OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 4, 2016

अगतीनाम् अम्बा विशुद्धपदम् अरूढवती,
विश्वासिसमूहः आनन्दनिर्वृतौ।
Mother of Kolkata
वत्तिक्कान्>आभुवनं क्रैस्तवविश्वासिसमूहानां तथा लोकशान्तिम् अभिलषतां लोकसुखमिच्छतां जनानां धन्यमुहूर्तः। भुवने निरालम्बिनां मातरं तेरेसाम्बां  परिशुद्धपदमुन्नीय सेन्ट् पीटेर्स् बसलिक्का देवालयस्य चत्वरे फ्रान्सीस् मार्पाप्पा वर्यस्य विशुद्धपदप्रख्यापनेन लोकाः ईशस्य कारुण्यवर्षम् अनुभूतवन्तः।
     स्थानं सेन्ट् पीटेर्स् बसलिक्कायाः अन्तः। भारतसमयः अपराह्ने द्विवादनम्। सार्वत्रिकसभायाः परमाध्यक्षस्य परिशुद्धपितेति लोकैकवन्द्यस्य फ्रान्सिस् मार्पाप्पावर्यस्य सभाप्रवेशनेन विशुद्धनामकरणकर्माणि आरब्धानि। प्रार्थनानन्तरं कर्दिनालः आञ्चलो अमात्तोवर्यः  मदर् तेरेसां विशुद्धेति प्रख्यापयतु इति मातुः ह्रस्वजीवचरितकथनेन सह  मार्पाप्पां प्रति अभ्यर्थयत। ततः  अमात्तोवर्यस्य सहकार्मिकः फा. ब्रयाल् वर्यः इट्टलीयभाषया सर्वान्विशुद्धान् उद्दिश्य "अस्मभ्यं संप्रार्थ्यताम्" इति प्रार्थयामास!
    अनन्तरं पाप्पावर्यः  ह्रस्वैः वाक्यैः तेरेसामातरं कल्क्कत्तायाः विशुद्धतरेसा इति पुनर्नामकरणमकरोत्। तत्र सन्निहिताः लक्षशः जनाः कार्यक्रमान् सर्वान् दृश्यमाध्यमैः वीक्ष्यमाणाः सर्वे अपि प्रार्थनानिर्भरचित्तैः कृतार्थाः बभूवुः।
    ततः मातुः भौतिकावशिष्टानि मिषनरीस् आफ् चारिटि संस्थायाः अध्यक्षया सिस्टर् क्लयर् वर्यया अल्त्तारामध्ये  समर्पितानि। सार्वत्रिकसभायाः कृतज्ञताम् आञ्जलो अमात्तो वर्यः प्रकाशयामास। तथास्तु इति पाप्पावर्यस्य प्रतिवचनेन विशुद्धप्रख्यापनस्य परिसमाप्तिः।
माता तेरेसा भारतीयानां मनसि सदा विशुद्धा।
मदर् तेरेसा अद्य विशुद्धा भविष्यति। 
वत्तिक्कान् >निस्वानाम् अम्बा मदर् तेरेसा अद्य विशुद्धपदं प्राप्स्यति। वत्तिक्काने सेन्ट् पीटेर्स् देवालयस्य चत्वरे फ्रान्सिस् मार्पाप्पा वर्यस्य कार्मिकत्वे अपराह्ने द्विवादने - भारतसमयः - आरभ्यमाणे दिव्यबलिमध्ये विशुद्धनामकरणं भविष्यति। कोल्कोत्तायाः विशुद्धतेरेसा इति इतःपरं विख्याता भविष्यति।
       कार्यक्रमे भागभागित्वं वोढुं केन्द्रसर्वकारं प्रतिनिधीभूय  विदेशकार्यमन्त्रिण्याः सुषमास्वराज् वर्यायाः नेतृत्वे कश्चन संघः वत्तिक्कानं प्राप्तः। दिल्ली मुख्यमन्त्री अरविन्द केज्रिवालः वंगराज्यस्य मुख्यमन्त्रिणी ममता बनर्जी इत्येतावपि वत्तिक्कानं संप्राप्तौ।

के बाबोः भवने दक्षतावस्कन्दः। 
कोच्ची >अविहितद्रव्यसम्पादनविषये भूतपूर्वकेरलराज्यमन्त्रिणः के बाबुवर्यस्य भवने ,अपत्यानां तथा  बिनामीति विवक्षितपुरुषाणां सहकारिणां  च गृहेष्वपि दक्षतासंस्थायाः आपातः सम्पन्नः। एऱणाकुलं तोटुपुष़ा इत्येतत्प्रदेशस्थयोः पञ्च वासस्थानेषु कारिते आपाते अष्टलक्षं रूप्यकाणि १८० ग्रां परिमितं सुवर्णं च परिदृष्टानि। बाबोः , तस्य पत्न्याः, अपत्यानां च पञ्च बेङ्कलेखाः च स्तोभयते स्म।
    किन्तु एतत्सर्वं राजनैतिकलक्ष्येण कृता प्रतिक्रिया इति बाबु: अवदत्।
संस्कृम् अनुदिनं प्रकाश्यते

Alankaara Bhooshanam
नवदेहल्ली > संस्कृतभाषा सूर्यवत् अनुदिनं प्रकाशमानं वर्तते। अधुनिकलोके नूतन पुस्तकानां रचनया, लघु संस्कृत
चलनचित्राणां निर्माणेन, चित्रमुद्रिका प्रकाशनेन च संस्कृतभाषा स्वस्य दायित्वं सम्यक् कुर्वन् अस्ति।

