OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 9, 2016

भिन्ननलिङ्ग विभागेभ्यः मेट्रो रेल़् मध्ये उद्योगः ।
    कोच्ची > भिन्नलिङ्‌गविभागेभ्यः कोच्चीमेट्रो मध्ये उद्योगं दातुं उन्नताधिकारिभिः निश्चितः । कोच्ची मेट्रो रेयिल् अध्यक्षः एलियास् जोर्ज कोच्ची नगरपरिधेः आरक्षकाधिकारिणा एं पि दिनेशेन कृतायां चर्चायामेव निर्णयः स्वीकृत: । निर्णयोऽयं प्रवृत्तिपथमागतः चेत् भिन्नलिङ्गविभागेभ्यः सर्वकारोद्योगं दीयमानः प्रथमं सर्वकारस्थापनं भविष्यति के.एं. आर्.एल् Iकोच्ची आरक्षकाधिकारिणः एव अयमाशयः। कोच्ची मेट्रो पद्धत्यां परिपालनशुचीकरणादिकं कर्तुं कुटुम्बश्रीविभागाः परिगणनायामासन्।

 शबरिमलायां स्त्रीप्रवेशनम् - न्यायाधिपस्थानं पुनःसंघटितम्‌
Image result for sabarimala नवदहली > शबरिमलायां स्त्रीणां प्रवेशसम्बन्धतया समर्पितं निवेदनं परिगण्यमानं उच्चतरन्यायालयस्य न्यायाधिपस्थानं पुनःसंघटितम्। न्यायाधिपौ कुर्यन् जोसफ्, गोपाल गौडा च परिवर्तितौ। तयोः स्थाने न्यायाधिपा भानुमती , सि. नागप्पः च नियमितौ वर्तेते। न्यायाधिप: दीपक् मिश्रः एव अध्यक्षः। निवेदनमधिकृत्य अन्तिमवादश्रवणं जायमानेऽस्मिन् अवसरे कृतं पुनः संघाटनं विधिप्रख्यापनं विलम्बं करिष्यतीति विदग्धाः अभिप्रयन्ति।

Friday, July 8, 2016

यूरो २०१६ - पोर्चुगल् अन्तिमक्रीडायै।
                  लियोण्> यूरो २०१६ अनुक्रमस्य प्रथमसेमिफैनल् मध्ये पोर्चुगल् दलेन २-० इत्यनुपाते वेल्स् दलं  पराजितम् । पोर्चुगलाय नेता क्रिस्ट्यानो रोणाल्डो उत्तमं प्रकटनम् प्रादर्शयत्। स्पर्ध्यां रोणाल्डो एकवारं लक्ष्यं प्रापयत्, अपरस्मै लक्ष्याय सहक्रीडकं नानिम् अवसरं दत्तवान् च। वेल्स् दलस्य प्रमुखः गरात् बेयिल् मत्सरेऽस्मिन् पराजयः आसीत्। रविवासरस्य अन्तिमक्रीडायां पोर्चुगल्,  जर्मनी-फ्रान्स् मत्सरविजयिना सह क्रीडिष्यति। 

Thursday, July 7, 2016

रेलयानप्रवेशानुमतिपत्रसंवरणाय अन्यसेवनेभ्यः च आधार् पत्रम् आवश्यकम्
    नवदहली > रेलयाने यात्रायै आधार् पत्रम् आवश्यकम्I रेलयात्रायै इत: आरभ्य आधार् पत्रं समर्पणीयमिति रेलमन्त्रालयेन निर्णयः स्वीकृतः । एवमेव रेलयानयात्रासम्बन्धतया विविधानां सेवनानाम् आनुकूल्यानां च प्राप्तये अपि आधार् आवश्यकं भवति। आंशिकरूपेणैव नियमोऽयं प्राबल्यम् आनयति। प्रथमं सेवनेभ्यः आनुकूल्येभ्यः च आधार् पत्रस्य निर्बन्धः आविष्क्रियते। तत्र वयोधिकानां, छात्राणां, विकलाङ्गानां च प्रवेशानुमतिपत्रमूल्यस्य आनुकूल्याय आधार् पत्रस्य आवश्यकता संस्थाप्यते। एतत्‍तु पञ्चदशदिनाभ्यन्तरे प्राबल्यं सम्पादयिष्यतीति रेल्मन्त्रालयं सूचयति। अनन्तरं प्रवेशानुमतिपत्रसंवरणे आधारपत्रनिर्बन्धः आविष्क्रियते। सामूहिकमण्डलेभ्यः उन्नीयमानं विरोधम् ऊह्य एव आंशिकद्वयेन नियमस्यास्य प्राबल्यं संस्थाप्यते ।

लयणल् मेसये दण्डनव्यवहारः।
    माड्रिड् (स्पेयिन्)> विश्वक्रीडकाय लयणल् मेसये करसमर्पणकापट्ये २१ मासानां कारागृहवासस्य दण्डनव्यवहारः। एतदतिरिच्य २०लक्षं यूरो (प्रायः ३० कोटि रूप्यकाणि) अपि दातव्यमस्तिI मेसिना सह स्वपिता अपि दण्डनव्यवहारस्य पात्रो जातः I२००६-२००९ काले कारसमर्पणे मेसिना पित्रा च कापट्यं प्रदर्शितम् इत्येव अन्यायः। स्पेयिन् राष्ट्रस्य बार्सलोणा न्यायालयेनैव विधिः प्रख्यापिता । तथापि कारागृहवासे मेसये आनुकूल्यं लभ्यते इत्यपि विदग्धाः सूचयन्ति।

ओस्कार् प्रिस्टोरियसस्य कृते कारागृहवासः ।
  प्रिटोरिया > पारालिम्पिक्स् मध्ये (विकलाङ्‌गानां कायिकपरम्परा) सुवर्णपतकविजेता ओस्कार् प्रिटोरियस् ६ वर्षा...णां कारागृहवासाय कल्पित:।प्रिटोरिया उच्चन्यायालयस्यैव कल्पना। रीवा स्टीव् काब् इति नामिकां स्व प्रणयिनीं गोलिकाप्रहारेण मारितः इत्येव अन्यायः। २०१३-फेब्रुवरि ४ दिनाङ्के एव मारणं सञ्जातम्। अन्यायेऽस्मिन् केवलं ६ वर्षाणां कारागृहवासः इत्येतत् ह्रस्वः एव कालः इति जनानाम् अभिप्रायः , प्रायः पञ्चदशवर्षात्मकः काल: आवश्यकः इति सामूहिकः अभिप्रायः आसीत्I तथापि स्पेयिन् उच्चतरन्यायालये निवेदनसमर्पणाय प्रिस्टोरियस् कृते अवसरः लभ्यते।


उत्तरप्रदेशे प्रियङ्‌कां प्रतिरोद्धुं स्मृती इरानी।   
 नवदहली > मोदीसर्वकारस्य पुनःसंघाटनेन स्थानचलनं प्राप्ता अधुनातन वस्त्रव्यापारमन्त्रालयसचिवा स्मृती इरानी उत्तरप्रदेशस्थनिर्वाचने प्रियङ्‌का गान्धिनीं  प्रतिरोद्धुं नियुज्यते इति सूचना। तदर्थमेव ह्रस्वकालिकम् एतत् स्थानचलनम् इति राष्ट्रियवृत्‍तान्तद्वारा  सूचयन्ति। २०१४ तम लोकसभानिर्वाचने अमेठीमण्डले, राहुल् गान्धिं प्रतिरुद्ध्य श्रद्धां प्राप्तवती एव स्मृती इरानी। ततः मोदिन: सविशेषतात्पर्यं सम्पाद्यैव तया राज्यसभाङ्गत्वं प्राप्तं वर्तते।

प्रधानमन्त्री आफ्रिक्कासन्दर्शनाय प्रस्थितः। 
नवदिल्ली - पञ्चदिनात्मक  आफ्रिक्कन् राष्ट्रसन्दर्शनार्थं भारतप्रधानमन्त्री नरेन्द्रमोदी प्रस्थितः। अद्य प्रभाते मोसांबिक राष्ट्ं प्राप्नुवन् मोदीवर्यः तत्रत्येन राष्ट्रपतिना सह मेलिष्यति।  अनन्तरं दक्षिणाफ्रिक्का केनिया टान्सानिया राष्ट्राणि सन्दर्श्य तत्रत्यैः राष्ट्रनेतृभिः सह मेलनं कृत्वा राष्ट्रप्रगत्यर्थानि कार्याणि चर्चिष्यति।
  जोहन्नास्बर्ग् नेय्रोबि इत्यादिनगरेषु भारतसमाजैः  आयोज्यमानेषु सम्मेलनेषु प्रभाषणं करिष्यति च।
रेलयानप्रवेशानुमतिपत्रसंवरणाय अन्यसेवनेभ्यः च आधार् पत्रम् आवश्यकम्
    नवदहली > रेलयाने यात्रायै आधार् पत्रम् आवश्यकम्। रेलयात्रायै इत: आरभ्य आधार् पत्रं समर्पणीयमिति रेलमन्त्रालयेन निर्णयः स्वीकृतः। एवमेव रेलयानयात्रासम्बन्धतया विविधानां सेवनानाम् आनुकूल्यानां च प्राप्तये अपि आधार् आवश्यकं भवति। आंशिकरूपेणैव नियमोऽयं प्राबल्यम् आनयति। प्रथमं सेवनेभ्यः आनुकूल्येभ्यः च आधार् पत्रस्य निर्बन्धः आविष्क्रियते। तत्र वयोधिकानां, छात्राणां, विकलाङ्गानां च प्रवेशानुमतिपत्रमूल्यस्य आनुकूल्याय आधार् पत्रस्य आवश्यकता संस्थाप्यते। एतत्‍तु पञ्चदशदिनाभ्यन्तरे प्राबल्यं सम्पादयिष्यतीति रेल्मन्त्रालयं सूचयति। अनन्तरं प्रवेशानुमतिपत्रसंवरणे आधारपत्रनिर्बन्धः आविष्क्रियते। सामूहिकमण्डलेभ्यः उन्नीयमानं विरोधम् ऊह्य एव आंशिकद्वयेन नियमस्यास्य प्राबल्यं संस्थाप्यते ।

