OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 31, 2025

बाह्याकाशनिलयात् स्वीकृतं कुम्भमेला नाम महाद्भुतस्य चित्रं त्वरितप्रसरमभवत्। 

   प्रयागराज्> जनुवरिमासस्य१३ तमे दिनाङ्के समारब्धायाः कुम्भमेलायाः त्रयोदशतमदिनाङ्कस्य दृश्यमेव डोण् पेट्टिट् नाम बाह्याकाशसञ्चारिणा समाजमाध्यमेषु प्रकाशितम्। गङ्गातीरस्थस्य दीपालङ्काराणां प्रभा एव चित्रे अस्ति। विश्वस्मिन् अधिकजनानां एकात्मकमेलनस्य प्रकाशः भवति चित्रमेतत् इति डोण् पेट्टिट् महाभागेन उदीरितम्।

Wednesday, January 29, 2025

 शततमः विक्षेपणः विजयपथं प्रविष्टवान् NVS 02

    ऐ एस् आर् ओ संस्थायाः NVS 02 इति गति निर्णयोपग्रहः परीक्षणे विजयं प्राप्तवान्। GPS सौविध्यम् उद्दिश्य विक्षिप्तेषु प्रवर्तमानेषु उपग्रहेषु पञ्चमः भवति अयम्। अन्ध्राप्रदेशस्य श्रीहरिकोट्टा इत्यत्र भवति भारतस्य अभिमानसंवर्धकं विक्षेपणनिलयम्

 वर्धमानं समुद्रतापमानं वातावरणव्यवस्थाव्यत्ययस्य सूचना।

निर्मतबुद्धिम् उपयुज्य रचितं चित्रम्

   समुद्रतापमाने वर्धना पुनः अनुवर्तिष्यते इति वैज्ञानिकाः अभिप्रयन्ति। वर्धमानं समुद्रतापमानं वातावरणव्यत्ययस्य शीघ्रगत्यः अभिज्ञानं भवति इति वैज्ञानिकाः प्रवदन्ति। आगोलतापमानं पूर्वकालापेक्षया उन्नतस्थानं प्राप्तम्। एल् निनो इति विशेषघटना ( phenomenon ) एव अस्य हेतुः।  समुद्रतापस्य  ४४%   सूर्यतापः समुद्राः अतिशीघ्रम् आगीरणं करोति इत्येतदेव इति यु के यूणिवेर्सिट्टि ओफ् रीडिंङ् इति संस्थायाः वैज्ञानिकः क्रिस् मर्चन्ट् अभिप्रयति।

 तेलुङ्काने अधोषोडशवयस्कानां चलच्चित्रशालां प्रवेशनियन्त्रणम्।

हैदराबादः> तेलुङ्कानराज्ये प्रभाते ११ वादनात् प्राक् रात्रौ ११ वादनात् परं च ऊनषोडशवयस्कानां बालकानां चलच्चित्रप्रदर्शनशालां प्रवेष्टुं राज्योच्चन्यायालयेन निरोधः विहितः। प्रत्युषसि अर्धरात्रे च चलच्चित्रदर्शनं बालकानां मानसिकशारीरिकस्वस्थ्याय प्रतिकूलं भविष्यतीति निरीक्ष्य न्यायमूर्तेः विजयसेनरेड्डिवर्यस्यायमादेशः। निरोधे अन्तिमनिर्णयाय राज्यसर्वकारं निरदिशत्।

Tuesday, January 28, 2025

 वखफ् परिष्करणविधेयकं जे पि सि समित्या अङ्गीकृतम्। 

विपक्षनिर्देशाः निरस्ताः; शासकपक्षीयाः अङ्गीकृताः। 

आयव्ययपत्रकसम्मेलने परिगणयिष्यते। 

नवदिल्ली> केन्द्रप्रशासनेन आनीतं वखफपरिष्करणविधेयकं संयुक्तसंसदीयसमित्या [जे पि सि] परिष्करणैः सह अङ्गीकृतम्। विपक्षसदस्यैः निर्दिष्टानि ४४ परिष्करणानि निरस्य, शासकपक्षीयाङ्गैः आनीतेषु २२ निर्देशेषु १४ संख्याकानि स्वीकृत्य च जेपिसी समित्या विधेयकम् अङ्गीकृतम्। 