इदानीं नवदिल्याम् आयोज्यमाने कार्यक्रमे अलङ्कार-भूषणम् नाम ग्रन्थस्य प्रकाशनमभवत्। ग्रन्थकर्ता डा. कुन्दन मिश्र महोदयः भूमिकालेखक:-महामहोपाध्याय: प्रो. उमाशंकरशर्मा'ऋषि:' (राष्ट्रपतिसम्मानितः) 5 अध्यायः, प्रसिद्धसंस्कृत-अलंकारग्रंथेभ्यः 50 अलंकाराणाम् संकलनं, सरलभाषया व्याख्यानं, तुलनात्मकं विवेचनं च, पृष्ठ -300, मूल्यम्-180 रूप्यकाणिप्रकाशकः -परिमल प्रकाशनं, दिल्ली च।

दिल्ली सर्वकारस्य राजकीय विद्यालये अध्यापकः भयत्ययं महोदयः। दिल्ली शिक्षा निदेशालयस्य उप-निदेशकः सुरेन्द्र चन्द्रशर्मा, उत्तराखण्ड वि.विद्यालयस्य सहायक-प्राध्यापकः डा. अरविन्द नारायणमिश्रः, सर्वोदय विद्यालयस्य प्राचार्यः यतेन्द्र कुमार शर्मा इत्येते स्वस्तिवाचन पुरसरम् ग्रन्थ विमोचनमकुर्वन्।
 नेताजी षुभास् चन्द्र वसु -“डिक्लासिफाइड्”सञ्चिका
Subhas Chandra  Boss
नव देहली- नेताजी सुभाषवर्यस्य “डिक्लासिफाइड्”सञ्चिकाभि ज्ञातं यत् भारतदेशेन् १९५३ तमे वर्षे इंडियन् नेशनल आर्मी(INA) एवञ्च “इंडियन इंडिपेंडेंस् लीग”(IIL) एतयोः निधिः पाकिस्तानेन सह् भागं कर्तुं अङ्गीकृतमासीत्। जवाहरलाल नेहरुमहोदयः पश्चिमबंगस्य तत्कालीनमुख्यमन्त्रिं प्रति पत्रं व्यलेखी-“वार्तालापेन अङ्गीकृतं यत् निधेः आवंटनं भारत-पाकयो २.१ अनुपातेन भवतु इति” सोमवासरे नेताजी सम्बन्धीनां २५ सञ्चिकानाम् “डिक्लासिफाईप्” कृतमासीत् पाकिस्तानस्य कृते निधि वंटनस्य वार्ताः नेहरुवर्यस्य पत्रेणेव ज्ञायते।

नेताजी महोदयस्य सङ्घटनानां(INAएवञ्चIIL)इत्येषां निधि पाकिस्तानाय दत्तं इति नेहरु महोदयस्य पत्रैः ज्ञायते।
नेहरुना पत्रमेतत् १९५३तमे वर्षे अक्टूबर मासस्य १८दिनाङ्के पश्चिमबंगस्य मुख्यमन्त्री बीसी राय कृते लिखितं। पत्रेस्मिन् नेहरुना वंग सर्वकारस्य पक्षतः प्रस्तावितस्य पत्रस्य उत्तरं दत्तमस्ति। प्रस्तावनानुसारं वंगसर्वकारेण नेताजी एवञ्च तेषां आजादहिन्दसर्वकारेण त्यक्तस्य निधिविषये केन्द्रसर्वकारः परीक्षणम् कुर्यात् इति उल्लिखितमस्ति

नेहरुवर्येण स्वटिप्पणीपत्रे किं लिखितमासीत्?
टिप्पणीपत्रानुसारं “सूदूर पूर्वदिशि अंतिम युद्धसमाप्त्यननतरं स्वर्ण-आभूषणादीनि अधिकारिणः बलात् ग्रहीतवन्तः। एतानि वस्तूनि दक्षिण-पूर्व एशियायाः देशेषु INA एवञ्च IIL सम्बन्धितानि आसन्।
सिंगापुर देशःअस्य कस्टोडियन आफ् प्रापर्टी(संपत्तेः संरक्षकः आसीत्) १९५० तमे वर्षे सिंगापुर सर्वकारेण संपत्तेः मूल्यतोलनम् कृतं।संपत्तेः मूल्यं १६३अधिक ४७ सहस्त्र १लक्षं “स्ट्रेट् डालर” इति आसीत्। “स्ट्रेट्डालर” नाम बिट्रेनदेशस्य “मलक्का स्ट्रेट्” इत्यस्योपरि स्वीकृतनिर्णयानुसारं करन्सी आसीत्।
पत्रे एतदपि उल्लिखितमासीत् यत् “पुनर्मूल्याङ्कनानुसारं सम्पत्तेः उचिताकलनं कठिनमिति”
पाकिस्तानेनसह सुदीर्घाचर्चा प्रचलिता।अन्ततोगत्वा एवं निश्चितं यत् सम्पत्तेः आवंटनं भारतपाकिस्तानयोः २.१ इति अनुपातेन भवतु इति।
यद्यपि निधिनिष्कासन प्रकरणं सम्पत्यनुसारं कस्टोडियन् सिंगापुरस्य “लेजिस्लेटिवकाउंसिल”मध्ये उपस्थापितमासीत्। एतदानुसारं कस्मै अपि जनाय संस्थायै वा निधेः दानस्याधिकारः नासीत्।
  विशेष वार्ता-
अभिषेक परगाँई
नवदेहली