लयणल् मेसये दण्डनव्यवहारः।
    माड्रिड् (स्पेयिन्)> विश्वक्रीडकाय लयणल् मेसये करसमर्पणकापट्ये २१ मासानां कारागृहवासस्य दण्डनव्यवहारः। एतदतिरिच्य २०लक्षं यूरो (प्रायः ३० कोटि रूप्यकाणि) अपि दातव्यमस्तिI मेसिना सह स्वपिता अपि दण्डनव्यवहारस्य पात्रो जातः I२००६-२००९ काले कारसमर्पणे मेसिना पित्रा च कापट्यं प्रदर्शितम् इत्येव अन्यायः। स्पेयिन् राष्ट्रस्य बार्सलोणा न्यायालयेनैव विधिः प्रख्यापिता । तथापि कारागृहवासे मेसये आनुकूल्यं लभ्यते इत्यपि विदग्धाः सूचयन्ति।

ओस्कार् प्रिस्टोरियसस्य कृते कारागृहवासः ।
  प्रिटोरिया > पारालिम्पिक्स् मध्ये (विकलाङ्‌गानां कायिकपरम्परा) सुवर्णपतकविजेता ओस्कार् प्रिटोरियस् ६ वर्षा...णां कारागृहवासाय कल्पित:।प्रिटोरिया उच्चन्यायालयस्यैव कल्पना। रीवा स्टीव् काब् इति नामिकां स्व प्रणयिनीं गोलिकाप्रहारेण मारितः इत्येव अन्यायः। २०१३-फेब्रुवरि ४ दिनाङ्के एव मारणं सञ्जातम्। अन्यायेऽस्मिन् केवलं ६ वर्षाणां कारागृहवासः इत्येतत् ह्रस्वः एव कालः इति जनानाम् अभिप्रायः , प्रायः पञ्चदशवर्षात्मकः काल: आवश्यकः इति सामूहिकः अभिप्रायः आसीत्I तथापि स्पेयिन् उच्चतरन्यायालये निवेदनसमर्पणाय प्रिस्टोरियस् कृते अवसरः लभ्यते।


उत्तरप्रदेशे प्रियङ्‌कां प्रतिरोद्धुं स्मृती इरानी।   
 नवदहली > मोदीसर्वकारस्य पुनःसंघाटनेन स्थानचलनं प्राप्ता अधुनातन वस्त्रव्यापारमन्त्रालयसचिवा स्मृती इरानी उत्तरप्रदेशस्थनिर्वाचने प्रियङ्‌का गान्धीं प्रतिरोद्धुं नियुज्यते इति सूचना। तदर्थमेव ह्रस्वकालिकम् एतत् स्थानचलनम् इति राष्ट्रीयवृत्‍तान्तः सूचयन्ति। २०१४ तम लोकसभानिर्वाचने अमेठीमण्डले, राहुल् गान्धिं प्रतिरुद्ध्य श्रद्धां प्राप्तवती एव स्मृती इरानी। ततः मोदिन: सविशेषतात्पर्यं सम्पाद्यैव तया राज्यसभाङ्गत्वं प्राप्तं वर्तते।

प्रधानमन्त्री आफ्रिक्कासन्दर्शनाय प्रस्थितः। 
नवदिल्ली - पञ्चदिनात्मक  आफ्रिक्कन् राष्ट्रसन्दर्शनार्थं भारतप्रधानमन्त्री नरेन्द्रमोदी प्रस्थितः। अद्य प्रभाते मोसांबिक राष्ट्ं प्राप्नुवन् मोदीवर्यः तत्रत्येन राष्ट्रपतिना सह मेलिष्यति।  अनन्तरं दक्षिणाफ्रिक्का केनिया टान्सानिया राष्ट्राणि सन्दर्श्य तत्रत्यैः राष्ट्रनेतृभिः सह मेलनं कृत्वा राष्ट्रप्रगत्यर्थानि कार्याणि चर्चिष्यति।
  जोहन्नास्बर्ग् नेय्रोबि इत्यादिनगरेषु भारतसमाजैः  आयोज्यमानेषु सम्मेलनेषु प्रभाषणं करिष्यति च।
केन्द्रमन्त्रिसभा पुनर्रचिता - जावदेक्करः मानवशेषिविभवमन्त्री। 
नवदिल्ली - नवदश नवमन्त्रिणः अपि सन्निवेश्य नरेन्द्रमोदिमन्त्रिसभा पुनःसंघटिता। पञ्चमन्त्रिणः तिरस्कृताः। विभागेष्वपि  पुनर्विन्यासः जातः। शैक्षिकमण्डले विवादभूतां मानवशेषिमन्त्रिणीं स्मृति इरानीं तिरस्कृत्य तत्स्थाने प्रकाश् जावदेक्कर् वर्यं नियुक्तवान्। स्मुतिवर्यायै वस्त्रव्यापारनियन्त्रणविभागः (Textile) दत्तः। नीतिन्यायविभागः सदानन्दगौडातः रविशङ्कर प्रसादं प्राप्तः। वार्तावितरणविभागस्य दायित्वं अरुण् जय्टिलि वर्यात् वेङ्कय्य नायिडु वर्यस्य कृते परिवर्तनं कृतम्। दलित-अपवर्तितविभागेभ्यः अधिकं प्रातिनिध्यं दत्वा एव पुनःसंघाटनं प्रधानमन्त्रिणा कृतम्। उत्तरप्रदेश उत्तराखण्ड विधानसभयोः निर्वाचनं लक्षीकृत्य एवायं परिष्कारः।

 बोम्बे, मद्रास् उच्चन्यायालययो: नाम परिवर्त्यते । 
          नवदहली > बोम्बे मद्रास् उच्चन्यायालययोः नाम परिवर्तयितुं केन्द्रसर्वकारस्य निर्णयः Iउच्चन्यायालययोः नाम यथाक्रमं मुंबई , चेन्नै इत्येवं परिवर्त्यते । एतदर्थं नियमकार्यक्रमाः सर्वकारेण आरब्धाः । सर्वकारेण नामपरिवर्तनाय अनुमतये पत्रिका लोकसभायां समर्प्यते। द्वयोरपि नगरयो: नाम पूर्वमेव परिवर्तितमासीत् , किन्तु उच्चन्यायालययोः नाम विना परिवर्तनं स्थितमासीत्।

केन्द्रसर्वकारस्य सहयोगेन केरळेषु विकासपद्धतीनाम् आविष्काराय केरलसर्वकारः ।
          तिरुवनन्तपुरम् > केरलेषु विविधमण्डलेषु विक्सनपद्धतीनाम् आविष्काराय पूर्तीकरणाय च केन्द्रसर्वकारस्य सहयोगः आवश्यकः इति केरलसर्वकारः। केन्द्रसहयोगेन आधारसौकर्यविकसनस्य प्रामुख्यं दीयतेति सर्वकारः। तत्रापि राज्यस्य आधारसौकर्यविकसनस्य सम्बन्धतया  सर्वत्र शौचालयनिर्माणस्य प्रामुख्यं कल्प्यते। केरलेषु अधिकारं प्रविष्टः नूतनसर्वकारः नूतनां धनव्ययगणनपत्रिकां शुक्रवासरे नियमसभायां समर्पयिष्यति।पत्रिकायां विविधाः जनक्षेमपद्धतयः,जैवकृषिप्रोत्साहनं, निक्षेपसमाहरणवर्द्धनं,विविधानां कराणां समाहरणं,फोर् स्टार् मद्यशालाभ्यः अनुमतिः इत्येवं बहूनां प्रमुखानां कार्याणां विषये परामर्शाः सन्तीति सूचनाः।

 कृषकेर्भ्यः केन्द्रसर्वकारस्य धनसाहाय्यम् ।  
नवदहली > राष्ट्रे कष्टतामनुभवतां कर्षकेभ्य: केन्द्रसर्वकारस्य धनसाहाय्यम् । ह्रस्वकालाधारेण एव धनसाहाय्यं दीयते। ७% आदायानुपाते ३ लक्षं रूप्यकाणि एव साहाय्यत्वेन दीयन्ते। एकः वर्षः एव प्रत्यर्पणसमयः। आंशिकत्वेन धनप्रत्यर्पणाय अवसरः अस्ति। धनप्रत्यर्पणे निष्ठा पालयते चेत् आदायानुपातः ४ % इति न्यूनीकरिष्यतीत्यपि सर्वकारेण सूचितमस्ति।


विज्ञानपीठपुरस्कारः डो. एन् पि उण्णि वर्याय। 
कोच्ची - पेरुम्पावूर् श्रीशङ्करा ट्रस्ट् संस्थया दीयमानाय  विज्ञानपीठं पुरस्काराय कालटी श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य भूतपूर्वः उपकुलपतिः डो. एन् पि उण्णिवर्यः अर्हति। संस्कृतभाषायां तथा भारतीयदर्शनेषु च अगाधपाण्डित्यं प्रदर्शनीयेभ्यः एव पुरस्कारः लक्ष्यते। अष्टमदिनाङ्के प्रभाते एकादशवादने ऐरापुरं श्रीशङ्कर विद्यापीठ कलालये  आयोज्यमाने सम्मेलने पुरस्कारं समर्पयिष्यति।

