OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, March 11, 2025

 युक्रेनाय अन्ताराष्ट्र सुरक्षासेना 

३० राष्ट्राणि चर्चायै पारीसं प्रति।

पारीस्> युक्रेनराष्ट्राय अन्ताराष्ट्र सुरक्षासेनायाः रूपीकरणाय चर्चितुं ३० राष्ट्राणां सैनिकप्रतिनिधयः पारीसे उपवेशयन्ति। युद्धविरामानन्तरं रूसराष्ट्रस्य आक्रमणं भवेत्तर्हि प्रतिरोद्धुमेव अन्ताराष्ट्रसेनां रूपीकरोति। एष्या - ओष्यानाराष्ट्राण्यपि चर्चायां भागं कुर्वन्तीति पारीसस्य सेनाधिकारिभिरुक्तम्। ब्रिटनं , फ्रान्स् इत्येतस्य राष्ट्रद्वयस्य नेतृत्वे अस्ति सेनारूपीकरणस्य निर्वहणम्।

 एफ् बी ऐ संस्थया मार्गमाणः  उन्मादकगूढसंघस्य नेता पञ्चाबे निगृहीतः।

चण्डीगढः> एफ् बी ऐ [Federal Bureau of Investigation] इति यू एस् राष्ट्रस्य अपराधान्वेषणसंस्थया चिरकालं यावत् मार्गमाणः अन्ताराष्ट्रिय उन्मादकगूढसंघस्य नेता षेह्नास् सिंह नामकः भारतीयवंशजः लुधियाना प्रदेशात् पञ्चाब आरक्षकसंघेन निगृहीतः।  कोलम्बिया राष्ट्रात् यु एस् , कानडा इत्यादि राष्ट्राणि प्रति कोकेन् इत्याद्युन्मादकवस्तूनां वाहकसंघस्य नेता भवति षोण् बिन्दर् इत्यपि कथ्यमानोSयम्। 

  षेह्नासः २०१४ तमवर्षादारभ्य कानडायां प्रवर्तमानः अस्ति। फेब्रुवरि २६ तमे यू एसे विधत्ते आरक्षकान्वेषणे तस्य ६ सहप्रवर्तकाः निगृहीताः आसन्। एतेषां गृहेषु कृते अन्वेषणे बृहदुन्मादकसञ्चयः आयुधानि च संगृहीतानि आसन्।

Monday, March 10, 2025

 सि पि एम् दलस्य राज्यस्तरीयसम्मेलनं परिसमाप्तम्। 

एम् वि गोविन्दः कार्यदर्शी। मुख्यमन्त्रिणः 'नवकेरलनिर्माणनयरेखा' सर्वात्मना अङ्गीकृता। 

पथसञ्चलनस्य दृश्यम्। वाहने देशीयसंयोजकः प्रकाश् काराटः, एं वि गोविन्दः,पिणरायि विजयःइत्यादयः।  

कोल्लम्> कम्यूणिस्ट् पार्टी ओफ् इन्डिया [मार्क्सिस्ट्] इति राजनैतिकदलस्य [सि पि एम्] चतुर्दिनात्मकं  केरलराज्यस्तरीयं सम्मेलनं समाप्तम्। ह्यः सम्पन्ने प्रतिनिधीनामुपवेशने नूतनी कार्यकर्तृसमितिः, राज्यस्तरीयसमितिश्च चिता। 

  ८९ अङ्गयुक्तायाः राज्यसमित्याः कार्यदर्शिरूपेण एम् वि गोविन्दः पुनरपि चितः। द्वितीयवारमेव तस्य कार्यदर्शिपदम्। राज्यस्तरीयकार्यनिर्वाहकसमित्यां मुख्यमन्त्री पिणरायि विजयः, एम् वि गोविन्दः इत्यादयः १७ सदस्याः अन्तर्भवन्ति। 