Saturday, September 3, 2016

  राष्ट्रस्य यन्त्रशास्त्रबिरुदधारिषु असमर्थानां संख्या अधिका -इ श्रीधरः।  
    अहम्मदाबाद् > राष्ट्रस्य यन्त्रशास्त्रकलालयेभ्यः पठनं पूर्तीकृत्य बहिरागतवत्सु बिरुदधारिषु असमर्थानां संख्या अधिका इति 'मेट्रोमान्'इति नाम्ना विशिष्ट: इ.श्रीधरः।बिरुदं प्राप्तेषु यन्त्रज्ञेषु केवलं २९% एव समर्थाः वर्तन्ते , उपरिपठनेन परिशीलनेन च अपरं २०% बिरुदधारिणामपि सामर्थ्यं वर्द्धयेत् इति तेन सूचितम्।'यन्त्रज्ञानां समाजं प्रति दायित्‍वम्' इत्यस्मिन् विषये प्रभाषणमध्ये एव तेन एवम् अभिप्रेतम्।

 अखिलभारतीयकर्मस्थगनं पूर्णम्। 
नवदहली > केन्द्रसर्वकारस्य कर्मकरविरुद्धान् नयान् प्रति विविधैः कर्मकरसंघै: प्रख्यापितम्‌ २४ घण्टात्मकम् अखिलभारतीयकर्मस्थगनं पूर्णम्। राष्ट्रस्य वित्तकोशाः, सर्वकारकार्यालयाः , विद्यालयाः,कलालयाः, व्यवसायशालाः च प्रवर्तनरहिता: सन्ति। सामान्यगतागतं पूर्णतया स्थगितम्।सर्वत्रापि व्यापारस्थापनानि भोजनालयाः च प्रवर्तनरहिताः सन्ति। केषुचित् राज्येषु अक्रमादिकमपि सञ्जातम्। पश्चिमबंगाले कूच् मध्ये तथा बीहारे च समरानुकूलिनः बस्यानानां नाशनम् अकुर्वन्। बीहारे तथा ओडीषायां भुवनेश्वर् मध्ये च रेल् गतागतं प्रतिरुद्धम्। उत्तरप्रदेशे वाराणस्यां समरानुकूलिनः मार्गोपरोधम् अकुर्वन्। जम्मुकाश्मीरे च कर्मस्थगनं पूर्णमेव। केरलेष्वपि कर्मस्थगनं पूर्णमेव। कुत्रचित् संघर्षः सञ्जात: इति सूचना अस्ति।

आफ्रिक्कन् गजानां संख्या शुष्यति।
न्यूयोर्क्>आफ्रिक्कन् गजाः कुलनाशम् उपयान्तीति वृत्तान्तः। सप्तसंवत्सराभ्यन्तरे गजानां संख्यासु प्रतिशतं त्रिंशत्परिमितानां ह्रासः अभवत्।
    Elephants Without Borders इति संघटनेन त्रिभिः संवत्सरैः कृते "दि ग्रेट् एलफन्ट् सेन्सस्" इति गजसंख्यागणनायाम् एव अयमधिगमः। १८ देशेषु २०१३ डिसंम्बर् मासादारभ्य आकाशमार्गेण कृतेन निरीक्षणेनैव गजगणना चालिता। हवादेशे सम्पन्ने ऐक्यराष्ट्रसभायाः पर्यावरणसंस्थायाः उपवेशने इदं वृत्तान्तपत्रम् अवतारितम्।
 
'विष़िञ्ञम्' नौकाश्रयाय देशीयहरितन्यायसभायाः अनुमतिः।
 नवदहली > 'विष़िञ्ञम्' राष्ट्रान्तरनौकालयपद्धत्यै देशीयहरितन्यायसभायाः सोपाधिका अनुमतिः लब्धा। न्यायाधिपस्य स्वतन्त्रकुमारस्य आध्यक्ष्ये चतुर्णां न्यायाधिपानां समित्या एव अनुमतिः दत्ता। पद्धतिनिर्वहणाय  शास्त्रज्ञानां सप्ताङ्गसमितिः रूपीकरणीया इत्येव प्रधाननिर्देशः। अस्यां समित्‍यां परिस्थितिशास्त्रज्ञ:, सर्वकारप्रतिनिधिः, समुद्रगवेषणविदग्धाः च भवेयु:। अनया समित्या निर्माणपुरोगतिः निरीक्षणीया। षण्मासाभ्यन्तरे पठनं समर्पणीयम्। परिस्थितिनाशनसम्बन्धीनि निर्माणप्रवर्तनानि , समुद्रसम्पदां नाशनसम्बन्धानि प्रवर्तनानि वा मा भवन्तु इत्यपि हरितन्यायसभया निर्दिष्टम्। न्यायालयस्य नूतननिर्देशः स्वागतार्हः इति केरळस्य नौकादिविषयमन्त्रिणा कटकंप्पल्लि रामचन्द्रमहोदयेन उक्तम्।

