OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 19, 2016

गोध्राघटनायाः मुख्यसूत्रधारः गृहीतः। 

अहम्मदाबाद् > २००२तमे वर्षे गोध्रायां ५९ जनानां दारुणमरणानां कारणभूतस्य रेल् यानज्वालनस्य मुख्यसंयोजकः फरूख् भानः १४ संवत्सरानन्तरं  भीकरविरुद्धसंघेन गृहीतः। २००२तमवर्षे गुजरात् कलापस्य हेतुरासीत् गोध्रा घटना।
गोध्रा रेल् निस्थानस्य समीपं सबर्मति एक्प्रस् रेल्यानस्य एस्-६ वाहकं मृत्तैलमुपयुज्य आक्रमणकारिणः  प्रज्वालयन्तः आसन्। एतदुपकाराय मृत्तैलादिकस्य वाहक आसीत् फारूख् भानः इति ए टि एस् अधिकारिणः निगमनम्। किञ्च रेल्यानप्रज्वालनाय एषः  जनसञ्चयं प्रेरयति स्म।
भारतीयबंशजाय बालाय यू एस् वैज्ञानिक सम्मानम् ।

वाषिङ्ट्ण्‌ > युववैज्ञानिकानां कृते आयोज्यमानया इन्टल् फौन्टेषन् यङ्‌ सैन्टिस्ट् पारितोषिकेण पञ्चदशवयस्कः भरतीयवंशजः 'श्यामान्तक पैरेय्'  सम्मानितः। 50,000 यु एस्  डोलर् एव सम्मानम्।

Wednesday, May 18, 2016

संस्कृत-बालसाहित्यम् विकसति- राष्ट्रिय -संगोष्ठी सेप्तंबर् मासे।
कोल्कत्त >  संस्कृत-बाल-साहित्यस्य विकासमुद्दिश्य संस्कृत-बाल-साहित्य-परिषदा सेप्तंबर् मासस्य नवमेदिने राष्ट्रिय संगोष्ठी आयोजयिष्यते। अस्य कार्यक्रमस्य मुख्य आयोजकः पुतुचेरी अरबिन्दो फौण्डेषन् संस्था एव। नवदिल्यां विद्यमाने अरबिन्दो आश्रमे सङ्गोष्ठी प्रचलिष्यति। कर्यक्रमे भागं कर्तुं पञ्चीकरणं करणीयम् इति अरबिन्दो फौण्डेषनस्य निदेशकेन सम्पदानन्द मिश्र महोदयेन उक्तम्। विशद विवरणाय  http://samskritabalasahityaparishad.org इति। अन्तर्जालपुटे प्रविश्यताम्। 
सीमामुद्रित भूचित्रम् भारतस्य गार्हिकं विषयम् - पाकिस्थानस्य अस्मिन् संबन्दः नास्ति।

नव देहली > त्रुटियुक्तः भूमानचित्राणि प्रसरितेभ्यः दण्ड दानाय नियमनिर्माणाय च अद्युक्तं भारतं विरुद्ध्य पाकिस्थानः। एतत् भारतस्य गार्हिकविषयमेव, अस्मिन् पाकिस्थानस्य अधिकारः नास्ति इति भारतस्य विदेशकार्यवक्त्रा विकास स्वरूपेण उक्तम्।
पाक् अधीनकाश्मीरः अरणाचल प्रदेशः च भारतस्य बहिः इति लिखितस्य चित्रस्य प्रसारणे प्रकाशने दण्डार्हतां विधीयमानां नियमपत्रिकां विरुद्ध्य एव पाकिस्थानस्य रङ्गप्रवेशः। भारतस्य प्रक्रिया राष्ट्रान्तर-नियमानां लङ्घनमिति यू एन् मधये पकिस्थानस्य परिदेवनम् आसीत्। सप्त वर्षाणां कारागारवासः शतकोटि रुप्यकाणां दण्डः च व्यवस्थापयितुम् इयं नियमपत्रिका द्वारा उद्दिश्यते भारतेन।

