OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, January 22, 2025

 ट्रम्पस्य अधिकारप्राप्त्यनन्तरं  प्रथमदिने ८० निर्वोढव्यादेशाः।

कतिपयाः आशङ्काजनकाः। 

द्वितीयवारं शपथवाचनानन्तरं ट्रम्पः।

वाषिङ्टणः>  राष्ट्रपतिपदस्वीकरणस्यानन्तरं प्रथमदिने डोनाल्ड ट्रम्पः आशङ्काजनकाः कतिपयादेशान् अभिव्याप्य ८० आदेशेषु हस्ताक्षरं कृतवान्। 

  जननाधिकाररूपेण अमेरिकानागरिकत्वं प्राप्तवतां अल्पकालिकाधिनिवेशितानां च पौरत्वरूपाधिकारः ट्रम्पेण निरस्तः। संयुक्तराष्ट्रसभायाः स्वास्थ्यसभातः [WHO], 'पारीस् पर्यावरणसन्धिः' इत्यस्माच्च ट्रम्पस्य आदेशेन अमेरिका अपसृता भविष्यति।

  यू एस् राष्ट्रे इतःपरं पुं-स्त्रीति लिंगद्वयमेव भवेत्। 'मेक्सिको अन्तरालसमुद्रस्य' परं अमेरिका अन्तरालसमुद्रः इति पुनर्नामकरणं विधास्यति। ट्रम्पस्य नूतनादेशाः प्रायेण राष्ट्रिय-अन्ताराष्ट्रियविवादाय कारणं भविष्यतीति अभिज्ञैः सूच्यते।

 हमासेन चतस्रः महिलाः शनिवासरे विमोचयिष्यन्ते। 

जरुसलेमः> इस्रायेलेन सह कृतस्य युद्धविरामसन्धेः अंशतया हमासेन बन्धिताः चतस्रः महिलाः शनिवासरे विमोचिताः भविष्यन्ति। हमासेन निगदितमिदं वृत्तान्तम्।  तस्य स्थाने पलस्थीनीयाः बन्धिताः इस्रायेलेन विमोचयिष्यन्ते। विशदांशाः न लब्धाः। 

  रविवासरे प्रवृत्तिपथमागतं सन्धिमनुसृत्य तिस्रः महिलाः  हमासेन, ९० पालस्थानीयाः इस्रायेलेन च परस्परं प्रतिप्रेषिताः आसन्। युद्धविरामसन्धेः प्रथमसोपाने ३३ बन्धितान् हमासः १९०० पालस्थानीयान् इस्रयेलश्च विमोचयिष्यति।

 छत्तीसगढे १४ मावोवादिनः व्यापादिताः। 

गरिबन्दः> छत्तीसगढस्य ओडीशायाः च सीमायां सुरक्षासेनया सह विधत्ते प्रतिद्वन्द्वे १४ मावोवादिनः व्यापादिताः। मृतेषु मावोवादिसंघस्य समुन्नतः नेता चलपति इत्याहूयमानः जयराम रेड्डिः अपि अन्तर्भवतीति केन्द्रसर्वकारेण निगदितम्। सुरक्षासेनया संवत्सरैः मार्गमाणः मावोवादिनेता आसीत् जयराम रेड्डिः।

Monday, January 20, 2025

 ट्रम्पस्य स्थानारोहणम् अद्य। 


वाषिङ्टणः> यू एस् राष्ट्रस्य ४७ तम राष्ट्रपतिरूपेण डोनाल्ड ट्रम्पः सोमवासरे शपथवाचनं करोति। भारतसमयानुसारं रात्रौ १०. ३० वादने मुख्यन्यायाधिपः जोण् रोबर्ट्स् इत्यस्य पुरतः शपथं करिष्यति। 

  वाषिङ्टणे अतिशैत्यमनुभूयते इत्यतः कापिटोल् भवनस्य 'रोटन्डा' सभागारं भवति शपथवेदिका। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः राष्ट्रं प्रतिनिधीभूय शपथसमारोहे भागं करिष्यति। 

  शपथवाचनानन्तरं ट्रम्पः राष्ट्रम् अभिसम्बुद्धिष्यते। २०१७ - २०२१ कालखण्डे यू एस् राष्ट्रपतिपदम् ऊढवान् सः वर्षचतुष्टयस्य अन्तरानन्तरं द्वितीयवारमेव राष्ट्रपतिपदं प्राप्नोति।

 गासायां शान्तिकालः। [अल्पकालिकः]

गासायां शान्तिः प्रत्यागच्छति इत्यस्यां प्रतीक्षायां भोज्यवस्तुना सह स्वप्रदेशं प्रतिनिवर्तमानाः बालाः। 

