OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 11, 2016

वार्षिकायः ६ लक्षात् न्यूनं चेत् केन्द्रसर्वकारस्य साहाय्यम् ।
  नवदहली > वार्षिकायः ६ लक्षात् न्यूनं चेत् गृहनिर्माणाय परिष्करणप्रवर्तनेभ्यः च केन्द्रसर्वकारस्य धनसाहाय्यम् । केवलं ६.५% वृद्ध्यनुपाते धनं लप्स्यते। नगरप्रदेशेषु जीवतां निर्धनानां कृते एव इदं साहाय्यम् । केन्द्रसर्वकारेण आयोजितां 'प्रधानमन्त्री आवासयोजना' पद्धतिम्‌ अनुसृत्यैव इदं साहाय्यम्। पद्धतेः प्रथमवार्षिकावलोकन वेलायामेव केन्द्रसर्वकारेण एतत् सूचितम्।' २०२२ अभ्यन्तरे सर्वेभ्यः गृहम्' इति पद्धतेः प्रथमसोपानमेव इयं योजना। एतावता लक्षाधिकैः जनैः एतस्य प्रयोजनं स्वीकृतम्।

 वैदेशिकधनसाहाय्यम् धर्मपरिवर्तनाय- केन्द्रसर्वकारः।
  नवदहली > विवादधर्मप्रभाषकस्य सकीर् नायिकस्य कृते लब्धं वैदेशिकं धनसाहाय्यं भारते धर्मपरिवर्तनाय उपयुज्यते इति केन्द्राभ्यन्तरमन्त्रालयः। कतिपयदिनेभ्यः पूर्वं राष्ट्रे धर्मस्पर्धायाः वर्धनात्मकरीत्या धर्मप्रभाषणम् अकरोत् इत्यारोप्य सकीर् नायिकम् उपरि अन्वेषणं प्रख्यापितमासीत्।  सकीर् नायिकस्य नेतृत्वे प्रवर्तमानस्य एन् जि ओ सङ्‌घस्य उपरि अन्वेषणं शक्तं करिष्यतीति केन्द्राभ्यन्तरमन्त्रालयेन प्रख्यापितम्।सकीर् नायिकस्य धर्मप्रभाषणानि राष्ट्रे धर्मस्पर्धायाः वर्धनकारणानि भवन्तीति संसूच्य गतदिने मुंबई आरक्षकवृन्देन अन्वेषणरेखाः समर्पिताः वर्तन्ते।

 आरन्मुला विमानालयः - पुनरपि परिस्थिति पठनाय केन्द्रानुमतिः। 
  नवदहली > केरलेषु आरन्मुला विमानालयनिर्माणाय पुनरपि परिस्थितिपठनं कर्तुं केन्द्रसर्वकारस्य अनुमतिः। के जि एस् सङ्‌घस्य आवेदनं परिगणय्य एव केन्द्रवनं-परिस्थितिमन्त्रालयः अनुमतिम् अयच्छत्। परिस्थितिमन्त्रालयस्य नियन्त्रणे प्रवर्तमानया विदग्धसमित्‍या एव आवेदनं परिगणितम्। विमानालयस्य आवश्यकतामधिकृत्य प्रदेशवासिनाम् अभिप्रायान्  क्रोडीकर्तुं समितिः निर्देशम् अयच्छत्। पूर्वतनसर्वकारेण दत्ता अनुमतिः केन कारणेन प्रतिनिवर्तिता इत्यपि समित्‍या पर्यालोचितम्।
 कुडनकुलमपरमाणु-ऊर्जापरियोजनायाः प्रथमम् एककं राष्ट्राय समर्पितम्

नवदेहल्ली>प्रधानमंत्री नरेन्द्र मोदी  रूसस्य राष्ट्रपतिः ब्लादिमिर पुतिनः वीडियोकांफ्रेसिंग इति दृश्यश्रव्यसञ्चारमाध्यमेन कुडनकुलमपरमाणु-ऊर्ज़ापरियोजनायाः प्रथमम् एककं  देशाय समर्पितम् ।
कार्यक्रमस्मिन् तमिलनाडोः  मुख्यमंत्री जयललितापि  वीडियोकॉन्फ्रेंसिंग इतिदृश्यश्रव्यसञ्चारमाध्यमेन समुपस्थिता अवर्तत।

अध्यापकशून्यताः सूचिताः-  पी एस् सी  नियमने उदासीनतां प्रकटयति ।।
             कोच्ची> अध्यापकानां दौर्लभ्येन  केरळेषु सर्वकारीयविद्यालयाः क्लेशमनुभवन्ति । परीक्षायाम् आसन्नायां  स्थितिरेषा छात्रानपि कष्टतागर्तं पातयन्ति ।  कण्णूर् मण्डले एव उप अशीति 70 सङ्ख्यकाः कर्मस्थानानि  रिक्तानि सन्ति ।  घट्टद्वयेन पी एस् सी अधिकारिणः ज्ञापिताः चेदपि फलं नाभवदिति अत्यन्तं कष्टकरम्।