Wednesday, July 6, 2016

सोपानम् -06 Taara G Bhavans Munshi vidyamandir, Thiruvankulam, Thrippunithura.
यूरो २०१६ - अन्तिमचक्रप्रवेशाय अद्य पोर्चुगल-वेल्स् बलपरीक्षा।
     लियोण् >यूरो २०१६ तमस्य अन्तिमचक्रे एकः सङ्‌घः कः इति अद्य ज्ञायते। प्रथमसेमिफैनल् मध्ये अद्य रात्रौ १२.३० वादने पोर्चुगलदलं वेल्स्दलेन सह क्रीडिष्यते। स्पानिष् लीग्‌ मध्ये रयल् माड्रिडस्य सहक्रीडकौ पोर्चुगलदलस्य क्रिस्ट्यानो रोणाल्डो वेल्स्दलस्य गरात् बेयिल् च अद्य मुखामुखं क्रीडिष्येते। द्वितीयं सेमिफैनल् श्वः फ्रान्स्-जर्मनी दलयोः भवति।
 रेलमार्गसम्बन्धज्ञापनानि अधुना अङ्‌गुल्याग्रे- इन्द्रजालसंख्या: दत्वा अधिकारिणः। 
Image result for railwayआलपुष़ा (केरलम्)> रेलयानयात्रिकाः इतः आरभ्य: तिस्रः संख्याः एव स्मरन्तु , रेलमार्गज्ञापनानि भवतां अङ्गुल्याग्रम् आगच्छन्ति - रेलमार्गाधिकारिणः नूतनं प्रख्यापनमेतत् । १३८, १३९,१८२ इत्याद्या: तिस्रः निशुल्कसंख्याः आश्रयित्वा ज्ञापनानि अवगन्तुं शक्यते । १३९-रेलयानानां गमनागमनज्ञापनं, समयः , प्रवेशनपत्रसंवरणम् इत्यादीनां सौकर्याय उपयुज्यते। १३८- यात्रावेलायाम् अनुभूयमानानां क्लेशानां बोधनाय उपयुज्यते। एतत्‍तु सर्वासामपि भाषायाम् उपयोक्तुं शक्यते।१८२ - सुरक्षितत्वसम्बन्धनिवेदनं, आरक्षकसेवनं, तस्कराक्रमणं, रेलमार्गसुरक्षासेनायाः सेवनम् इत्यादिभ्यः कृते उपयुज्यते। एतदर्थं प्रवेशनपत्रस्य संख्या, दूरवाणीसंख्या च दातव्ये।
 
वेतनवर्धनं न्यूनमेव - केन्द्रसर्वकारोद्योगिनः समरं प्रति गच्छन्ति।
     नवदहली > सप्तमं वेतनसमितेः प्रख्यापितः नूतनवेतनसम्प्रदाय: अपर्याप्तः इति कारणात् केन्द्रसर्वकारोद्योगिनां विविधसङ्‌घानां संयुक्तसमित्या समरकार्यक्रमः प्रख्यापितः। अस्य मासस्य ११ दिनाङ्कादारभ्य अनिश्चितकालात्मकः एव समरः। नाषणल् जोयिन्ट् कौण्सिल् एव समराय आह्वानम् अकरोत्। उद्योगिनां ६ सङ्‌घानां संयुक्तसमितिरेव इयम्। आधारवेतनं ७००० इति संख्यायाः १८००० इति परिवर्तितमासीत्। किन्तु एतत् अपर्याप्तम्, आधारवेतनम् २६००० इति परिवर्तनीयम्‌ इत्येव समिते: निवेदनम्। समित्या: नेतृभि: आभ्यन्तरसचिव: राजनाथसिंहः, आर्थिकसचिव: अरुण् जयट्ली, रेलसचिवः सुरेष् प्रभुः इत्यादिभिः सह जूण् ३० तमे दिनाङ्के चर्चा कृता आसीत्। ततः परमेव समित्या समरप्रख्यापनमकरोत्।

अन्तर्जालवेगम्  अवलोकयितुं नूतनं 'आप्'।
 नवदहली > अनौद्योगिकवार्ता प्रक्षेपणसङ्घानां कापट्यं प्रतिरोद्धुं ट्राय् । ३जी, ४जी सौकर्यादिकं वाग्दानं कृत्वा २जी वेगपरिमितं सेवनमेव अनौद्योगिकवार्ताप्रक्षेपणसङ्घैः दीयते इति बहवः ट्राय् अधिकारिणः सूचितवन्तः। समस्यामिमां परिहर्तुमेव ट्राय् संस्थया 'मै स्पीड्' इति नाम्ना नूतनं प्रयोगसंविधानम् आविष्कृतम्। इदं संविधानमुपयुज्य दूरवाण्याः वेग: स्वयमेव अवगन्तुं शक्यते इति ट्राय् अधिकारिणः सूचयन्ति।

कानडायां किरीटं संप्राप्य भारतीयक्रीडकाः
 काल्गरी > कानडा ओप्पण् ग्रान्ट् प्री बाड्मिण्टन् स्पर्धायां किरीटं संप्राप्य भारतीयाः। पुरुषविभागे बि साय् प्रणीतः पुरुषाणां द्वन्द्विविभागे मनु अत्रिः-सुमीत् रेड्डिः संख्यं च किरीटं प्रापयत्। बाड्मिण्टन् क्रीडामण्डले साय् प्रणीतस्य प्रथमं किरीटं भवत्येतत्। मनु अत्रिः-सुमीत् रेड्डिः संख्यं रियो ओलिम्पिक्स् मध्ये भारतस्य कृते क्रीडिष्यते च।

अङ्गपरिमितेभ्य: ३% संवरणं दातव्यम् - उच्चतरन्यायालय:।
 नवदहली > सर्वकारोद्योगेषु अङ्गपरिमितेभ्य: उद्योगार्थिभ्यः ३% संवरणं कल्पनीयमिति उच्चतरन्यायालयस्य कल्पना। अधुना सर्वकारस्य सर्वेष्वपि विभागेषु अङ्गपरिमितविभागानां संवरणे परिधिरासीत्। तदेव उच्चतरन्यायालयेन परिवर्तितम्। इदानीं सर्वेष्वपि विभागेषु तेभ्यः ३% संवरणं लभ्यते। प्रसारभारती मध्ये कस्यचित् नियमसम्बन्धनिवेदनस्य चर्चायामेव न्यायालयेन नूतनं प्रख्यापनमकरोत्।

भीमाकारिका दूरदर्शिनी निर्माय चैना।

बीजिङ् > अन्यग्रहेषु विद्यमानानां जीविनां निरीक्षणाय भीमाकारिकां दूरदर्शिनीं निर्माय शास्त्रलोकं प्रति चैनाया: योगदानम्। 'नाषणल् अस्ट्रोणमिक्कल् ओब्सर्वेषन्' भवति दूरदर्शिन्याः निर्माता। चैनायां शास्त्रसाङ्केतिककार्यक्रमाणां गवेषणप्रवर्तनानां च निर्वहणं कुर्वतः 'चैनीस् अकादमी ऑफ सयन्सस्' इति संघस्य नेतृत्वे एव दूरदर्शिन्याः निर्माणप्रवर्तनानि आयोजितानि। इमां दूरदर्शिनीमुपयुज्य भूमेः १००० प्रकाशवर्षात् दूरस्थं वर्तमानं सर्वमपि रेडियो तरङ्गम् निरीक्षितुं शक्यते।

चतुर्दिनाभ्यन्तरे ग्रामे पत्रालयम् उद्‌घाट्य वार्ताविनिमयमन्त्रालयः।
  नवदहली > नरेन्द्रमोदिनः सर्वकारस्य विमर्शकेषु प्रमुखः एव राजदीपसर्देशाय्। प्रसिद्धः पत्रकार्यकर्ता अयं 'इंडिया टुडे' पत्रिकायाः सम्पादकः वर्तते। गतसप्ताहे अयं पत्रालयरहितं कमपि ग्रामं परामर्श्य सामूहिकमाध्यमे ट्वीट् कृतवान् आसीत्। किन्तु  वृत्तान्तममुं ज्ञात्वा चतुर्दिनाभ्यन्तरे एव वार्ताविनिमयमन्त्रालयेन तस्मिन् ग्रामे पत्रालयमारभ्य प्रतिकरणं दत्तम्। एतत् सम्बन्ध्य सचिवेन रविशङ्करप्रसादेनैव प्रतिट्वीट् कृतं वर्तते। मोदीसर्वकारस्य कार्यक्षमतायाम् अद्भुतस्तब्धः एव अधुना राजदीपसर्देशाय्।

उत्तरप्रदेशे काण्ग्रस् दलं नेतुं प्रियङ्कागान्धी।
 नवदहली > निर्णायकम् उत्तरप्रदेशस्थं निर्वाचनं लक्ष्यीकृत्य काण्ग्रस्दलम् अग्रे नेतुं प्रियङ्कागान्धी इति सूचना।निर्वाचनसम्बन्धानि प्रचारणप्रवर्तनानि प्रियङ्कायाः नेतृत्वे आयोजयितुं काण्ग्रस् नेतृभिः निर्णय: स्वीक्रियते। विदेशे वर्तमानस्य राहुल् गान्धिनः प्रत्यागमनात्परम् एतत्सम्बन्ध्य प्रख्यापनं भविष्यति। उत्तरप्रदेशराज्यस्थानां प्रवर्तनानां दायित्वं वहन् गुलां नबि आसादः प्रचारणनेतृत्वविषये प्रियङ्‌कया सह चर्चाम् अकरोत्। राज्ये विद्यमानानां विविधानां लघुदलानां योजनेन बृहत् दलरूपीकरणमपि काण्ग्रस् नेतृत्वं चिन्तयति।


संस्कृतप्रचारणाय आदर्शविद्यालयपद्धतिः समारब्धा। 
कालटी> श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचारणविभागस्य नेतृत्वे अस्मिन् वर्षे राज्ये आविष्क्रियमाणायाः आदर्शविद्यालयपद्धत्याः राज्यस्तरीयोद्घाटनम् उपकुलपतिः डो. एम् सि दिलीप्कुमारः निरवहत्।

