटनाभावे प्रतिशतं 85 करः प्रदेयो भविष्यति|

 वैद्युतिकादानप्रदान-सौध्यविषयिणी कार्यशाला
नवदिल्ली>प्रधानमंत्रिणः नरेंद्र मोदिनः cashless transaction इति  हस्तधनविनिमयाभावसमाह्वाने प्रधानमंत्री कार्यालयस्य वरिष्ठाधिकारिभिः विशेषोद् बोधनं प्रारब्धम् ।अधिकारिभिः दैनिकोपयोगाय वैद्युतिकादानप्रदान-सौविध्यविषयिणी एका कार्यशाला समायोजिता। अपि च  वित्तमंत्रालयेन वैद्युतिकादानप्रदानसौविध्यविषये जनानां परिचयः कारितः।

 वेंकैया नायडू  वामदलेषु वाक्शूलान् आरोपितवान्।
केंद्रीय सूचनाप्रसारण मंत्री वेंकैया नायडू कांग्रेसदलीयानां वामदलीयैः मिलित्वा विमुद्रीकरणं विरुद्य कृतभारतपिधानप्रत्यूहम् अधिकृत्य वाक्शरैः तान् विरुद्ध्य ताडितवान् । प्रोक्तं च यत् एतानि दलानि जनतावञ्चकदलानि। अतः पृथक्तिरस्करणीयानि । संसदि कार्यान्वयनाय च दलानां समाह्वानं कृतम् ।

Monday, November 28, 2016

कारागाराक्रमणेन खालिस्थान् नेतृसहिताः षट्जनाः मोचिताः। 
पटियाला > पञ्चाबराज्ये नाभा सेन्ट्रल् कारागारम् आक्रम्य सायुधसङ्घः निरोधितसंस्थायाः खालिस्थान् लिबरेषन् इत्यस्याः नेता हर्मिन्दर् सिंह मिन्टु नामकसहितान् षट् कारागारस्थान् अमोचयत्। आरक्षकवेषेण कारागृहं प्राप्तैः कैश्चित् युवकैः आक्रमणं कृतमिति अधिकृतैः उक्तम्। तेष्वेकः आरक्षकैः गृहीतः।
     ह्यः प्रभाते उपनववादने कार् यानद्वयेन आगतः अक्रमिसङ्घः कारागारस्य द्वारपालकं छुरिकामुपयुज्य आक्रम्य आरक्षकान् विरुध्य शतचक्रपरिमाणं यावत् भुषुण्डिप्रयोगः कृतः।द्वौ आरक्षकौ व्रणितौ। कुप्रसिद्धाः अधोलोकनेतारः एव खालिस्थान् नायकेन सह रक्षां प्रप्ताः।

Sunday, November 27, 2016

फिदल् कास्त्रो दिवंगतः। 
क्यूबाराष्ट्रं पञ्चदशाब्दं यावत् ऐतिहासिकरीत्या शासनं कृतवान् फिदल् कास्त्रो इति नाम्ना प्रख्यातः फिदल् अलहान्द्रो कास्त्रो रूस् यशःशरीरः सञ्जातः। अमेरिक्कादीनि साम्राज्यत्व राष्ट्राणि जनकीयसेनान्दोलनेन प्रतिरुध्य राष्ट्रपति- प्रधानमन्त्रिरूपेण क्यूबाराष्ट्रं नीतवान् विप्लवनायकः आसीत् फिदल् कास्त्रो वर्यः। क्यूबाराजधान्यां हवानायां शुक्रवासरे रात्रौ आसीत् अन्त्यमिति तस्य सोदरेण तथा च क्यूबाराष्ट्रपतिना रौल् कास्ट्रोवर्येण विज्ञापितम्। फिदलस्य अन्त्याभिलाषमनुसृत्य मृतदेहः शनिवासरे एव दग्धः। क्यूबायां नवदिवसीयं दुःखाचरणम् प्रख्यापितम्।

