OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 31, 2015

प्रधान वार्ता: 31-12-2015

प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दिल्लीमेरठ-एक्सप्रेसवे इति मार्गपरियोजनायाः शिलान्यासो विधास्यते।

म्याँमारदेशे त्रिदेशीयराजमार्गमालक्ष्य एकोनसप्ततिः सेतूनां निर्माणाय केन्द्रीयमन्त्रिमण्डलेन स्वीकृतिर्दत्ता।

मोदिनो लाहौरयात्रया समुत्साहितो नवाज़शरीफ़ो ब्रवीति यद् भारतपाकिस्तानाभ्यां वैरत्यागस्य कालः खलु समागतः।

मावोवादिनः स्वाधीनतायां आगता:

राय्पूर् > छत्तीस्गड् राज्ये मावो वादिनः सर्वकारस्य पुरतः अधीनाः। सर्वकारेण आयोजिता स्वाधीनता योजनायां एव २३ संख्याका: भीकरवादिनः तेषां आशयान्‌ विहाय राष्ट्रस्य भागभाजः अभवन् । तेषु षट् जनाः कुटुं कोन्द्र स्वदेशीयाः। बियास् पुरतः एकादशसंख्यकाः चन्द्रगिरीतः पञ्चजनाः च स्वाधीनतायाम् आगता : I बस्तर् देशे आयोजिते राली मेलने लब्धः आशयः मनसः परिवर्तनाय कारणभूतः अभवत् इति ते वदन्ति। गत सप्ताहे ७० जनाः सुख्मदेशे स्व - आशयान् त्यक्त्वा आगतवन्तः आसन्।

Wednesday, December 30, 2015

जल-शुद्धीकरणाय नूतनसंयुक्तः - न्युनव्ययेन ।
 
 न्यूयोर्क् > जलमालिन्यानि निमिषाभ्यन्तरेण शुद्धीकर्तुम् शक्त: राससंयुक्तः अमेरिकाराष्ट्रस्य गवेषकैः निर्मिताः। अल्पेन व्ययेन जलं मालिन्यात् मुक्तं कर्तुं शक्याते इति  कूपी जलवाणिज्ये गृहेषुजलशुद्धीकरणाय व्ययः न्यूनीकतुं सहायक एव।
कोर्णल् विश्वविद्यालयस्य गवेषकैः पर्यवेषिता इयं विद्या । सितायाः बृहदाकारा तन्मात्रा(सैक्लोडेक्स्ट्रिन्) भवति अयं संयुक्तेषु एक:I आक्टिवेटड् कारबण् सङ्केत:भवति इदानीं उपयुज्यमाना विद्या। एतस्याः काचन अंशेन सितांश: च निवेश्य निर्मीतः अयं संयुक्तः निमिषान्तरेण जलं शुद्धीकरोति इति गवेषकानां नेता प्रोफ. विल् डिच्चल् महोदय: अवदत् । जलप्रवाहः नालिकायाः प्रवाह: अपि अनेन शुद्धीकर्तुं शक्यते अविकसितेषु राज्येषु पानीयजलसमस्यायाः परिहारवत्  विराजते अयम् । लोकेषु आश्वासदायका इयं वार्ता :।


पाकिस्तानाय चारवृत्तिः
व्योमसेनायाः उद्योगस्थ: गृहीतः। 
नवदेहली - ऐ .एस् . ऐ इति पाक् रहस्यान्वेषण संस्थायै चारवृत्तिः कृता  इति कारणेन व्योमसेना उद्योगस्थः गृहीतः। रञ्जित् इति व्योमसेना उद्योगस्थः देहली आरक्षकदलेन पञ्जाबतः गृहीतः । सोमवासरे गृहीतः अयं देहल्यां पड्याल न्यायालये उपस्थापितः।
पञ्जाबे भट्टिन्डायामेव अयं नियुक्तः आसीत् । भारतीय प्रतिरोध रहस्यानि ई-पत्र द्वारा लघुसन्देशद्वारा च अनेन पाकिस्तानाय दत्तानि। एतदधिकृत्य ज्ञाते सति अयं कार्यात् बहिष्कृतः  आसीत्। सामूहिकमाध्यमद्वारा परिचिता काचित् युवतिरेव एतं चारवृत्तिं प्रति आकर्षितवती।

