कुम्भमेलायाः इतिवृत्तम्
पुराणेतिहासविभागे अध्यापकः
राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
कुम्भमेलाविषयोपक्रमः -
कुम्भमेला भारते आयुज्यमाना एका विशालमेला भवति, यस्मिन् प्रयाग-हरिद्वार-उज्जैन-नाशिक-स्थानेषु कस्मिंश्चित् स्थाने प्रत्येकेषु द्वादशवर्षेषु यथास्थानं यथाकालं कोटिशः भक्ताः एकत्रिताः भूयो गङ्गानद्यां पवित्रस्नानं कुर्वन्ति । प्रत्येकस्मिन् द्वादशवर्षे चाऽपि प्रयागे द्वयोः कुम्भपर्वणोः मध्ये षड्वर्षाणां व्यवधानेन तंत्र अर्धकुम्भोऽपि आयुज्यते । २०१३ तमस्य वर्षस्य कुम्भस्य समाप्तेरनन्तरं २०१९ तमे वर्षे प्रयागे पुनरेकार्धकुम्भमेलायाः आयोजनं विहितम् । अधुना २०२५ तमे वर्षे पुनरपि एकमहाकुम्भमेलायाः आयोजनं क्रियते ।
ज्योतिषगणनानुसारम् इयं मेला पौषपूर्णिमादिने आरभ्यते तथा च मकरसङ्क्रान्तौ एतस्या मेलाया विशेषज्योतिषोत्सवः परिकल्प्यते यदा सूर्यचन्द्रौ वृश्चिकराशिं प्रविशतः,बृहस्पतिश्च मेषराशिं प्रविशतीति । मकरसङ्क्रान्तौ घटितः अयं योगः कुम्भस्नानयोग: इति कथ्यते । इयं कुम्भमेला क्रमेण प्रयाग,हरिद्वार,नासिक,उज्जैन इत्यादिषु स्थानेषु प्रत्येकेषु चतुर्वर्षेषु एकैकवारम् आयोजिता भवति । कुम्भस्नाने निम्नोक्ताः विशेषदिवसाः भवन्ति । तद्यथा - पौषपूर्णिमा,मकरसङ्क्रान्तिः,मौनी अमावस्या,वसन्तपञ्चमी,माघी पूर्णिमा एवञ्च महाशिवरात्रिरिति । कुम्भस्नानयोगदिवसः अतीव शुभः मन्यते । यतः अस्मिन् दिने पृथिव्याः उच्चक्षेत्रद्वाराणि उद्घाट्यन्ते,अतः अस्मिन् दिने स्नानं शुभमिति विश्वासः प्रवर्तते । एवम्प्रकारेण स्नानं कृत्वा मानवात्मा सहजतया उच्चतरक्षेत्राणि प्राप्तुमर्हति । अत्र स्नानं नाम स्वर्गस्य दर्शनमिति विश्वस्यते ।