OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, February 12, 2025

 कृत्रिमबुद्धिमत्ता- उन्नततलमेलनम् ।

नरेन्द्रमोदिना साकं सुन्दर पिच्चै

    कृत्रिमबुद्धिमत्ता (Artificial intelligence) विषये आयोजिते उन्नततलमेलने सुन्दरपिचै महोदयेन साकं प्रधानमन्त्री नरेन्द्रमोदी सौहार्दसंवादं कृतवान्। भारतस्य अङ्कीयमण्डले कृत्रिमबुद्धिमत्ता ( AI ) इति विषये द्वावपि चर्चां कृतवन्तौ। भारतस्य अङ्कीय परिवर्तनेषु सहभागित्वं वोढुं सुन्दर पिच्चै स्वस्य तुष्टिं प्रकाशितवान्। स्वस्य एक्स् इति समाजमाध्यमद्वारा वार्तामिमां प्रकाशितवान् च।

Tuesday, February 11, 2025

 महाकुम्भमेला - बहुदूरं गमानागमनक्लेशः। 

प्रयागराजः> लक्षशः तीर्थाटकेषु सम्प्राप्तेषु प्रयागराजं प्राप्यमाणाः मार्गाः महान्तं गमनागमनक्लेशमनुभवन्ति। विविधमार्गेषु आहत्य ३०० कि मी दूरं यावत् यात्राक्लेशमनुभवन्तीति सूच्यते। वाराणसी, लख्नौ, काण्पुरम् इत्येभ्यः स्थानेभ्यः २५ कि मी दूरपर्यन्तं यात्रार्थं महान् क्लेशः अनुभूयते। 

  दुर्घटनामपाकर्तुमुद्दिश्य प्रयागराजे संगं रेल् निस्थानं १४ तम दिनाङ्कं यावत् पिहितम्। निस्थाने एकां दिशामेव यात्रासुविधा वर्तते।

 मावोवाद्याखेटने अस्मिन् वर्षे ६५ जनाः हताः। 

११ सैनिकानां वीरमृत्युः। 

बीजापुरं> छत्तीसगढे बीजापुरे अस्य वर्षस्य मासद्वयाभ्यन्तरे ६५ मावोवादिनः सुरक्षासेनया सह संग्रामे मृत्युमुपगताः। ११ सैनिकाः अपि वीरमृत्युं प्राप्तवन्तः। ८१ मावोवादिनः समर्पितायुधाः सन्तः आत्मसमर्पणं कृतवन्तः। 

  २०२४ तमे वर्षे छत्तीसगढे एव २१९  मावोवादिनः प्रतिद्वन्द्वे हताः। मार्च् ३१ तमदिनाङ्काभ्यन्तरे राष्ट्रं मावोवादिमुक्तं करिष्यतीति गृहमन्त्रिणा अमित शाहेन प्रोक्तम्।

 भारत - इङ्लाण्ट् एकदिनस्पर्धापरम्परा भारतेन प्राप्ता।

द्वितीये एकदिने रोहितशर्मणः शतकेन भारतस्य चतुर्द्वारकाणां विजयः।

शतकं प्राप्तवतः रोहितशर्मणः 'नटराजस्थितुः'।

कटक्> उज्वलशतकेन रोहित शर्मणः नायकत्वे इङ्लण्टं विरुध्य द्वितीये एकदिने भारतस्य चतुर्द्वारकाणां सम्पूर्णविजयः। अनेन क्रीडात्रयात्मिका परम्परा भारतेन २ - ० इति क्रमेण स्वायत्तीकृता। टि - २० परम्परा अपि भारतेन स्वायत्तीकृता आसीत् [४ - १]

  रोहितः ९० कन्दुकैः ११९ धावनाङ्कान् सम्प्राप्तवान्। श्रेष्ठक्रीडकोSपि स एव। अङ्कप्राप्तिः - इङ्लण्ट् ४९. ५ क्षेपणचक्रेषु ३०४ धावनाङ्काः। भारतं ४४. ३ क्षेपणचक्रेषु ६ द्वारकाणां विनष्टे ३०८ धावनाङ्काः।