भारतीयहोक्किसंघस्य नवनायकः। 


नवदिल्ली - भारतीयहोक्किसङ्घे  नूतनचरितं रचयन् केरलीयः कन्दुकलक्ष्यसंरक्षकः पि आर् श्रीजेषः दलनायकः भविष्यति। पूर्व-ओलिम्पिक्स् स्पर्धायां चाम्प्यन्स् होक्की समूहखेलायां भारतीयदलं श्रीजेषः नेष्यतीति भारतेन विज्ञापितम्। अधुनातननायकाय सर्दार् सिंहाय विश्रान्त्यनुमतिं दत्वा एव श्रीजेषाय योगदायित्वं दत्तम्।
   भारतीयहोक्कीचरिते प्रथमतया एव एकः केरलीयः नायकपदमाप्नोति। अधुना दलस्य उपनायकः एषः एरणाकुलं जिल्लायां किष़क्कम्पलं प्रदेशीयः भवति।

Tuesday, May 17, 2016

केरले निर्वाचनं शान्तियुक्तं सम्पन्नम्। मतदानं ७७%।

कोच्ची >केरलस्य विधानसभानिर्वाचनं शान्तिसम्पूर्णं सम्पन्नम्। ७७.३७% जनैः मतदानं विनियुक्तम्। उच्चतमं मतदानं कोष़िक्कोट् जनपदे रेखितम्- ८१.८९ %। न्यूनतमं तु पत्तनंतिट्टा जनपदे - ७१.६६%।
  ह्यस्तनरात्रौ आरब्धा वृष्टिः प्रभाते मतदानप्रक्रियां मन्दमकारयत्। किन्तु क्रमेण महान् सम्मर्दः अनुभूतः।
  गतविधानसभा निर्वाचनमपेक्ष्य २% मतदानमधिकं कृतम्। मतदानस्य शतमानवर्धने सर्वाणि राजनैतिकदलानि प्रतिक्षायां वर्तन्ते।

Monday, May 16, 2016


 राजस्थानस्य मुख्यमन्त्री योगस्य कक्ष्यायाम्।
जयपुरम् > मनसः सम्मर्दान् उल्लङ्ख्य शासनं सक्षमं कर्तुमुद्दिश्य राजस्थानस्य मुख्यमन्त्री वसुन्धरा राजे अमात्यैः साकं योगासन कक्ष्यायां प्रविशत्। इष फौन्टेषन् नाम संस्थायाः स्थापकः सद्गुरु जग्गि वासुदेवस्य इन्नर् एन्जिनियरिङ्ङ् नाम योगासन-कक्षायामेव उन्नत-उद्योगिभिः साकं परिशीलनस्य आरम्भः।
द्वि दिनात्मक कक्षायां विधानसभा सामाजिकाः, नियमसभा सामाजिकाः, ऐ. ए. एस् उद्योगिनः च भागभाजिनः आसन्। दिन द्वयस्य परिशीलनेन आन्तरिकसम्मर्दं विना कर्मकर्तुं प्रभवामः इति वसुन्धरा राजे महाभागेन उक्तम्।
निर्वाचनस्य बहिष्करणाय मावोवादिनः आह्वानम्।

मानन्तवाटी ( केरळम्) निर्वाचनम् बहिष्करणीयम् इत्युक्त्वा मावोवादिनः आगताः। ' मानन्तवाट्‌याः' समीपे कम्पमल एस्टेट्मघ्ये परह्यः एव तेषां आगमनम् । रात्रौ सार्ध अष्टवादने अयुधं धृत्वा आगाताः ते पाद घण्डा यावत्‌ वाटीकर्मकरान् भाषणमकरोत्‌। घटनामधिकृत्य आरक्षकैः अन्वेषणम् आरब्धम् । श्रीलङ्कायाः अभयार्थिनः च अत्र वसन्ति। गतवर्षे डिसंबर् मासे मावो वादिभिः 'कम्पमला' सन्दर्शिता।