 गान्धिहत्याप्रस्तावः - स्वमतं व्यवस्थाप्य राहुल्गान्धी।
नवदिल्ली> महात्मागान्धिनः हत्याविषये आर् एस् एस् संघटनां विरुध्य उक्ते प्रस्तावे प्रत्यक्षरं स्थिरमतिः अस्मीति कोण्ग्रस् दलस्य राष्ट्रियोपाध्यक्षः राहुल् गान्धिवर्यः सर्वोच्चन्यायालयं प्रति उक्तवान्। एतद्विषयकापकीर्तिव्यवहारे महाराष्ट्रस्थे भिवण्टी न्यायालये उपधां सम्मुखीकर्तुं सन्नद्धः इति सः विज्ञापितवान्।
     अस्मिन् विषये राहुलं विरुध्य मुम्बई उच्चन्यायालयेन आदेशः दत्तः।  तन्निरोद्धुं राहुलेन सर्वोच्चन्यायालये समर्पिता याचिका अपि तेनैव निराकृता। अतः भिवण्टि न्यायालये साक्षात् गत्वा उपधाम् अभिमुखीकरिष्यति।
    २०१५ संवत्सरे महाराष्ट्रे निर्वाचनसम्मेलने प्रभाषणे कृते  गान्धिहनने आर् एस् एस् संस्थायाः भागभागित्वमस्तीति प्रकारेण राहुलस्य परामर्शः जातः।

कर्मन्यासप्रतिषेधः आशास्यः किम्?
     अस्माकं राष्ट्रं प्रगतिपथात् व्यतिचालयितुं पर्याप्तः आसीत् ह्यस्तनः अखिलदेशीयकर्मन्यासप्रतिषेधः। कोटिशः रूप्यकाणां नष्ट एव राष्ट्राय अनेन सञ्जातः।
    प्रतिषेधाय सर्वेषाम् अधिकारः अस्ति। किन्तु सः राष्ट्रस्य अभिवृद्धिकर्मणां तालभङ्गं सृष्ट्वा न भवेत्। पुरोगमनचिन्तनानि वाचि इव कर्मणि च भवितुं सर्वैः राजनैतिकदलैः प्रयतितव्यः।
      विनष्टं प्रतापं प्रत्यानेतुं प्रयत्नः  एव  स्वतन्त्रतालब्धेः आरभ्य भारतीयजनतत्या अनुवर्तते। विभिन्नाः राजनैतिकविश्वासिनः विभिन्नाः धर्मानुयायिनः वा भवन्तु , क्रियमाणानि सकलानि प्रवर्तनानि राष्ट्रपुरोगतिं लक्ष्यीकृन्य भवितव्यानि।
    अतः एतादृशः कर्मन्यासः निरर्थकः निराकरणीयश्च इति बोद्धव्यः।

Friday, September 2, 2016

 दशमकक्ष्यायां न पठितवती, किन्तु MIT मध्ये पठिष्यति।
मुम्बै>दशमकक्ष्यायां न पठितवती तथापि मालविका राजेश् जोशी मसाचुसेट्टस् इन्स्टिट्यूट्‌ ओफ् टेक्नोलजि(MIT)मध्ये पठिष्यति। स्थानीय योग्यता नास्ति चेत् अपि सङ्गणक यन्त्रे प्रवर्तन-क्रमाणाम् आयोजने तस्याः कुशलता श्रद्धेया एव। सा एव पठनाय प्रवेशलब्धेः निदानम् । सप्तदशवयस्का मालविकायाः ओलिम्प्याट् पतकेन (IOI) पुरस्कृता इत्यनेन एव कलाशालायां प्रवेशनम्। द्वादश कक्षायाः विजयं विना सामान्येन यत्रकुत्रापि पठनाय अनुज्ञा न लभते।सप्तमकक्ष्यानन्तरम् अध्ययनम् नास्ति इत्यनेन सा उपरिपठनात् निवारिता। अधुना बालिका बालकाः सङ्गणकयन्त्रं क्रीडायै उपयुज्यते । किन्तु एषा सङ्गणक-यन्त्रमुपयुज्य नूतनानि प्रवर्तन-कार्यक्रमाणि निर्मितानि च

संस्कृतकवयः न दुर्लभाः 
वक्ता श्रोता चदुर्लभा
नव देहली > दिल्लीविश्वविद्यालयः संस्कृतविभागस्य तत्वावधाने समायोजिते कविसम्मेलने  संस्कृतभाषायाः  प्रख्यातकविभिः प्रस्तुतिः विहिता। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य  पूर्वकुलपतयः प्रो.अभिराजराजेन्द्रमिश्रः, पद्मश्री पुरस्कार रमाकान्तशुक्लः, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतयः प्रो.रमेशचन्द्रपाण्डेयः, श्रीलाल बहादुरशास्त्रीराष्ट्रीयसंस्कृतविद्यापीठस्य  प्रसिद्धाचार्यःडॉ. दयालसिंहपँवारः दिल्लीविश्वविद्यालयस्थ संस्कृतविभागस्य   प्रख्याताचार्यः  डॉ. भारतेन्दुपाण्डेयः चेत्यादयः सुकविभिः भव्याः काव्य रचनाः प्रस्तुताः। अवसरेsस्मिन् संस्कृतविभागस्याध्यक्षया प्रो. शारदाशर्ममहोदयया समुपस्थितानां  कविनां  संस्कृतकाव्यरसिकानां च वाचिकस्वागतं विहितम् ।