Wednesday, August 10, 2016

 रेलयाने बृहत् मोषणम् : कोटीनां नष्टः जातः।
  चेन्नै > सेलम् - चेन्नै रेलयाने बृहत् मोषणं सञ्जातम्। सेलं तः चेन्नै रिसर्व्बाङ्क् कार्यालयं प्रति आनीतं धनमेव तस्करैः अपहृतम्। पुरातना: तथा नाशोन्मुखा: च २३ आचितः (टण्) चीका: रेलयाने स्थापिता: आसन्। ३४२  कोटि मूल्यपरिमितं धनं २२८ पेटिकासु स्थापितमासीत्। रेल्यानस्य उपरिभागस्य वेधनं कृत्वैव धनापहरणं कृतं वर्तते।

ए टि एम् द्वारा धननष्टम् अनुभूतेभ्यः धनं प्रत्यर्पयिष्यति - एस् बि टि ।
 तिरुवनन्तपुरम् > ए टि एम् द्वारा तस्करैः अपहृतं धनं प्रत्यर्पयिष्यतीति एस् बि टि अधिकृतैः सूचितम्। धननष्टम् अनुभूतानां संख्यानानि जडीकृतानि वर्तन्ते। तेभ्यः नूतनं ए टि एम् पत्रं दीयते। तिरुवनन्तपुरं नगरे आल्तरा,कवटियार्, वट्टियूर्काव् इत्यादिभ्यः स्थलेभ्यः एस् बि ऐ , एस् बि टि ए टि एम् तः एव धनापहरणं सञ्जातम्। अपि च ए टि एम् प्रकोष्ठानां सुरक्षाव्यवहारः शक्तं करिष्यति इति अधिकृतैः सूचितम्।

 आर् बि ऐ धनानुपाते परिवर्तनं नास्ति।  
मुम्बई > वृद्ध्यनुपाते विना परिवर्तनं नूतनः नयः रिसर्व्बाङ्क् अधिकृतैः प्रख्यापितः ।अध्यक्षेण रघुरामराजेनैव प्रख्यापनं कृतम्। रिप्पो अनुपातः ६.५% रिसर्व्बाङ्‌क् मध्ये पाल्यमानस्य संरभकधनस्य अनुपातः ४% च भवतः। अग्रिमे आर्थिकवर्षे आभ्यन्तरोन्नतिः ७.६% मध्ये पालनं भवति मुख्यं लक्ष्यम्। राष्ट्रस्य आर्थिकस्थिति: भद्रा एव , धनवर्धनानुपातस्य नियन्त्रणमेव मुख्यं कार्यम् इत्यपि अध्यक्षेण रघुरामराजेन उक्तम्। अध्यक्षस्थानस्य कालावधिः आगस्त्मासे तेन पूर्तीक्रियते। अध्यक्षस्थानमलङ्कृत्य रघुराम राजपक्षतः इदं नयप्रख्यापनम् अन्तिमं भवेत्।

 दक्षिणचैनासमुद्रे चैनायाः सैनिकविन्यासः- चित्राणि प्रत्यक्षीकृतानि।
 वाषिङ्टण् > दक्षिणचैनासमुद्रे चैनया सैनिकविन्यासः क्रियते इति 'दि न्यूयोर्क् टैं' पत्रेण रेखीकृतम्। एतत् दृढीकुर्वन्तानि उपग्रहचित्राणि तैः प्रत्यक्षीकृतानि। द्वीपस्य फियरि क्रोस्,सुबि,मिस्चीफ् रीफ्स् इत्यादिषु मण्डलेषु एयर्क्राफ्ट् हाङ्गर् उपकरणानि चैनया निमीयन्ते इति उपग्रहचित्राणि सूचयन्ति।
सोपानम् -09 Aswaini MS CRHS Kuttippuzha Aluva.
पाकिस्तान चिकित्सालये आत्मघाति आक्रमणं - सप्तति मरणानि।
कराची>पाकिस्ताने  क्व‍ट्टा प्रविश्यायां सर्वकारचिकित्सालये आत्मघातिनः आक्रमणम्। सप्तत्यधिकं जनाः हताः,पञ्चाशदधिकैकशतं जनाः आहताश्च। व्रणितेषु उपविंशतीनाम् अवस्था गुरुतरा वर्तते। आक्रमणस्य उत्तरदायित्वं पाक् तालिबानस्य विभागेन जमा अत् उर् अह्रार् नामकेन स्वीकृतम्।

केन्द्रसेवानिवृत्तानाम् अत्यल्पं विश्रान्तिवेतनम् नवसहस्रम्।
नवदिल्लि> केन्द्रसेवामण्डतात् निवृत्तानां न्यूनातिन्यूना विश्रान्तिवेतनसंख्या नवसहस्रं रूप्यकाणि भविष्यन्ति। सप्तमवेतनसमित्याः निर्देशमनुसृत्य २०१६ जनुवरि प्रथमदिनाङ्कादारभ्य अस्य प्राबल्यमस्ति।
   