Tuesday, December 29, 2015

काश्मीरे केन्द्रसर्वकारः सफलतां याति।
  
नवदेहली > केन्द्रसर्वकारस्य विकसन योजना: भीकरान् विरुध्य सुरक्षासेनया कृतानि कार्याणि च कश्मीरे फलप्रदानि भवन्ति इति वृत्तम् । तत्र भीकरप्रवर्तनस्य प्ररिमाणे न्यूनता अस्ति इति सुरक्षा विभागेन सूचितम् । 
कश्मीरे केन्द्रसर्वकारेण कृताः विकसनपद्धतयः अस्मिन् मुख्यं स्थानम् आवहति |

चीनायां सुरक्षादलेभ्यः अधिकारविस्तृतिः ।

बैजिङ्> सुरक्षादलेभ्य: विस्तृतान् अधिकारान् दत्वा भीकरान् विरुद्ध्य नूतन नियमाय चीनायाम् अङ्गीकारः। एतादृश भीकर-विरुद्ध नियमः चीनया ऐदंप्राथम्येन निर्मितः। कम्यूजणिस्ट् दलेन प्रथमम् अङ्गीकृत्य NPC स्टान्टिङ् कम्मट्याः पुरतः समर्पितः अयं नियम: समित्याः १५९ अङ्गानां अनुज्ञया अङ्गीकृतःI अनेन नियमेन राष्ट्रस्य बहिः अपि भीकरान्‌ विरुद्ध्य आक्रमणाय सैन्येभ्यः सायुध -आरक्षकदलेभ्यश्च अधिकारः अस्तिI तिबत् विभागे अपि नियमस्य प्राबल्यम् अस्तिI नूतन नियम: अमेरिकराष्ट्रेण निरसितः I स्वाभिमत प्रकाशनाय बाधा भवति अनेन नियमेन इति अमेरिका राष्ट्रेण निरीक्ष्यते। अनेन नियमेन स्वतन्त्रतायाः ध्वंसनमेव भविष्यति इति अमेरिकायाः मतम्।

दशलक्षाधिकानाम् आयवताम्  आर्थिकसहायं न लभते।

नवदिल्ली > येषां वार्षिकायः दशलक्षरूप्यकाणामधिकं जायते तेषां  अनलकोषार्थसाहाय्यं निरोद्धुं केन्द्रसर्वकारेण निश्चितम्। आगामी जनवरिमासादारभ्य पचनवातकाय अर्थसाहाय्यम् अभिलषन्तः उपभोक्तारः आयः दशलक्षात् न्यूनमिति सत्यवाङ्मूलं समर्पयेयुः।अर्थसाहाय्यम् अर्हतावतां परिमितं कर्तुमेव एतादृशं नियन्त्रणम्।   
    

Sunday, December 27, 2015

तुळू भाषा अङ्गीकृता स्यात्।


कासर्कोट् - अंगीकृतभाषा भवितुं तुळू भाषायाः प्रयत्नः साफल्यं प्राप्नोति।भारत संविधानस्य अष्टमपट्टिकासूचीमध्ये (Schedule) सूचिताङ्गीकृत भाषाणांमध्ये तुळू नाम भाषां च अन्तस्स्थापयितुं निर्णयः स्वीकृत: । दक्षिणभारतस्य पञ्चसु द्राविडभाषासु प्रधानभूता तुळू ३८तम भाषारूपेण पट्टिकायां स्थानं प्राप्तवती। केन्द्रगृहमन्त्रालयस्य अधीने वर्तमानया समित्या एव अन्तिमनिश्चयः स्वीकरणीयः।



सि. पि. एम्य् देशीय  प्लीनम् सम्मेलनम् आरब्धम् I


कोल्कोत्ता - अधिकारभ्रष्टेषु राज्येषु प्रत्यागमनस्य काहलं घोषयित्वा कम्म्यूणिस्ट् पार्टि आफ् इन्डिया(मार्क्सिस्ट्) दलस्य (सि पि एम्) देशीयप्लीनं सम्मेलनं कोल्कोत्तायां ब्रिगेड् मैताने आरब्धम्।३५ संवत्सरेभ्यःपरमेव दलस्य प्लीनं सम्मेलनं प्रचलति। विविधमण्डलेषु अनुवर्तमानाः नयरूपवत्करणचर्चाः अत्र भविष्यन्ति।
       