  सम्मेलनस्य अंशतया मुख्यमन्त्रिणा पिणरायि विजयेन अवतारिता 'नवकेरलनिर्माणाय नूतनी मार्गरेखा' इत्याख्या तृतीयवारप्रशासनप्राप्त्यर्थकी नयरेखा सम्मेलने सर्वैः सर्वात्मना अङ्गीकृता।

  सम्मेलनस्य समाप्तिरूपेण सायं बृहत् पथसञ्चलनमपि आयोजिता। समाप्तिसम्मेलनं दलस्य राष्ट्रियसंयोजकः प्रकाश् काराट् वर्यः उद्घाटनमकरोत्।

 सुनिता विल्यंसस्य संघस्य च प्रत्यागमनं मार्च् १६ तमे। 

न्यूयोर्क्> राष्ट्रान्तरीयबहिराकाशनिलये नव मासान् यावत् लग्नानां सुनिता विल्यंसमभिव्याप्य चतुर्णां बहिराकाशयात्रिकाणां भूमिं प्रति आगमनं अस्मिन् मासे १६ तमे दिनाङ्के भविष्यति। सुनितया साकं गतः बारी विल्मोरः, प्रकरणान्तरे बहिराकाशं गतवन्तौ  यू एस् देशीयः निक् हेगः, रूसीयः अलक्साण्टर् गोर्बुनोव् इत्येतौ च तद्दिने एव प्रत्यागमिष्यन्ति।

 संसदः द्वितीयचरणम् अद्य समारभ्यते। 


नवदिल्ली> भारतीयसंसदः आयव्ययपत्रकसम्मेलनस्य द्वितीयचरणम् अद्य समारभ्यते। अस्यार्थिकवर्षस्य वित्तविनियोगविधेयकस्यानुमोदनं, वखफ् परिष्करणं, मणिपुरराज्याय आयव्ययपत्रकम् इत्यादीनामङ्गीकरणं च अस्य  सम्मेलनस्य मुख्योद्देश्यानि भवन्ति।

 केरले आशा कर्मचारिण्यः प्रतिषेधं कुर्वन्ति।

   केरले आशाकर्मचारिण्यः फेब्रुवरीमासस्य दशमदिनाङ्कात् आरभ्य प्रतिषेधं कुर्वन्ति। अद्य प्रतिषेधस्य त्रिंशत्तमो दिवसः अस्ति। भृतिवर्धना तथा स्थिरनियुक्तिः इत्यादीन् अवाप्तुमेव स्वशब्दोपवेशित प्रतिषेधः। किन्तु सर्वकारः  अद्यावधि पराङ्मुखः  निद्राणः इव अस्ति। शासकाः कर्मदिनैः  सह समन्वयचर्चाम् अपि कर्तुं न सन्नद्धाः।

  प्रतिषेधः कतिपयसप्ताहेभ्यः पूर्वम् आरब्धः इत्यतः कर्मचारिण्यः समागमिष्यमाणेषु दिनेषु प्रतिषेधं विस्तारयितुं निर्णयं कृतवन्तः। सर्वकारस्य दमननीतिं प्रति प्रत्युत्तरं दत्त्वा कांग्रेसदलस्य नेता के.सी. जोसफः अस्य प्रतिषेधस्य अनुकूलनं कृतवान्।

  एतेषु सन्दर्भेषु केरलस्य विशेषप्रतिनिधिः के.वि. तोमसः केन्द्रधनमन्त्रिणं निर्मला सीतारामन् महाभागाम् इदानिन्तनां अवस्थामधिकृत्य न्यवेदयितुं सज्जतां करोति। तेन आशाकर्मचारिणीनां समस्याः भारतसर्वकरस्य पुरतः प्रस्तोष्यन्ते।

    आन्ध्रप्रदेशे आशाकर्मचारिणीभ्यः वर्धिता निष्कृतिः प्रदत्ता अस्ति इत्यतः केरलराज्येऽपि समरूपेण दातव्या इत्यस्ति कर्मचारिण्याः आवश्यकता। 