Thursday, September 1, 2016

सिंगापुरे जीका विषाक्तोsपशपनं प्रयतते 
निखिलेsपि जगति जीका वायरस इति संक्रमणग्रस्तानां संख्या अनुदिनं वर्धतेतराम् सिंगारपुरे विषाक्तग्रस्तानां संख्या द्वयाशीति मिता सञ्जाता। विषाक्तं वारयितुं दृढसुरक्षोपायाः समुपकल्पन्ते |  सिंगापुर प्रशासनः  दक्षिण-पूर्वोपनगरे एडीस् मशकानां प्रजननस्थलान् नाशयितुं  प्रयतते, सममेव अन्योपायेष्वकि कार्यचरणं विधीयते |

उत्तर कोरियायां शिक्षामंत्रिणे मृत्युदण्डम् 
दक्षिण कोरिया सरकारेण प्रोक्तं यत्  उत्तर कोरियायां देशस्य शिक्षामंत्रिणः किमयांगजिनाय  मृत्युदण्डं प्रदत्तम्, अस्योद्घोषणा सियोलनगरे विहिता | असौ एकस्मिन्नुपवेशने सुषुप्तिःतिः प्राप्तः अतोनन्तरं किमयांगजिनं विरुद्ध्य भ्रष्टाचारान्वेषणं विहितम् |
भारत-  अमेरिक्काभ्यां सेनानिलयानि संविभज्यन्ते।
वाषिङ्टण्> भौम - नाविक - व्योम निलयानि मिथः विभज्य उपयोक्तुं भारत - अमेरिक्का मध्ये सन्धिः। अमेरिक्कायाः प्रतिरोधास्थाने पेन्टगण् नामके भारतरक्षामन्त्री मनोहरपरीक्करः अमेरिक्कारक्षासचिवः आष्टण् कार्टर च सन्धिपत्रे हस्ताक्षरम् अकुरुताम्।लेमोवा नामक सैनिक सन्नाह विनिमयसन्धिः (Logistics Exchange Memorandum Of Agreement) एव प्राबल्ये अभवत्। एतदनुसृत्य उभयोः राष्ट्रयोः सैनिकनिलयानि परस्परम् उपयोक्तुं शक्यते। संयुक्तसैनिकव्यवहारे तथा दुरिताश्वासप्रवर्तनेषु च प्रयोजकीभविष्यति।
    किन्तु राष्ट्रान्तरेषु भारतस्य सैनिकव्यवहारः नितरां परिमित इत्यतः अमेरिक्कायाः निलयेषु भारतस्य साध्यता विरल एव। प्रत्युत तस्य राष्ट्रस्य सैनिकसाङ्केतिकविद्यासहकारः प्रयोजनाय भविष्यति। तथापि एष्यन् मण्डलेषु अमेरिक्कायाः सान्निध्यं सजीवं वर्तते वर्धते च, तथा भारतस्य सैनिकपरमाधिकारः दुर्बलः स्यादिति आशङ्कापि अवशिष्यते।

सिङ्गूरे कृषकविजयम्।
नवदिल्ली > पश्चिमवंगे सिङ्गूरे टाटा मोटोर्स् इति निर्माणसंस्थायै नानो कार् याननिर्माणशालां स्थापयितुं २००६ तमे संवत्सरे तदानींतनसर्वकारेण दत्तं उपसहस्र एकर् परिमितं भूमिं कृषकेभ्यः प्रत्यर्पयितुं सर्वोच्चन्यायालयेन आदिष्टम्।
     २००६तमे संवत्सरे बुद्धदेवभट्टाचार्यस्य नेतृत्वे वामदलसरवकारेणैव ९९७.११ एकर् परिमिता केदारभूमिः टाटासंस्थायै कृषकेभ्यः बलेन स्वीकृत्य दत्ता। एतं विरुध्य कृषकाणां शक्तमान्दोलनम् आरब्धम्। ततः २००८ वत्सरे नानोपद्धतिः गुजरातं प्रति अपनीता आसीत्। एतद्विषयं राजनैतिकशस्त्रं परिकल्प्य एव ममताबानर्जिवर्यायाः नेतृत्वे तृणमूल् कोणग्रस् सर्वकारः अधिकारस्थानं प्राप।