अफ्गानसंसद् नरेन्द्रमोदिना उद्घाटिता।
narendra modi, Ashraf ghani, modi in kabul, modi ghani meeting, india afghanistan deals, modi in afghanistan, modi opens afghan parliament, vajpayee block , new afghan parliament , modii address afghan parliament, india news, afghanistan news, modi in kabul news, latest newsअंबुजा - अफ्गानिस्तान् राष्ट्राय भारतेन निर्मीय दत्तं नवीनं संसद्भवनं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अफ्गानस्य राष्ट्रपतिः मुहम्मद् अषरफ् गनी च मिलित्वा  उद्घाटितवन्तौ। उभयोः राष्ट्रयोः परस्परसौहृदस्य सहकरणस्य च प्रतीकः अस्ति नवीनं संसद्मन्दिरमिति मोदिवर्यः अवोचत्। उभयराष्ट्रसौहृदस्य शाक्तीकरणमुद्दिश्य २००७ तमे संवत्सरे नूतनसंसद्भवनं निर्मीय दातुं भारतं निश्चिकाय।६०० कोटि रूप्यकाणां निर्माणव्ययः अभवत्।भवनसमुच्चये अन्यतमविभागस्य भारतस्य भूतपूर्वप्रधानमन्त्रिणः अटल् बिहारी वाजपेयिवर्यस्य नामकरणाय निश्चय अपि कृतः।
मोदिनः अप्रतीक्षितं पाक्-सन्दर्शनम्
शुभप्रतिक्षायाः भूमिका सञ्जाता।
 भारत-पाक् विदेशविभाग सचिवानां उभयाभिमुखं जानुवरीमासस्य 15 दिने भविष्यति
नवदिल्ली - भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अप्रतीक्षितेन पाकिस्तानसन्दर्शनेन राष्ट्रयोर्मध्ये  शुभप्रतीक्षा सञ्जाता। विदेशाविभागकर्यकार्यदर्शिनो: मेलन पर्यालोचनं जनुवरि १५ दिनाङ्के इस्लामबादनगरे स्यात्। ततः समग्रचर्चायाः दिनाङ्कादिकं विज्ञापयिष्यति। मोदिनः रष्यासन्दर्शनं समाप्य प्रत्यागमनवेलायामेव पाक्-सन्दर्शनं जवेन निश्चितम्। लाहोर् विमाननिलये पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः मोदिनं स्वीकृतवान्। ततः एकघण्डां यावत् चर्चा कृता। रात्रावेव मोदिवर्यः दिल्लीं प्राप्तवान्। 


शर्माजी पुरस्कारेण  श्री टी के सन्तोष् कुमार: सम्मानितः
तोटुपुषा (केरलम्)- संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः संस्कृतभारत्याः केरलविभागेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते  एव अयं पुरस्कारः दीयते । अस्य वर्षस्य शर्माजी पुरस्काराय चितःटी. के सन्तोष्कुमार: केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी तथा कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालयस्य संस्कृताध्यापकश्च भवति।
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्ट   पण्डितरत्‍नं डो.जी. गङ्गाधरन् नायर् महोदयः श्री.टी. के. सन्तोष्कुमाराय पुरस्कारं ददाति। १०००१ रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । पुरस्कार: संस्कृत अद्यापक फ़ेटरेशन् संस्थाया: लब्धः अङ्गीकारमिति मन्ये इति संतोष् वर्यः प्रत्यवदत् ।
संस्कृतस्य कृते निस्वार्थ सेवनम् कृतवानयं इति गङ्गाधर महाभागेन उक्तम् ।