निर्वाचनस्य तिथिः परिवर्तितः।

तमिळ्नाड् > अरुवा कुरिची नाम प्रदेशे निर्वाचनं परिवर्तितम्। धनं पारितोषिकं मद्यं च जनेभ्यः राष्ट्रियदल -नेतृभिः दत्तम् इति अक्षेपः जातः। अत एव निर्वाचनम् स्थगितम्। ए ऐ डि एम् के स्थानाशेः गृहात् पञ्चकोटि रुप्यकाणि आरक्षकैः गृहीतानि। तथा डि एम् के स्थानाशिनः गृहात् कोटि रुप्यकाणि च गृहात् कोटि रुप्यकाणि वस्त्रादीनि च संग्रहीतानि।  अस्मिन् विषये अपराधिदलान् प्रति विशदीकरणसमर्पणाय निर्वाचनाध्यक्षेण आदेशः दत्तः अस्ति।


वर्षाकालः विलम्बेन ।
काले वर्षतु पर्जन्य

 नव दिल्ली > अस्मिन्वर्षे वर्षाकालस्य आरम्भः विलम्बेन भविष्यति इति केन्द्र निरीक्षणसंस्थया वदति। जूण् मासस्य सप्तमे दिने एव केरळे वृष्टिकालारम्भः स्यात्‌ । मेय् मासस्य २८ दिने मण् सूण्‌ वृष्टिः भविष्यति इति प्रथमं ज्ञापितम्।

Sunday, May 15, 2016

एरनाकुलं जनपदे मूवाट्टुपुषायां विश्व संस्कृतप्रतिष्ठानस्य सनातनधर्म पाठशालाया: आभिमुख्ये प्रचलित सप्ततम "सारस्वतं" नाम  संस्कृत - आध्यात्मिक-व्यक्तित्व-विकसन कक्ष्यायाः  विविधानि चित्राणि.......

Saturday, May 14, 2016

 पुनरपि भारतीय:           
दुबाई : -  क्रिकट् इति जनप्रियक्रीडायाः अध्यक्षस्थाने पुनरपि भारतीयस्य आरोहणम्‌।  ह्यः दुबाईराष्ट्रे संवृत्ते अन्ताराष्ट्रक्रिकट्समितेः निर्वाचनयोगे भारतीयस्य शशाङ्क्मनोहरस्य चयनं  अभवत्। ऐककण्ठेनैव अन्ताराष्ट्रक्रिकट्समितेः प्रथम स्वतन्त्राध्यक्षरूपेण शशाङ्क्मनोहरस्य चयनं कृतम्। ऐ सि सि समितेः परिष्कृतनियमानुसारं अध्यक्षस्थानं स्वतन्त्रमेकं स्थानं भवति । अत एव गतदिने शशाङ्क्मनोहरेण भारतीयक्रिकट्समितेः अध्यक्षस्थानं त्यक्तमासीत् । सर्वेभ्यः ऐ सि सि  निर्वाहकेभ्यः    तथा बि सि सि ऐ निर्वाहकेभ्यः च शशाङ्क्मनोहरः कृतज्ञतां न्यवेदयत् । अपि च क्रिकट् क्रीडायाः औन्नत्यै स्वशक्त्यनुगुणं प्रयत्नं करिष्यतीति सूचितम्।