Monday, February 10, 2025

 गासा युद्धविरामसन्धिः 

मुख्यमध्यमार्गात् इस्रयेलः अपासरत्। 


गासासिटी> युद्धविरामसन्धेः व्यवस्थानुसारं गासानगरस्य मुख्यमध्यमार्गात् [Corridor] इस्रयेललेना अपासरत्। उत्तरगासायाः दक्षिणगासायाश्च मध्ये वर्तमानात् ६ किलोमीटर् दैर्घ्ययुक्तात्  नेत्सारिममध्यमार्गादेव सैन्यस्य प्रतिनिवर्तनम्। 

  इस्रयेलसेनायाः अनेनापसरणेन उत्तरगासां प्रति पालस्तीनियानां यात्रानियन्त्रणस्यापि पूर्णविरामः भविष्यति।

 छत्तीसगढ़े मावोवाद्याखेटनं - ३१ मावोवादिनः व्यापादिताः। 

द्वौ सैनिकौ वीरमृत्युं प्रापतुः।

बिजापुरं> छत्तीसगढ़े बिजापुरे सुरक्षासेना-मावोवादिनोः मिथः विधत्ते संग्रामे ३१ मावोवादिनः हताः। तेषु ११ महिलाः अन्तर्भवन्ति। महानायुधसञ्चयः सङ्गृहीतश्च। संघट्टने द्वयोः सुरक्षाभटयोः वीरमृत्युरभवत्। 

  रविवासरस्य प्रातः इन्द्रावती राष्ट्रियोन्द्यानस्य वनान्तर्भागे सुरक्षासेनायाः मार्गणावसरे आसीत् प्रतिद्वन्द्वः। अतीते मासचतुष्टये जातः महत्तमः प्रतिद्वन्द्वः अस्ति ह्यः जातः इति सर्वकाराधिकारिभिरुक्तम्।

 भारते अमेरिक्कायाः रष्यायाः च युद्धविमानानि मुखाभिमुखम्। युद्धाय न।

   बेङ्गलूरु> अमेरिक्कायाः रष्यायाः च युद्धविमानानि मुखाभिमुखम् अभवन्। किन्तु परस्पराक्रमणाय न। कर्णाटकेषु येलहङ्का विमानपत्तने समारब्धे एयरो इन्ट्या प्रतिरोधप्रदर्शनार्थमेव अमेरिक्कायाः रष्यायाः च युद्धविमानानि आगतानि। अमेरिक्कायाः एफ् ३५ नाम अत्याधुनिक रहस्यविमानं तथा रष्यायाः एस् यु ५७ नाम रहस्ययोद्धा च भवति अस्मिन् वर्षे एय्रो इन्ट्यायाः श्रद्धाबिन्दुः।

 मणिप्पुरमुख्यमन्त्री त्यागपत्रं समार्पयत्। विधानसभा शीतीकृता; राष्ट्रपतिप्रशासनं झटिति न स्यात्। 

बीरेनसिंहः। 

इम्फालः> वंशीयसङ्घर्षेण क्लेशमनुभूयमानस्य मणिप्पुरराज्यस्य मुख्यमन्त्री बीरेन् सिंहः त्यागपत्रं समार्पयत्। विधानसभायां विपक्षेण कोण्ग्रसेन अविश्वासप्रकटनपत्रं अवतारयिष्येदिति सूचनायामागतायाम् आसीत् भाजपा मन्त्रिसभायाः स्थानत्यागः। 

  रविवासरे सायं बीरेनसिंहः  मन्त्रिभिस्साकं राजभवनं प्राप्य राज्यपालाय अजयकुमार भल्लाय त्यागपत्रं समर्पितवान्। राज्ये  झटित्येव राष्ट्रपतिप्रशासनं न प्रख्यापयिष्यतीति सूच्यते। 

  मणिप्पुरे वंशीययुद्धं परिहर्तुं मुख्यमन्त्री बीरेनसिंहः पराजितवानिति आक्षेपः राज्ये बहिश्च उन्नीत आसीत्। स्वराजनैतिकदलाभ्यन्तरे अपि सः विमर्शमभिमुखीक्रियमाणः आसीत्।