 इरों शर्मिला - ऐतिहासिकसमरस्य परिसमाप्तिः
इम्फाल्>मणिपुरस्य सामाजिककार्यकर्तृ इरोम शर्मिला विगतषोडषवर्षेभ्यः प्रवर्तमानं अनशनं मंगलवासरे त्यक्तवती .
मणिपुरस्य राजधान्यां इंफ़ालनगर्यां वार्ताहरान् सम्मुखीकुर्वती इरोमवर्यया प्रोक्तवती यत् सा कापि देवी नास्ति अपितु सापि सामान्या एव। मणिपुरे  आफ़्सपा इति  सशस्त्रबलविशेषाधिकाराधिनियममं विरुद्ध्य सा  अनशनम् आचरति स्म।
तस्याः निराहारान्दोलनं ५७५७ दिनानि अतीतानि आसन्। स्वकीयानशनसमरस्य परिसमाप्तिं कृत्वा अनन्तरं माध्यमप्रवर्तकान् अभिमुखीकृत्य आगामिनि संवत्सरे प्रचाल्यमाने विधानसभानिर्वाचने स्वतन्त्राभ्यर्थिरूपेण स्पर्धिष्यतेति तया उक्तम्। मणिप्पूरराज्यस्य मुख्यमन्त्रणी भवितुमच्छतीत्यपि निगदितवती सा अधिकारप्राप्तिः भवेत्तर्हि अफ्स्पां निराकरिष्यतीत्यपि स्पष्टीकृतवती।

 वयं काश्मीरस्य विकासं वाञ्च्छामः
 मंगलवासरे  स्वतंत्रतासेनानिनः चंद्रशेखर आज़ादस्य जन्मभूमौ मध्यप्रदेशस्य अलीराजपुरजनपदस्य भाबराग्रामे '70 साल आजा़दी , याद करो क़ुर्बानी' इत्याख्यः कार्यक्रमः प्रारब्धः, जनसभायां प्रघानमन्त्री नरेन्द्रमोदी  स्वीयसम्बोधने काश्मीरस्य विशेषोल्लेखं कृतवान् सममेवोक्तवान् यत् काश्मीरः शान्तिं वाञ्छति।
जीविकायां कश्मीरवासिनः यदिच्छन्ति केंद्रप्रशासनं तेषां साहाय्यं करिष्यति। वयं काश्मीरस्य विकासं वाञ्च्छामः |
जम्मूकश्मीर प्रशासनं अथ केंद्रप्रशासनं  विकासद्वारा सर्वविधसमस्यासमाधानम् अन्विषन्ति| अस्माभिः कश्मीरस्य स्थितिनिभालनाय सुविचार्य प्रयत्नो विधेयः इत्यपि तेनोक्तम् |

Tuesday, August 9, 2016

 जि एस् टि - लोकसभायाः अनुमतिरपि लब्धा।
    नवदहली > राष्ट्रस्य करसम्प्रदाये बहुविधपरिवर्तनेभ्यः निदानं भविष्यतीति चिन्त्यमानस्य जि एस् टि नियमपत्रस्य कृते लोकसभायाः अनुमतिः लब्धा। गतसप्ताहे राज्यसभायाः अनुमतिं प्राप्तस्य जि एस् टि पत्रस्य पुरतः इदानीं राज्यानामनुमतिरेव अवशिष्यते। लोकसभायां ४२९ अङ्‌गानां सहयोग: पत्राय लब्ध:I ए ऐ डि एम् के दलेन सम्मतिदानप्रक्रिया बहिष्कृता। केन्द्रधनसचिवः अरुण् जयटली सर्वकारपक्षतः पत्रावतरणमकरोत्। काण्ग्रस् दलं पत्रम् आनुकूल्य सम्मतिदानम् अकरोत्। बहुविधचर्चायाः अनन्तरं परिवर्तनैः सहैव पत्रं लोकसभायां समर्पितम् वर्तते।

रियो ओलिम्पिक्स् - भारतस्य कृते निराशा एव।       
        रियो डि जनीरो > रियो ओलिम्पिक्स् मध्ये भारतसङ्घः निरन्तरपराजयम् अनुभूय अग्रेसरति। वरिष्ठक्रीडकस्य लियाण्टर्पेसस्य पराजयादारभ्य तृतीयदिनपर्यन्तं पराजयः एव वर्तते। ह्य: अवसिते गोलीप्रहारणमत्सरे भारतस्य अभिनवबिन्द्रस्य कृते चतुर्थं स्थानमेव लब्धम् । होकी मत्सरे पुरुष-वनिताविभागौ अपि पराजयमनुभूतौ। अपि च तरणक्रीडायां भारतसङ्‌घस्य पराजयः एव आसीत्। अधुना अप्रतीक्षिततया कायिकाभ्यासप्रदर्शने अन्तिमचक्रं प्रविष्टा दीपा कर्मार्कर् एव भारतस्य प्रतीक्षा।