  विपक्षाङ्गानां प्रातिकूल्यमतीत्य १०विरुध्य १६ मतदानैरेव विधेयकस्य अङ्गीकारप्राप्तिः। ३१ तमे दिनाङ्के आरप्स्यमाणे संसदः आयव्ययपत्रकसम्मेलने विधेयकमवतारयिष्यति।

 राष्ट्रियकायिकोत्सवः अद्य समारभते। 

भाग्यचिह्नः मौली 

दह्रादूणः> राष्ट्रियकायिकोत्सवस्य ३८ तमसंस्करणाय उत्ताखण्डराज्ये मङ्गलवासरे शुभारम्भो भविष्यति। २८ राज्येभ्यः ८ केन्द्रशासनप्रदेशेभ्यः 'सर्वीसस् बोर्ड्' इत्यस्माच्च दशसहस्रं कायिकताराः भागं करिष्यन्ति। ११ वेदिकासु ४३ स्पर्धाप्रकरणानि विधास्यन्ति। 

  दह्रादूणस्थे राजीवगान्धि अन्तर्देशीयक्रिकट् क्रीडाङ्कणे सायं चतुर्वादने प्रधानमन्त्री नरेन्द्रमोदी कायिकोत्सवम्  उद्घाटयिष्यति।

  राज्यरूपीकरणस्य २५ तमं वार्षिकमाघुष्यमाणः उत्तराखण्डः प्रथमतया एव राष्ट्रिय कायिकोत्सवाय आतिथ्यं वहति। 'मौलि' इत्यस्ति कायिकोत्सवस्य भाग्यचिह्नस्य नाम।

 ऐकरूप्यनागरिकनियमः उत्तराखण्डे प्रवृत्तिपथमागतः।

नवदिल्ली> बहूनां राजनैतिकविवादानां कारणभूतः ऐकरूप्यनागरिकनियमः [यू सि सि] उत्तराखण्डराज्ये सोमवासरे प्रवृत्तिपथमानीतः। अनेन नियमममुं प्रवृत्तिमार्गमानीयमानं प्रथमं राज्यं भवति उत्तराखण्डः। 

  दरादूणस्थे कार्यनिर्वाहकालये समायोजिते कार्यक्रमे मुख्यमन्त्री पुष्करसिंह धामी यू सि सि अन्तर्जालकमुद्घाटितवान्।

Monday, January 27, 2025

 टि - २० भारतस्य विजयः। 

चेन्नई> इङ्लण्टं विरुध्य भारतस्य द्वितीये टि - २० क्रिकटस्पर्धायां भारतस्य द्वारकद्वयेन विजयः। चतुर्षु क्षेपणेषु अवशिष्टेषु आसीत् उत्साहोज्वलविजयः।

  सन्दर्शकैः दत्तं १६६ इति विजयक्ष्यं १९. २ क्षेपकैः अष्ट क्रीडकाणां विनष्टेन च भारतेन प्राप्तम्। अनेन भारतं २ - ० इति अग्रे वर्तते।

 भारतस्य ७६ तमं गणतन्त्रदिनं प्रौढगाम्भीर्येण आघुष्टम्। 

गणतन्त्रदिनाघोषः। 

नवदिल्ली> सैनिकशक्तेः सांस्कृतिकपारम्पर्यस्य च विलम्बरं कुर्वन् भारतस्य ७६ तमः गणतन्त्रदिनेत्सवः दिल्यां कर्तव्यपथे समायोजित‌ः। इन्डोनेष्यायाः राष्ट्रपतिः प्रबावो सुबियान्तो वर्यः मुख्यातिथिः आसीत्। 

  राष्ट्रस्य विभिन्नाः सायुधविभागाः तेषां बलप्रकाशनरूपं पथसञ्चलनं समावृत्तम्। विविधराज्यानां निश्चलदृश्यानि, ५००० कलाकाराणां भागभागित्वयुतं ४६ कलारूपाणि छात्राणां कार्यक्रमाणि च दिनोत्सवस्य प्रौढिं गाम्भीर्यं च विधत्तम्। आमन्त्रितानां दशसहस्रं विशिष्टजनानां पुरतः एव कार्यक्रमाः संवृत्ताः। 

  राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः नेतारः च भागं कृतवन्तः।

 'सुसुकी' संस्थायै भारतस्य आदरसमर्पणं - ओसामु सुसुकीवर्याय पद्मविभूषणम्। 

ओसामु वर्यः मारुति ८०० यानं च। 

नवदिल्ली> भारते सामान्यजनानां कार् यानाभिलाषसफलतायै प्रयत्नं कृतवान् 'सुसुकि मोटोर्स् कोर्परेषन्' इत्यस्य अध्यक्षाय ओसामु सुसुकीवर्याय पद्मविभूषणपुरस्कारं मरणानन्तरबहुमतिरूपेण दत्वा राष्ट्रस्य कृतज्ञताप्रकाशनम्। 'मारुति ८००' इति लघु कार् यानं अवतार्य राष्ट्रे लक्षशः सामान्यजनानाम् अभिलाषः तेन सफलीकृतः। 

  १९८२ तमे वर्षे सुसुकीमोटोर्स् भारतस्य वाहननिर्माणसंस्था मारुती इत्यनया सह सम्बन्धेन अवतारितं 'मारुति ८००' इति लघु कार् यानं विपणिं विजितवत्। ओसामुवर्यः आसीत् तदा सुसुक्याः अध्यक्षः।  तत्तु भारतस्य यात्रायानमण्डले चरितं व्यरचयत्। २०२४ डिसम्बर् २४ तमे दिनाङ्के ओसामुवर्यः जापाने दिवंगतः। भारतस्य आदराञ्जलिरूपेण अस्य वर्षस्य पद्मविभूषणपुरस्कारः तस्मै दत्तः च।

 पद्मविभूषणेन पुरस्कृताः महान्तः।

नवदिल्ली> २०२५ तमे वर्षे पद्मविभूषणपुरस्कारेण सम्मानिताः सप्त प्रतिभाधनाः सन्ति। कैरलीसाहित्यकुलपतिः एं टि वासुदेवन् नायर्,बिहारीया ग्राम्य-श्रेष्ठगानविदुषी शर्दा सिन्हा इत्येतेभ्यः मरणानन्तरबहुमतिरूपेण पद्मविभूणं सम्मानयिष्यति। स्वास्थ्यक्षेत्रे प्रमुखः डो दुवुर नागेश्वर रड्डी [तेलङ्कानं], न्यायाधिपचरः जगदीशसिंह खेहरः [चण्डीगढः], कथकनर्तकी कुमुदिनी रजनीकान्त लखिया [गुजरात्], अन्ताराष्ट्रिय वाहमनिर्माणसंस्था 'सुसुकी' इत्यस्य भूतपूर्वः अधिपः ओसामु सुसुकी [जापानं] इत्येतेSपि पद्मभूषणपुरस्कारेण बहुमानिताः।

Sunday, January 26, 2025

 अद्य भारतस्य ७६ तमः गणतन्त्रदिवसः।

सप्त पद्मविभूषणानि; नवदश पद्मभूषणानि; ११३ पद्मश्रियः। 

 नवदिल्ली> भारतस्य ७६ तमस्य गणतन्त्रदिवसोत्सवस्य अंशतया सप्त प्रतिभाधनाः पद्मविभूषणपुरस्कारेण बहुमानिताः। ज्ञानपीठपुरस्कारेण समादृतः   समीपकाले दिवंगतः कैरलीसाहित्यकारः एम् टि वासुजेवन् नायर् वर्यः, सुप्रसिद्धः वयलिन् वादकः एल् सुब्रह्मण्यम् इत्यादयः पद्मविभूषणेन समादृताः। 