Sunday, February 9, 2025

 केरलेषु रथ्याशुनकानां संख्या वर्धिता। शुनकदंशनेन २६ जनाः मृताः।

   गोश्रीपुरम् >कोच्ची> केरलराज्ये रथ्यायां वर्तमानानां शुनकानां संख्या वर्धमाना वर्तते। विगते संवत्सरे २६ जनाः शुनकानां दंशनेन हताः। लक्षाधिकाः दंशनानन्तर-चिकित्सायाः कृते सर्वकारीय-चिकित्सालयेषु संप्राप्ताः आसन्। निजीयचिकिसालयेषु अपि लक्षाधिकाः एवं संप्राप्ताः आसन्। विगते दिने आलप्पुष़ जनपदे कश्चन लघुबालकः शुनकस्य आक्रमणेन शुनकविषं प्रबाध्य अतिगुरुतरायाम् अवस्थायाम् आतुरालयं प्रवेशितः अस्ति। एकमासात् पूर्वं सः बालकः विद्यालयात् प्रत्यागतवान् आसीत्। द्विचक्रिकायां प्रत्यागतः सः मार्गे शुनकस्य आक्रमणेन अध:पतितः। किन्तु तस्य शरीरे दंशनस्य वा नखचित्रं वा न आसीत्। अतः प्रतिरोधवाक्सिनं न स्वीकृतं च। किन्तु एकमासानन्तरं ज्वरबाधया आतुरालयं प्रविष्टः सः शुनकविषेण पीडितः इति भिषग्वरेण प्रत्यभिज्ञातः। इदानीं बालकः तीव्रपरिचर्याविभागे प्रवेशिताः। तस्य स्वास्थ्यस्थितिः इदानीं गुरुतरा वर्तते। शुनकानां संख्यां न्यूनीकर्तुं सर्वकारेण श्रद्धा देया इति जनाः वाञ्छन्ति।

 राष्ट्रियकायिकक्रीडा - अनिमेषः अतिशीघ्रधावकः, सुदेष्णा धाविका। 

पतकश्रेण्यां सर्वीसस् प्रथमस्थाने।

द्वितीये तृतीये यथाक्रमं कर्णाटकं महाराष्ट्रं च। 

दह्रादूण्> उत्तराखण्डे प्रचाल्यमानायां राष्ट्रियक्रीडायाः अंशतया ह्यः दह्रादूणस्थे 'गंगा अत्लटिक्स्' क्रीडाङकणे १० प्रकरणेषु स्पर्धाः परिसमाप्ताः। पुरुषविभागस्य १०० मीटर् धावनस्पर्धायां ओडीशायाः अनिमेषः सुवर्णपतकं सम्प्राप्य अतिशीघ्रः धावकः अभवत्। १०. २८ सेकन्ड् अस्ति तेनाङ्कितः समयः। महाराष्ट्रस्य सुदेष्णा शिवाङ्करः ११. ७६ सेकन्ड् समयेन १०० मीटर् धावित्वा अतिशीघ्रा धाविका जाता। 

  महिलानां यष्ट्युत्कूर्दने  [Pole wat] सुवर्णरजतपतकद्वयमपि तमिलनाटेन सम्प्राप्तम्। कांस्यं  तु केरलस्य मरिया जय्सण् प्राप्तवती। दीर्घोत्प्लुते उत्तरप्रदेशस्य षानवास् खानः सुवर्णं, तमिलनाटस्य वि श्रीरामः रजतं, केरलस्य अनुरागः कांस्यं चालभत। 

  पतकश्रेण्यां सर्वीसस् संघः ४२ सुवर्णानि प्राप्य प्रथमस्थाने वर्तते। द्वितीयस्थाने कर्णाटकं विद्यते। तृतीये तु महाराष्ट्रमस्ति।

 भारत-इङ्लाण्ट द्वितीया एकदिनस्पर्धा अद्य। 

कटक्> भारत-इङ्लाण्टयोः द्वितीयः एकदिनप्रतिद्वन्द्वः रविवासरे अपराह्ने १. ३० वादनतः बरामति क्रीडाङ्कणे सम्पत्स्यते। टि - २० परम्परा भारतेन सम्प्राप्ता आसीत्। 