केरळेषु सामूहिकविद्यालयेषु एकीकृतवस्त्रधारणम् आवश्यकम् - मुख्यसचिवः।
 तलश्शेरी  > केरळेषु सामूहिकविद्यालयेषु एकीकृतवस्त्रधारणसम्प्रदायः आवश्यकः इति मुख्यसचिव: पिणरायि विजयःI एतदर्थम् आवश्यकं व्यवहारं स्वीकर्तुं शैक्षिकविभागाय निर्देशः दीयते इत्यपि तेन सूचितम्। तलश्शेरी सेन्ट् जोसफ् उच्चतरविद्यालये भूतपूर्वछात्रै: संघटितस्य आगोलसङ्गमस्य उद्घाटनवेलायामेव मुख्यसचिवेन एतत् सूचितम्। सामूहिकोन्नमनमेव विद्याभ्यासस्थापनानां परमं लक्ष्यं भवतु इत्यपि तेन स्मारितम्।
इरानीयः आणवशास्त्रज्ञः मृत्युपाशेन व्यापादितः। 
टेह्रान् >स्वकीयानि सुप्रधानानि आणवरहस्यानि अमेरिक्काये समार्पयत् इत्यारोप्य इरान् राष्ट्रेण स्वाणवशास्त्रज्ञः षह्राम् अमीरी नामकः मृत्युपाशेन मारितः। इरानस्य न्यायालयवक्त्रा एषा घटना स्थिरीकृता।
    इरान् राष्ट्रस्य आणवपद्धतिमधिकृत्य सूक्ष्मज्ञानम् आर्जितवान् अमीरी २००९ तमे मक्का तीर्थाटनकाले अप्रत्यक्षः आसीत्। संवत्सरैकानन्तरं सः अमेरिक्कायां दृष्टः । ततः २०१०तमे तम् आघोषपूर्वं स्वीकृत्य स्वदेशम् इरानं प्रत्यानीतवन्तः। अमेरिक्कया अपहृतः सः इरानस्य आणवरहस्यानि विज्ञापयितुं निर्बन्धितः इति तेनैव निगदितम्। किन्तु सः स्वयमेव अमेरिक्कां प्राप्य रहस्यानि दत्तवानिति अमेरिक्कया विज्ञापितम्।
    अनन्तरं कृते अन्वेषणे अमीरिणा चारवृत्तिः कृता इति विज्ञाय सः मृत्युदण्डेन विहित इति इरान् राष्ट्रेण स्पष्टीकृतम्।

Monday, August 8, 2016

गोमृत्युः पलास्तिकभोजनेन - प्रधानमन्त्री।
नवदिल्ली> पलास्तिकभोजनेनैव प्रायेण भूरि गावः मृत्युमाप्नुवन्ति इति प्रधानमन्त्री नरेन्द्रमोदी। प्रत्युत मांसार्थं हननेन नेति सः अवोचत्।
   अतः ये गोसंरक्षणम् इच्छन्ति ते गवां पलास्तिकभोजनं निवारणीयम्। पलास्तिकवस्तूनि वीथीं प्रति क्षेपणं कुर्वतां जनानां बोधवत्करणम् आवश्यकम्। केन्द्रसर्वकारस्य मै गवण्मेन्ट् इति नवसाङ्केतिकसंरम्भस्य द्वितीयवार्षिकसमारोहे भाषमाणः आसीत् प्रधानमन्त्री। गोभक्ताः गोसेवकाश्च विभिन्नाः भवन्ति।

 विजय रूपाणिः सत्यप्रतिज्ञां कृतवान्।
गान्धिनगरम् >गुजरात्तस्य नूतनमुख्यमन्त्रिरूपेण विजयरूपाणिः राज्यपालस्य ओ पि कोलि वर्यस्य सकाशे सत्यप्रतिज्ञां कृत्वा स्थानारोहणं कृतवान्। अनेन सह वरिष्ठनेता नितिन् पटेलः उपमुख्यमन्त्रिरूपेण च सत्यनिष्ठामुक्तवान्।
  आनन्दिबन् पटेलस्य स्थानत्यागेनैव नूतनमन्त्रिसभायाः रूपवत्करणमभवत्।
गुजरातस्य गांधीनगरे समायोजितसमारोहेsस्मिन्  लालकृष्ण आडवाणी, अरुणजेटली, भाजपाध्यक्षं अमितशाहं समेत्य गणमान्यनेतारः समुपस्थिताः आसन् |

माणिविभागः यू डि एफ् दलं त्यक्तः।
चरल्क्कुन्न्> केरळे यूडिएफ् इति राजनैतिकसंघस्य प्रमुखं दलं , केरळ कोण्ग्रस् - एम् सख्यं समाप्तवत्। पत्तनंतिट्ट जिल्लायां चरल्क्कुन्न् प्रदेशे  प्रवृ्त्तया राज्यसमित्या एवायं निर्णयः स्वीकृतः।
   शासनपक्ष विपक्ष दलाभ्यां सह समदूरमेव पालयिष्यतीति केरळकोण्ग्रस् एम् नेत्रा के एम् माणिना उक्तम्। अनया घटनया ३४ संवत्सराणां बन्धस्य अन्त्यः अभवत्।