Saturday, December 26, 2015

सप्तम देशीय श्रीशङ्करनृत्तसंगीतोत्सवस्य अद्य शुभारम्भः ।

कालटी - केरलस्य अद्वतभूमिः कालटी तावत् अद्य आरभ्य पञ्च दिनं यावत् लोकप्रशस्तानां नृत्तसंगीतकलाकाराणां वैभवेन सम्पन्ना भविष्यति।
कालटी श्रीशङ्करनृत्तविद्यालयस्य नेतृत्वे आयोज्यमानः सप्तमः नृत्तोत्सवः डिसं.२६ - ३० पर्यन्तं श्रीशङ्करनाट्यमण्डपस्य समीपे सविशेषरीत्या कृतायां  २२५० चतुरश्रपादमितायां नृत्तवेदिकायां प्रचलिष्यति।
२६तमदिनाङ्के सायं ५.४०वादने प्रसिद्धः कथक् नर्तकः अषिं बन्धु भट्टाचार्यः,(कोल्कत्ता) कथक् नृत्तमवतारयति। २७ - सायं श्री रञ्जित् श्रीमति विज्ना (चेन्नै)इत्येताभ्याम् अवतार्यमाणं भरतनाट्यम् , २८ - सरिता मिश्रायाः (बङ्गलूरु)ओडीसी ,२९ -डो. द्रौपदी प्रवीण् ,डो . पद्मिनिकृष्णन् (केरलं) इत्येतयोः भरतनाट्यं-कुच्चिप्पुटी फ्यूषन्नृत्तं ,जयप्रभा मेनोन् (नवदिल्ली) महाभागाया: मोहिनियाट्टं , कलारत्नं दीपिका रड्डि (हैदराबाद्) वर्यायाः कुच्चिप्पुटी च भविष्यन्ति।समापनदिने - ३० -सायं कलाश्री सुनन्दा नायर् (मुंबई) महाभागया अवतार्यमाणं मोहिनियाट्टं च भविष्यति।

Prashikshana Shibiram

प्रशिक्षणस्य स्वानुभवकथनम्।



 परीक्षा क्रीडा द्वारा


 
*
कुमारमङ्गले प्रवर्तमाने शिक्षकप्रशिक्षणशिबिरे ह्यः परीक्षा आसीत् । परीक्षा कीदृशी भविष्यति इति भिया आगतानां शिक्षार्थिनां पुरतः विविधाभिः भाषाक्रीडाभि: आगत्य शिक्षकाः तान् आश्चर्यचकितान् कृतवन्तः ।

प्रशिक्षणे वररुचिगणः सरण्यां सरस्वतीगणः च प्रथमं स्थानं प्राप्तवन्तौ। प्रत्येकगणेन निर्मितानां भित्तिपत्रिकाणां प्रकाशनमपि जातम्। राष्ट्रियस्वयंसेवकसङ्घस्य सङ्घचालक : नारायनन् महोदयः आशंसाभाषणं कृतवान्।


वेदाः भारतसंस्कृतेः प्रभवकेन्द्राः -
भारतस्य राष्ट्रपतिः।

 हैदराबाद् - भारतस्य अमूल्यसंस्कृतेः परम्परायाः च स्रोतः भवति वेदाः इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिना उक्तःआन्ध्रराज्ये तिरुमलै तिरुप्पति देवस्थाने आयोजिते वेदपाठशालायाः उद्घाटनसन्दर्भे भाषमाणः आसीत् सः
अस्माकं धार्मिकतायाः आधारः वेदाः एव वेदे प्रतिपादिदाः अंशाः व्यक्तेः समूहस्य तथा राष्ट्रस्य च कल्याणाय कल्पन्ते सार्वजनीक साहोदर्यस्य संदेशः वेदाः प्रसरन्ति ज्ञान- बुधि- धारणा च वेदाध्ययनेन सम्भवति  इति च अनेन महात्मना उद्घोषितः । 

सौदी आतुरालये महादग्निबाधा -25 मरणानि।
जिद्दा- सौदी- यमन् राष्ट्रयोः सीमायां जिसान् प्रदेशे सौदीसर्वकारातुरालये संजाते अग्निदुरन्ते २५ जनाः मृताः। १०७ जनाः दग्धाश्च। अरब्वंशीयाः रुग्णाः तेषां सहायिनश्च दुरन्ते बलिभूताः।

Friday, December 25, 2015

Akshaya Thrithiya Kanakadhara

Akshaya Thrithiya Kanakadhara Yajnam will be held at Sri Krishna Temple in 7th May 2016 onwards.
 