 राष्ट्रे अवश्यसाधनानां मूल्यवर्धनम् : जनाः आशङ्कायाम् 
                  नव देहली :- राष्ट्रस्य सम्पद्घटना अतिदुर्घटावस्थां प्राप्नोति। राष्ट्रे व्यावसायिकोत्पादनं गण्यतया शोषयत् वर्तते। धनबाहुल्यं एप्रिल् मासे ५.३९% इति वर्धितम्। उत्पादने १.२% स्य न्यूनत्वमभवत्। खननमण्डले वर्धनं केवलं ०.१७% एव। मूलधनसामग्रीणाम् उत्पादने १५.४% स्य शोषणमभवत्। तथापि विद्युदुत्पादने ११.३७% स्य वर्धनमभवत्। भक्ष्यसाधनानां मूल्यवर्धनमेव धनबाहुल्यस्य कारणमित्येव आर्थिकविदग्धानाम् अभिप्रायः। तथापि भारतीय रिसर्व बाङ्‌क् अधिकारिणः आयस्यानुपाते न्यूनत्वं नैव करिष्यन्ति इत्यपि श्रूयते।


निर्वाचन-प्रचारणम् अद्य समाप्यते। 

कोच्ची > केरळे सर्वेषु मण्डलेषु  विधानसभानिर्वाचनस्य शब्दप्रचारणम् अद्य सायं षड्वादने समाप्यते। निर्वाचनप्रक्रिया सोमवासरे भविष्यति। मतगणना १९ तमे दिनाङ्के प्रचलिष्यति।
   अधुनातनशासनपक्षः कोण्ग्रस् दलनेतृत्वे यू डि एफ् पक्षः, विमतपक्षः सि पि एम् नेतृत्वे एल् डि एफ् पक्षः , तृतीयपक्षत्वेन बि जे पि नेतृत्वे एन् डि ए पक्षश्च जाज्वल्यमानं प्रचारणमेव कृतवन्तः।प्रायेण सर्वेष्वपि मण्डलेषु त्रिकोणस्पर्धायाः प्रतीतिरजायत च।

 सम्पूर्णविकसनं लक्ष्यीकृत्य केन्द्रसर्वकारः
                    नवदहली :- राष्ट्रस्य सर्वेषु मण्डलेष्वपि विकसनं लक्ष्यीकृत्य केन्द्रसर्वकारस्य परिष्करणव्यवहाराः। इदानीं राष्ट्रे उपयुज्यमानं पञ्चवत्सरपद्धतिसम्प्रदायं त्यक्वा पञ्चदशसंवत्सरात्मककालं लक्ष्यीकृत्य पद्धतीनां परियोजनाय केन्द्रसर्वकारस्य उद्यमः। राष्ट्रस्य आधारमण्डलानि केन्द्रीकृत्य विकसनप्रवर्तनानाम् आसूत्रणाय निर्देशः स्वीकृतः वर्तते। सम्पूर्णविकसनाय दीर्घकालवीक्षणम् आवश्यकम्, अत एव पञ्चवत्सरपद्धतिसम्प्रदायम् उपेक्ष्य पञ्चदशसंवत्सरात्मककालं लक्ष्यीकृत्य पद्धतीनाम् आसूत्रणं क्रियते इति सर्वकारः विशदीकरोति। तदर्थम् एकां देशीयविकसनरेखां सर्वकारपक्षतः प्रस्तौति। तत्र च सामाजिक-आर्थिक-प्रतिरोध-सुरक्षामण्डलानां प्रामुख्यं दीयते। वर्षत्रयाणामन्तरे प्रवर्तनानाम् अवलोकनमपि कृत्वा अनुबन्धान्तर-प्रवर्तनानाम् आसूत्रणमपि करिष्यति। पञ्चवत्सरपद्धतिसम्प्रदायः आगामिनि मार्च् मासे पर्यवसति।