Tuesday, July 5, 2016

  धाक्का आक्रमणम् - ऐ एस् योगदानं नास्तीति बङ्‌गलादेशसर्वकार:।
  धाक्का > भारतीयविद्यार्थिनीसहितानां विंशति जनानां वधाय कारणीभूते आतङ्गवादाक्रमणे इस्लामिक् स्टेट् (ऐ एस्) योगदानं नास्तीति विशदीकृत्य बङ्‌गलादेशसर्वकार:।बङ्‌गलादेशस्य आभ्यन्तरमन्त्रिणा आसाद् उस्मान् खान् महोदयेनैव एतदुक्तम्। बङ्‌गलादेशस्यैव आभ्यन्तरातङ्गवादिनः जमायत्तुल् मुजाहिदीन् बङ्‌गलादेश् इति संस्थायाः प्रवर्तकाः एव आक्रमणकारिणः इति सर्वकारस्य विशदीकरणम्। एवमेव पाकिस्तानस्य ऐ एस् ऐ इति गूढसंस्थायाः अपि दायित्वमस्तीति सूचनाः सन्ति।

 पाश्चात्यसिनेमासंविधायक: मैक्किल् चिमिनो दिवङ्गतः।
 लोस् आञ्चलस् > अमेरिकायाः विख्यातः चलनचित्रसंविधायकः ओस्कार् पुरस्कारजेता च मैक्किल् चिमिनो दिवङ्गतः। शनिवासरे स्वगृहे एव तस्य मृतदेहः दृष्टः वर्तते। मरणकारणं व्यक्तं न भवति। तस्य ७७ वयः आसीत्। १९७८ तमे वर्षे 'द डीर् हण्टर्' इति सिनेमायाः कृते ओस्कार् पुरस्कारः प्राप्तेन तेन अष्ट सिनेमा: सज्जीकृताः सन्ति। इट्टलीवंशीयः सः १९३९तमे वर्षे न्यूयोर्क् मध्ये लब्धजन्मा वर्तते । चित्रलेखने निपुणः चासीत् चिमिनो महोदयः।

 खुर्-आन् ग्रन्थं प्रति अवहेलनम् - ए ए पि नियमसभासामाजिकं प्रति अन्यायनिवेदनम्।
  नवदहली > पञ्चाबे मुस्लिम् भूरिपक्षप्रदेशे मलेर् कोट्ला मध्ये वर्गीयसंङ्घर्षाय प्रेरितः इति आक्षेपमुन्नीय दक्षिणदहली नियमसभासामाजिकं नरेष्‌ यादवं प्रति पञ्चाब् आरक्षकवृन्देन अन्यायनिवेदनम् स्वीकृतम्।अग्रिमवर्षे पञ्चाबराज्ये जायमाने नियमसभानिर्वाचने विजयाय राज्ये वर्गीयसंङ्घर्षम् उत्पादयितुं धर्मग्रन्थस्य खुरानस्य पुटानि विच्छिद्य मार्गेषु निक्षिप्तुं विजयकुमारनामकं युवकं प्रेरितवान् इत्येव अन्यायः। प्रदेशात् खुरानस्य पुटानि अपि लब्धानि। एतत्सम्बन्धे अन्याये बन्धितः विजयकुमारः नरेष् यादवस्य प्रेरणया एव दोषः आचरितः इति अवदत्I तदनुसृत्यैव आम् आदमी दलस्य सभासामाजिकं प्रति अन्यायनिवेदनं स्वीकृतं वर्तते।

विम्बिल्डण् - भारताय सानिया मिर्सा रोहन् बोप्पण्णः च पुरतो गच्छतः।
 लण्टन् > पादद्वयं पूर्तीकृते विम्बिल्डण् मध्ये भारतस्य सानिया मिर्सायाः रोहन् बोप्पण्णस्य च सङ्घौ प्री क्वार्टर् पादं प्रविष्टौ। किन्तु प्रतीक्षया द्वितीयपादे मत्सराय आगतः भारतस्य लियाण्टर् पेस् पोलण्टस्य मार्सिन् मट्‌कोव्स्कि दलं बहिर्गतम्।

Monday, July 4, 2016


विदेशोद्योगार्थिनः कृते नैपुण्यविकसनपरिशीलनम्।
  नवदहली > विदेशेषु उद्योगमन्विष्य गच्छतां भारतीयानां कृते नैपुण्यविकसनपरिशीलनं दातुं विदेशकार्यमन्त्रालयस्य पर्यालोचना। एतदर्थं राष्ट्रे ५० केन्द्राणि आरब्धुं मन्त्रालयेन आलोच्यते। विदेशराष्ट्रेषु यत्र कुत्रापि वा भवतु तत्रत्या: परीक्षाः परिशीलनानि च पूर्तीकरणीयानि। तदर्थं नैपुणी विकसनमेव मुख्योद्देश्यम्। अन्तःराष्ट्रियवैदग्ध्ययुक्तं  परिशीलनमेव एतेषु केन्द्रेषु उद्दिश्यते।

 डो. जि गंगाधरन् नायर् संस्कृतविश्वविद्यालयस्य सिन्डिकेट् अङ्गः।
कालटी> प्रमुखः संस्कृतपण्डितः आचार्यश्रेष्ठः डो. जि गङ्गाधरन् नायर् वर्यः कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सिन्डिकेट् सदस्यरूपेण केरलराज्यपालेन नियुक्तः। इदानीं विश्वविद्यालये व्याकरणविभागस्य डीन् अस्ति।
   संस्कृतभारत्याः केरलघटकस्य ( विश्वसंस्कृतप्रतिष्ठानम्) रक्षाधिकारी अयं वेलियनाट् चिन्मय अन्तर्देशीय गवेषणसंस्थायाः अध्यक्षः तथा कोच्ची सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् संस्थायां ओणररि प्रोफसर् च वर्तते।

एकीकृतपौरधर्मसंहिता - सम्मिश्रप्रतिकरणानि।
  कोषिकोट् > राष्ट्रे एकीकृतपौरधर्मसंहितायाः सन्निवेशनं प्रति सामूहिकमण्डलेभ्यः सम्मिश्रप्रतिकरणानि। एकीकृतपौरधर्मसंहितायाः सन्निवेशनम् अवश्यं करणीयमिति केचन सामुदायिकनेतारः अभिप्रेतवन्तः। किन्तु एतस्याः सन्निवेशनं राष्ट्रस्य धर्मनिरपेक्षतां हनिष्यतीति भारतीयमुस्लिंदलनेतारः अभिप्रयन्ति।भा ज पा दलेन नेतृत्वं कुर्वतः केन्द्रसर्वकारस्य नूतनपरिष्कारः दूरव्यापकप्रत्याघातः स्रक्ष्यतीति तेषामभिप्रायः। विवाहः, जीवनांशः,पैतृकसम्पत्,मरणानन्तरकार्यक्रमाः इत्यादिषु व्यक्तिनियमः दैवीकः एव, तत्र चर्चायाः आवश्यकता एव नास्ति- भारतीयमुस्लिंदलस्य देशीयकार्यदर्शिना इ टि मुहम्मदबषी रेण उक्तम्।किन्तु एकीकृतपौरधर्मसंहितायाः सन्निवेशनम् अवश्यं करणीयमिति सीरो मलबार् सभया उक्तम्।केन्द्रसर्वकारस्य निर्णयोऽयं स्वागतार्हः,तथापि आचारानुष्ठानानां वैविध्यानि संरक्षणीयानि इति मेजर् आर्च बिषप् कर्दिनाल् मार् जोर्ज् आलञ्चेरि अवदत्।

शिरस्त्राणविहीनेभ्यः इन्धनं न दीयते इति निर्णयः अप्रायोगिकः-इन्धनदातारः
  तिरुवनन्तपुरम् > केरलराज्ये आगस्त् मासादारभ्य शिरस्त्राणविहीनेभ्यः द्विचक्रिकायात्रिकेभ्यः इन्धनं न दीयते इति निर्णयः अप्रायोगिकः इति इन्धनदातारः अभिप्रेतवन्तः।विषयेऽस्मिन् अधिकृतैः इन्धनव्यापारसंघैः सह चर्चा कापि न कृता। नियमस्यास्य प्रायोगिकांशाः इन्धनव्यापारसंघान् प्रतिकूलतया एव बाधन्ते। अतः निर्णयममुं अङ्‌गीकर्तुं नैव शक्यते इति तै: उक्तम्। किन्तु अधुना केषुचित् जनपदेषु परीक्षणाधारेण नियमोऽयम् आरब्धः वर्तते।

अरुणाचलप्रदेशे शकलराश्यपघातः- दश जनाः हताः। इट्‌टानगरम् > अरुणाचलप्रदेशे वेस्ट् कमेंग्मण्डले गतदिने संजाते शकलराश्यपघाते दश जनाः हताः। अतिवृष्ट्या शुक्रवासरे रात्रावेव अपघातः संजातः। अपघातेन बहूनि गृहाणि ,अनेके विद्यालयाश्च भग्नाः। अपघातस्थलेषु एन् डि आर् एफ्‌ संघाः मण्डलाधिकारिभिः सह रक्षाप्रवर्तनानि कुर्वन्तः सन्ति।

विम्बिल्डण् मध्ये पुनरपि अप्रतीक्षितविजयः- जोकोविच् बहिर्गतः।
  लण्डण् > अनुस्यूतं किरीटधारणं लक्ष्यीकृत्य आगतं विश्वप्रथमस्थानवाहकं नोवाक् जोकोविचं तृतीयपादे पराजित्वा अमेरिकायाः सांक्वरेः प्रयाणः। अनेन कलण्डर् ग्रान्ट्स्लाम् इति प्राप्तिः जोकोविचस्य अप्राप्या जाता। ७-६,६-१,३-६,७-६ इत्यनुपाते एव सांक्वरेः विजयः।