Sunday, August 7, 2016

क्षीरे अन्यवस्तूनां योजनं,आयुर्दण्डः दातव्यः- सर्वोच्चन्यायालयः।
नवदेहल्ली>भक्ष्य-सुरक्षा अधिकारिभिः आभारतं कृतेषु पठनेषु क्षीरे रास-वस्तूनां योजनं अदृष्टम् । सप्तषष्ठि शतांशस्य क्षीरस्य विक्रयणे एतादृशं दोष-युक्तं विक्रयणं प्रचलन्नस्ति। एतत् प्रतिरोद्धुं कर्कश-नियमस्य निर्माणं करणीयमिति केन्द्रसर्वकारं प्रति उच्चतर  न्यायालयः निरदिशत्। शिशोः मुख्यां भक्ष्य-वस्तुः भवति क्षीरम्। इदानीं रास-वस्तुसङ्कलितस्य क्षीरपानेन स्वास्थ्ये दोषाः अभवन् इति न्यायालयेन निरीक्षितः।
रियो ओलिम्पिक्स् - प्रथमं सुवर्णम् अमेरिकायाः ।
रियो डि जनिरो> वनिताविभागस्य दशमीट्टर् वायूनालिकाशस्त्रस्य स्पर्धायां  विर्जीनिया त्राषर् महाभागया प्रथमं सुवर्णं प्राप्तम्। योग्यतायाः परिवृत्ते षष्टम स्थानीया विर्जीनिया अन्तिम स्थरे सुवर्णेन विजयी अभवत्॥
ओलिम्पिक्स्- भारतस्य विजयारम्भः।
रियो ओलिम्पिक्स् मध्ये यष्टिक्रीडायां भारतस्य विजयेन प्रारम्भः। पुरुषहोक्की स्पर्धायाः प्रथमपादे अयर्लान्ट् राष्ट्रं श्रीजेषेन नीतेन  भारतदलेन ३-२ इति लक्ष्यकन्दुकैः पराजितम्। रूपीन्दरपालसिंहः लक्ष्यकन्दुकद्वयं लब्धवान्।

Saturday, August 6, 2016

रियो ओलिम्पिक्स् वार्ताः.......
अद्य ऐषमः रियो अोलम्पिक  स्पर्धायाः भव्यतापुरस्सरं उद्‌घाटनं सञ्जातम् । अवधेयमिदं यत्  एकत्रिंशत्ततम्यां स्पर्धायामस्यां २०६ राष्ट्रेभ्यः ११००० स्पर्धार्थिनः स्पर्धिष्यन्ते ।
 उद्धाटनकार्यक्रमे त्रिवर्णध्वजेन साकं अभिनवबिन्द्रा भारतस्य प्रतिनिधित्वम् कृतवान् |
उद्घाटनकार्यक्रमोsयं ब्राजीलस्य रियो डि जेनेरियो क्षेत्रे माराकानाक्रीडांगडे  आयोजितः |
भारतम् अन्टार्टिका च एकं भूतलखण्डम् - प्रमाणं लब्धम्।

कोल्कत्ता > शतकोटि संवत्सरात् पूर्वं भारत- उपभूखण्डम् अण्टार्टिका भूखण्डस्य भागः आसीत् इत्यूहः सत्यमिति भूगर्भ वैज्ञानिका: सप्रमाणम् वदन्ति । मानवानां उत्पत्तेः पूर्वें  भूमेः प्रतलचलनानानि एव भूखण्डस्य संयोग-वियोगयोः कारणमिति अनुमानं सत्यमिति भौम -परिणाम संबन्धतया अनुसन्धानं कृतवता भारत स्विस्सर्लन्ट् संयुक्त वैज्ञानिकानां दलेन एव सप्रमाणं प्रकाशितम्। ओडीषा जार्खण्ड मण्डलयोः पूर्वघट्ट पर्वत-भागेषु कृतानुसन्धानमेव प्रमाणलब्धेः कारणमिति देवाशिश् उपाध्यायः अवदत् । एषः खर्गपुर ऐ.टी संस्थायाः भैमवैज्ञानिकः भवति।
असमराज्ये आतङ्कवाद्याक्रमणं - चतुर्दश मरणानि।
कोक्रजारः > असमराज्ये कोक्रजारनामकप्रदेशे जनसम्मर्दभूते आपणकेन्द्रे दुरापन्ने आतङ्कवादीनाम् आक्रमणे १४ जनाः मृत्युमुपगताः। विंशत्यधिकाः आहताः च।
   निरोधितसंस्थया नाषणल् फ्रण्ट् ओफ् बोडोलान्ट् इत्यनया एव आक्रमणं कृतमिति सूचना। मुखावरणं धृत्वा प्राप्ताः आतङ्कवादिनः जनसञ्चयान् प्रति भुषुण्डिप्रयोगम् अकुर्वन्। १२ जनाः तत्क्षणमेव मृताः।  भीकरेष्वेकः सुरक्षासेनया हतः।

गजं प्रत्यानेतुं त्रयांगसंघः बांग्लादेशे।
धाक्का - ब्रह्मपुत्र नद्यां जलोपप्लवे स्रवित्वा बंग्लादेशं प्राप्तं भारतीयगजं प्रत्यानेतुं द्वे राष्ट्रे मिलित्वा  प्रयत्नः आरब्धः।एतदर्थं सेवानिवृत्तस्य कस्यचन मुख्यवनपालकस्य नेतृत्वे त्रयांगसंघः बंग्लादेशे उत्तरजमालपुरे शारिशबारिनामकप्रदेशं प्राप्तः।
  मृगवैद्याः निद्रास्त्रप्रयोगविदग्धाश्च बंग्लादेशसर्वकारेण साहाय्यार्थं नियुक्ताः सन्ति। भारतं प्रत्यानेतुं न शक्यते तर्हि अस्माभिरेव गजः संरक्षितव्य इति धाक्कायाः मुख्यवनपालकः मुहम्मद यूनुस् अलिः उक्तवान्।