  भारतीययष्टिक्रीडादलस्य भूतपूर्वनायकः पि आर् श्रीजेषः, चलच्चित्राभिनेत्री शोभना, तमिलनटः अजितः, प्रशस्तः हृद्रोगचिकित्सकः हृदयशस्त्रक्रियाकुशलः च डो जोस् चाक्को पेरियप्पुरम् इत्यादयः १९ विशिष्टाः पद्मभूषणेन सम्मानिताः। 

  विविधमण्डलेषु स्वप्रतिभां प्रकाशितवन्तः ११३ जनाः पद्मश्रीबहुमत्या सम्मुदिताः। संगीतज्ञा डो के ओमनक्कुट्टी, पादकन्दुकक्रीडकः ऐ एम् विजयः, नीतिज्ञः सि एस् वैद्यनाथः, तमिलपत्रिकाकारः डो आर् लक्ष्मीपतिः, मृदङ्गवादकः गुरुवायूर् दोरै इत्यादयः पद्मश्रीपुरस्कृतेषु अन्तर्भवन्ति।

 चतस्रः महिलासैनिकाः हमासेन विमोचिताः। 

डेयर् अल् बलाह्> हमास-इस्रयेलयोः युद्धविरामसन्धेः अंशतया हमासेन बन्धितेषु इस्रयेलस्य चतस्रः महिलासैनिकाः विमोचिताः। 'रेड् क्रोस्' संस्थाद्वारा शनिवासरे आसीत् एतासां मोचनम्। 

 गासायां पालस्तीनचत्वरे सन्निहितानां जनानामाभ्यन्तरेण स्मिताननैः सह सैनिकवेषं धृत्वा आसीत् तासां प्रतिनिवर्तनम्। २०२३ ओक्टोबर् सप्तमदिनाङ्के गासायां नहाल् ओस् इत्यस्मात् सेनाशिबिरात् ताः  हमासेन निगृहीताः आसन्।

बालसहितीप्रकाशनस्य द्विदिवसीय साहित्य सङ्गोष्ठी अद्य सम्पत्स्यते

   चेरुतुरुत्ती> सांस्कृतिकग्रन्थानां प्रकाशनेषु निरतेन बालसाहिती-प्रकाशनेन आयोजिता द्विदिवसात्मका आवासीया सङ्गोष्ठी अद्य रविवासरे सम्पत्स्यते। ह्यः आरब्धा सङ्गोष्ठी कथाकारः के. के पल्लशनः उद्घाटनमकरोत्। मलयाळभाषायां विद्यमानाः बालसाहित्यनिपुणाः ग्रन्थरचयितारः कार्यक्रमे अस्मिन् भागं स्वीकुर्वन्तः सन्ति। केरळकलामण्डलम् इति मानितविश्वविद्यालयस्य परिसरे इयं सङ्गोष्ठी प्रचलति। सांस्कृतिकयुक्तानां राष्ट्राभिमानयुक्तानां धर्मोपदेशपराणां साहित्यानां नवीनरचना बालकान् उद्दिश्य भवतु इति उद्देश्येन आयोजिता अस्ति इयं सङ्गोष्ठी।

Saturday, January 25, 2025

 जन्माधिकारपौरत्वनिरासादेशः न्यायालयेन अवरुद्धः। 

ट्रम्पः पुनर्विचाराय उद्यमते।

सियाटिल्> जन्माधिकारपौरत्वं निरस्य यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेण हस्ताक्षरीकृतः आदेशः सियाटिल् जनपदीय न्यायाधीशेन अवरुद्धः। गुरुवासरे आसीत् ट्रम्पस्य निर्वोढव्यादेशः १४ दिनानि यावत् अवरुद्धः। 

  किन्तु न्यायालयस्य अवष्टम्भादेशं विरुध्य पुनर्विचाराभ्यर्थना समर्पयिष्यतीति ट्रम्पेण निगदितम्। वाषिङ्टणः, अरिसोणा, इलिनोय्, ओरिगण् इत्येतेभ्यः राज्येभ्यः समर्पिते प्रकरणे आसीत् न्यायालयस्य प्रक्रमः। ट्रम्पस्यादेशः राष्ट्रसंविधानस्य नग्नं लङ्घनमिति न्यायालयेन निरीक्षितम्।