जनरलबाजवा पाकिस्तानस्य  नूतनसैन्यप्रमुख:
 पाकिस्ताने भाविसैन्यप्रमुखः कः भविष्यति इति विषयात्मकोहापोहः समाप्तिंगतः,पाकिस्तानस्य सैन्यप्रमुखस्य राहिलशरीफ़स्य सेवानिवृत्तेरनन्तरं लेफ्टिनेंट-जनरल-क़मर-जावेद-बाजवा भाविसैन्यप्रमुखत्वेन प्रचितः। बलूचरेजीमेंट इति सैन्यदलात् सम्पृक्तः जनरल-बाजवा पाकिस्तानस्य षोडशः सेनाप्रमुखः भविष्यति। असौ सोमवासरे सैन्यप्रमुखपदभारं स्वीकरिष्यति।

प्राचीनशिलाचित्राणि मध्यप्रदेशतः लब्धानि।
भोपाल्> विश्वस्य प्राचीनतमानि  शिलाचित्राणि मध्यप्रदेशराज्यतः लब्धानि। चित्राणां पञ्चलक्षं संवत्सराणां प्राचीनत्वम् अस्ति। माण्डस्वर् जनपदस्य भान् पुरे एव शिलासु लिखितानि चित्राणि दृश्यन्ते । दराकी चट्टन् गुहायाः त्रिंशदधिकपञ्चाशत्-संख्यामितानि चित्राणि संवीक्ष्य एव पुरातन-शिला-चित्राणि अभिज्ञातानि इति रोक् आर्ट् सोसईटी इति सुज्ञातायाः संस्थायाः कुलसचिवः गिरिराज-कुमारः अवदत्। द्वयाधिक द्विसहस्रतमात् संवत्सरात् आरभ्य अम्मिन् मण्डले अनुसन्धानः प्रचलन्नस्ति। ओस्त्रेलियायाः अनुसन्धान वैज्ञानिकेन रोबर्ट् जी बेड्नारिकेन एव एतानि चित्राणि प्राचीनात् प्राचीनतराणि इति प्रमाणीकृतानि।

Saturday, November 26, 2016

आन् फ्राङ्कस्य कवितायाः कोटि रुप्यकाणां मूल्यम्

आम्सटर् डाँ > आन्फ्राङ्क् नाम बालिकायाः हस्तलिखिता कविता अस्ति, तस्याः कृते कोटि रुप्यकाणि लब्धानि। द्विचत्वारिंशत् अधिक नव-शतोत्तर एक-सहस्रतमे (१९४२)मार्च् मासे अष्टाविंशति दिनांगे लिखिता कविता इयम्। अस्मिन् द्वादश पङ्क्तयः सन्ति। गतदिने हार् लीमा नगरे आयोजिते आहूतविपणनेन  विक्रीता इयम्। काकदे श्याम-वर्णेन डच्च् भाषायां लिखिता कवितेयम् ।
आन् लीस् मेरी फ्राङ्क् नामिका जूत-गोत्रीय-बालिकया लिखिता दैनिकी विश्वे प्रसिद्धा भवति । आन् फ्राङ्कस्य दैनिकीलेखम् इति एव अस्य लेखस्य नाम। अस्मिन् नासीनायकस्य हिट्लरस्य  पीडनानि विस्तरेण लिखितानि सन्ति।

Friday, November 25, 2016

 भारते प्रप्रथमतया प्रदानवित्तकोश: प्रारब्धः।
नवदेहली >प्रमुख प्रमुख-दूरवार्ता-प्रसारक-संस्था (एयर् टेल्) भारते प्रप्रथमतया प्रदानवित्तकोशस्य (payment bank) स्थापना राजस्थान् प्रान्ते अद्य प्रारब्धा। प्रयोगात्मकरूपेण वित्तकोशस्य सेवा: आरब्धा । एयर्टेल् प्रदर्शनापणेषु वित्तकोशलेखां उद्घाटयितुं शक्यते । एतेषु वित्तकोशेषु धनविनिमय,उपसंहारणादि सौकर्याणि लभ्यन्ते । धनपत्र निरसन कारणत: जनानां कृते संख्यातरङ्गरीत्या धनदानादानं (Digital payment) आनीतम् । अधुना राजस्थान् प्रान्ते १०,००० एयर्टेल् प्रदर्शनापणेषु वित्तकोश शाखा: उद्घाटिता: । आगामि दिवसेषु   । सर्वेष्वपि देशान्तरप्रान्तेषु विस्तृतरूपेण अस्या: संस्थाया: शाखा: उद्घाटयिष्याम इति एयर्टेल् वित्तकोशस्य सी.ई.ओ शशिअरोरा अवदत्।