 विजय रूपाणिः गुजरातमुख्यमन्त्री।

अहम्मदाबाद् > गुजरातराज्यस्य नूतनमुख्यमन्त्रिरूपेण भाजपादलस्य राज्याध्यक्षः विजयरूपाणिः निश्चितः।

   नितिन् पटेलः उपमुख्यमन्त्रिः भविष्यति। भाजपा देशीयाध्यक्षः अमित् षा , केन्द्रमन्त्री नितिन् गट्करी, दलनेता सरोजपाण्डे इत्येतेषां सान्निध्ये सम्पन्ने उपवेशने एव ईदृशः निश्चय अभवत्।

Friday, August 5, 2016

ओलिम्पिक्स् स्पर्धायै ब्रसीलः
रियो डि जेनैरो> शनिवासरे प्रभाते भारत- समये सार्ध चतुर्वादने  स्पर्धायाः उद्‌घाटनं भविष्यति। सप्तदश दिनानि यावत्‌ स्पर्धायाः दिनानि एव। एकत्रिंरिंशत्ततम ओलिम्पिक्स् एव भवति एतत् । आगस्ट् मासस्य एक विंशति दिने स्पर्धाः सम्पूर्णतां प्राप्स्यन्ते । २०६ राष्ट्रेभ्यः ११००० स्पर्धार्थिनः स्पर्धिष्यन्ते ।

भीकराणां महत्ववत्करणं नाभिलषणीयमिति राजनाथसिंहः। 
इस्लामबाद्>भीकरप्रवर्तकान् बलिदानिनः इति संस्तुत्य महत्ववत्कृत्य संरक्षितुं प्रयत्नः अपलपनीय इति भारतस्य गृहमन्त्री राजनाथसिंहः अवोचत्। इस्लामबादे दक्षिणेष्यन् राष्ट्राणां सम्मेलने भाषमाणः आसीत् केन्द्रगृहमन्त्री।
   पूर्वं काशमीरे हिस्बुल् मुजाहिदीन् संस्थायाः नेता बुर्हान् वानी इत्यस्य मरणं बलिदानमिति पाक् प्रधानमन्त्रिणा नवास् षरीफेन प्रकीर्तितमासीत्। तस्मादारभ्य भारत-पाकिस्तानयोः मध्ये अस्वारस्यः समजायत।
   भीकराणां मध्ये श्रेष्ठः नीचः इति सङ्कल्पनम् असमीचीनमिति भारतगृहमन्त्रिणा स्पष्टीकृतम्। तादृशानां संरक्षणं प्रोत्साहनं च येनकेनापि राष्ट्रेण क्रियते चेत् तत् शान्तिमिच्छतां देशानां विपरीताय भविष्यतीति तेनोक्तम्।

Thursday, August 4, 2016

जि एस् टि - राज्यसभायाम् अनुमतिः लब्धा।
    नवदहली > जि एस् टि  कृते राज्यसभायाम् अनुमतिः लब्धा। राष्ट्रस्य करसम्प्रदाये महत्परिवर्तनाय सज्जं जि एस् टि  नियमपत्राय राज्यसभाङ्गानां सम्मतिदानेनैव अनुमतिः दत्ता। सभायाम् अण्णा डी एम्‌ के दलेन सम्मतिदानं बहिष्कृतम्। अन्येषां सर्वेषामपि अङ्गानां सम्मतिदानं सम्पाद्य ऐक्यकण्ठेनैव केन्द्रसर्वकारेण अनुमतिः प्राप्ता वर्तते। २०१५ तमे वर्षे लोकसभायां समर्पितं जि एस्‌ टि नियमपत्रं परिवर्तनैः सहैव राज्यसभायां समर्पितम्। अतः नियमपत्रं पुनरपि लोकसभायां समर्पणीयं वर्तते। तत्र भूरिपक्षः वर्तते इत्यतः अनुमतये केन्द्रसर्वकारस्य तावान् क्लेशः न स्यात्। ततः राज्यस्तरीयानां नियमसभानाम् अङ्गीकारः प्राप्तव्यः, ततः राष्ट्रपतेः हस्ताक्षरेण एव नियमपत्रस्य प्राबल्यं भविष्यति। प्राबल्यं सम्पादयितुम् अर्धानां राज्यानाम् अड्गीकारः आवश्यकः अस्ति।