 धाक्का आतङ्गवादाक्रमणम् - मृतेषु भारतीयविद्यार्थिनी अपि।
     धाक्का > बड्ग्लादेशस्य राजधान्यां धाक्कायाम् एकस्मिन् भोजनालये संवृत्ते आक्रमणे विंशदधिकाः जनाः हताः। तेषु भारतीया विद्यार्थिन्यपि अन्तर्भूता वर्तते। आतङ्गवादिभिः बन्धितेषु तारिषी जेयिन् (१९) नामिका भारतीयविद्यार्थिनी एव हता। विदेशकार्यसचिवया सुषमा  स्वाराजमहोदयया एतत् दृढीकृतम्। मृतेषु सर्वेऽपि जपान्‌-इट्टलीराज्येभ्यः आगताः जनाः आसन् इति सूचनाः।ऐ एस् आतङ्गवादिनः एव आक्रमणं कृतवन्तः। तथापि विशुद्धखुरान् ग्रन्थस्य पारायणं कृतवन्तं प्रत्येकमपि जनम् आतङ्गवादिनः वधात् मोचितवन्तः इत्यपि सूचनाः सन्ति। विशुद्धरमदानसम्बन्धानाम् आचाराणाम् अनुष्ठानसमये एव सम्पन्नानां मण्डले गुल्षन् मध्ये होली आर्टिसान् नामके भोजनालये ऐ एस् आक्रमणं सञ्जातम्।

केरलेषु इतरराज्यस्थानां दिवसवेतनकर्मकराणां संख्या क्रमातीता - गत्यन्तरं विना कर्मकरमन्त्रालयः।
     तिरुवनन्तपुरम् > केरलेषु इतरराज्यस्थानां कर्मकराणां संख्या प्रतिदिनं वर्धयन्ती एव।उद्योगाय कति जनाः केरलम् आगच्छन्ति इति मन्त्रालयपक्षतः स्पष्टं विशदीकरणमपि नास्ति। समीपकाले पेरुम्पावूर् देशे जाते जिषा नामिकायाः युवत्याः वधे आसामदेशीयः युवकः आसीत् अपराधिः।ततः इतरराज्यस्थानां जनानां विषये गणनायै सर्वकारेण श्रमः कृतःवर्तते।गणनेयं मन्त्रालयाय श्रमकरः एव भवति। अनौद्योगिकगणनामनुसृत्य केरलेषु २५ लक्षाधिकाः इतरराज्यस्थकर्मकराः सन्तीति उच्यते। ते च उद्योगेन प्रतिवर्षं १७,५०० कोटि रुप्यकाणि सम्पादयन्ति इति सर्वकारः विशदयति।

 फेय्स् बुक् मध्ये वाचनं सुकरम्
 न्यूयोर्क् >  प्रचुरतया प्रचाल्यमाने सामूहिकमाध्यमे फेय्स्  बुक् मध्ये वाचनं सुकरं कर्तुं नूतनसंविधानेन सह फेय्स् बुक् अधिकारिणः।फेय्स् बुक् ब्लोग् मध्ये दत्तां सूचनामनुसृत्य नूतनसंविधानेन एकस्मिन्नेव समये ४४ भाषाः प्रति लेखनानि परिवर्तयितुं शक्यन्ते। एतदर्थं ' मल्टी लिङ्ग्वल् ' संविधानमेव उपयुज्यते। तथा च  अन्यभाषाज्ञानं विनापि सामूहिकमाध्यमेऽस्मिन् वाचनलेखनादिकं सुकरं कर्तुं शक्यते।

 पठन्ति प्रौढाः सादरं संस्कृतं मुदा।
 कोच्ची > एरणाकुलं जनपदे मुवाट्टुपुष़ायां प्रचलित विश्व संस्कृतप्रतिष्ठानस्य दशदिनात्मक संभाषण शिबिरस्य उद्‌घाटनकर्मं श्री नारायणशर्म महोदयेन अकरोत् । प्रथमकक्ष्या एरणाकुलं जनपदस्य सहकार्यदर्शी श्री राजेष् कुमार् महोदयेन अचालयत् | जूलै १३ दिनाङ्के कक्ष्यायाः समापनं भविष्यति।
 एरणाकुलं जनपदे मूवाट्टुपुष़ायां प्रचलित दशदिनात्मक-संस्कृतसम्भाषण-शिबिरम्

Sunday, July 3, 2016

उत्तराखण्डे मेघस्फोटनं ; प्रलयः; २२ मरणानि।
पित्तोरगढ् - उत्तराखण्ड राज्ये मेघस्फोटनमिति पर्यावरणप्रतिभासानन्तरं दुरापन्ने महावृष्ट्यां भूछेदे च द्वाविंशति जनाः मृताः। पञ्चविंशति जनाः अप्रत्यक्षाः अभवन्।
 पित्तोरगड् चमोलि जनपदयोः गुरुवासरे अर्धरात्रौ आसीत् दुरन्तः। महत्या वृष्ट्या भूछेदे च बहूनि गृहाणि बहवः प्रदेशाश्च मृत्तिकान्तर्भूतानि।
  बहुत्र मार्गाः नाशिताः। अतः रक्षाप्रवर्तनानि न सुगमानि वर्तन्ते। केन्द्र- राज्यदुरन्तनिवारणसेनाः सैनिक - अर्धसैनिकविभागाश्च रक्षाप्रवर्तनं कुर्वन्ति।

 भारतराष्ट्रे एकीकृतपौरधर्मसंहितायाः सन्निवेशाय केन्द्रसर्वकारस्य श्रमः ।
नवदहली > भारतराष्ट्रे अचिरादेव एकीकृतपौरधर्मसंहितायाः सन्निवेशनं भविष्यति। एतदर्थं केन्द्रसर्वकारेण श्रमः आरब्धः। नियममन्त्रालयेन एतत्सम्बन्ध्य नियमसमितिं प्रति निर्देशः पृष्टः वर्तते। नियमनिर्माणाय उपदेशादिकं दीयमाना समितिरेव केन्द्रनियमसमितिः । एतदर्थं समित्या विभिन्नान् व्यक्तिनियमसङ्घान् प्रति चर्चां कर्तुं आलोच्यते। विरमितः न्यायाधिपः बल्बीर् सिंहः एव समितेः अध्यक्षः। समवायेनैव नियमपरिष्कारः आरभ्यते इति केन्द्रमन्त्रिणा सदानन्दगौडेन उक्तं वर्तते।भारतीयशिक्षानियमस्य चतुर्चत्वारिंशत् ४४-तमे भागे पौरधर्मसंहितामधिकृत्य प्रतिपादनं वर्तते इति मन्त्रिणा सूचितम्। एकीकृतधर्मसंहितायाः सन्निवेशनेन भारते व्यक्तीनां विवाह: , विवाहमोचनं, पैतृकसम्पद्, जीवनांशः इत्यादिषु बहुषु विषयेषु एकस्यैव नियमस्य आश्रयणमेव भविष्यति।

राष्ट्रे वर्गीयकलापाय ऐसिस् पद्धतिः इति सूचना ।  
  हैदराबाद् > गतदिने हैदराबाद् मध्ये आरक्षकैः बन्धितः ऐसिस् सङ्घः राष्ट्रे वर्गीयविद्वेषम्‌ उत्पाद्य आक्रमणं कर्तुं पद्धतिः पर्यालोचिता इति सूचनाः। जनवासकेन्द्रेषु विस्फोटनेन तथा आराधनाकेन्द्रेषु वर्गीयविद्वेषम् जन्यमानानि कुत्सितप्रवर्तनानि च सङघेन उद्दिष्टानि। तदर्थं भाग्यलक्ष्मीमन्दिरे गोमांसं निक्षिप्य हिन्दू-मुस्लीं विरोधमुत्पाद्य आक्रमणाय सङ्घस्य पद्धतिरासीदिति आरक्षकवृन्दं सूचयति। अत एव राष्ट्रे जाग्रतया वर्तितुं  सर्वेभ्यः निर्देशः दत्तः वर्तते।

भारतम् अफ्गानेन सहैव-राष्ट्रपतिः ।
नवदहली > आतङ्गवादिनः प्रति भारतं सर्वदा अफ्गान् राष्ट्रेण सहैव वर्तिष्यतीति राष्ट्रपतिः प्रणब् कुमार मुखर्जी। गतदिने काबूल् मध्ये सैनिकव्यूहं प्रति आतङ्गवादिनाम् आक्रमणेन बहवः सैनिकाः हताः। एतत्सम्बन्ध्य अफ्गान् राष्ट्रपतिं प्रेषिते अनुशोचनसन्देशे एव राष्ट्रपतिना एवं सूचितम्। आक्रमणम् अपलप्य बहवः विश्वनेतारः अफ्गान् राष्ट्रं समाश्वासितवन्तः ।


ओलिम्पिक्स् मध्ये क्रिकेट् अपि ?
रोम् > २०२४तमे वर्षे ओलिम्पिक्स् क्रीडाभ्यः रोम् वेदी भविष्यति चेत् क्रिकेट् कृते अपि अवसरः लप्स्यते इति सूचना। इट्टलीस्थक्रिकेट्समितेः अध्यक्षेण सिमोण् गाम्पिनो महोदयेनैव सूचना दत्ता । अन्तःराष्ट्रक्रिकेट्समितेः वार्षिकयोगः रोम् मध्ये प्रचाल्यमाने सन्दर्भे एव तेन एवमुक्तम्। एतत् साक्षात्‍कृतं चेत् १२४ वर्षेभ्य: परं क्रिकेट् विश्वकायिकमहोत्सवे भागं करिष्यति। एतद् भारतम् इव बहुभ्यः राष्ट्रेभ्यः ओलिम्पिक्स् सुवर्णपतकाय अवसरः एव भवति।

अर्बुदरोगिणां संख्या - दहली प्रथमस्थाने, केरलं    द्वितीये च।

    बङ्गलुरु > आघातदायकं याथार्थ्यं निवेद्य आरोग्यमन्त्रालयः। भारतीया आरोग्यानुसन्धानसमित्या एव पठनं कृतं वर्तते। पठनेषु अर्बुदरोगिणां संख्या दहल्याम् अत्यधिका वर्तते। २०१२ तः २०१६ पर्यन्तस्य कालस्य आरोग्यसम्बन्धानि अनुसन्धानि एव याथार्थ्यमिदं निवेदयति।  केरलेषु तिरुवनन्तपुरमेव अग्रे वर्तते। पट्टिकायां कोल्लं जिलायाः अपि स्थानमस्ति। जनानाम् उद्योगरीतिः, भक्षणक्रमः, जीवनशैली इत्यादीन्येव अर्बुदरोगाय मुख्यानि कारणानि भवन्तीति तिरुवनन्तपुरं रीजणल् कान्सर् सेन्टर् स्थापकनेता  डा.कृष्णन् नायर् महोदयः अवदत्।