 धनपत्रस्य परिवर्तनं समापितम्।
नवदिल्ली> निरोधितानां पञ्चशत - सहस्र रूप्यकाणां धनपत्राणि वित्तकोशद्वारा पत्रालयद्वारा च नूतनधनपत्र रूपेण परिवर्तनसुविधा समापिता। किंतु इतःपरमपि एतादृशानि असाधुरूप्यकाणि स्वस्य वित्तकोशस्थपञ्चितदलेषु (bank account) निक्षेप्तुमेव अर्हति। तथापि येन केनापि अवश्यसेवनद्वारा प्राचीनपञ्चशतरूप्यकाणां उपयोगः डिसंबर् मासस्य पञ्चदश दिनाङ्गपर्यन्तं कर्तुं शक्यते। विनिमयमण्डलेभ्यः सहस्रस्य (१०००) धनपत्राणि सम्पूर्णतया निरुद्धानि।

Thursday, November 24, 2016



व्याजधनानि बहिरागतानि।
कोच्ची >राष्ट्रस्य विभिन्न -भागेषु परित्यक्ताः व्याजधन-गोण्यः उपलब्धाः । वार्तामाध्यमेषु गुप्त रीत्या एव इमाः वार्ता: प्रचलन्ति। वक्तव्यं यत्  अलीकधनस्योपरि भारत-सर्वकारेण कृता सधैर्यप्रक्रिया आसीत् इयम् । अतः एव इदानीमपि व्याजधनगोण्यः वीथी पार्श्वतः लभ्यन्ते। गतदिने भारतस्य दक्षिणकोणतः पीरुमेट् नाम प्रदेशतः अपि सहस्र-रुप्यकाणां २५८ संख्यामितानि व्याजमुद्रितानां काकदानां गोणी उपलब्धा। लब्धानां सर्वेषामपि रुप्यकाणां क्रमसंख्या समाना आसीत् । रुप्यकाणि पीरुमेट् न्यायालये समर्पितम् अस्ति। केरळराज्यस्य इटुक्कि जनपदस्य सुखावासकेन्द्रः भवति पीरुमेट् नाम गिरिप्रदेशः।

सर्वपक्षसङ्घेघेन दिल्लीदौत्यम् उपेक्षितम्। 
  अनन्तपुरी> केरळात् शासन-विपक्षदलयोः सर्वपक्षसङ्घस्य दिल्लीयात्रा उपेक्षिता। विमुद्रीकरणद्वारा केरले सहकारिवित्तकोशेषु सञ्जातं प्रतिसन्धिमधिकृत्य प्रधानमन्त्रिणम् विशदीकर्तुमेव यात्रा उद्दिष्टा। किन्तु प्रधानमन्त्रिणं द्रष्टुम् अनुमतिः न लब्धा। केरलविधानसभायाः सविशेषसम्मेलनस्य निर्णयानुसारमासीत् सर्वपक्षसङ्घस्य दौत्यम् निश्चितम्। केन्द्रसर्वकारं विरुध्य एल् डि एफ्-यु डि एफ् दलैः वादविषयं [प्रमेयं] अङ्गीकृतमासीत्। एतदेव अनुमतिनिषेधस्य कारणमिति राजनैतिकनिरीक्षकाः अभिप्रयन्ति।