गासासिटी> १५ मासाधिककालं यावत् गासायामनुवर्तमानस्य इस्रयेल-हमासयुद्धस्य ह्यः अहसि ११. १५ वादनतः [तद्देशीयसमयः] गासायां ४२ दिनोपेतः विरामः अभवत्। युद्धविरामसन्ध्यनुसारं चतस्रः इस्रयेलीयमहिलाः ये हमासेन निगृहीताः विमोचिताः। तत्स्थाने ९५ पालस्तीनीयाः ये इस्रालयेन बद्धाः  विमोचयितव्याः। 

  सप्ताहषट्केन अवशिष्टान् ३० बद्धान् हमासः मोचयिष्यति। निगृहीतान् ६०० पालस्तीनीयान् इस्रयेलः अपि।

  गतेषु १५ मासेषु २०,००० बालकानभिव्याप्य ५०,००० जनाः अनेन युद्धेन विगतप्राणाः अभवन्। लक्षद्वयं जनाः व्रणिताः जाताः। यू एस्, खत्तरः इत्यादिराष्ट्राणां नेतृत्वे करता शान्तिचर्चा इदानीं फलवत्ता जाता।

 जम्मुकाश्मीरेषु अज्ञातरोगबाधया १६ जनाः मृताः । सर्वकारेण वैद्यसंघाः नियुक्ताः।

श्रीनगरम्> जम्मुकाश्मीरेषु प्रसरितेषु अज्ञातरोगबाधासु १६ जनाः मृताः। रोगव्यापनं प्रतिरोद्धुं सर्वकारेण वैद्यसंधाः नियुक्ताः सन्ति। रौजौरि जनपदे बधाल ग्रामे ४५ दिनाभ्यन्तरे एव ईदृशी मृतिः अभवत्। २०२४ दिसंबर् मासस्य सप्तमे दिनाङ्के आसीत् रोगबाधया प्रथममरणम् आवेदितम्।

Saturday, January 18, 2025

 गासायुद्धविरामः - इस्रयेलस्य सुरक्षामन्त्रिमण्डलस्य अङ्गीकारः। 

गासासिटी> १५ मासान् यावत् अनुवर्तमानस्य इस्रयेल - हमासयुद्धस्य विरामाय बन्धितानां मोचनाय च मध्यस्थराष्ट्रैः कृताय शान्तिसन्धये इस्रयेलस्य सुरक्षामन्त्रिमण्डलस्य अङ्गीकारः लब्धः। प्रधानमन्त्री बञ्चमिन् नेतन्याहू इत्यस्य नेतृत्वे गतदिने आसीत् सुरक्षामन्त्रिमण्डलं सम्पन्नम्।  अचिरेणैव सम्पूर्णमन्त्रिमण्डलम् आयोज्य अन्तिमनिर्णयं करिष्यति।

 संस्कृतभारतीदेहरादूनेन  गीतशिक्षणकेन्द्रस्य  शुभारम्भो विहितः।

वार्ताहरः - धीरजमैन्दानी

     देहरादूनम्>  संस्कृतभारती देहरादून द्वारा पंचायती मंदिर घोसी गली देहरादूने गीताशिक्षण केंद्रस्य शुभारंभः कृतः।  मुख्यातिथि श्री रवि गिरी महाराजः जंगम शिवालयः, विशिष्टातिथिः श्री विकास वर्मा हनुमान चालीसा साप्ताहिक मिलन प्रांत प्रमुखः बजरंग दलं, कार्यक्रमस्य अध्यक्षः डॉ प्रदीप सेमवालः जनपदमंत्री देहरादूनम्, केंद्रशिक्षकः आचार्यः योगेशकुकरेती अथ च सहकेंद्र शिक्षकः नवनीत राजवंशी च   दीपप्रज्ज्वालनं  कृत्वा अकुर्वन्।

  कार्यक्रमे मुख्यातिथिना स्वामिना रवि गिरिणा द्वारा गीतायाः महत्वं  कथितं यत्  गीता अस्माकं भारतीय संस्कृतेः  आधारो विद्यते। अतः एव प्रत्येकं भारतीयेन प्रत्येकेन संस्कृतं पठनीयम्।