 तिरुवनन्तपुरं-दुबाय् विमानं दग्धम् - यात्रिकाः सुरक्षिताः।
 
दुबाय् >  तिरुवनन्तपुरात् दुबाय् प्राप्तम् एमिरेट्स् विमानम् आरोहणसमये दग्धम्। दुबाय् विमाननिस्थाने एव अपघातः सञ्जातः। विमानस्य प्रवर्तनयन्त्रभागादेव अग्निबाधा आरब्धा। पश्चात् अग्निः प्रसरितः च। विमानं पूर्णतया दग्धं वर्तते। किन्तु सर्वेऽपि यात्रिकाः सुरक्षिताः एव। यात्रिकाणां यात्रासाधनानि पूर्णतया दग्धानि। विमाने २८२ यात्रिकाः आसन्। अग्निबाधया औद्योगिकरेखाः नष्टानां यात्रिकाणां कृते परिहारव्यवहारः स्वीक्रियते इति अधिकारिभिः सूचितम्। विमानचालकस्य मनस्सान्निध्येन महान् दुरन्तः निवारितः इति विदग्धैः अभिप्रेतम्।

 चैनां प्रतिरोद्धुं सीमायां १०० ब्रह्मोस् क्षेपणायुधाः।
 नवदहली > सीमायां चैनायाः सैनिककेन्द्राणि लक्ष्यीकृत्य १०० ब्रह्मोस् क्षेपणायुधाः भारतेन विन्यस्यन्ते। एतदर्थं प्रधानमन्त्रिणः अध्यक्षतायां संवृत्ते योगे निर्णयः स्वीकृतः। २.८ माच् वेगतायां गम्यमानः ब्रह्मोस् विश्वस्य सर्वोत्तमः क्षेपणायुधः भवति। ४३०० कोटि रुप्यकाणां व्ययेन निर्मीयमानस्य नूतनस्य ब्रह्मोस् ब्लोक् ३ विभागस्य सैन्यव्यूहः एव सीमायां विन्यस्यते।

 रियो ओलिम्पिक्स् - प्रथमः विजयः स्वीडन् कृते।
    रियो डी जनीरो > रियो ओलिम्पिक्स् २०१६ मध्ये प्रथमः विजयः स्वीडन् दलेन प्राप्तः। अत्लटिक्स् इतरस्पर्धासु पादकन्दुकक्रीडायामेव स्वीडन् दलस्य विजयः। वनितानां पादकन्दुकक्रीडायाः प्रथमस्पर्धायां स्वीडन्‌ दलं दक्षिणाफ्रिका दलं १-० इत्यनुपाते अपराजयत्। स्पर्धायाः द्वितीयपादे निल्ला फिषर् स्वीडन् कृते लक्ष्यं प्राप्तवती। फिफायाः उत्कर्षपट्टिकायां षष्ठे स्थाने भवति स्वीडन्।

अतिवृष्ट्या सेतुः भग्नः-विंशति जनाः अदृष्टाः!
मुम्बई- महाराष्ट्रायां महाड् प्रदेशे सावित्री नद्यां विद्यमानः सेतुः अतिवृष्ट्या भग्नः अभवत्! अतिप्रवाहे द्वे बस् याने  नैकानि कार् यानानि च पतित्वा अदृष्टानि। विंशत्यधिकाः यात्रिकाः स्रवन्ति स्म इति सूचना। द्वौ मृतदेहौ दृष्टौ।
     मुम्बई तः १७०  कि मी दूरे मुम्बई-गोव देशीयमार्गे अर्धरात्रौ एव दुर्घटना जाता। रक्षाप्रवर्तनानि आरब्धानि सन्त्यपि महती वृष्टिः प्रतिबन्धः अभवत्। स्थल- नाविक-व्योमसेनयाः साहाय्येनैव रक्षाप्रवर्तनं अग्रगामी अस्ति।

Wednesday, August 3, 2016

सोपानम् - 08 Fathima Mundeth BSUPS Kalady
सौदीम् अनुगम्य ओमाने अपि कर्मप्रतिसन्धिः , अनुवैद्याः बहिर्गमयन्ते। 

कोच्ची >सौदी अरेब्यायां दशसहस्रशः भारतीयाः वृत्तिनष्टेन बहिष्कृताः इत्यनुगम्य ओमान् देशे अपि वृत्तिप्रतिसन्धिः। स्वदेशवत्करणमनुसृत्य विदेशीयाः अनुवैद्याः बहिष्कर्तुं ओमान्सर्वकारः क्रियाविधिमारब्धवन्तः। शताधिकाः केरलीयाः च अन्तर्भवन्ति।
  सल्ला, इब्रा, रुस्ताख् ,खौल, निस्वा इत्यादिषु प्रदेशेषु सर्वकारातुरालयेषु वर्तमानाभ्यः अनुवैद्याभ्यः कर्मविमुक्तिसूचनाः दत्ताः।

Tuesday, August 2, 2016

सेल्फी दुरन्तः - देशीयक्रीडका वाप्यां निपतिता मृता च। 
भोप्पाल् > देशीयक्रीडका सेल्फीस्वीकरणसमये वाप्यां पतित्वा मृता। उत्तराखण्डस्वदेशिन्या: पूजा कुमार्याः एव दुरन्तः सञ्जातः। भोप्पाल् कायिकसमितेः कलालये एव अपघातः जातः। साय् संस्थायाः कर्मकराः रक्षाप्रवर्तनं कृतवन्तः , तथापि तां रक्षितुम् अशक्ताः अभवन्। सेल्फीभ्रमः एव अपघात्स्य कारणमिति कर्मकरै: सूचितम्‌।