Wednesday, November 23, 2016

संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च दीर्घ-धावनम्।
नवदेहली>संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च गतदिने (२०-नवम्बर’२०१६, रविवासरे) नवदिल्ल्यां जवाहरलाल-नेहरु-क्रीडाङ्गणतः दीर्घ-धावनम् आयोजितम्। अस्मिन् अनन्यतमायाः   "नेक्टरलेण्ड्"( NectarLand) इति संस्कृतस्य स्वयं-सेविसंस्थायाः अनेकैः सदस्यैः सोत्साहं सहभागित्वं निर्व्यूढम् नवम्बर-मासे प्रतिवर्षम् आयोज्यमाने अस्मिन् दीर्घधावने "नेक्टरलेण्ड्" इत्यस्याः इदं तृतीयं सहभागित्वं वर्तते 
एषा संस्था अभिकल्पनाभिः विविध-वर्णैः चित्रैश्च प्रकाशितैः हिन्दी-आङ्ग्ल-अनुवाद-लिप्यन्तरणयुतैः लघु-लघु-पुस्तकैः जनेषु, विशेषेण च युवजनेषु संस्कृतानुरागिषु च संस्कृत-भाषां संस्कृत-साहित्यञ्च प्रति पठन-संभाषण-रुचिं समुत्पाद्य “भाषैषा कठिना” इति भ्रान्तिम् अपनोदयति   
अनया संस्थया विगते वर्षे भारतीय-संस्कृत-पत्रकार-संघेन आयोजितायां पञ्चम्यां संस्कृत-पत्रकार-संगोष्ठ्यां सहभागित्वम् आदाय संस्कृत-शिक्षणस्य कृते समाजे विहितानि संस्कृत-विषयकाणि विविध-कार्याणि प्रदर्शितानि आसन् अस्याः संस्थायाः वैशिष्ट्यमस्ति यत् प्रायेण युवानः वैज्ञानिकाः, अभिकल्पकाः( designers), प्रविधिज्ञाः(technicians), अभियन्तारः, चित्रमुद्रण-विशेषज्ञाः(graphic-experts) च सदस्यत्वेन संस्कृत-कार्याणि परिनिष्ठित-भावेन समाचरन्ति

श्री श्री रविशंकरवर्येण "डॉ नागेंद्र सिंह अन्ताराष्ट्रिय शान्तिपुरस्कार:" लब्ध:।
नवदेहली>आध्यात्मिक गुरु: श्री श्री रविशंकर वर्येण "डॉ नागेंद्र सिंह पुरस्कार:" लब्ध:। गृह मंत्री राजनाथसिंहेन विश्वे शान्ति सुनिश्चित करणार्थं तेषां प्रयासार्थं तेषां कृते पुरस्कार: दत्त:। हेग स्थित अन्ताराष्ट्रिय न्यायालयस्य प्रथम भारतीय न्यायाधीशस्य डॉ नागेन्द्र सिंहस्य स्मरणार्थम् अयं पुरस्कार: आयोजित:।




प्रसिद्धसंगीतकार: डॉ. एम् बालामुरली-कृष्णः पञ्चत्वे निलीनः

चेन्नै> कर्नाटकस्य प्रसिद्ध-संगीतकार: मंगलमपल्ली-बालामुरली-कृष्णः पञ्चत्वे निलीनः। आंध्रप्रदेशस्य संकरागुप्तमस्थले लब्धजन्मः  षडाशीतिवर्षीयः एम. बालामुरलीकृष्ण: विगतकतिपयदिवसेषु अस्वस्थः अवर्तत ।
तेलुगू-कन्नड़-संस्कृत-तमिल-मलयालम-हिन्दी-बंग्ला-पंजाबीं समेत्य विभिन्नभाषासु संगीतक्षेत्रे बहुमूल्य-योगदानाय असौ पद्मश्री पद्मभूषणम् पद्मविभूषणञ्च समेत्य बहुविध राष्ट्रियान्ताराष्ट्रियपुरस्कारैः बहुमानितः। न केवलं वाग्गेयकारः किन्तु  वयलिन् , अवोला, गञ्चिरा मृदङ्गः इत्यादिषु संगीतवाद्योपकरणेषु च सः निष्णातः आसीत्। अपि च चलनचित्रमण्डले सङ्गीतनिदेशकः अभिनेता गायकः एवंरीत्या च सः कीर्तिमुद्राम् अवाप। तेन आविष्कृताः लावङ्गी, महती, मनोरमा, मुरली, ओंकारी, सर्वश्री, सुमुखं , गणपतिः इत्यादयः नूतनरागविशेषाः आस्वादकहृदयेषु निर्वृतिम् आपूरितवन्तः। तस्मै संगीतकाराय भावपूर्णश्रद्धाञ्जलयः।
सोपानम्-21 Meenakshi N V, Brahmanandodayam H S, Kalady.