Wednesday, August 31, 2016

रियोनगरस्य संस्कृतलोकः
रियो>ब्रसीलस्य रियो डि जनिरो ओलिम्पिक्स् महोत्सवेन श्रद्धेयम् अभवत् । किन्तु तत्र संस्कृतभाषायाः लोकमपि वर्तते। आस्मिन् लोके राज्ञी इव विराजमाना संस्कृत-शिक्षिका अस्ति ब्रसील् देशीया 'ग्लोरिया'। नवदशे वयसि भारतम् आगत्य स्वामी दयानन्दसरस्वत्याः शिष्या अभवत् सा। एतस्याः महोदयायाः नाम ग्लोरिया अरियेर इति। एकषष्टिवयस्का  एषा संस्कृतं पठित्वा ब्रसील देशस्य विभिन्नेषु भागेषु इदानीं संस्कृतं पाठयति च। पञ्च त्रिंशत् ग्रन्थानां रचयित्री भवति। संस्कृतभाषातः पोर्चुगीस् भाषायां प्रतिकृतानुवादानि ते। अष्ट संख्यकाः उपनिषदः इतः पर्यन्तं तया अनूदिताः। भगवद् गीतायाः पोर्चुगीस् भाष्यः एव अस्याः आधुनिकः ग्रन्थः । पातञ्जलं योगसूत्रम् अस्मिन् संवत्सरे प्रकाशयिष्यते।
अस्याः महोदयायाः विद्यामन्दिरं नाम विद्यापीठे सहस्रपरिमिताः छात्राः पठन्ति। तस्मिन् वयोवृद्धाः च सन्ति। १९८४ तमे कलाशालायां पठिता आसीत् सा। तस्मिन् समये आसीत् दयानन्द सरस्वत्याः अमेरिका सन्दर्शनम्। स्वामिनः प्रभाषणात् प्रभाविता सा भारतसंस्कृतिमधिकृत्य पठितुमारब्धवती। वर्ष पञ्चकेन स्वामिनः शिष्या भूत्वा संस्कृतं पठितवती। इदानीं ब्रसील् देशे बहवः शिष्याः सन्ति तस्यै। कोप्पकबाना नाम देशे भवति अस्याः संस्कृतविद्या मन्दिरम्।
सीरियायां प्रवृत्ताक्रमणेषु इस्लामिकस्टेट गुल्मस्य प्रवक्ता मृत्युमुपगतः  
 अमाक़न्यूज़ इति वार्ताभिकरणेन प्रोक्तं यत् एजेंसी एलप्पो नगरे सैन्याक्रमणे अबू-मुहम्मद-अल-अदनानिनः मृत्युः संजाता. असौ सुदीर्घकालात् आईएस गुल्मस्य नेतृत्वं अकरोत् | इदानीं तस्य मृत्योः कारणं स्पष्टं नास्ति | मई मासे एकस्मिन् श्रव्य संदेशे अदनाना मुसलमाः पश्चिमी देशेषु  आक्रमणाय अध्यर्थिताः |
 महारष्ट्रायां अग्निशाखावनानि (कण्टल्) इतःपरं संरक्षितवनम्।
मुम्बई>महाराष्ट्र राज्ये सर्वकारभूमौ विद्यमानानि समस्तानि कण्टल् वनानि संरक्षणीयवनमण्डलरूपेण विज्ञापितानि। कण्टल् वनं समस्तं संरक्षणीयवनमिति प्रख्यापितं प्रथमराज्यं भवति महाराष्ट्रा!
महाराष्ट्रस्य ७२० कि.मी.परिमिते समुद्रतीरे २९८३९ हेक्टर परिमितानि अग्निशाखावनानि विद्यन्ते! तत्र १६५५४हेक्टर् परिमितानि सर्वकाराधीने भवन्ति!
     महाराष्ट्रस्य अग्निशाखाप्रदेशेभ्यः वनत्वविवक्षा दातव्येति मुम्बई उच्चन्यायालयेन २००५ तमे वर्षे  आदिष्टमासीत्।

पश्चिमबंगालः परं बंगालः।
कोल्कोत्ता>पश्चिमबंगराज्यं इतःपरं बंगाल् इति नाम्नि विज्ञायते। बंगालीभाषायां बंग्ल इति राज्यस्य नाम।
    विधानसभायां एतदधिकृत्य प्रमेयः ३१सामाजिकान् विरुध्य १८९ सामाजिकानां मतदानैः अङ्गीकृतः।

Tuesday, August 30, 2016

पालयन्ति शुनकैः वीथयः
WhatsApp तः लब्धं चित्रम्
कोच्ची > केरळेषु मार्गाणि शुनकैः पूरिताः इति भान्ति। केन्द्र मन्त्रिणा मेनका गान्धिना वन्ध्यीकरणं कृत्वा वीथीशुनकानां संख्या नियन्त्रणाय आदेशः दत्तः असीत्। आदेशपालने केरळस्य शासकाः विमुखाः आसन् इति मेनका गान्धीमहोदयया उक्तम्। प्रतिदिनं बहवः जनाः शुनकस्य आक्रमणेन व्रणिताः । वयो भेदं विना सर्वान् आक्रमितुं शक्ताः भवन्ति शुनकाः। वार्तामाध्यमेषु शुनकस्य चरितानि सदा परामृष्टाः । वाट्स् आप् फेस् बुक् आदि  नूतन माध्यमेषु हास्यचित्राणि प्रचलन्ति। जनैः तेषां रोषप्रकाशनाय नव माध्यमानि उपयुज्यन्ते च।
भरतवाक्यम् - शासकाः जनानाम् पालकाः भवन्तु ।
 वैद्यबिरुदप्रवेशनम् - एकीकृतशुल्कव्यव्यवस्था न युक्ता।
  तिरुवनन्तपुरम् > (केरलम्) > वैद्यबिरुदप्रवेशनाय  स्वाश्रयशैक्षिकसंस्थानाम् एकीकृतशुल्कव्यव्यवस्था इति निर्देशम् अङ्गीकर्तुं न शक्यते इति केरलसर्वकारः।एकीकृतशुल्कव्यव्यवस्था इति निर्देशः अप्रायोगिकः इति आरोग्यविभागसचिवया के के शैलजा महोदयया सूचितम्। किन्तु एकीकृतशुल्कव्यव्यवस्था अङ्गीक्रियते चेत् प्रवेशनस्य ५०% स्थानानि सर्वकारविभागाय दास्यतीति स्वाश्रयशैक्षिकसंस्थापक्षतः निर्देशः दत्तः अस्ति। किन्तु एतदङ्गीकर्तुं सर्वकारः सन्नद्धः नाभवत्। तथा च वैद्यबिरुदप्रवेशनं सम्बन्‍ध्य सर्वकार-स्वाश्रयशैक्षिकसंस्थयोः तर्कः अपरिहार्य इव वर्तते।