The yajnam is held in remembrance of the legend that there was a rain of golden gooseberries when Sri Sankaracharya recited slokas after seeing the plight of a Brahmin lady living in abject poverty. The lady was upset as she could only provide gooseberries as alms to Sri Sankaracharya when he visited her house. Seeing her plight, Sri Sankaracharya was moved and he recited slokas addressing Lakshmi Devi. It is believed that golden gooseberries fell when Sri Sankaracharya completed the 19th sloka. The chief priest of the ceremony will be the senior-most member of Swarnathu Mana. Sri Sankaracharya is believed to have recited the 19 slokas while visiting this house.
Kappilli Sreekumar Namboodiri, managing trustee of Sri Krishna Temple, said that all arrangements have been made for devotees to participate in the yagnam. The yajnam will conclude on May 11. More details about the yajnam can be had on Phone: 9388862321; 9349553051 Website:www.srikrishnatemplekalady.org.
सम्प्रति वार्ताः- 
राज्यस्तरीय- शिक्षक- प्रशिक्षणशिबिरं
केरळे श्वः सम्पूर्णम् भविष्यति
संस्कृतप्रशिक्षणशिबिरम् अधिकृत्य संस्कृतभारत्याः महामन्त्री प. नन्दकुमारः।
अद्य क्रिस्तु जयन्ति आचरन्ति लोकाः 
 
वत्तिक्कान् नगरे सेन्ट्.पेट्टर् देवालये फ़्रान्सिस् मार्पप्पा आराधनं  करोति।
तिरुवैराणिक्कुलं देवीदर्शनमहोत्सवोद्घाटनम् अद्य।

कोच्ची - भारते दक्षिणकैलासः मङ्गल्यवरदायिनीमन्दिरम् इति च प्रख्याते तिरुवैराणिक्कुलं महादेवमन्दिरे अस्य संवत्सरस्य श्रीपार्वतीदेव्याः गर्भगृहस्य द्वारोद्घाटनं देवीदर्शनं च अद्य आरभते।श्रीपरमेश्वरः पार्वतीदेवी च एकस्मिन्नेव गर्भगृहे अनभिमुखं प्रतिष्ठितौ तथापि देवीदर्शनं प्रतिसंवत्सरं धनुमासस्य आतिरनक्षत्रादारभ्य द्वादशदिनपर्यन्तमेव साध्यमिति अस्य मन्दिरस्य सविशेषता। मङ्गल्यसौभाग्याय इष्टसन्तानलब्धये दीर्घमंगल्याय च देवीदर्शनं विशिष्टमिति भक्तजनाः मन्यन्ते।
केरले एरणाकुलं जिल्लायाम् आलुवा अंशे तिरुवैराणिक्कुलं प्रदेशे पूर्णानद्याः (पेरियार्) तीरे इदं मन्दिरं वर्तते। कोच्ची अन्तःराष्ट्रविमाननिलयः १० कि.मी दूरे अस्ति। आलुवा, अङ्कमाली , पेरुम्पावूर्  के एस् आर् टि सि बस्याननिस्थानेभ्यः सविशेषलोकयानसेवनानि च अस्मिन् काले लभ्यन्ते।

Thursday, December 24, 2015

तीव्रवादान् विरुध्य तीव्रवादिनेतु: कार् यानम् अग्निसात्करोत्।
गासियाबाद् - तीव्रवादान् विरुध्य  तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्। हिन्दुमहासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः। 

क्रिस्तुमस् पर्वणः निरोधः 
  
ब्रूणे - अस्य राष्ट्रस्य नेता सुल्त्तान् हसनल् बोलक्कय्या एव क्रिस्तुमस् आघोषाय निरोधानां कृतवान् जानुवरी मासस्य 16 दिने  दक्षिणपूर्व एष्यायां बार्णियो द्वीपे विद्यमानं राष्ट्रमेतत्।
-
 गतवर्षेषु अपि एतादृश निरोधः आसीत्। 4,20,000 जनाः अत्र वसन्ति्। तस्मिन् प्रतिशतं द्वात्रिंशत् जनाः विविधधर्मावलम्बिनः सन्ति

 भारत-पाक् विदेशविभाग सचिवानां चर्चा

नवदिल्ली-भारत-पाक् देशयोः विदेशविभागसचिवानां उभयाभिमुखं जानुवरीमासस्य 16 दिने भविष्यति। पाक्क् प्रधानमन्त्रिणः विदेशविभागस्य निदेशकेन सर्ताज् असीसेन निर्दिष्टा इयं चर्चा इस्लामबादे प्रचलिष्यते। विदेशकार्यमन्त्रिण्या: सुषमा स्वराजस्य पाक्क् प्रथानमन्त्रिणा सह सम्पन्ने मेलने एवायं निश्चयः जातः