 प्रवासिजनेभ्यः समाश्वासेन सह विमानसंस्थाः।
 मस्कट् > उत्सवकालेऽस्मिन् समये ओमान् तः प्रवर्तमानाभिः विमानसंस्थाभिः प्रवेशपत्रमूल्यं न्यूनीकृतम्। श्रावणोत्सव: , बक्रीद्, मुहरम् इत्यादयः उत्सवा: अग्रिममासेषु आघुष्यन्ते। एतदाधारीकृत्यैव विमानसंस्थानाम् अयं मत्सरः। केरलं प्रति तथा भारतस्य विविधानि राज्यानि प्रत्यपि प्रवेशपत्रमूल्यं न्यूनीकृतं वर्तते। ओमान् एयर् संस्थया इदानीं मूल्यं न्यूनीकृतमस्ति। अचिरादेव खत्‍तर् एयर्वेय्स् , फ्लै दुबाय् , जेट्‌ एयर्वेय्स् इत्यादिभिः अपि मूल्यस्य न्यूनीकरणं क्रियते इति प्रतीक्ष्यते।

इन्धनमूल्यं न्यूनीकृतम् । 
 नवदहली > राष्ट्रे इन्धनमूल्यं पुनरपि न्यूनीकृतम्। पेट्रोल् कृते १.४२ रूप्यकाणि डीसल् कृते २.०१ रूप्यकाणि च न्यूनीकृतं वर्तते। ह्यः अर्धरात्रितः नूतनानुपातः प्राबल्यमागतः। एकमासाभ्यन्तरे एतत् तृतीतय वारमेव इन्धनमूल्यं न्यूनीकृतं वर्तते। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य तथा डोलरेण सह विनिमयानुपाते भारतधनस्य (रूपायाः) च आगतं व्यतियानमेव मूल्यन्यूनीकरणाय मुख्यं कारणमिति भारतीयतैलवितरणसमितिः प्रस्तावनायाम् अवदत्।


कश्मीरसङ्घर्ष: - बालकानां उपयोग: अपि। 
श्रीनगर् > कश्मीरस्य शान्तेः अन्तरिक्षं कलुषं कर्तुं बालकानाम् उपयोगः अपि आक्रमणकारिभिः क्रियते इति मुख्यसचिवा मेहबूबा मुफ्ती। आक्रमणपरम्परया का समस्या नैव परिह्रियते , समग्रचर्चा एव आवश्यकी-तया सूचितम्। समस्याः स्रष्टुं लघुबालकाः अपि भीकरै: उपयुज्यन्ते, एतदर्थं विविधाः शक्तयः कठिनप्रयत्नं कुर्वन्ति इत्यपि तया योजितम्।


रियो ओलम्पिक्स् - नरसिंह एव स्पर्धिष्यते ।
उत्तेजक औषधविवादे बहिर्गन्तुं प्रेरितः नरसिंहः न्यायालयेन दोषविमुक्तो भूत्वावा प्रत्यागतः।


राष्ट्रविरोधकेभ्यः पाठनम् आवश्यकम् - परिकरः
पुणे > राष्ट्रराजधान्यां स्थित्वा कथमेवं जनाः राष्ट्रविरुद्धोक्तिं कर्तुम् साहसं धारयन्ति। येन केनापि समर्थनम् न क्रियते चेत् एवं न भविष्यति। अतः राष्ट्रविरोधकेभ्यः उचित दण्डनपाठः आवश्यकः इति राष्ट्रसंरक्षणमंत्रीवर्येण मनोहरपर्रिकरेन उक्तम्।
पर्रीकरवर्येण उक्तम् यत् राष्ट्रनागरिकैः राष्ट्रप्रेमस्य प्रथमं पाठं स्वस्य गृहात् एव पठनीयः। तदा येन केनापि राष्ट्रविरोधवाक्यं क्रियते तर्हि तैः सोढुं न शक्यते। अतः विचारयामि यत् जनाः स्वयंमेव राष्ट्रविरोधकेभ्यः पाठं पाठयिष्यन्ति।,” एवमपि  तेन उक्तम्।
संरक्षणविषयाभ्यासकेन नितीनगोखलेवर्येण लिखितम् ‘सियाचिन - धगधगते हिमकुंड‘ इति मराठी भाषायां विरचितं पुस्तकं तथा हिंदी भाषायां एतस्य पुस्तकस्य अनुवादस्य च  प्रकाशनवेलायां  पर्रीकरवर्यः स्वविचारान् प्रकटितवान्।
लेफ्टनंट जनरल संजयकुलकर्णीः (अवकाशप्राप्तः), एअर मार्शल भूषणगोखलेः (अवकाशप्राप्तः),'पुणे इंटरनॅशनल सेंटर' संस्थाउपाध्यक्षः डॉ. विजयकेळकरः अन्ये च गणमान्याः अवसरेsस्मिन् उपस्थिताः आसन् । पत्रकारः प्राध्यापकश्च विनयचाटी महोदयः एव  पुस्तकस्य अनुवादकः।