असुलभ दृश्यानि








Friday, May 13, 2016

लिबिया देशात्  ९ परिवाराः प्रत्यागतवन्तः। 

कोच्ची >आभ्यन्तरसंघर्षे दुरितमनूतवन्तः २९ संख्याकाः नव परिवाराः लिबियादेशात् मातृदेशं  प्राप्तवन्तः। भीतिसङ्कुलं तद्देशं  त्यक्त्वा जन्मदेशस्य स्नेहोष्मलताप्राप्तौ निसीममानन्दमनुभूयमानाः सन्ति ते।
  १८ संख्याकाः केरलीयाः कोच्ची अन्ताराष्ट्रविमाननिलये ११संख्याकाः तमिल् देशीयाः  चेन्नै विमाननिलये च प्राप्तवन्तः।
  लिबियादेशे ट्रिप्पोलिमध्ये साविया आतुरालये कर्मकराः ते आभ्यन्तर -संधर्षे पृथक्भूताः भवन्ति स्म। जलाहारवस्त्रादिकं विना नरकतुल्यजीवनमेव यापयन्ति स्म।

 मलिनीकरणम् -आशङ्कामुत्पाद्य भारतस्य नगराण्यपि।

                    जनीवा :- विश्वारोग्यसमितेः पठने विश्वे अत्यधिकं मलिनीकरणम् उत्पद्यमानेषु नगरेषु चत्वारि नगराणि भारते एव। भारतस्य ग्वालियोर् ,अलहबाद् ,पाट्ना, राजपूर् इत्यदीन्येव चत्वारि नगराणि। इरान् राष्ट्रस्य साबूल् एव मलिनीकृतनगरेषु प्रथमम्। परिस्थितेः मलिनीकरणं   हृदय-श्वासकोशसम्बन्धानाम् अनेकानां रोगाणां कारणं भवतीत्यवस्थायां विश्वारोग्यसमितिः आशङ्कां न्यवेदयत् ।
 दुरन्तनिवारणनिधि: वर्धिता

नवदहली:>राष्ट्रस्य दुरन्तनिवारणनिधिः २०२० वर्ष पर्यन्तं ६१,००० कोटिं वर्धिता। लोकसभायां केन्द्रकृषिमन्त्रिणा राधामोहनसिंहेन एव वर्धनकार्यं ज्ञापितम्। राष्ट्रे इदानीं भक्ष्यसुरक्षानियमस्य समुचितं सञ्चालनं सर्वकारेण क्रियमाणमस्ति। अपि च दुरितमनुभवतोः महाराष्ट्रा-कर्णाटकराज्ययोः अधिकं भक्ष्यधान्यमपि केन्द्रसर्वकारेण  अङ्गीकृतमस्ति।

राष्ट्रपतिः वारणासी पुण्यपत्तने ।
    
 वारणासी >दिनद्वयस्य सन्दर्शनाय अद्य राष्ट्रपतिः प्रणाब् मुखर्जी वर्यः वारणासीं प्राप्नोति। वारणास्यां सः बनारस् हिन्दुविश्वविद्यालयं सन्दर्श्य छात्रान् अभिसंबोध्य प्रभाषणं करिष्यति।  श्व: प्रभाते वारणास्यां प्रचाल्यमाने अनुष्ठाने ' दशासमय् घट्‌ट्‌ गङ्‌गासमाप्त्याम् ' भागभाक्त्वं करिष्यति। अपि च काशी विश्वनाथमन्दिरदर्शनं राष्ट्रपतिना करिष्यति इति मण्डलीय वृत्तान्त-ज्ञापनाधिकारिणा सूचितम्।


क्रीडावार्ताः
होक्की क्रीडकेभ्यः  'अर्जुनपुरस्कारः'

           
  नवदहली> होक्की महिलासंघनेता ऋतु राणी, वि आर् रघुनाथः, धरं सिंह: प्रभृदिभ्यः क्रीडकेभ्यः अर्जुनपुरस्कारदानाय होक्की इंडिया केन्द्रकायिकमन्त्रालयं न्यवेदयत् । राष्ट्रस्य कायिकमण्डलं प्रति  दत्तस्य आजीवनयोगदानस्य कृते दीयमानाय ध्यान् चन्द् पुरस्काराय सिल्वनस् डोव्वुङस्य नाम एवं द्रोणाचार्यपुरस्काराय परिशीलकस्य सि के कुमारस्य नाम च होक्की इंडिया न्यवेदयत् ।