 बालनीतिविधेयकं राज्यसभया अङ्गीकृतम्।

नवदिल्ली - गुरुतरापराधान् क्रियमाणाः १६-१८ मध्ये वयस्काः कुमारकाः प्रौढा इव नैतिकविचारविधेयाः भवितुं सप्तसंवत्सरपर्यन्तं कारागृहवासं च व्यस्थापयितुम् उद्दिष्टं  बालनीतिभेदगतिविधेयकं राज्यसभया अपि अङ्गीकृतम्।पूर्वमेव लोकसभया अङ्गीकृतमिदं विधेयकं राष्ट्रपतेः हस्ताक्षरविन्यासेन नियमः भविष्यति।

नरेन्द्रमोदी मोस्को प्राप्तः।
Image for the news resultमोस्को - दिनद्वयात्मकरष्यासन्दर्शनाय भारतप्रधानमन्त्री नरेन्द्रमोदी मोस्कोनगरं प्राप्तवान्। तत्र नुक्कावो-२ विमाननिलये  मोदिवर्यः रष्यासैन्यस्य " गार्ड् आफ ओणर्" विन्यासेन स्वीकृतः।राष्ट्रपतिः व्लादिमिर् पुतिन् महोदयः रात्रिभोजनेन सह सत्कारं समर्पितवान्। अद्य द्वावपि राष्ट्रनेतारौ उभयपक्षचर्चां कृत्वा आणवोर्जः राष्ट्ररक्षा इन्धनम् इत्यादिषु मण्डलेषु अनुबद्धेषु हस्ताक्षरं करिष्यतः।ततः मोदीवर्यः रष्यस्थान् भारतवंशजान् अभिसंबुद्धिं करिष्यति।

Wednesday, December 23, 2015


 केजरिवालाय उच्च न्यायालयेन सुचना प्रेषिता।
नवदिल्ली - धनमन्त्रिणं अरुण् जैतट्लीं विरुद्ध्य व्याज अलीक आरोपणे दिल्ल्याः मुख्यमन्त्रिणे  केजरिवालाय उच्च न्यायालयेन सुचना  प्रेषिता। केजरिवालं विहाय पञ्च आम आदमी नेतृभ्यः सुचना  प्रेषिता। वारत्रयाभ्यन्तरेण प्रत्युत्तरं दादव्यमस्ति। दिल्ली क्रिक्कट् संस्थादलान् सम्बन्ध्य व्याज अलीकारोपणे 10 कोटि रुप्यकाणां अभिमाननष्टस्य मूल्यमिति: जैट्लिना पञ्चीकृतः ।

 बस् यानं विमाने घट्टितम् 
कोल्क्कत्त-  कोल्क्कात्तायां  राज्यान्तरीयव्योमयान निलये  बस् यानं विमानेन सह घट्टितम्।  जेट्ट् एयर् वेय्सस्य भवति बस् यानम्। एयर् इन्त्यायाः स्थगिते विमाने आसीत् घट्टनम्। तस्मिन् समये विमाने यात्रिकाः नासीत्। विमान गृहे सुरक्षायाः अभावः अस्ति इति अनया दुर्घटनया सूच्यते।


समूह योग विदेशेऽपि
दुबाय् -  अबुदाबी नगरे योगत्तोण् इति नाम्नि समूह योगप्रदर्शनम् आयोजितम्। अबुदाबी मुशिरिश् पार्क्क् मध्ये 25राष्ट्रेभ्यः षट्शताधिका: जनाः योगाचरणाय मिलिताः। आर्ट ओफ़् लिविङ्ग् अबुदाबी केन्द्रेण आयोजितः इदं मेलनम् । राष्ट्रान्तर - परिशीलक: हसन् टफ़्ति: परिशीलनस्य नेतृस्थाने आसीत् । विद्यालयछात्राः अपि भागभाजः आसन् ।