Friday, January 24, 2025

 दिल्ली विधानसभानिर्वाचनम्। 

प्रचारणोत्साहे राजनैतिकदलानि। 

नवदिल्ली> विधानसभानिर्वाचनस्य प्रचारणोत्साहे दिल्ल्यां प्रमुखानि राजनैतिकदलानि।  अनुस्यूतप्रशासनं लक्ष्यीकृत्य आम् आद्मी पार्टी [आप्], अधिकारग्रहणाय भा ज पा, विनष्टप्रभावस्य पुनर्ग्रहणाय कोण्ग्रस् च सर्वायुधान् परिगृह्य प्रचारणोत्साहे वर्तन्ते। 

   पञ्चवर्षाभ्यन्तरे दिल्ल्याः कर्मराहित्यं परिहरिष्यतीति 'आप्' दलस्य नेता मुख्यमन्त्रिचरश्च अरविन्द केज्रिवालः उद्घोषितवान्। दशवर्षीयप्रशासनेन आप् सर्वकारः भ्रष्टाचारे अन्यानवाप्तोन्नतसीमां [World record] प्राप्तवानिति भाजपादलेन निन्दितम्। दिवंगतायाः भूतपूर्वप्रधानमन्त्रिणः षीला दीक्षितस्य विकासादर्श एव वरमिति कोण्ग्रसनेत्रा राहुलगान्धिना प्रख्यापितम्। फेब्रुवरि पञ्चमदिनाङ्के भवति दिल्लीनिर्वाचनम्।

 आयसयुगारम्भः तमिलनाटे इति राज्यमुख्यमन्त्री। 

५,३०० संवत्सरेभ्यः पूर्वमारब्धमिति स्टालिनः। 

एं के स्टालिनः।

चेन्नै> विश्वस्मिन् आयसयुगस्य प्रारम्भः तमिलनाटे इति अभिमानं ज्ञापयित्वा राज्यमुख्यमन्त्री एं के स्टालिनः। "तमिलनाटे ५,३०० संवत्सरेभ्यः पूर्वमेव आयसयुगमारब्धमिति अहं विश्वं ज्ञापयामि। धातोः अयसः विश्लेषणप्रौद्योगिकी भौगोलिकस्तरे प्रथमतया तमिलनाटे एव अवतारिता। इतः सङ्कलितानां पुरावस्तुसामग्रीणां विशकलनं विश्वस्मिन्नेव श्रेष्ठतरेषु शोधनालयेषु कृतम्। तस्याधारे एवेदं प्रख्यापनम्" स्टालिनः अवोचत्। तमिलनाटस्य अयोपयोगस्य चरित्रं स्पष्टीक्रियमाणस्य 'इरुम्पिन् तोन्मै' इति ग्रन्थस्य प्रकाशनवेलायां भाषमाणः आसीत् स्टालिनवर्यः।

 रेल्यानपेटिकायाम्  अग्निबाधा इति विशङ्क्य  बहिः उत्पतिताः ११ यात्रिकाः मृताः।

    मुम्बै> महाराष्ट्रेषु जल्गावे प्राणरक्षार्थं रेल्यानात् बहिः कूर्दनेन पतिताः द्वादश जनाः मृताः। समीपस्थे रेल्पट्टिकायाः आगतम् अन्यं रेल्यानं घट्टयित्वा एव भूरि जनाः मृताः। दश यात्रिकाः व्रणिताः। लक्नौ देशतः मुम्बैदेशं प्रति आगम्यमानं रेल्यानं भवति पुष्पक् एक्स्प्रस्।  अस्य रेल्यानस्य पेटिकायाः एकस्याः अग्निः धूमः च उत्थितः इति सन्दिह्य यात्रिकाः  रेल्यानात् बहिः कूर्दनमकरोत्। तस्मिन्नवसरे अन्यपट्टिकायाम् आगतं 'कर्णाटक' एक्सप्रस् नाम रेल्यानस्य अधः पतित्वा एव द्वादश जनानां मृत्युः इति प्रतिवेदनमस्ति। विंशत्यधिकाः यात्रिकाः यानात् बहिः कूर्दनमकुर्वन्।