विद्यालयेषु उन्मादकोपयोगनिरोधः - शिक्षकेभ्यः परिशीलनं विहितम्।
अनन्तपुरी> केरले विद्यालयेषु छात्राणाम् उन्मादकवस्तूपयोगस्य निर्मार्जनाय अस्य वर्षस्य विरामकालीनाध्यापकपरिशीलने उन्मादकविरुद्धपरिशीलनमपि अन्तर्भावयति। छात्रान् उन्मादकवस्तूनां प्रभाववलयात् विमोचयितुम् एकदिनात्मकं प्रायोगिकपरिज्ञानं विधत्तम्।
उन्मादकविरुद्धविभागस्य अधिकारिणः मानसिकारोग्यविशारदाश्च बोधनक्रियाकक्ष्यायां भागं स्वीकरिष्यन्ति। विद्यालयेषु शिक्षक-रक्षाकर्तृसमितीनां सामान्यजनानां च भागभाक्त्वं दृढीकरिष्यति। छात्राणां मानसिकोल्लासवर्धनाय विद्यालयपरिसरं सौहार्दात्मकं विधास्यति।