शबरिगिरौ महान् भक्तजनसम्मर्दः -३२ आहताः।
शबरिगरिः - दक्षिणभारतस्य महातीर्थाटनकेन्द्रे शबरिगिरौ भक्तजनप्रवाहः वर्धते।गतदिने सन्निधाने सञ्जाते भक्तजनसम्मर्दे ३२ अय्यप्पाः आहताः। क्रिस्मस् कालीनविरामदिनानि , वातावरणानुकूलतया तमिळनाट् राज्यात् समागतभक्तजनबाहुल्यं च सम्मर्दकारणानि जातानि। अन्यथा शबरिगिरौ च वातावतरणं भक्तानुकूलं एव वर्तते।


शर्माजी पुरस्कारः श्री टी के सन्तोष् कुमाराय 

तोटुपुषा - संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः संस्कृतभारत्याः केरल घटकेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते  एव अयं पुरस्कारः दीयते । केरले संस्कृतप्रतिष्ठानस्य आरम्भकालकार्यकर्ता संस्कृतप्रचारकः कविः पण्डितः इत्यादि रूपेण विख्यातस्य कृष्णशर्मणः स्मरणार्थमेव अयं पुरस्कारः दीयते ।

     अस्य वर्षस्य शर्माजी पुरस्काराय टी. के सन्तोष्कुमार: चितः इति पुरस्कारनिर्णयसमित्या सूचितम् । 
केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी   कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालये संस्कृताध्यापकश्च भवति सन्तोष्कुमारः।  १०००१  रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । २६ दिनाङ्के तोडुपुषायां प्रचलतः राज्यशिक्षकप्रशिक्षणशिबिरस्य समापनसम्मेलने  विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्  पण्डितरत्‍नं डो.जी. गङ्गाधरन् नायर् पुरस्कारं दास्यति । डा . एम्. पि उण्णिकृष्णन् , डा.पि.के.शङ्करनारायणः , डा इ .एन् . ईश्वरः इत्येतेषां समितिरेव पुरस्काराय सन्तोष् कुमारं  चितवती । 
अशोकन्  पुरनाट्टुकरा , सुरेन्द्रन् कटक्कोट् , रामचन्द्रन् ए .के. , डा . कोरमङ्गलं कृष्णकुमारः , सि .एन् . सोया , पद्‌मनाभशर्मा इत्येते एव पूर्वम् शर्माजी पुरस्कारं प्राप्तवन्तः ।

Tuesday, December 22, 2015

 केरले जतुकृषकाः महत्सङ्कटे। 

कोट्टयम् - केरलराज्ये जतुकृषिः महान्तं प्रतिकूलसन्धिम् उपगच्छति। संवत्सरेभ्यः अनुवर्तमानं मूल्यशोषणमेव कारणम्। दिनंप्रति जतुमूल्यस्य अधःपतनम् अनुवर्तते। अतः ह्रस्वक्षेत्रस्वामिनः कृषकाः च्यावनात् प्रतिनिवृत्ताः। वर्षत्रयात्पूर्वं एककिलोपरिमितस्य जतोः मूल्यं २०० रूप्यकाण्यासन्। किन्तु इदानीं ९०- ९२ रूप्यकाणि कृषकः लभन्ते। जतुविपण्याः मान्द्यम् इतरविपणिमण्डलानि अपि प्रतिकूलेन बाधते।
रेल् यात्रा दुरितपूर्णा


नव दिल्ली-  केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः  क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्‌गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।


जनानां कृते निर्वाचितै: नेतृभिः किमपि करणीयम्


नवदिल्ली - जनानां कृते निर्वाचितेभिः नेतृभिः किमपि करणीयः इति केरल राज्यस्य अभिनेता इन्नसेन्ट महोदयः अवदत्।  अधुना लोकसभायां सदस्यः भवति अयं महानुभावः। स्वकीय आतुरालयेषु जनान् क्लेशयन्ति अर्बुदरोगस्य औषधाणां कृते अधिकं मूल्यम् स्वीक्रियन्ते इति च सः लोकसभायाम् अवदत्। मम विषये अपि मूल्यं सोढव्याधिकं चेत् सामान्य जनेभ्यः इदं अप्राप्यमेव। अस्मदीयानां कर्तव्यम् अन्येषां महानसेषु किं अस्ति इति दृष्टुं न , जनोपयुक्तानि  प्रवर्तनानि नेतृभिः करणीयानि इति च सः अवदत् ।