Sunday, March 9, 2025

 मणिपुरे बस् यानसेवा आरब्धे प्रथमदिने एव संघर्षः - एको हतः। 

इम्फालः> राष्ट्रपतिप्रशासने अनुवर्तमाने मणिपुरे कुक्किवाभागः सुरक्षासेना इत्यनयोर्मिथः संघट्टने एकः प्रक्षोभकः हतः। २५ जनाः आहताः। 

  राज्ये शनिवासरतः स्वतन्त्रसञ्चारः परिपालनीयः इति केन्द्रगृहमन्त्रिणः अमित शाहस्य निर्देशमनुसृत्य सुरक्षासेनायाः अनुगमनेन  बस् यानसेवा आरब्धा। किन्तु यानसेवां विरुध्य कुक्किविभागः प्रतिषेधेन आगत्य वाहनानि दाहयितुमारभत। एतान्प्रतिषेधकान् विरुद्ध्य सुरक्षासेना भुषुण्डिप्रयोगमकरोत्।

 भारतमेव वीरः। 

चाम्प्यन्स् ट्रोफी अन्तिमे प्रतिद्वन्द्वे न्यूसिलान्टं विरुध्य चतुर्णां द्वारकाणां विजयः। 

दुबाय्> आद्यन्तम् उत्साहभरिते प्रतिद्वन्द्वे चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः अन्तिमद्वन्द्वे भारतस्य उज्वलविजयः। २५२ विजयलक्ष्यमनुगतं भारतं ६ कन्दुकेषु अवशिष्टेषु ६ ताडकानां विनष्टेन विजयतीरं प्राप। दलनायकः रोहितशर्मा ८३ कन्दुकान् अभिमुखीकृत्य ७६ धावनाङ्कान् लब्धवान्। 

  प्रथमचरणे कन्दुकताडनं कृतवता न्यूसिलान्टेन ७ ताडकानां विनष्टे ५० क्षेपणचक्रेषु २५१ धावनाङ्काः प्राप्ताः। प्राप्ताङ्कसूचिका - न्यूसिलान्टः २५१/७ , ५० क्षेपणचक्रेषु। भारतम् - ४९ क्षेपणचक्रेषु २५२/६।

 चाम्प्यन्स् ट्रोफी - अन्तिमस्पर्धा अद्य। 

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट्वीरः क इति अद्य ज्ञातुं शक्यते। अपराह्ने सार्धद्विवादने दुबाय् अन्ताराष्ट्र क्रीडाङ्कणे आरप्स्यमाणे अन्तिमप्रतिद्वन्द्वे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। 

  वर्तमानलोकजेतारम् आस्ट्रेलिया दलं पराजित्य एव भारतम् अन्तिमचरणं प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे न्यूसिलान्ट् दक्षिणाफ्रिकां पराजित्य अन्तिमयुद्धाय योग्यतामलभत।

Saturday, March 8, 2025

 वेस्ट् बाङ्के कारागृहस्थाः १० भारतीयाः इस्रयेलेन विमोचिताः।

वेस्ट् बाङ्क्>  पालस्तीने वेस्ट् बाङ्क् इत्यत्र एकस्मिन् ग्रामे मासाधिककालं यावत् कारागारबद्धाः १० भारतीयाः निर्माणवृत्तिकराः इस्रयेलेन विमोचिताः। निर्माणवृत्त्यर्थं इस्रयेलं प्राप्ताः भारतीयाः कर्मवाग्दानाधीनाः  वेस्ट् बान्कस्थं अल् - सयीम ग्रामं नीताः इति इस्रयेलिमाध्यमैः सूचितम्। एतेषां पास्पोर्ट् पत्राणि बलेनापहृतानि। सीमातरणाय एतानि पास्पोर्ट् पत्राणि कतिपयैः पालस्तीनीयैः उपयुक्तानीति अवगम्य इस्रयेलसेनया परिशोधनं कृत्वा एते अधिगताः आसन्।