विम्बिल्डण् मध्ये अप्रतीक्षितविजयः- मुगुरसे बहिर्गता।
 लण्डण् > विश्वटेन्नीस् मण्डले वनिताविभागे द्वितीयस्थानवाहिका फ्रञ्च् ओप्पण् जेता च गर्बिन् मुगुरसे विम्बिल्डण् तः बहिर्गता। स्लोवाक्यायाः जाना सेपलोवया एव मुगुरसायाः उपरि विजयः प्राप्तः। केवलं ५९ मिनिट्‌ अभ्यन्तरे समाप्तायां क्रीडायां सेपलोवा ६-३,६-२ इत्यनुपाते विजयं प्राप्तवती। वीनस् विल्यंस्, इगेनी बौचार्ड्, सिमोण् हालेप् इत्याद्याः वनिताः द्वितीयपादं प्रविष्टाः।

व्योमसेनायां 'तेजस्' अपि।
 बंगलुरु > ३३ वर्षाणां कठिनप्रयत्नेन भारतेन तद्देशीयतया निर्मितं फ्लयिङ् डग्गेर्स् ४५ इति नामकं विमानद्वयं व्योमसेनायै समर्पितम्।सर्वधर्मप्रार्थनायाः अनन्तरमेव समर्पणम् अभवत्। हिन्दु ,मुस्लिं,सिख्, क्रिस्तुधर्मपण्डितानां प्रार्थनानन्तरं व्योमसेनाध्यक्षस्य जस्बीर् वालियमहोदयस्य सान्निध्ये एव तेजसः समर्पणमभवत्।सर्वकारस्य हिन्दुस्थान् एयरोनोटिक्स् लिमिटड् एव विमाननिर्माता।

Saturday, July 2, 2016

 भारतस्य आयुधशेखरेषु वरुणास्त्रमपि।
  नवदहली > भारतेन तद्देशीयतया निर्मितः भारयुक्तः च टोर्पिडो वरुणास्त्रं नाविकसेनायाः आयुधशेखरेषु स्थानं प्रापयत्। बुधवासरे दहल्यां प्रतिरोधसचिवस्य मनोहर् परीकरस्य आध्यक्षे नाविकसेनाया: अध्यक्षस्य सुनिल् लाम्बस्य अन्येषां प्रमुखाणां च सान्निध्ये संवृत्ते योगे एव वरुणास्त्रस्य समर्पणमभवत्।

 स्ववर्गानुरागिण: तृतीयलिङ्गविभागे नान्तर्भवन्ति- उच्चतरन्यायालयः।
 नवदहली> स्ववर्गानुरागिण: तथा उभयलैङ्गिकानुरागिणः च तृतीयलिङ्गविभागे नान्तर्भवन्तीति उच्चतरन्यायालयः। भिन्नलैङ्गिकशेषियुक्ताः एव तृतीयलिङ्गविभागे अन्तर्भवन्तीति परमाध्यक्षस्य टि एस् ठाकुरस्य न्यायस्थानेन विशदीकृतम्। २०१४ तमस्य उच्चतरन्यायालयस्य विधेः व्यक्ततां सम्पादयितुं केन्द्रसर्वकारेण समर्पितं निवेदनमनुसृत्यैव नूतनविशदीकरणम्।स्ववर्गरतिम् अपराधत्वेन विशदीकुर्वन्तं भारतीयशिक्षानियमस्थं ३७७ तमं भागं दहली उच्चतरन्यायालयेन परिवर्तयति स्म।तस्य पुनःपरिशोधनानिवेदनमपि परिगणनायां वर्तते।


ब्रिट्टीष् प्रधानमन्त्रिपदाय पञ्च प्रमुखाः पट्टिकायाम्।
 लण्टन् > स्थानं त्‍याज्यमानस्य डेविड्कामरूणस्य अनुयायी भवितुं ५ प्रमुखाः पट्टिकायाम् अन्तर्भूताः। किन्तु सर्वैः प्रतीक्षाम् अर्पितेन लण्टन् नगराध्यक्षेण बोरिस् जोण्सनेन मत्सररङ्गात् प्रतिनिवृत्तिः प्रख्यापिता च। एतस्मिन्नवसरे कण्सर्वेटीव् दलस्य प्रमुखाः नेतारः मैकिल् गोव्, आभ्यन्तरसचिवा तेरेसा मेय् , स्टीफन् क्राब् , आन्ट्रिया लीट्‌सं, प्रतिरोधकार्यदर्शी लियां फोक्स् च मत्सररङ्गे सजीवाः सन्तिI ब्रिट्टणस्य यूरोप्यन् सङ्‌घात् प्रतिनिवृत्तये अत्यधिकम् उद्घोषितः आसीत् बोरिस् जोण्सन्।

 विम्बिल्डन् - जोकोविच्, फेडरर् च तृतीयपादं प्रविष्टौ।
 लण्टण् > विम्बिल्डन् टेन्नीस् स्पर्धायां जोकोविच् फेडरर् च तृतीयपादं प्रविष्टौI ब्रिट्टणस्य मार्कस् विल्लिसमेव फेडरर् पराजितवान् । अनुपातः ६-०,६-३,६-४ । अधुनाधुनविजेता जोकोविच् अड्रियान् मन्नारिनं ६-४,६-३,७-६ इति अनुपाते पराजितवान्। ग्रान्ड्स्लाम् अनुक्रमेषु जोकोविचस्य ३०तमः अनुस्यूतविजयः एव अयम् ।


 निधिभण्डारः शून्यः; राज्यम् आर्थिकप्रतिसन्धौ - केरळवित्तमन्त्री।

अनन्तपुरी - केरळम् अतिरूक्षे आर्थिकप्रतिसन्धौ पतदस्तीति वित्तमन्त्रिणा डो. तोमस् ऐसक्केन विधानसभायाम् अवतारितं धवलपत्रम्। सर्वकारेण झटित्येव परिहर्तव्या ऋणबाध्यता दशसहस्रं कोटिरूप्यकाणामस्ति। एवं स्थिते गतार्थिकवर्षान्त्ये १६४१ कोटिरूप्यकाणाम् अधिकप्रस्तावः कृत्रिमत्वेन आविष्कृत इति  वित्तमन्त्रिणा प्रस्तूयते।

धवलपत्रं न, कृष्णपत्रमिति माणिः; अकर्मण्यतायाः प्रतिभूतिग्रहणमिति विपक्षनेता।
 अनन्तपुरी -केरळधनमन्त्रिणा डो. तोमस् ऐसकेन विधानसभायाम् अवतारितं धवलपत्रं वास्तवविरुद्धमिति विपक्षनेतारः। यू डि एफ् सर्वकारेण आविष्कृतानां विकसनोन्मुखप्रवर्तनानां भूतकारुण्यपद्धतीनां च अवमत्यर्थं कुसृष्टं कृष्णपत्रमेतदिति भूतपूर्ववित्तमन्त्री के एम् माणिः आक्षिपति स्म।
  आगामीसंवत्सरेषु एल् डि एफ् सर्वकारः किमपि न करिष्यति इत्यस्य अकर्मण्यताप्रख्यापनस्य नान्दिः एतदिति विपक्षनेता रमेश् चेन्नित्तला उक्तवान्।
  ऋणं कृत्वा आविष्कृतानां विकसनपद्धतीनां गुणफलं तदनुसारं आयवृद्धिश्च भविष्ये एव अनुभोक्तुं शक्यतेति तेनोक्तम्।


 राष्ट्रे वर्गीयकलापाय ऐसिस् पद्धतिः इति सूचना। 
   हैदराबाद् > गतदिने हैदराबाद् मध्ये आरक्षकैः बन्धितः ऐसिस् सङ्घः राष्ट्रे वर्गीयविद्देषम्‌ उत्पाद्य आक्रमणं कर्तुं पद्धतिः पर्यालोचिता इति सूचनाः। जनवासकेन्द्रेषु विस्फोटनेन तथा आराधनाकेन्द्रेषु वर्गीयविद्देषम् जन्यमानानि कुत्सितप्रवर्तनानि च सङघेन उद्दिष्टानि। तदर्थं भाग्यलक्ष्मीमन्दिरे गोमांसं निक्षिप्य हिन्दू-मुस्लीं विरोधमुत्पाद्य आक्रमणाय सङ्घस्य पद्धतिरासीदिति आरक्षकवृन्दं सूचयति। अत एव राष्ट्रे जाग्रतया वर्तितुं  सर्वेभ्यः निर्देशः दत्तः वर्तते।

 मध्यप्रदेशस्य आभ्यन्तरमन्त्रिणा स्वस्थानं त्यक्तम्।
भोप्पालः > मध्यप्रदेशस्य आभ्यन्तरमन्त्रिणा बाबुलाल् गौर् महाभागेन स्वस्थानं परित्यक्तम्। स्थानत्यागनिर्णयः दलस्य उपदेशमनुसृत्यैवेति तेन उक्तम्। समीपकालेषु मध्यप्रदेशसर्वकारस्योपरि तथा भा ज पा दलस्योपरि च तेन कृताः विवादपरामर्शाः एव स्थानत्‍यागस्य निदानाः। अपि च समीपे एव काले स: एकां स्त्रियं प्रति मर्यादारहितेन व्यवहृतवान् इति आक्षेपः जातः आसीत्। एवमेव व्यापं दुर्व्यवहारं प्रति मुख्यसचिवं शिवराजसिंह चौहानमपि सः परोक्षतया विमर्शयन् आसीत्। एतत् सर्वमपि स्थानत्यागस्य कारणं भवतीति वार्ता: सूचयन्ति।