Thursday, May 12, 2016

उत्तराखण्डे राष्ट्रपतिशासनं निवर्तितम्। 

नवदिल्ली >सार्धैकमासस्य नैतिकयुद्धस्य राजनैतिकानिश्चितत्वस्य चान्ते उत्तराखण्डराज्ये वर्तमानं राष्ट्रपतिशासनं निराकुरुत। हरीष् रावतस्य नेतृत्वे कोण्ग्रस् सर्वकारस्य अधिकार स्थानं प्रत्यागच्छति।
  रावतः भूरिमतं प्राप्त इति सर्वोच्चन्यायालयेन  विज्ञापितम्। तदनन्तरमेव राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिम् अभ्ययाचत।

 जलदौर्लभ्यम् - द्रुतव्यवहारः स्वीकरणीयः- उच्चतरन्यायालयः




  नवदहली> राष्ट्रे विविधेषु राज्येषु अनुभूयमानं जलदौर्लभ्यम् परिहर्तुं द्रुतव्यवहारं स्वीकर्तुम् केन्द्रसर्वकारं निर्दिश्य उच्चतरन्यायालयः।    केन्द्रकार्षिकमन्त्रालयं सप्ताहे एकवारं जलदौर्लभ्यस्य काठिन्यं अनुभूयमानानां बीहार्, गुजरात्, हरियाना इत्यादिराज्यानाम् उन्नतोद्योगस्थान् सम्मिल्य अवलोकनयोगः कार्यः इति उच्चतरन्यायालयेन निर्दिष्टम्। एवमेव कृषिनाशं अभिमुखीकृतेभ्यः कृषकेभ्यः उपशान्तिधनविनियोगाय सर्वकारसमितेः प्रवर्तनमपि शक्तं भवतु इत्यपि केन्द्रसर्वकारम् उच्चतरन्यायालयेन निर्दिष्टं भवति।

 'सम्भाषणभङ्गः, उपशान्तिधनाय उपभोक्तारः अर्हाः' - उच्चतरन्यायालयः।

    
   नवदहली> जंगमदूरवाणीम् उपयुज्य सम्भाषणमध्ये आह्वानभङ्गः जातः चेत् प्रक्षेपणसेवनदातृभिः जनेभ्यः उपशान्तिधनं दातव्यमिति उच्चतरन्यायालयस्य निर्देशः। उपशान्तिधनव्यवहारात् मोचनम् उन्नीय वोडफोन्, रिलयन्स्, ऐडिया इत्यादयः २१ प्रक्षेपणसंघाः उच्चतरन्यायालये निवेदनं समर्पितवन्तः आसन्। तेषां निवेदनस्य पर्यालोचन-वेलायामेव उच्चतर-न्यायालयेन अयं नूतन: निर्देश: कृतः। तथापि राष्ट्रे प्रक्षेपणाधिकारनियन्त्रणसमितेः (ट्राय् ) प्रवर्तनं कार्यक्षमं भवतु इत्यपि उच्चतरन्यायालयेन निर्दिष्टम्।