 सिरिया संघर्षभरिता। 

७० मरणानि। 

लताकिया> बाषर् अल् असद् प्रशासनं प्रतिलोम्य विमतैः  अधिकारं प्राप्ते सिरियाराष्ट्रे मासत्रयानन्तरं संघर्षः। लताकिया इति समुद्रतटप्रदेशे आयुधधारिणः असदनुकूलिनः सुरक्षासेना च मिथः सञ्जाते संघट्टने सप्तत्यधिकं जनाः हताः। अनेके व्रणिताः। मृतेषु ३५ सुरक्षासैनिकाः भवन्ति।

Friday, March 7, 2025

 पाकिस्थाने आत्मघातिस्फोटनं - १२ मरणानि। 

पेषावरं> अफ्गानस्थानस्य सीमायां  खेबर् पख्तून् ख्व इत्यत्र वर्तमाने पाकिस्थानस्य सैनिकशिबिरे दुरापन्ने युगलात्मघातिस्फोटने १३ जनाः हताः; त्रिंशदधिके आहताश्च। मङ्गलवासरे सायमासीत् आत्मघात्याक्रमणम्। 

  कार् याने आगताभ्यां भीकराभ्यां सह इतरे भीकराः अप्यासन्। तेषु षट् सुरक्षासेनयाः निहताः। आक्रमणस्य उत्तरदायित्वं तेहरिके तालिबान् पाकिस्थान् इत्यस्य भीकरसंघटनस्य 'जय्ष् अल्' विभागेन स्वीकृतम्।

 भारतं विरुध्य अमेरिकायाः आयातकरः एप्रिमासे - ट्रम्पः। 


न्यूयोर्क> भारतं विरुध्य अमेरिकया प्रख्यापितः आयातकरः एप्रिमासस्य द्वितीये दिने प्रवृत्तिपथमीगमिष्यतीति राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् राष्ट्रपतिपदावरोहानन्तरं सभायाः संयुक्तसम्मेलनं प्रथमतया  अभिमुखीकुर्वन्  ट्रम्पः आयातशुल्कं पुरस्कृत्य भारतमभिव्याप्य बहूनि राष्ट्राणि विमृष्टवान्। भारतं विना यूरोपीयराष्ट्रसंहतिः, चीनः, ब्रसीलः, मेक्सिको, कानडा, दक्षिणकोरिया इत्येतैः राष्ट्रैः अमेरिकायामुपरि विहितानि शुल्कानि अनीतियुक्तानीति ट्रम्पेण विमृष्टम्।

 भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणश्रमः है अभवत्। 

     भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणश्रमः अभवत् लण्डननगरे चथं हाउस् इत्यस्मिन् सङ्गोष्ठ्यां भागं ग्रहीतुं स्थिते खलिस्थानवादिभ्यः भीकरेभ्यः आक्रमणभीषा जाता। विरोधिनः जयशङ्करस्य वाहनस्य समीपं प्राप्य भारतीयराष्ट्रध्वजं अनादृतवन्तः इति च चित्रेषु दृश्यते।

   भारतस्य विदेशकार्यमन्त्रालयः एतां घटनां तीव्रं निन्दनम् अकरोत्, तथा च ब्रिटनदेशः स्वीयं उत्तरदायित्वं पूर्णं करिष्यतीति अभ्याशां प्रकटितवान्। ब्रिटनदेशस्य सर्वकारेण अपि एततां घटननां तीव्रं निन्दित्वा, अपराधिनः न्यायसम्मुखे स्थापयितुं दृढप्रतिज्ञा च  स्वीकृता।