Friday, January 17, 2025

 बहिराकाशपेटकसंयोजनं विजितम्। 

भारतस्य चरित्रलब्धिः। 


बङ्गलुरु> भूमेः भ्रमणपथे भारतस्य द्वे बहिराकाशपेटके संयोजिते। एस् डि एक्स् ०१ [चेसर्] , एस् डि एक्स् ०२ [टार्गट्] इति उपग्रहपेटकद्वयस्य बहिराकाशे संयोजनं [स्पेय्स् डोकिंङ्] विजयप्रदमभवत्। अनेन  स्पेय्स् डोकिंङ् क्षेत्रे विजयीभूतं चतुर्थं राष्ट्रं भवति भारतम्। यू एस्, रष्या, चीनम् इत्येतानि अन्यानि राष्ट्राणि। 

  २०२४ डिसम्बर् ३० तमे दिनाङ्के आसीत् लघूपग्रहयोः विक्षेपः। जनुवरि सप्तमे दिनाङ्के संयोजनं कर्तुं निश्चितमासीत्तर्ह्यपि साङ्केतिकदोषात् परिवर्तितम्। विविधाः समस्याः परिहृत्य एव भारतस्य उद्दिष्टफलप्राप्तिः। 

  संयोजनसमये पेटकद्वयं भूमेः ४७५ कि मी दूरे, १० मिल्लीमीटर् प्रति सेकन्ड् प्रवेगे, परस्परस्पर्शमात्रे आसीत्। ह्यः प्रभाते ६. ३० वादने आरब्धा संयोजनप्रक्रिया ६. ४० वादने समाप्ता।

Thursday, January 16, 2025

 गासातः आश्वासवृत्तान्तः।

४२ दिनात्मकयुद्धविरामाय सम्मतिः। 

दोहा> १५ मासान् यावत् गासायाम् अनुवर्तमानस्य इस्रयेल-हमासयुद्धस्य अल्पकालिकविरामाय पक्षद्वयस्य सम्मतिर्जाता इति मध्यस्थैः निगदितम्। 'रोयिटर्' वृत्तान्तमाध्यमेनैव वृत्तान्तमिदं बहिरागतम्। 

  यू एस् राष्ट्रस्य सहयोगेन ईजिप्त्, खत्तरराष्ट्रयोः नेतृत्वे   मासैरनुवर्तितायां चर्चायामेव ४२ दिनात्मकयुद्धविरामाय इस्रयेलस्य हमासस्य च सम्मतिः जाता। इस्रयेलमन्त्रिमण्डले अद्य एतदधिकृत्य निर्णयो भविष्यति।

 डो वि नारायणः 'इस्रो' अध्यक्षपदं स्वीकृतवान्।

बङ्गलुरु> ऐ एस् आर् ओ इत्यस्य नूतनाध्यक्षः डो वि नारायणः पदं स्वीकृतवान्। अनन्तपुर्यां विक्रम साराभाय् बहिराकाशगवेषणकेन्द्रे समाकारिते कार्यक्रमे एस् सोमनाथात् भारवाहित्वं स्वीकृतवान्। वर्तमानीनः अध्यक्षःएस् सोमनाथः सेवानिवृत्तोSभवत्।

Wednesday, January 15, 2025

 अमेरिका मित्रराष्ट्राणि च शक्तिशालिनः, विपक्षाः दुर्बलाः; रष्यं चीनम् इरानं च उल्लेख्य कठोरं विमर्शनं कृत्वा बायडनस्य निवृत्तिसभाषणम्।


 निर्वाचनविजयं प्राप्य पुनः अमेरिकासंयुक्तराज्यस्य राष्ट्रपतिपदं प्रति आगन्तुं ट्रम्पः सपताहिक्यस्य समयः शेषः सन्, गतेषु विगतेषु चतुर्षु वर्षेषु अमेरिकायाः प्रगतेः उल्लेखं कृत्वा जो बायडनः निवृत्तिसभाषणं कृतवान् पश्चिमायाम् एष्यायां संघर्षाणां विषये यूक्रैनदेशस्य च आक्रमणस्य प्रसङ्गे रष्यः, चीनः, इरानः इत्येतानि राष्ट्राणि बैडनस्य भाषणे तीव्रं समालोचितानि। चीनदेशेन कथञ्चिदपि अमेरिकां पराजेतुं न शक्यते, अमेरिका च विश्वस्मिन् परमशक्तिरूपेण एव स्थितिं धारयति इति बैंडनः उक्तवान्। गज्जाप्रदेशे युद्धविरामः स्थापितः ।, बन्धिनां विमोचनं च कर्तुं इस्रायल-हमास-सन्धिः अन्तिमसोपाने स्थापितः अस्ति इति च तेन निर्दिष्टम्।