Friday, July 1, 2016

मोदी पाकिस्थान् राष्ट्राय विपज्जनकः नेता - हाफिस् सयीद्।
  नवदहली > भारतप्रधानमन्त्री पाकिस्थान् राष्ट्राय विपज्जनक: पुरुषः एवेति आतङ्‌गवाददलस्य लष्कर् ई तोयिबायाः नेता हाफिस् सयीद् । भारतस्थायै मोदीविरुद्धशक्त्यायै सम्पूर्णसहयोगः अपि तेन प्रख्यापितः अस्ति। पाम्पोर् मध्ये सि आर् पि एफ् वाहनव्यूहं प्रति संवृत्तस्य आक्रमणस्य दायित्वम् अनया संघटनया अङ्गीकृतमासीत्I आक्रमणस्यास्य मुख्यः सूत्रधारः अस्य भागिनेय: खालिद् वालिद् भवति इति सूचना आसीत्I शनिवासरे एव पाम्पोर् मध्ये आक्रमणं सञ्जातम्। आक्रमणेन अष्टौ सैनिकाः हताः आसन्।

केन्द्रमन्त्रिसभाया: पुनःसंघाटनम् अचिरादेव।
 नवदहली > अग्रिमवर्षे उत्तरप्रदेश: - पञ्चाब् राज्ययोः नियमनिर्माणसभानिर्वाचनं लक्ष्यीकृत्य केन्द्रमन्त्रिसभायाः पुनःसंघाटनम् अचिरादेव भवतीति सूचना। एतत्सम्बन्धचर्चा: भा ज पा दलाध्यक्षः अमित् षा महोदय: प्रधानमन्त्रिणा सह कृताः इति विस्रंभयुक्तानि वार्ताकेन्द्राणि सूचयन्ति। पुनःसंघाटनेन मन्त्रिसभायां केषाञ्चन नवमुखानां प्रवेशोऽपि भविष्यतीत्यपि सूचनाः दृढीकुर्वन्ति।

मुंबई मध्ये मेट्रो रेलयानस्य वेगः वर्धयितुम् अनुमतिः।
 मुंबई > जुलै २ तः मुंबई मेट्रो रेलयानं प्रतिहोरम् अशीति (८०) कि.मी. वेगेन सञ्चालयिष्यति। एतदर्थं मेट्रो रेयिल् सुरक्षाधिकारिणा अनुमतिः दत्ता। मुंबई मेट्रो पद्धत्याः आरम्भे वेगः घण्टायां ५० कि.मी आसीत्। पश्चात् २०१६ तमे वर्षे ६५ कि.मी इति वर्धितः आसीत् ।नूतनः परिष्कारः जनेभ्यः सौकर्याय कल्पते।

मातृकानियमाय अङ्‌गीकारः - राष्ट्रे वाणिज्यकेन्द्राणि २४ घण्टेष्वपि।
   नवदहली > उन्नतवाणिज्यकेन्द्राणि प्रतिदिनं पूर्ण समयमपि प्रवर्तनसज्जं कर्तुं योजनाबद्धाय मातृकानियमाय केन्द्रसर्वकारस्य अङ्गीकारः लब्धः। दशाधिकाः उद्योगिनः अन्तर्भूतानि तथा उत्पादनप्रक्रियारहितानि च वाणिज्यकेन्द्राण्येव नियमस्यास्य परिधौ अन्तर्भवन्ति। किन्तु ऐ टि मण्डले एवं जैवसाङ्केतिकविद्यामण्डले च प्रवर्तमानेषु स्थापनेषु प्रवर्तनसमयः प्रतिदिनं ९ घण्टाः एव।नूतननियममनुसृत्य वाणिज्यकेन्द्राणां प्रवर्तनसमयः तैः स्वेच्छया निर्णेतुं शक्यः। किन्तु वाणिज्यकेन्द्रेषु अथवा स्थापनेषु पानजलं, भोजनालयः , शौचालयः , स्त्रीणां सुरक्षा इत्यादिषु कार्येषु व्यक्तं सज्जीकरणम् आवश्यकम् इत्यपि नियमे सूचयति। एतत् सर्वं अधिकृतैः परिशोध्य एव अनुमतिः दीयते।

 केरलेषु इन्धनमावश्यकं चेत् शिरस्त्राणं धार्यम्।
 तिरुवनन्तपुरम् > केरलेषु आगस्त् १ तः द्विचक्रिकायात्रिकेभ्यः इन्धनम् आवश्यकं चेत् तैः शिरस्त्राणम्  अवश्यं धार्यम्  इति गतागताधिकारिणः विज्ञापनम्। परीक्षणाधारेण तिरुवनन्तपुरम्, कोच्ची, कोषिक्कोट् नगरसभापरिधावेव नियमस्य प्राबल्यम्। नियमोऽयं द्विचक्रिकायात्रिकैः अङ्‌गीकृतः चेदपि कैश्चित् मण्डलेभ्य: विरोधोऽपि आगत:। नियमोऽयं अप्रायोगिक: चेत् परिष्करिष्यतीति गतागतसचिवेन ए के शशीन्द्रन् महोदयेन सूचितम्।

चित्रकलाचार्यः के जि सुब्रह्मण्यः दिवंगतः।
वडोदरा > आधुनिक भारतीय चित्रकलायाः आचार्येषु अन्यतमः के जि सुब्रह्मण्यः दिवंगतः।  के जि एस् इति विख्यातः सः भारतपारम्पर्यम् अनुतिष्ठन् चित्रकलानवीकरणाय प्रयत्नमावहति स्म।
 १९२४तमे संवत्सरे केरले कण्णूर् जनपदे लब्धजन्मायं वंगदेशे टागोर् वर्यस्य शान्तिनिकेतनादेव चित्रकलाभ्यासं कृतवान्। १९५१ तमे गुजरात् प्राप्य  बरोडायां एम् एस् विश्वविद्यालये अध्यापक अभवत्। १९८० तमे अध्यापकवृत्तित्वेन शान्तिनिकेतनं प्रत्यागतवान्। अन्त्यकाले बरोडायामेवासीत् तस्य वासः।
    पद्मश्री पद्मभूषणं पद्मविभूषणं  च दत्वा राष्ट्रेण आदुतः। अपि च कालिदास पुरस्कारः रविवर्मा पुरस्कारः ललितकला अक्कादम्याः विविधाः पुरस्काराः वंगमहाराष्ट्रसर्वकारयोः पुरस्काराश्च तं प्राप्तवन्तः। विदेशेषु विश्वविद्यालयेषु श्रेष्ठाचार्यपदवीं च ऊढवान्।

Thursday, June 30, 2016

अन्येभ्यः प्रवेशानुमतिपत्रं न दातव्यम् - यु.एस् नियमनिर्माणसंसदङ्गः। 
वाषिङ्टण् > अन्यराष्ट्रेभ्यः इदानीं दीयमानस्य प्रवेशानुमतिपत्रस्य विराम: आवश्यकः इति अमेरिकायाः नियमनिर्माण संसदङ्गेन अभिप्रेतम्। रिप्पब्लिकन् प्रतिनिधिः चक् ग्रेस्ले एव एवमवदत् । अधुना त्रयोविंशति (२३) राष्ट्रेभ्यः अमेरिकया प्रवेशानुमतिपत्रं दीयते । तत्र विराम: अथवा नियन्त्रणम् आवश्यकम् I प्रतिवर्षम् आगच्छतां वैदेशिकानां प्रतिगमनं नैव सम्भवति , अथवा राष्ट्राणि तेषां प्रत्याह्वाने निस्सहकरणं प्रदर्शयन्ति। अतः अनुमतिपत्रदाने नियन्त्रणम् अवश्यं भवेत्- प्रतिनिधि: अवदत् । भारतम् इव  बहुभ्यः राष्ट्रेभ्यः अभिमतोयं प्रतिकूल: एव।

मेसिना स्वनिर्णयः परिवर्तनीयः-मारडोणा।  
बूणस् ऐरिस् > कोपा अमेरिका पादकन्दुकक्रीडाया: किरीटनष्टाघातेन स्वीकृतं विरामनिर्णयं पर्यालोचनया परिवर्तयतु इति मेसिम् उपदिश्य अर्जन्टीनायाः ऐतिहासिकक्रीडक: पूर्वपरिशीलकश्च डीगो मारडोणा । २०१८ तमवर्षस्य रष्यन् विश्वचषकक्रीडापर्यन्तमपि अन्तःराष्ट्रकायिकमण्डले मेस्याः सान्निध्यम् आवश्यकम्।प्रतिभाधनस्य मेस्याः विरामनिर्णय: आराधकवृन्देभ्यः आघात एव आसीत् । अर्जन्टीनासंघस्य दुरन्तकाङ्‌क्षिणः एव तस्य विराममुद्दिश्य आरोपान् उन्नयन्ति - मारडोणेन अभिप्रेतम्।

पाकिस्ताने अध्ययनोद्देश्यं भारतनिन्दा एव - हिना रब्बानी। 
इस्लामाबाद् > पाकिस्ताने विद्यालयेषु भारतं निन्दितुमेव प्रमुखं शिक्षणं दीयते इति पाकिस्तानस्य भूतपूर्वविदेशकार्यसहसचिवया हिना रब्बानी महोदयया उक्तम्। भारतस्योपरि निन्दाप्रदर्शनाय एव विद्यालयेषु छात्रान् प्रेरयति। अफ्गान्राष्ट्रं प्रत्यपि अयमेव व्यवहारः स्वीक्रियते। अत एव भारत-अफ्गान् सौहृदं प्रति पाकिस्तान् विरोधं प्रदर्शयतिI भारतेन सह सौहृदं दृढीकर्तुमेव अधिकारिभिः श्रद्धा देया। केवलं युद्धेन वा निरन्तरप्रकोपनेन वा काश्मीरं स्वायत्तीकर्तुं नैव शक्यते। अतः भारतेन सह नयतन्त्रचर्चायै पाकिस्तानेन निर्णयः स्वीकार्यः इत्यपि तया सूचितम्‌ । २०११-१३ अनुक्रमे पाकिस्तानस्य मन्त्रिसभायां अन्तर्भूता आसीत् वक्ता।