पुनरपि  आतङ्गवादिनाम् आक्रमणम्- सैनिकः मृतः

   जम्मूकाष्मीरः> जम्मूकाष्मीरे कुप्वारायाम् आतङ्गवादिनां सान्निध्यमस्तीति सूचनामनुसृत्‍य हनसारा मण्डलेषु वालसरवनेषु अन्वेषणं कृतस्य सुरक्षासैन्यस्योपरि आतङ्गवादिनाम् आक्रमणम्। सैन्येन प्रत्याक्रमणं च कृतम्। आक्रमणप्रत्याक्रमणयोः एकः सैनिकः मृतः वर्तते। आतङ्गवादिनां वासस्थानात् विविधानि शस्त्राणि स्फोटकवस्तूनि च लब्धानि सन्ति।
 चलनचित्रम्  'इति वार्ताः' 
मेय्-मासस्य 14 दिने विमोचयिष्यते।  
कोच्ची >केरळेषु इदानीम् संस्कृतस्य समीचीन वातावरणमेव। सर्वेषु कोणेषु संस्कृतस्य कृते प्रयतन्ते। संस्कृत-छात्रेभ्यः रसकराणि बालपुस्तकानि चलनचित्राणि च निर्मीयन्ते। संस्कृतप्रेमिणः संस्कृताय सदा सज्जाः इति वक्तव्यम्।
अस्ति कश्चित् विशेषः,- ति वार्ताः नाम लघु संस्कृतचलनचित्रस्य छायाग्रहणं सम्पन्नम्। के एस् सन्तोष् कुमारेण रचना, छायाग्रहणं, सूत्रधारणं च कृतम्। कालटी राजेष् कुमारेण संभाषणरचना कृता च। श्रीमत्या प्रीता वर्यया संपादनं कृत्वा अस्मिन् मासस्य 14 दिने मूवाट्टुपुषादेशे सायं प्रदर्शनार्थं बहिः प्रेषष्यते।  

Wednesday, May 11, 2016


 उत्तराखण्ड् - भूरिमतं रावदनुकूलम्।

नवदिल्ली> राष्ट्रियानिश्चितत्वं विद्यमाने उत्तराखण्डराज्ये ह्यः भूरि-मतदानप्रक्रिया प्रचलिता। हरीष् रावतस्य नेतृत्वयुक्ताय कोण्ग्रस् सर्वकाराय ३३ सामाजिकानां सहयोगः लब्ध इति अनौद्योगिकसूचना अस्ति। मतदान-प्रक्रियायाः फलम् अद्य सर्वोच्चन्यायालये समर्पयिष्यते। तत् संशोध्य अद्य एव फलप्रख्यापनं भविष्यति।

द्विसहस्रं धनपञ्चीकृताधारिका (Account) प्रमाणेन साकं पानमा रेखा प्रसारिता।

वाषिङ्टण् > विश्व-राष्ट्रिय-नेता सहितानां प्रमुखाणां कुबेराणां  धनपञ्चीकृताधारिका प्रकाशिता। इयं रेखा अन्तर्जाले द्रष्टुं शक्यते। यू.एस् राष्ट्रकेन्द्रीकृतः अन्वेषणात्मकपत्रकारिता समित्या (ऐ सि ऐ जे)एव द्विसहस्राणं प्रमुखाणां जनानां आर्थिक विनिमयरेखा प्रकाशिताि।
रष्यायाः राष्ट्रपतिः व्लाटिमिर् पुटिन्, चीनायाः राष्ट्रपतिः षि चिन् पिङ् प्रभृतयः राष्ट्रप्रमुखाः सप्तति संख्याकाः राष्ट्राणाम्  अष्टविंशत्यधिकाः नेतारः अन्ये कुबेराश्च धनं निक्षिप्तवन्तः। पञ्चसहस्रं भारतीयकुबेराश्च पट्टिकायां सन्ति।

 पलास्तिकोपयोगः- नियन्त्रणं कठिनम्।

          
     बंगलूरु> बंगलूरुनगरे नगरसभापरिधौ पलास्तिक वस्तूनि सकाशं स्वीकृतानि चेत् दण्डनव्यवहारः कठिनः। बंगलूरु बृहत्महानगरपालिकाध्यक्षेण एन् मञ्जुनाथेन एतत् अधिकृत्य निर्देशः विज्ञापितः। पञ्चाशत् रुप्यकाणि दण्डन धनत्‍वेन स्वीकर्तुं  उद्योगस्थेभ्यः निर्देशः लब्धः अस्ति। अग्रिमदिने एव नियमोऽयं प्रबलम् आप्नोति।

