OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, December 10, 2024

 सञ्जय मल्होत्रा आर् बी ऐ प्रशासक‌ः। 


नवदिल्ली> रिसर्व बैंक् ओफ् इन्डिया [आर् बी ऐ] संस्थायाः नूतनप्रशासकरूपेण वरिष्ठः ऐ ए एस् अधिकारी सञ्जय मल्होत्रा नियुक्तः। इदानीं सः केन्द्रसर्वकारस्य रवन्यूसचिवरूपेण कार्यनिरतः अस्ति। 

  वर्तमानीनः आर् बी ऐ प्रशासक‌ः शक्तिकान्तदासः अद्य सेवायाः विरमति। तस्य स्थाने अस्ति मल्होत्रावर्यस्य नियुक्तिः।

 जे सि डानियल् पुरस्कारः षाजि एन् करुणाय। 

अनन्तपुरी> मलयालचलच्चित्रमण्डलाय कृतम् आयुष्कालयोगदानं पुरस्कृत्य दीयमानाय जे सि डानियल् पुरस्काराय सुप्रसिद्धः निदेशकः षाजि एन् करुणः अर्होSभवत्। २०२३ तमवर्षस्य पुरस्कार एवास्मै दीयते।

  बहुषु  अन्ताराष्ट्रियमण्डलेषु षाजि एन् करुणस्य चलच्चित्राणि चर्चितान्यभवन्। केरलसर्वकारस्य परमोन्नता  चलच्चित्रबहुमतिः भवति जे सि डानियल् पुरस्कारः।

Monday, December 9, 2024

 सिरियाराष्ट्रं विमतैः गृहीतम्। 

राष्ट्रपतिः बाषर् अल् असदः रष्यां पलायितवान्।

सिरियानिग्रहणे आह्लादं प्रकटयन्तः विमताः। 

दमास्कसः> सिरियाराष्ट्रस्य राजधानी दमास्कसः स्वीयैः निगृहीतः इति सर्वकारविरुद्धविमतसंघेन हयात् तहरीर् अल् षाम् [एछ् टि एस्] इत्यनेन संघटनेन निगदितम्। नवम्बरमासस्य २७ तमे दिनाङ्के आरब्धस्य प्रशासनविरुद्धाक्रमणस्य ११ तमे दिने आसीदिदं प्रख्यापनम्। 

  राष्ट्रं परित्यक्तवान् राष्ट्रपतिः बाषर् अल् असदः सपरिवारः मोस्को प्राप्तवानिति  रूसीयवृत्तान्तहरैः प्रस्तुतम्। रष्यया असदाय अभयः दत्त इति सूच्यते। 

  असदः प्रशासनात् प्रतिलोमितः इति रविवासरे औद्योगिकदूरदर्शनमाध्यमेनैव विमतैः उद्घोषितम्। २० संवत्सरात्मकं असदशासनं समाप्तमिति ज्ञातवन्तः जनाः वीथीमागत्य आह्लादं प्रकटितवन्तः।

प्रयागराजे महाकुम्भमेलामहोत्सवे ४५ कोटि तीर्थयात्रिकाणां सहभागः भविष्यति - मन्त्री सूर्यप्रतापः शाहिः।

    प्रयागराजे महाकुम्भमेलामहोत्सवे ४५ कोटि तीर्थयात्रिकाणां सहभागः भविष्यति इति उत्तरप्रदेशस्य मन्त्री सूर्यप्रतापः शाहिः उक्तवान्।

     कार्यक्रमस्य अनुबन्धतया प्रयागराजे त्रिलक्षाधिकाः वृक्षाः रोपिताः। महोत्सवस्य समाप्तेः परम् अपि तेषां संरक्षणं सुनिश्चितं करणीयमिति सर्वकारेण सङ्कल्पितम् अस्ति इति मन्त्री अवदत्।

   ४५ कोटिभ्यः अधिकानां तीर्थयात्रिकाणाम्, संन्यासिनाम्, पर्यटकानां च स्वागताय अयं महोत्सवः सज्जः इति तेन उक्तम्। १२ संवत्सराणाम् अन्तराले युनेस्को-सांस्कृतिक- पैतृकत्वेन मानितः अयं महाकुम्भमहोत्सवः पुनः प्रयागस्य पवित्रभूमौ सम्पन्नः भविष्यति इत्यपि महोदयेन उक्तम्।

 विश्वचतुरङ्गक्रीडा - गुकेषः विजयेन अग्रे। 

क्रीडामध्ये डि गुकेशः [वामभागे] 

सिंगपुरं> विश्वचतुरङ्गक्रीडायाः अन्तिमचक्रस्य ११ तमे प्रतिद्वन्द्वे भारतस्य क्रीडकः डि गुकेशः निर्णायकविजयं प्राप्य अग्रगामी अभवत्। वर्तमानकालीनः विश्ववीरः चीनीयः डिङ् लिरनः क्रीडायाः २९ तमे पदे पराजयम् अङ्गीकृतवान्। 