Tuesday, November 22, 2016

ऋणप्रतिदानाय मासद्वयस्य विलम्बालुकूल्यम्।
 मुम्बई >मुद्रानिरासेन सञ्जातानि धनदौर्लभ्यं नियन्त्रणानि च परिगण्य ऋणानां प्रतिदानाय षष्टिदिनात्मकम् अधिकसमयं विधातुं रिसर्वबाङ्केन निर्णीतम्। एककोटि रूप्यकाणाम् अधः येषां भवन-कार्षिक-वाहन ऋणानि सन्ति तेषांकृते एव इदम् आनुकूल्यम्। वाणिज्यवित्तकोशाः, जिल्ला-राज्यस्तरीय सहकारवित्तकोशाः इतरधनकार्यसंस्थाः च इदमानुकूल्यम् अर्हन्ति।

 विश्वसंस्कृतसम्मानसमारोहः।
नवदेहली>नवदिल्ल्यां २१/११/२०१६ तमे दिनांके भारतीय-सांस्कृतिक-सम्बन्ध-परिषदा विश्व-संस्कृत-सम्मान- समारोह: समायोजित:। अवसरेsस्मिन् थाईलैंड-देशीया राजकुमारी महाचक्री सिरिन्धोर्नवर्या २०१५ तमाब्दार्थं सम्मानेनानेन सभाजिता। ऐषमः सम्मानेन जॉर्ज-कार्डोना-वर्य: बहुमानित:। ध्यातव्यमिदं यत् सम्मानोsयं उभाभ्यामपि भारतस्य उपराष्ट्रपतिना हामिद-अन्सारिणा  संस्कृतक्षेत्रे तयो: अप्रतिम-योगदानार्थं  उपायनीकृत:।
केरळमन्त्रिसभा पुनर्घटिता।
अनन्तपुरी> षण्मासातीता  केरळराज्यमन्त्रिसभा पुनःसंघटिता। सि पि एम् दलस्य वरिष्ठनेता उटुम्पन्चोला मण्डलस्य सामाजिकः एम् एम् मणिः नूतनः विद्युन्मन्त्री भविष्यति। इदानींतन विद्युन्मन्त्री कटकम्पल्लि सुरेन्द्रः सहकारविभागस्य विनोदसञ्चारविभागस्य च उत्तरदायित्वं वक्ष्यति।
    सहकारिविभागस्य मन्त्री ए सि मोय्तीनः उद्यमविभागस्य मन्त्री भविष्यति।
अष्ट राज्येषु ₹6,068 कोटी धनस्य मार्ग परियोजनानां स्वीकृतिः।

नवदेहली>केन्द्र सर्वकारेण 8 राज्येषु ₹ 6067.90कोटी मूल्येन प्राय: 476 km मार्गनिर्माण परियोजनानां कृते स्वीकृति दत्तमस्ति। मणिपुर-नागालैण्ड-अरुणाचल प्रदेश-महाराष्ट्र-गोवा-पश्चिम बंगाल-उत्तराखंड-उत्तरप्रदेश राज्येषु अस्यां परियोजनायां कार्यं भवति। अधिकाधिक परियोजनानां विकास: ईपीसी (इंजीनियरिंग्,प्रोक्योरमेंट्,कंस्ट्रक्शन्) माध्यमेन भविता।

Monday, November 21, 2016

BBC माध्यमेन चतुर्णां भारतीय-भाषायामपि प्रक्षेपणं
लन्टन् >  बीबीसी वेल्ट् सर्वीसस् द्वारा भारतस्य चतसृषु भाषासु एव नूतनप्रक्षेपणं आरप्स्यते। गुजराती, मराठी, पञ्चाबी, तेलुङ्ग् भाषायामेव नूतन प्रक्षेपणम्। इदानीं तु हिन्दी, उरुदु' तमिळ् , बंगाली भाषासु प्रक्षेपणं प्रचलति। नूतन -संयोजनेन चत्वारिंशत् भाषासु बीबीसी सेवा भविष्यति। ब्रिट्टीष् सर्वकारेण अधिकं धनम् एतदर्थं दास्यति इत्यतः एतादृशं विकासं दातुं शक्नोति  इति बीबीसी कुलनिर्देशकेन डोणीहालेन उक्तम्। उप-पञ्च-विंशति कोटि जनानाम् उपकारकं भवति बीबीसी माध्यमस्य प्रक्षेपणम्।

इजरायल देशे अध्यनरत् वैदेशिक छात्रेषु 10% भारतीया:
गुरुवासरे इजरायल देशस्य राष्ट्रपति रुवेन रिवलिन महोदयेनोक्तं इजरायल देशे अध्ययनरत वैदेशिक छात्रेषु 10% छात्रा: भारतीया: सन्ति। तै: उक्तं "भारत-इजरायल सर्वकारस्य 40 त: अधिक संयुक्त अनुसंधान परियोजनामाध्यमेन विगत वर्षेषु इजरायल-भारतस्य शैक्षिक-सहयोगे वृद्धि जातमस्ति।