 नैजीरियायां भीकराक्रमणं - ४० कृषकाः हताः। 

डाकरः> आफ्रिक्काभूखण्डे नैजीरियाराष्ट्रस्य उत्तरपूर्वीयराज्ये बोर्णोनामके  रविवासरे विधत्ते भीकराक्रमणे ४० कृषकाः मृत्युमुपगताः। ऐ एस् इत्यनेन भीकरसंघटनेन सम्बन्धोपेतं 'बोक्कोहरामः' इति संघटनमेव आक्रमणस्य पृष्ठतः इति सूच्यते।

Tuesday, January 14, 2025

 सोनामार्ग-गगनगिरि भौमान्तर्वीथी उद्घाटितः। 

सोनामार्ग भौमान्तर्मार्गस्य कवाटः। 

श्रीनगरं> जम्मुकाश्मीरे सोनामार्गनगरं प्रति आसंवत्सरं सुगमसञ्चारसाध्यः भौमान्तर्मार्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिने उद्घाटितः। सोनामार्ग-गगनगिरि सुरङ्गमार्गस्य ६. ५ कि मी दूरमस्ति। 

  २७०० कोटिरूप्यकाणां व्ययेन निर्मितः अयं युगलपङ्क्तिमार्गः कस्मिन्नपि प्रतिकूलपर्यावरणे उपयोक्तुं शक्यते। २०१५ तमे वर्षे अस्य निर्माणमारब्धम्।

 शबरिगिरौ अद्य मकरज्योतिदर्शनम्। 

लक्षशः भक्ताः उपस्थिताः। 

पन्तलं राजभवनात् प्रस्थिता विशिष्टाभरणघोषयात्रा वटशेरिक्रप्रदेशे  प्राप्ते। 

पत्तनंतिट्टा> केरले शबरिगिरौ मकरसंक्रममण्डलकालस्य समाप्तिमालेख्यमानस्य मकरज्योतिदर्शनाय सुवर्णाभरणभूषितं धर्मशास्तारं द्रष्टुं च  भगवत्सन्निधानं पूर्णसज्जम्। लक्षशः तीर्थाटकाः भक्तजनाश्च सन्निधानपरिसरे समीपप्रदेशेषु च उपस्थिताः वर्तन्ते। 

  पन्तलं राजभवनात् प्रस्थिता भगवद्विग्रहे अलङ्कार्यमाणानां विशिष्टाभरणानां घोषयात्रा अद्य सायंलन्ध्यायां सन्निधानं प्राप्स्यति। ६. ३० वादने विशिष्टाभरणानि अलंकृत्य दीपाञ्जलिं विधास्यति। तस्मिन् समये एव पोन्नम्पलमेट् इत्यत्र मकरज्योतिदर्शनं शक्यते। आकाशे मकरनक्षत्रमपि उज्वलिष्यति। आत्मनिर्वृतिदायकं पुण्यमुहूर्तं साक्षात्कर्तुं लक्षशः भक्ताः उपस्थिताः सन्ति।

लक्षशः भक्ताः उपस्थिताः। 

पत्तनंतिट्टा> केरले शबरिगिरौ मकरसंक्रममण्डलकालस्य समाप्तिमालेख्यमानस्य मकरज्योतिदर्शनाय सुवर्णाभरणभूषितं धर्मशास्तारं द्रष्टुं च  भगवत्सन्निधानं पूर्णसज्जम्। लक्षशः तीर्थाटकाः भक्तजनाश्च सन्निधानपरिसरे समीपप्रदेशेषु च उपस्थिताः वर्तन्ते। 

  पन्तलं राजभवनात् प्रस्थिता भगवद्विग्रहे अलङ्कार्यमाणानां विशिष्टाभरणानां घोषयात्रा अद्य सायंलन्ध्यायां सन्निधानं प्राप्स्यति। ६. ३० वादने विशिष्टाभरणानि अलंकृत्य दीपाञ्जलिं विधास्यति। तस्मिन् समये एव पोन्नम्पलमेट् इत्यत्र मकरज्योतिदर्शनं शक्यते। आकाशे मकरनक्षत्रमपि उज्वलिष्यति। आत्मनिर्वृतिदायकं पुण्यमुहूर्तं साक्षात्कर्तुं लक्षशः भक्ताः उपस्थिताः सन्ति।

महाकुम्भमेला - प्रथमदिने ६० लक्षं पुण्यस्नानानि। 

प्रथमे दिने त्रिवेणीसंगमस्थाने पुण्यस्नानं कुर्वन्तः भक्तजनाः। 

प्रयागराजः> ह्यः पौष्यपौर्णम्यां समारब्धायाः महाकुम्भमेलायाः प्रथमदिने शंखनादानां कीर्तनालपानाम् अनुगमनेन ६० लक्षाधिकं तीर्थाटकाः त्रिवेणीसंगमस्थाने पुण्यस्नानं कृतवन्तः। प्रत्येकं १२ वर्षाभ्यन्तरे आयोज्यमाना इदं तीर्थाटनं विश्वस्मिन् महत्तमं तीर्थाटनमिति परिगण्यते। 