Tuesday, May 10, 2016

वधभीत्या - सन्दर्शनं त्यक्तम्।

           नवदहली>  वधभीत्या कॉण्ग्रस् नेतुः राहुल् गान्धिनः दक्षिणभारत राज्यानां सन्दर्शनं त्यक्तम् । विविधेषु निर्वाचनयोगेषु भागभाक्त्वकरणाय दक्षिणभारतस्य पुतुच्चेरी ,तमिल्नाडु, केरलम् इत्यादि राज्यानां सन्दर्शनं निश्चितमासीत्। तदेव वधभीत्या इदानीं त्यक्तं वर्तते।
जलादाने अधिक्षेपः ; कूपखननद्वारा दलितस्य प्रतिक्रिया। 

नाग् पूर् >यदा सार्वजनीनकूपात् जलं स्वीकर्तुमुद्युक्ता स्वपत्नी सवर्णजातीयेन अधिक्षिप्ता अभवत् तदा सन्तप्तहृदयः दलितयुवकः स्वयमेव कूपान्तरं खनित्वा ग्रामीणेभ्यः समर्प्य प्रतिक्रियां कृतवान्।
  महाराष्ट्रायां वाषिम् जनपदे कलम्बेश्वरग्रामे वसन् बाप्पु रावु ताजने ४० दिनानि अनुस्यूतं कर्म कृत्वा उच्चजातीयस्य अधिक्षेपं तरति स्म।
  गतमार्च् मासे एव घटनायाः आरम्भः। ताज्ने वर्यस्य गृहसमीपस्थाः त्रयः कूपाः एकः नालिकाकूपश्च शुष्काः जाताः। नातिदूरस्थात् सार्वजनीनकूपात् जलमानेतुं गतवती तस्य पत्नी आक्षिप्ता प्रत्यागतवती। अपमाननेन व्रणितहृदयः रावु ताजने झटित्येव समीपस्थं मालेगाव् नगरं गत्वा कूपखननोपकरणानि  क्रीत्वा आनीय एकहोराभ्यन्तरे एव स्वभूमौ कूपखननम् आरब्धवान्। उन्मत्त इति विचिन्त्य भार्या प्रातिवेशिकाश्च किमपि साहाय्यं न कृतवन्तः। तथापि ४० दिनैः कूपखननं सफलीकृत्य ग्रामवासिभ्यः यथेष्टं जलमदात्।
  ग्रामीणानां कृते जलसौलभ्यमेव स्वलक्ष्यः आसीदिति बिरुदपठनं पूर्तीकृतेन दिनवैतनिकेन उक्तम्।
विवाहमंगलाशंसकेभ्यः कृतज्ञताप्रकाशनं बालवृक्षदानेन।

कोच्ची >विवाहाघोषे  अनुग्रहीतुम् आगतवन्तेभ्यः बालवृक्षान् प्रदत्वा वधूवरौ कृतज्ञतां प्रकाशितवन्तौ। केरले एवायम् अत्यपूर्वः विवाहाघोषः सम्पन्नः। एरणाकुळं जिल्लायां मष़ुवन्नूर् कूटश्शेरि भवने रामन् नायर् सरस्वती अम्बा इत्यनयोः पुत्रस्य सुभाषस्य , वलम्पूर् इटमनगृहे अजयकुमार् शकुन्तळा दम्पत्योः पुत्र्याः निवेदितायाः च माङ्गल्यवेदिकायामेव बालवृक्षाः अतिथिभ्यः सम्माननरूपेण प्रदत्ताः। अर्णवृक्षः महागणिः मांसरोहिणी आमलकी अरिष्टः इत्यादीन् ७००संख्याकान् वृक्षान् दत्वा तौ समाजे मार्गदर्शकौ जातौ।