उत्तरप्रदेश निर्वाचने प्रियंका मुख्य भूमिकायां - कांग्रेस्
शुक्रवासरे कांग्रेस जना: उक्तवन्त: आगामी वर्षे उत्तरप्रदेश विधानसभा निर्वाचने प्रियंका मुख्यभूमिकां वहति। प्रदेश कांग्रेस अध्यक्षेण राजबब्बरेणोक्तं निर्वाचनस्य तिथि निर्णयानन्तरं प्रचार कार्यक्कमाणां योजना स्पष्टा भविता।

प्रधानमंत्री नरेन्द्र मोदिना कृतस्य मुद्रापत्राणां प्रतिबन्धस्य पक्षे अन्ना हजारे
नवदेहली> सामाजिक कार्यकर्ता अन्ना हजारे महोदय: प्रधानमंत्री नरेन्द्र मोदे: मुद्रापत्राणां प्रतिबन्धस्य निर्णयेन सन्तुष्टास्ति। स: उक्तवान किमपि प्राप्तुं काठिन्यस्य साक्षात्कारं तु करणीयं भवत्येव। एतद् सर्वकारस्य ऐतिहासिक निर्णय: अस्ति। अग्रे उक्तवान् अस्मिन् विषये ते एव विरोधं कुर्वन्ति येषां पार्श्वे कृष्णधनमस्ति।





  चैना-ओपण-सुपर्-सीरीस्-प्रीमियर-बैडमिंटन-स्पर्धायां पि.वि. सिंधुः विजयं प्राप्तवती 
रियो ओलिंपिकस्पर्धायां कास्य पदकविजेत्री पि.वि.सिंधु  चैना ओपण् सुपर् सीरीज् प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य   सुन यू इत्येषा क्रीडिका   21-11, 17-21, 21-11 अंकान्तरालेन पराजिता ।

Sunday, November 20, 2016

उत्तरप्रदेशे रेल्यानदुर्घटना - उपशतं मरणानि। 
कान्पुरम् >उत्तरप्रदेशे काण्पुर् समीपे पाट्ना-इन्डोर् एक्स्प्रेस् रेल् यानस्य चतुर्दश पेटिकानां पट्टिकास्खलनेन सप्ताधिकशतं यात्रिकाः मृत्युमुपगताः। रविवासरे उषःकाले त्रिवादने आसीदियं दुर्घटना। ७६ यात्रिकाः क्षताः जाताः।
    दुर्घटनाहेतुः न प्रत्यभिज्ञातः। रक्षाप्रवर्तनानि आरब्धानि। रेल् विभागमन्त्री दुर्घटनास्थानं प्राप्य रक्षाप्रवर्तनानां नेतृत्वं वहति।

 चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती।
 चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती। रियो ओलिंपिकस्पर्धायां कास्य पदकविदेत्रृ पीवी सिंधु चाइन ओपन सुपर सीरीज प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य सुन यू इत्येषा क्रीडिका 21-11, 17-21, 21-11 अंकान्तरालेन पराजिता।

Saturday, November 19, 2016

हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः -शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिः

कोच्ची >केरळ-सर्वकारेण विद्यालय-शिक्षायां हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः इति कालटी शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिना डॉ. एम् सी दिलीप कुमारमहोदयेन उक्तम्। केरळे एरणाकुळं जनपदे वेदपूर्णपुर्याम् आयोजिते सांस्कृतिक मेलने भाषमाणः आसीत् सः। संस्कृतभाषां पुरस्कृत्य कैरळ्यां निर्मिते स्वप्नत्तिलेक्कोरु यात्रा (സ്വപ്നത്തിലേക്കൊരു യാത്രാ ) नाम ह्रस्वचलन चित्रस्य प्रदर्शनोद्घाटनमपि तेन महोदयेन सम्पन्नम्। चलन चित्र स्य निर्माता तथा संविधायिका श्रीमती श्रुति इम्मानुवेल् महाभागया कृत योगदानस्य प्रतिक्रिया-रूपेण सानितरां सम्मानिता च। एषा आलप्पुष़ जनपदे विद्यमान तृक्कुन्नप्पुष़ एम् टी प्राथमिक विद्यालये संस्कृताध्यापिका भवति । स्वस्य उद्योगाल्लब्धं वेतनम् उपयुज्य एव चलन-चित्रस्य निर्माणम् अकरोत् इति विशेषः अपि अस्ति।