   १४ चरणयुक्तायांक्रीडायां ११ चरणेषु समाप्तेषु गुकेशः ६ - ५ इति अङ्कक्रमेण अग्रे वर्तते। यः प्रथमं ७. ५ अङ्कान् सम्पादयिष्यति सः विश्वविजयी भविष्यति। १२ तमक्रीडा अद्य सम्पत्स्यते।

नवदिल्ल्यां चत्वारिंशदधिकविद्यालयेषु विसस्फोटकभीषा

     नवदिल्ल्यां चत्वारिंशदधिकविद्यालयेषु विसस्फोटकभीषा। रविवासरे ११.३८ वादने एव विस्फोटकः स्थापितः इति ई-पत्रद्वारा भीषासन्देशः विद्यालयेषु आगतः। अनेन कारणेन प्रातः विद्यालये आगतान् छात्रान् गृहं प्रति प्रेषणाय निर्देशः दत्तः। दिल्ली- आरक्षकदलेन अस्मिन् घटनायाम् अन्वेषणं समारब्धम्।

Sunday, December 8, 2024

देशे ८५ नूतनकेंद्रीय-विद्यालयानां संस्थापनाय केन्द्र-सर्वकारस्य निर्णयः।

   देशे ८५ नूतनानां केंद्रीय-विद्यालयानां संस्थापनाय केन्द्र-सर्वकारेण निर्णयः कृतः। अनेन सह २८ नवोदय-विद्यालयानाम् आरम्भः अपि निश्चितः। अयं निर्णयः प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायाम् सम्पन्ने आर्थिककार्य-मन्त्रिमण्डल-समितेः सभायाम् अभवत्।


  नूतनस्य संस्थापनेन सह वर्तमानानाम् विकासाय ५८७२ कोटि-रूप्यकाणि व्ययीक्रियन्ते। वर्तमान-मानदण्डानुसारम् एकस्मिन् केंद्रीय-विद्यालये ६३ जनेभ्यः कर्मलब्धिः भविष्यति। विद्यालयस्य विपुलीकरणेन ३३ नूतन-कर्मस्थानानि भविष्यन्ति। ८५ नूतन-केंद्रीय-विद्यालयानां संचालनेन ८२,५६० छात्रेभ्यः प्रयोजनानि लप्स्यन्ते।

Saturday, December 7, 2024

 नासायाः 'आर्टेमिस् योजना' विलम्बायते। 

वाषिङ्टणः> अर्धशतकानन्तरं मनुष्यं पुनरपि चन्द्रमण्डलं प्रापयितुं नासासंस्थायाः अभिमानपरियोजनायाः 'आर्टेमिस्' नामिकायाः विलम्बः भविष्यति। बहिराकाशयात्रिकान् चान्द्रभ्रमणपथं प्रापयितुमुद्दिष्टा 'आर्टेमिस् - २'  योजना २०२६ एप्रिल् यावत् दीर्घिता इति नासया निगदितम्। २०२५ सेप्टम्बर् आसीत् पूर्वं निश्चितः कालः।

 अग्निप्रकाण्डात् पुनरुज्जनितः 'नोत्रदाम्' आराधनालयः अद्य उद्घाट्यते। 


पारीस्> पारीसे विश्वप्रसिद्धः नोत्रदाम् क्रैस्तवाराधनालयः नवीकरणानन्तरम् शनिवासरे उद्घाट्यते। २०१९ तमे वर्षे दुरापन्नन अग्निप्रकाण्डेन  विनाशिते देवालये पञ्च वर्षाभ्यामनन्तरं गायकसंघस्य गानमुन्नेष्यति। आमन्त्रितैः १५०० अतिथिभिस्सह मुख्यपुरोहितः आर्च् बिषप् लोरन्ट् उल्रिच् देवालयस्य अन्तः प्रवेक्ष्यति। 

  रविवासरे प्रवृत्तमानस्य उद्घाटनदिव्यबलेः बलिपीठप्रतिष्ठाकार्यक्रमस्य चानन्तरं सामान्यजनानां प्रवेशः साध्यः भविष्यति। ८६० संवत्सराधिकं पुरातने अस्मिन् देवालये अग्निप्रकाण्डात्पूर्वं प्रतिदिनं १. ३कोटि जनाः सन्दर्शनं कृतवन्तः।

  शनिवासरे सम्पद्यमाने प्रवेशकार्यक्रमे यू एस् राष्ट्रस्य नियुक्तराष्ट्रपतिः डोनाल्ड ट्रम्पः, युक्रेनराष्ट्रपतिः व्लादिमिर् सेलन्स्की इत्यादयः फ्रञ्च राष्ट्रपतेः इम्मानुवल् मक्रोणस्य आमन्त्रणं स्वीकृत्य देवालयं प्राप्स्यन्ति।