  ४५ दिनात्मके महाकुम्भमेलने आहत्य ५० कोटि भक्ताः भागं करिष्यन्ति। कार्यक्रमेभ्यः सज्जं महाकुम्भनगरं १०,००० एकर् मितं विस्तृतमस्ति। एकस्मिन् काले एककोटि तीर्थाटकान् अन्तर्भावयितुं शक्यते।

 वैदिकगणभारतस्य संस्थापकाय  ‘श्रीवत्स’ देशराजाय आचार्यवशिष्ठसम्मानः प्रदास्यते।


  भारतीय-ज्ञानविज्ञानस्य ऋषिपरम्परायाः च संरक्षणे संवर्द्धने च अतिशययोगदानं करोति वैदिकगणभारतस्य संस्थापकः अध्यक्षः च ‘श्रीवत्स’ देशराजः। सः सिरमौरकलासंगमेन २८ जून २०२५ तमे दिने आचार्यवशिष्ठसम्मानेन सम्मानितः भविष्यति।


संस्कृतक्षेत्रे अद्वितीयं योगदानम्

   मूलतः हिमाचलप्रदेशस्य लघुकाश्यां (छोटी काशी मण्डी) स्थितः ‘श्रीवत्स’ देशराजः भारतीयसंस्कृतेः वेदानाम् उपनिषदां च प्रचारप्रसाराय महान्तं प्रयासं कृतवान्। तेन संस्कृतभाषायाः ज्ञानविज्ञानस्य च संवर्धनाय वैदिकगणभारतस्य संस्थानं स्थापितम्, तेन माध्यमेन सः युवानां भारतीयदर्शनेन सह सम्बद्धतां वर्धयति। 


सिरमौरकलासंगमस्य प्रशंसनीयः प्रयासः

   सिरमौरकलासंगमः भारतीयकलायाः संस्कृतेः च संवर्द्धनाय समर्पितं प्रसिद्धं संस्थानम् अस्ति। प्रतिवर्षं तेन अस्मिन् क्षेत्रे अद्वितीयं योगदानं कुर्वन्तः विद्वांसः सम्मान्यन्ते।


आचार्यवशिष्ठसम्मानस्य उद्देश्यं         भारतीयज्ञानपरम्परायाः पुनरुज्जीवनं तथा लोकेषु संस्कृतभाषायाः दर्शनस्य च महत्वस्य परिचयकरणं च भवति, समाजं संस्कृतभाषायाः दर्शनस्य च महत्वेन परिचितं करणं च अस्ति।

   श्रीवत्सदेशराजस्य सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशे संस्कृतविदुषां मध्ये हर्षं उत्साहं च वितरतः। एषः सम्मानः न केवलं तस्य परिश्रमस्य फलम् अपि तु संस्कृतभाषायाः संरक्षणाय युवा वर्गं प्रेरयिष्यति।

    श्रीवत्सदेशराजाय समर्पितेयं सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशस्थविदुषां समाजे महदुत्साहं वितरति। न केवलं सम्मानोऽयम् अमुष्य परिश्रमपरिपाकः अपि तु समस्ते देशे संस्कृतभाषायाः प्रसाराय प्रचाराय च प्रयतमानानाम् आधुनिकयुवकानां कृते आदर्शः एव। अयं सम्मानसमारोहः भारतीयसंस्कृतेः ऋषिपरम्परायाः च गौरवपूर्णं स्मरणं स्मारकम् भविष्यति।

Monday, January 13, 2025

 महाकुम्भमेलनाय अद्य शुभारम्भः।

 प्रयागराजः> विश्वे बृहत्तमतीर्थाटकसंगमाय उत्तरप्रदेशस्थः प्रयागराजः सिद्धः। मासाधिकं दीर्घकालिकस्य महाकुम्भमेलनस्य कार्यक्रमाः सोमवासरे आरभन्ते। १२ संवत्सरेषु एकवारं आघुष्यमाणा आत्मीय-सास्कृतिकमेलनं भवति महाकुम्भमेला। 

  ४५ दिनानि दीर्घ्यमाने अस्मिन् कुम्भमेलने ४० कोटिसंख्याकाः तीर्थाटकाः भागं करिष्यन्तीति प्रतीक्षते। ४००० हेक्टर् मिते स्थाने तीर्थाटकानां कृते आधारसुविधाः आयोजिताः सन्ति।