गते वित्तवर्षे स्वच्छ-भारत उपकर-माध्यमत:  नव शतोत्तर त्रिसहस्रं कोटी धनलाभ:।
राज्यसभायां गुरुवासरे सर्वकार पक्षत: सूचनादानवेलायां ज्ञातं यत् गाते वित्तवर्षे स्वच्छ भारत योजनायाः उपकरत: नव शतोत्तर त्रिसहस्रं कोटी धनं प्राप्तं, धनराशे: प्रतिशतम् अशीति मितं (80%) पेयजलं एवञ्च स्वच्छता मंत्रालयाय दीयते, 20% प्रतिशतं विंशति नगर - विकास मंत्रालयाय दीयते च। ज्ञातव्यमस्ति यत् विगतवर्षे सर्वकारेण सर्वेषु अपि करयोग्य सेवायै 0.5% प्रतिशतं अर्ध रुप्यकं स्वच्छ भारत उपकरः स्थापितः आसीत्।

Friday, November 18, 2016

पर्यावरणमलिनीकरणस्य बृहद्दण्डनशुल्कंविधास्यति।
नवदिल्ली>पर्यावरणमलिनीकरणं निरोद्धुं तीव्रानुशासनं विधीयते। पृथिव्यप्वायून् मलिनीकुर्वतां व्यक्तीनां संस्थानां व्यवसायशालानां च लक्षैकरूप्यकाभ्यः आरभ्य द्विकोटिरूप्यकाणि यावत् दण्डनशुल्कं संवत्सरत्रयस्य कारागारवासं च विधातुं निर्देशः कृतः।
    १९८६ तमवर्षस्य पर्यावरणसंरक्षणनियमं २०१०तमवर्षस्य हरित ट्रैब्यूणल् नियमं च व्यत्ययं कृत्वा नवीनं पर्यावरणनियमविधेयकं संसदः अस्मिन् सम्मेलने अवतारयिष्यति। परिस्थितिसंरक्षणमण्डले बृहत्परिवर्तनाय निर्दिष्टव्यवस्थया शक्यते।
      पर्यावरणमलिनीकरणस्य परिमाणगणनाय केन्द्र-राज्यतलेषु विदग्धसमितिं रूपवत्करिष्यति। समित्याः निर्देशानुसारं दण्डनव्यवस्था भविष्यति। मलिनीकरणस्य परिधिः, तद्वारा जायमानानि नाशनष्टानि, नाशस्य परिमाणः इत्यादीनां निर्वचनेषु समग्रं परिवर्तनं भविष्यतीति नवीननियमस्य सविशेषता।

Thursday, November 17, 2016

संस्कृतभाषायाः महत्वम् उक्त्वा कैरल्यां ह्रस्वचलन-चित्रम् ।
कोच्ची >चित्र लेखकः तथा डोक्कुमेन्टरि चलनचित्रस्य संविधायकः इति सुज्ञातः इम्मानुवेल् नामकस्य पत्नी 'श्रुति' इदानीं संस्कृतभाषायां नूतनं दृश्यकाव्यं व्यरचयत् । एषा संस्कृताध्यापिका भवति आलप्पुष़ा जनपथे एम् टि यू पि विद्यालये कर्म करोति। अतः संस्कृतानुकूलं चलनचित्र निर्माणाय स्वस्य वेतनम् उपयुक्तवती । सप्तमकक्ष्यायाः आदर्शभूतः संस्कृतग्रामः इति पाठभागस्य पृष्ठभूमौ एव कथायाः यात्रा। अस्मिन् मासस्य १८ दिने वेदपूर्णपुर्याम् चलन-मुद्रिकायाः प्रकाशनं भविष्यति। षट्वादने लायं 'कूत्तम्बले' चलनचित्रकारेण विनोद् मङ्करा महाभागेन श्री शङ्कराचार्य संस्कृत विश्वविद्यालयस्य उप-कुलपतये डॉ. एम्. सि. दिलीपकुमार -महोदाय दत्वा चलनमुद्रिका मोच्यते ।