 ओलिम्पिक्स् पतकविजेतृभ्यः खेल् रत्न पुरस्काराः समर्पिताः। 
  नवदेहली > रियो ओलिम्पिक्स् २०१६ मध्ये भारतस्य अभिमानपात्रेभ्यः पि.वि सिन्धू , साक्षी मालिक् , दीपा कर्माकर् , जित्‍तु राय् इत्यादिभ्यः कायिकरत्नेभ्यः राष्ट्रं खेल्-रत्न पुरस्कारम् असमर्पयत्। देशीयकायिकदिनसम्बन्धतया नवदहल्यां संघटिते कायिकपुरस्कारदानयोगे राष्ट्रपतेः प्रणब् मुखर्जी महोदयात् एते पुरस्कारं स्वीकृतवन्तः। एतैः सह योगे १५ क्रीडकेभ्यः अर्जुनपुरस्कारः,६ परिशीलेकेभ्यः द्रोणाचार्यपुरस्कारः,त्रयाणां कृते ध्यान्चन्द्‌ पुरस्कारः च समर्पितः।
 संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते -श्रीनिवासवरखेडि
 कोयम्बत्तुरु>संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते इति  कोयम्बत्तुरु आयुर्वेदमहाविद्यालये एकदिवसीया विचारगोष्ठ्यां भाषमाणः आसीत् कर्णाटक-संस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः। अगस्टमासस्य 28 दिनाङ्के कोयम्बत्तुरु आयुर्वेदमहाविद्यालये संस्कृत-संवर्धन-प्रतिष्ठानेन आयुर्वेदमहाविद्यालयेषु अध्यापनरतानां संस्कृतशिक्षकाणां कृते  संस्कृतेन आयुर्वेदः, आयुर्वेदाय संस्कृतम्, इति एकदिवसीया विचारगोष्ठी आयोजिता । अस्याः गोष्ठ्याः उद्घाटनम् कोयम्बत्तुरु-चिन्मयमिशन् संस्थायाः स्वामी-अनुकूलानन्दसरस्वती अकरोत्, । श्री.अनन्तकल्याणकृष्णन् महोदयः अध्यक्षः आसीत्, एषः संस्कृतभारती, दक्षिणतमिल्नाडु मण्डलस्य अध्यक्षः च । विचारगोष्ठ्यां विषयविशेषज्ञत्वेन समागतः आसीत् कर्णाटकसंस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः । अस्यां विचारगोष्ठ्यां संस्कृत-संवर्धन-प्रतिष्ठानस्य कार्यपालकः श्रीमान् लक्ष्मीनरसिंह-महोदयः गोष्ठ्याः महत्त्वं कथयित्वा लक्ष्यम् उद्देश्यं च अवर्णयत् । डा. रघुरामभट्टः, प्राचार्यः कोयम्बत्तुर् आयुर्वेदमहाविद्यालयः, संस्कृतशिक्षकाणां महत्त्वं तथा संस्कृतेन आयुर्वेदपठनस्य कीदृशाः लाभाः इत्येतस्मिन् विषये सर्वान् उदबोधयत् । अपूर्वशर्मा विचारगोष्ठ्याः सञ्चालनम् अकरोत् । गोष्ठ्याम् आभारतात् प्रायेण त्रिंशत् शिक्षकाः उपस्थिताः आसन् । श्रीमती निरञ्जना धन्यवादसमर्पणम् अकरोत् ।

सौराष्ट्रनर्मदा-अवतरणसेचनयोजना
प्रधानमंत्री अद्य राजकोटे सौनी इति  सौराष्ट्रनर्मदा-अवतरणसेचनयोजनाया प्रथमचरणस्य  उद्घाटनं करिष्यति | अस्याः योजनायाः अन्तर्गतं सौराष्ट्रस्य  जलाशयाः नर्मदायाः जलेन प्रपूर्यिष्यन्ते।

अमेरिकाभारतयोः लॉजिस्टिक्स इति संभारतन्त्रसन्धिः 
भारत अमेरिका देशयोः मिथः  परस्परं सैन्यस्थलानां उपयोगार्थं लॉजिस्टिक्स इति संभारतन्त्रविषयकं  सैन्यसन्धिः हस्ताक्षरैः प्रमाणीकृतः | येन देशद्वयाभ्यां परस्परं जल, थल, वायु सैन्यस्थलानां विकासः, विनिर्माणं च समेत्य विविध गतिविधीनां आदान प्रदानं संभविष्यति |

 वार्ताः 
 * केन्‍द्रीयगृहमंत्रिणः  राजनाथसिंहस्य नेतृत्‍वे सर्वदलीयं शिष्‍टमण्‍डलं सितम्‍बरमासस्य चतुर्थे दिने जम्‍मूकाश्‍मीरं प्रयास्यति । अद्य  काश्‍मीरोपत्यकायां बहुत्र निषेधाज्ञा इति संचाररोधादेशः निराकृतः।

* भारत- म्‍यांमाभ्यां  नवीकरणीयोर्जा पारम्‍परिकौषधव्‍यवस्‍थां समेत्य सन्धिचतुष्टकं हस्‍ताक्षरैः प्रमाणितम् ।