 स्पर्धात्रयात्मिकायाम् एकदिनपरम्परायां प्रथमा स्पर्धा भारतेन चतुर्भिः द्वारकैः विजिता अभवत्। अद्यतनस्पर्था अपि विजयते चेत् परम्परा स्वायत्तीकर्तुं शक्यते।

 अमेरिकायां अधिनिवेशिताः १११ ब्रसीलियाः यात्राविमाने प्रतिनिवर्तिताः।

ब्रसीलिया>  यू एस् तः अनधिकृताधिनिवेशितान्  १११ ब्रसीलियान् ऊढ्वा अमेरिकायाः द्वितीयं विमानं लूसियानाविमाननिलयात् ब्रसीलस्थं फोर्टलेसानिलयं सम्प्राप्तम्। ट्रम्पस्य अधिकारप्राप्त्यनन्तरं प्रथमनिष्कासने ८८ ब्रसीलियाः निगडबन्धिताः आसन्। तद्विषये ब्रसीलस्य शक्तः प्रतिषेधोSभवत्। तदनन्तरमेव मनुष्यत्वसहितं परिगणनामालम्ब्य द्वितीयः संघः प्रतिनिवर्तितः।

 विधानसभा उपनिर्वाचनम्-

मिल्कीपुरे भा ज पा ; ईरोडे डि एं के च व्यजयत। 

नवदिल्ली> पञ्चमे  दिनाङ्के द्वयोः मण्डलयोः सम्पन्नस्य विधानसभायाः उपनिर्वाचनस्य फलमागतम्। 

  उत्तरप्रदेशे मिल्कीपुरमण्डले भा ज पा स्थानाशी चन्द्रभानु पास्वानः विजितवान्। प्रतिद्वन्दी समाजवादी पार्टी इत्यस्य अजित् प्रसादं ६१,७१० मतानां भूरिसंख्यायां पराजितवान्। तथा च तमिलनाटे ईरोड् मण्डले डि एं के स्थानाशी वि सि चन्द्रकुमारः मुख्यप्रतिद्वन्दिनम् एम् के सीतालक्ष्मीं ९०,६२९ मतानां व्यत्यये विजयीभूतः। चन्द्रकुमारादृते सर्वेषां समर्पितधनं विनष्टम्।

Saturday, February 8, 2025

 इन्द्रप्रस्थं पद्मविभूषणम्। 

प्रशासनप्राप्तिः २७ संवत्सरेभ्यः पश्चात्।

केज्रिवालः पराजितः। कोण्ग्रसः 'सम्पूज्यः'।

नवदिल्ली> राजधान्यां २६ संवत्सराणामनन्तरं भाजपादलाय अधिकारप्राप्तिः। अद्य सम्पन्नायां मतगणनायां ७० विधानसभास्थानेषु ४८ स्थानानि सम्प्राप्य भा ज पा दलः दिल्लीराज्यस्य शासनाधिकारं सम्प्राप। दशवर्षाणि यावत् अधिकारपदं गृहीतवान् अरविन्द काज्रिवालेन नीयमानः  ए ए पी दलः २२ स्थानेषु संकुचितः। स्वबलं प्रदर्शयितुं कठिनप्रयत्नं कृतवान् कोण्ग्रसदलः अनुस्यूततया तृतीयवारमपि किमपि स्थानं न लेभे।

 राष्ट्रियक्रीडायां पादकन्दुकस्पर्धायां केरलाय सुवर्णपतकम्। 

सुवर्णप्राप्तिः २७ संवत्सरेभ्यः पश्चात्। 

कायिकस्पर्धाः अद्य आरभ्यन्ते। 

हल्द्वानी> राष्ट्रियक्रीडायाः पादकन्दुकस्पर्धापरम्परायाः अन्तिमे प्रतिद्वन्द्वे आतिथेयराज्यम् उत्तराखण्डं   प्रत्युत्तररहितं एकलक्ष्यकन्दुकेन पराजित्य केरलं सुवर्णपतकं प्राप्नोत्। २७ संवत्सराणां अवकाशानन्तरमेव केरलस्य सुवर्णलब्धिः। 