वधसम्बन्धे तर्के शुक: साक्षी। 
षिकागो > इदम्प्रथमतया विश्वे एकस्मिन् तर्के साक्षिण: स्थाने शुक: I षिकागोयां मिषगाम् देशे एव इयम् अपूर्वा स्थितिः । मार्टिन् ड्यूरल् इति नामकः पुरुषः तस्य पत्न्या ग्लेन्ननया गोलिकाप्रहरेण कृते वधे एव साक्षिण: स्थाने शुकस्य आगमनम्। तर्केऽस्मिन्  शुकस्य वचनं सुप्रधानं प्रमाणमिव स्वीकर्तुमेव न्यायालयस्य निर्णयः।

Wednesday, June 29, 2016

सोपानम्-05 Archana ER Saraswathi Vidyaniketan Chengamanad. News reading 29/06/2016

राष्ट्रिय-मानबिन्दुं विरुद्ध्य केरळराज्यस्य संसदङ्गः वि.टि बलरामः

 केरळराज्यस्य संसदङ्गः (MLA) वी.टी बलरामस्य संस्कृतभाषाविरुद्ध-भाषणे  आभारतं जनाः प्रतिषेधं प्रदर्शितवन्तः।

मृतभाषा इति 'फेस् बुक्' माध्यमद्वारा संस्कृतभाषाम् अधिकृत्य अनाधारारोपं प्रकाशितवान् बलरामः ।
भारत-संविधानेन अङ्गीकृतासु अष्टादशभाषासु प्राचीनतमं भवति संस्कृतम्। इदानीमपि सर्वेषां भारतीयभाषाणां पोषकाधारा च। एतादृशीं भाषाम् अपक्वमनसा उपहासं कुर्वतः अस्य, जनप्रतिनिधेः स्थानमार्जयित्वा कृतव्यवहारः निन्द्यः एव। राष्ट्रिय-मानबिन्दवः सदा समादरणीयाः खलु। एतस्य अपक्वाभिमत-प्रकाशनं विरुद्ध्य सर्वेषां विप्रतिपत्तयः प्रकाशयन्ताम् इति केरळ संस्कृताध्यापक फेडरेषन् दलस्य सचिवः टि.के सन्तोष्कुमारः अवदत् ।

संस्कृतम् अमृतस्य भाषा डा. बलदेवानन्दसागरः।

 नवदेहली >स्वस्यसंस्कृेतेः महिमानम् संस्कृतभाषायाः गरिमा च अज्ञात्‍वा एव केरळ राज्यस्य संसदङ्गः वि.टि बलरामः स्वस्यअभिमतस्य प्रकाशनम् अकरोत् इति बलदेवानन्द सागर: अवदत्। संस्कृतं मृतभाषा न अमृतभाषा एव। संसदङ्गाः तत् ज्ञात्वा पक्वमतयः भवन्तु इत्यपि तेन उक्तम् । अज्ञातविषये पाण्डित्य प्रकाशनं शेभनं न इति सागरमहोदयः स्मारितवान् च ।


सर्वकारस्य यशसे जनप्रतिनिधयः श्रद्धालवः भवन्तु - मोदीः।
   नवदहली > जनप्रतिनिधयः सभायां तथा बहिः च सर्वकारस्य यशसे श्रद्धालवः भवन्तु इति प्रधानमन्त्रिणः मोदिनः उद्‌घोषणम् । स्वपक्षप्रतिनिधिः वा प्रतिपक्षप्रतिनिधि: वा भवतु जनानां प्रतिनिधित्वेन सभायां बहिः च भाव्यम् इति मोदिना उक्तम्। समीपकाले रिसर्व्बाङ्‌क्  अध्यक्षस्य रघुराम् राजस्य स्थानत्यागविषये उन्नीयमानाः आरोपा: सर्वकारस्य शोभां न्यूनीकरिष्यतीति भा ज पा दलप्रतिनिधेः सुब्रह्मण्यं स्वामिनः नाम अनुक्त्वा मोदिना सूचितम्। रघुराम् राजः उत्तमः राज्यस्नेही तथा भारतस्य आर्थिकमण्डलस्य अनिवार्यभाग: च भवतीति प्रधानमन्त्रिणा अभिप्रेतम्।


 कोप्पा किरीटः चिलिराष्ट्राय।
न्यूजेर्सी - कोप्पा अमेरिक्का पादकन्दुककिरीटः अर्जन्टीनां पराजित्य  पुनरपि चिलिदेशेन करस्थीकृतः। निश्चिते समये उभयोः राष्ट्रयोः कन्दुकलक्ष्यरहिते स्थिते षूट् औट् मार्गेण ४-२ कन्दुकलक्ष्ये एव चिली जितः।
  गतवर्षे अपि अर्जन्टीनामेव  पराजित्य चषकं प्राप्तवानासीत्।

रिसर्व् बाङ्क् - अध्यक्षस्थानाय चतुर्णां पट्टिकाः।
   नवदहली > समयावधिं पूर्तीकृत्य सितम्बर् मासे स्थानं त्याज्यमानस्य रघुराम् राजस्य अनुयायिनं निर्णेतुम् अन्तिमा पट्टिका सम्पन्ना इति सूचना। अष्टानां प्रमुखाणां नामभि: सह पूर्वं सज्जीकृतायाः पट्टिकायाः एव चतुर्णाम् अन्तिमा पट्टिका सज्जीकृता वर्तते। रिसर्व् बाङ्क् नियुक्ताधिकारी उर्जित् पहेल्, भूतपूर्वनियुक्ताधिकारिणौ राकेष्मोहनः , सुबीर् गोखन् च एवं एस् बि ऐ अध्यक्षा अरुन्धती भट्टाचार्या इत्यादय: प्रमुखाः अन्तिमपट्टिकायां अन्तर्भूताः सन्ति। राष्ट्रस्य आर्थिकनयरूपीकरणाय समितेः रूपीकरणमपि केन्द्रसर्वकारस्य पर्यालोचनायां वर्तते।

 नूतनसमस्या उभयपक्षचर्चायै विघ्नाः- चैना।
  बीजिङ् > सीमातर्काः तथा नूतनाः काचन समस्याः च भारत-चैनयोः उभयपक्षबन्धुत्वदृढीकरणे विघ्नाः भवन्तीति चैनायाः विदेशकार्यसहसचिवः ली हुलैः अवदत् । भारतेन सह बान्धवः सर्वदा चैनाया: मुख्यः विषयः एव इति तेन उक्तम्। तथापि नूतनसमस्याः काः इति विशदी कर्तुं स: सन्नद्धः नाभवत् ।

अर्जन्टीना'मिशिहा' निवृत्तः।
न्यूजेर्सी - आराधकैः प्रेमपुरस्सरं "मिशिहा" (रक्षकः) इति संबुध्यमानः पादकन्दुकेतिहासः अर्जन्टीना नायकश्च लयणल् मेस्सी अन्ताराष्ट्रपादकन्दुकस्पर्धातः निवृत्तः।
   कोप्पा अमेरिक्का शताब्दिमेलिकायाः अन्तिमचरणे चिलिं प्रति पराजयप्राप्तेः अनन्तरक्षण एव आराधकानां द्वितीयाघात इव क्रीडानिवृत्तिमधिकृत्य मेस्सीवर्यस्य प्रख्यापनमभूत्। चिलिं विरुध्य षूट् औट् मध्ये मेस्सेः प्रहरः बहिर्गत्वा  वृथा जातः। एतस्य निराशा अन्ते परजयस्य आघातः च मेस्सेः नाटकीयनिवृत्तप्रख्यापनस्य कारणभूतौ जातौ।
  विश्वस्य श्रेष्ठपादकन्दुकक्रीडकाय देयमानः बालण् द्योर् पुरस्कारः पञ्चवारम् अनेन स्वायत्तीकृतः। ११३ स्पर्धासु ५५ कन्दुकलक्ष्याणि प्राप्य  अर्जन्टीनायै नवचरितमपि रचितवानयम्।

Tuesday, June 28, 2016

पय्यन्नूरस्थसंस्कृतसमित्या  जनप्रतिनिधेः  प्रस्तावनायाः प्रतिषेधः प्रकटीकृतः । 
उपजिल्ला- शैक्षिकाधिकारिणः श्री रामनाथमहोदयस्य आध्यक्ष्ये संस्कृतप्रवर्तनानां वार्षिकासूत्रणयोगे एव समित्या प्रतिषेधः प्रदर्शितः। समित्याः मुख्यसंयोजकः श्री गोविन्दमहाशयः तथा भारवाहिनश्च सन्निहिताः आसन् । संस्कृतभाषायाः उपरि अवक्षिप्यमाणं किमपि अनाधारारोपं न सहामहे इति संस्कृतप्रेमिणः अध्यापकाः च उच्चैः उद्घोषितवन्तः ।

शबरि गिरिदेशीयतीर्थाटनकेन्द्रं - शतकोटिरूप्यकाणां पद्धतिः अङ्गीकृता। 
अनन्तपुरी - शबरिगिरिं देशीयतीर्थाटनकेन्द्ररूपेण विकासयितुं राज्यसर्वकारेण समर्पितायाः ९९.९८कोटिरूप्यकाणां पद्धत्याः केन्द्रसर्वकारस्य अङ्गीकारः। केन्द्रस्य स्वदेश् दर्शन् नामिकायां पद्धत्याम् अन्तर्भावयित्वा एरुमेलि - पम्पा - सन्निधानानि योजयित्वा  आत्मीयतीर्थाटनकेन्द्रं कर्तुमेव अनया पद्धत्या उद्दिश्यतेति केन्द्रविनोदसञ्चारविभागमन्त्रिणः डो. महेष् शर्मणः कार्यालयवृत्तैः  उक्तम्।
 गतफेब्रुवरिमासे एव अङ्कारः लब्धः आसीत्। किन्तु निर्वाचनवेला इत्यनेन कारणेन प्रख्यापनं नाभवत्।