* उच्‍चतमन्‍यायालयेन बुलंदशहरदुष्‍कृति प्रकरणस्य  राज्‍यतो बहिर्वादश्रवणविषयिन्यां याचिकाविषये   उत्‍तरप्रदेशप्रशासनाय अथ  राज्‍यमंत्रिणे आजमखानाय अध्यर्थनापत्रं प्रख्यापितम् ।

* राष्‍ट्रपतिना  पी.वी.सिंधु साक्षीमलिकः दीपाकर्माकरः जीतूरायश्च राजीवगांधीखेलरत्‍न इति क्रीडापुरस्‍कारेण बहुमानिताः ।

* यमन राजधान्यां अदननगर्यां  सैन्य शिविरे  आत्‍मघात्याक्रमणे बम्ब विस्फोटेन न्यूनान्न्यूनं षष्टि जनाः कालकवलिताः संसूच्यन्ते ।

Monday, August 29, 2016

जीववायुं स्वीकृत्य उड्डयमानः आकाशबाणः - भारतस्य प्रयत्‍नफलम्।
श्रीहरिक्कोट्ट> स्क्राम् जेट् यन्त्रस्य परीक्षणविजयः बाह्याकाश-गवेषणमण्डले भारतस्य गतिवेगं वर्धिष्यते। न्यून व्ययेन किन्तु अन्यून वेगेन बाणान् बाह्याकाशं नेतुं 'स्क्राम् जेट्' सङ्केतेन शाक्यते इति ऐ०एस्० आर् ०ओ संस्थया उक्तम्। श्री हरिकोट्टायाः सतीष् धवान्‌ केन्द्रतः  रविवासरे प्रातः षट् वादने आसीत् विक्षेपणम् । ज्वलनाय प्राणवायुः अन्तरीक्षतः स्वीक्रियते इत्येव भवति अस्य बाणस्य विशेषः। विजयविक्षेपणस्य अन्ते बाणः वंग समुद्रे निर्दिष्टस्थाने पतितः। शब्द्स्य षट्गुणित वेगेन गन्तुं शक्यते बाणस्य इति सर्वान् अतिशेते भारतीया इयं बाणविद्या।

Sunday, August 28, 2016

 रेल्यानं पथविभ्रंशितम्। गतागतं स्थगितम्।
यात्रिकाः सुरक्षिताः ।


कोच्ची > केरळे एरणाकुळं जनपदे  अङ्कमाली रेल् निस्थानसमीपे करुकुट्टीप्रदेशे अनन्तपुरीतः मंगलापुरम् गम्यमानं एक्स्प्रेस शक्टम् रात्रौ पञ्चोन त्रिवादने (२.५५) आपदि प्रविष्टम्  यानस्य S3 आरभ्य 12 पर्यन्तं शायन पेटिका तथा  ए1 बि1 पेटिका च रेलतः भ्रंशिताः अभवन्। यात्रिकाः सुरक्षिताः इति रेल् अधिकारिणः सम्प्रतिवार्तां प्रति अवदत्।
    बहूनि दीर्घदूरयानानि व्यतिचलितमार्गानि कृतानि। अन्यानि यानानि समीपनिस्थानेषु यात्रां समापयन्ति स्म।
दुर्घटनाकारणमधिकृत्य अन्वेषणम् आरब्धम्। अङ्कमालीतः अनन्तपुरी तथा चालक्कुटीतः मङ्गला पुर-पर्यन्तं उत्तर दक्षिण भागेषु रेल्या नानि अधुना चालयन्ति। सर्वकारीय लोकयानानीच विशेषसेवाम् कुर्वन्ति।

पाकिस्तानप्रशासितकश्मीराय साहाय्यपुटकस्योद्घोषणा भविष्यति
नवदेहली>प्रधानमन्त्री नेन्द्रमोदी  पाकिस्तानप्रशासितकश्मीरस्य अथ च गिलगितबल्तिस्तानक्षेत्रस्य विस्थापितजनानां कृते शीघ्रमेव 2000 कोटिरुप्यकाणां साहाय्यपुटकस्य उद्घोषणा करिष्यति, विस्रंभवर्तास्रोतोभिः परिज्ञायते यदेतदर्थं प्राशासनिक सज्जता पूर्णतां गतासाहाय्यपुटकस्य  विस्तृतविवरणस्य निर्माणं  गृहमंत्रालयेन क्रियते, मन्त्रिमण्डलस्य संस्तुत्यर्थं च प्रेषयिष्यते, जम्मूकाश्मीरस्य  सर्वकारेण  36,348 लाभार्थि परिवाराणां परिज्ञानं विहितमस्ति।

 तुर्की देशे व्योमाक्रमणम्
ब्रिटेनस्थे सीरियन ऑब्ज़रवेटरी फॉर ह्यूमन राइट्स इति संघटनेन अवादि यत् सीरियायां तुर्क्याः सद्य प्रवर्तिते व्योमाक्रमणे चत्वारिंशत् जनानां 40 मृत्युः संसूच्यते। एकस्मिन् अन्ये आक्रमणे तुर्की सैन्यबलेन प्रतिपादितं यत् मृतानां संख्याः पञ्चविंशतिः अस्ति। एते समेsपि  कुर्द चरमपंथानुयायिनः सन्ति।
Sanskrit Day Celebration 2016 by Govt: of Kerala