  क्रीडायाः ५३ तमे निमिषे एस् गोकुलः केरलाय विजयलक्ष्यं सम्प्राप्तवान्। इदानीं केरलं १० सुवर्णं, ९ रजतं, ७ कांस्यं चोपलभ्य २६ अङ्कैः अष्टमस्थाने वर्तते।

 केरलस्य आयव्ययपत्रं अवतारितम्। 

राज्यस्य आधारसुविधाविकासः परमलक्ष्यम्।

शुल्कभारः वर्धते; सर्वकारसेवकेभ्यः समाश्वासः। आर्थिकसङ्कटः  परिहृतः इति वित्तमन्त्री।

अनन्तपुरी> केरले  द्वितीय वामदलपक्षसर्वकारस्य अन्तिमं सम्पूर्णम् आयव्ययपत्रं वित्तमन्त्रिणा के एन् बालगोपालेन विधानसभायामवतारितम्। जनप्रियतामपेक्ष्य आयमनुसृत्य व्ययं कर्तुं, कतिपयक्षेत्रेषु शुल्कमानं वर्धयित्वा आधारसुविधाविकासं विधातुं चोद्दिश्यमानम् आयव्ययपत्रमेव धनकार्यमन्त्रिणा अवतारितम्। राज्यस्य उन्नयनस्य प्रारम्भः इति बालगोपालेन अभिमानितम्।  सम्मिश्रप्रतिकरणमेव विविधमण्डलेभ्यः आगतम्। 

  भूशुल्कः ५०% संवर्धितः। 'इलक्ट्रिक्' वाहनानां शुल्कोSपि वर्धितः। सर्वकारसेवकेभ्यः सेवानिवृत्तेभ्यश्च दातव्यं क्षेमराशेः देयावशिष्टं [D A Arrear] प्रत्यर्पयितुं राशिं प्रकल्पितमस्ति।

 भारतीयप्राशासनिकवित्तकोशेन 'रिप्पो'मानं न्यूनीकृतम्।

मुम्बई>  पञ्चवर्षेभ्यः पश्चात् प्रथमतः भारतीयप्राशासनिकवित्तकोशेन [ Reserve Bank of India] वित्तकोशेभ्यः दीयमानानाम् ऋणानां वृद्धिमानं [Rippo rate] न्यूनीकृतम्। शुक्रवासरे समाप्ते आर् बि ऐ संस्थायाः मुद्रानयोपवेशने आसीत् अयं निर्णयः। रिपोमानं ६. ५०% इत्यस्मात् ६. २५% इति न्यूनीकृतम्। 

 निर्णयोSयं ये वित्तकोशेभ्यः ऋणं स्वीकुर्वन्ति तेभ्यः सहायको भविष्यति। भवननिर्माणक्षेत्रे उपभोगवर्धनं प्रतीक्षते।

 काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः।

विधुशेखरभारती स्नामिनः कुम्भाभिषेकं कुर्वन्ति। 

 

वाराणसी> जगद्गुरुणा श्रीशङ्कराचार्येण प्रतिष्ठा कृता इति विश्वास्यमाने काश्याम् अन्नपूर्णेश्वरिमन्दिरे प्राणप्रतिष्ठा महाकुम्भाभिषेकः सम्पन्नः। श्रृङ्गेरी मठाधिपतेः शङ्कराचार्यस्य  भारतीतीर्थस्य सान्निध्ये अनन्तरगामी विधुशेखरभारती प्रतिष्ठा महाकुम्भाभिषेकं निरवहत्। 

  पञ्चशतं वेदपण्डितानां भागभागित्वे सहस्रचण्डिमहायज्ञः, कोटिकुङ्कुमार्चना, महारुद्रयज्ञः इत्यादयः कार्यक्रमाः अपि सम्पन्नाः। कुम्भाभिषेकोत्सवः रविवासरे समाप्स्यते।