Thursday, March 6, 2025

 चाम्प्यन्स् ट्रोफी - भारतस्य प्रतिद्वन्दी न्यूसिलान्टः।

दक्षिणाफ्रिकां ५० धावनाङ्कैः पराजितवान्। 

लाहोरं> बृहत्प्राप्ताङ्कस्य आधिकारिकविजयस्य च प्रदीप्त्या न्यूसिलान्टः चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः अन्तिमचक्रं प्राविशत्। रविवासरे दुबाय् मध्ये सम्पत्स्यमाने प्रतिद्वन्द्वे भारतेन सह स्पर्धिष्यते। 

  ह्यः सम्पन्ने द्वितीये पूर्वान्त्यचक्रे प्रथमं कन्दुकताडनं कृतवान् न्यूसिलान्टदलः ५० क्षेपणचक्रे ६ ताडकानां विनष्टे ३६२ धावनाङ्कान् सम्पादितवान्। तत्र रचिन् रवीन्द्रः [१०८], केय्न् विल्यंसणश्च [१०२] शतकं प्राप्तवन्तौ। द्वितीयचरणे ताडनं कृतेन दक्षिणाफ्रिकादलेन ५० क्षेपणचक्रे ९ क्रीडकानां विनष्टे ३१२ धावनाङ्काः प्राप्ताः।

 ट्रम्पस्य वैरनिर्यातनबुद्धिः।

युक्रैनाय सैनिकसाह्यं जडीकृतम्। 

वाषिङ्टणः> वैट् हौस् सन्दर्शनवेलायां युक्रैनस्य राष्ट्रपतिं व्लोदिमर् सेलन्स्किवर्यं अपमानितवान् डोनाल्ड ट्रम्पः वैरनिर्यातनबुद्धिं प्रकाशयति। युक्रेनराष्ट्राय दीयमानं सैनिकसाह्यं जडीकर्तुमादेशः अमेरिकायाः राष्ट्रपतिना हस्ताक्षरीकृतः। रष्यां प्रति शान्तिचर्चायै युक्रेनः यावत्  प्रतिज्ञाबद्धः भविष्यति तावत्पर्यन्तं तेषां कृते साह्यं न भविष्यतीति ट्रम्पस्य आदेशः।

Wednesday, March 5, 2025

 मणिपुरे भूचलनम्। 

इम्फालः> मणिपुरराज्ये काम्जोङ् जनपदे अद्य मध्याह्ने १२. ३० वादने भूचलनम् अनुभूतम्। रिक्टर् मापने ४. १ अङ्कितम्। किन्तु जनापायः नाभूत् इति सूच्यते।

 साधारणजनस्य कृते सरलसंस्कृतेन अनुवादः आवश्यकः  -डा. प्रकाशपन्त:।

    उत्तराखण्डसंस्कृतविश्वविद्यालये भारतीयभाषासमितेः, शिक्षामन्त्रालयस्य भारतसर्वकारस्य च सहयोगेन सञ्चालितायाम् अनुवादकार्यशालायाम् चतुर्थदिवसे विषयविशेषज्ञः डा. श्रीओमशर्मा प्रतिभागिभ्यः वाक्यनिर्माणस्य सूक्ष्मतासु सम्बन्धिनीषु ज्ञानं अददात्। तेन उक्तम् यत् आङ्ग्लभाषायाः अथवा हिन्दीभाषायाः संस्कृतभाषायां प्रति अनुवादे कृते विशेषतया संस्कृतभाषायां वाक्यरचनायाः भाषाशैली सरला भवेत्, यया सामान्यजनानां बोधे सुलभा भवेत्। अद्य संस्कृतभाषायाः रचनाकारैः मौलिकरचनया सह अनुवादे अपि सरलविन्यासस्य विशेषं ध्यानं दातव्यम्, तेन सर्वेषाम् अनुवाचकानां समीपं साहित्यं प्रापयितुं शक्यते। संस्कृतभाषायाम् उत्तमाः अनुवादकाः अस्मिन् विषये विशेषं ध्यानं दद्युः यत् अद्यतनं साहित्यं सरलमानकसंस्कृतेः भवेयुः।