Friday, December 6, 2024

 महाराष्ट्रे फड्नविसः प्रशासनम् अधिकारं प्राप्तम्। 

देवेन्द्र फड्नविसः शपथवाचनं करोति।

मुम्बई> महाराष्ट्रे मुख्यमन्त्रिरूपेण देवेन्द्र फड्नविसः शपथवाचनं कृतवान्। एकनाथ षिन्डे , अजित पवारश्च उपमुख्यमन्त्रिरूपेण च अधिकारं स्वीकृतवन्तौ। ह्यः सायं आसाद् क्रीडाङ्कणे समायोजिते प्रौढगम्भीरे कार्यक्रमे राज्यपालस्य सि पि राधाकृष्णस्य पुरतः एव सर्वे शपथवाचनमकुर्वन्। 

  प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, इतरे केन्द्रमन्त्रिणः, राज्यमुख्यमन्त्रिणः, मुकेष् अम्बानी, नोयल् टाटा इत्यादयः व्यवसायप्रमुखाः, सच्चिन् टेण्टुल्करः, षारूखानः इत्यादयः विशिष्टपुरुषाश्च कार्यक्रमेSस्मिन् सन्निहिताः आसन्।

Thursday, December 5, 2024

 दृश्यविस्मयैः सह नाविकदिनोत्सवः सम्पन्नः। 

कोच्ची मध्ये सम्पन्ने नौसेनादिनोत्सवे प्रदर्शितं प्रकटनम्। 

कोच्ची> नौसेनायाः कोच्चीकेन्द्रे विविधैः सेनाभ्यासैः नाविकदिनोत्सवः सम्पन्नः। 

  रोमियो उदग्रयानं, अमेरिकातः क्रीतानि पि -८ ऐ युद्धविमानानि च अभिव्याप्य भारतस्य नौसेनाशक्तिं समुद्घोषितानि विस्मयदृश्यानि आसन्। नौसेनायाः दक्षिणप्रान्तीयाधिकारी वैस् अड्मिरल् वि श्रीनिवासः, नौसेना अधिकारिणः, आमन्त्रिताः अतिथयश्च सन्निहिताः आसन्।

 यू एन् मध्ये पालस्तीनानुकूलं वादविषयपत्रं भारतेन अनुमोदितः। 

अधिनिवेशितप्रदेशेभ्यः इस्रयेलेन अपयातव्यम्। 

न्यूयोर्क्> पूर्वजरुसलेमम् अभिव्याप्य १९६७ तमवर्षादारभ्य इस्रयेनेन अधिनिवेशितेभ्यः पालस्तीनस्य भूप्रदेशेभ्यः तद्राष्ट्रम् अपनीतव्यमिति आवश्यकं यू एन् संस्थायाः  वादपत्रमनुमोद्य भारतं मतदानमदात्। पश्चिमेष्यायां समग्रा नीतियुक्ता शाश्वती च शान्तिः अनेन वादपत्रेण कांक्षते। 

 सेनगलराष्ट्रेण आनीतं वादपत्रं सामान्यसभायाः १९३ अङ्गराष्ट्रेषु १५७ राष्ट्रैः अनुकूलितम्। यू एस्, इस्रयेलः, अर्जेन्टीना इत्यादिभिः अष्टराष्ट्रैः प्रतिकूलितम्।

 महाराष्ट्रे फड्नविसः मुख्यमन्त्री; अद्य शपथसमारोहः। 

देवेन्द्र फड्नविसः। 

मुम्बई> महाराष्ट्रे दशदिनात्मकस्य राजनैतिकानिश्चितत्वस्य विरामः। भा ज पा नेता देवेन्द्र फड्नविस् इत्यस्य नेतृत्वे नूतनसर्वकारः गुरुवासरे अधिकारं प्राप्स्यति। आसाद् क्रीडाङ्कणे सायं सार्धपञ्चवादने शपथसमारोहः भविष्यति। 

  शिवसेना नेता भूतपूर्वमुख्यमन्त्री च एकनाथ षिन्डे, एन् सि पि नेता अजित पवारः च उपमुख्यमन्त्रिणौ भविष्यतः।

   ५४ वयस्कः देनेन्द्र फड्नविसः तृतीयवारमेव महाराष्ट्रस्य मुख्यमन्त्रिपदमारोहति। ह्यः प्रवृत्ते भाजपासदस्यानां मेलने सः विधानसभानेतृरूपेण चितः।

Wednesday, December 4, 2024

 गान्दर्बल आक्रमणकारिषु एको भीकरः हतः। 

श्रीनगरं> ओक्टोबरमासे जम्मु काश्मीरे गान्दर्बलप्रदेशे निर्माणकर्मकराणां वासशिबिरम् आक्रम्य वैद्यमभिव्याप्य सप्त जनानां हन्तृषु भीकरेषु एकः सुरक्षासेनया हतः। गतदिने दच्चिगामवनक्षेत्रे प्रवृत्ते प्रतिद्वन्द्वे कुलगामवासी जुनैद् अहम्मदभट्टनामकः भीकर एव हतः।

 चीनं प्रति सौहृदे उत्कर्षो जातः - भारतविदेशकार्यमन्त्री। 

नवदिल्ली> भारतचीनयोः सीमाविवादाः समीपकालसैनिकनयतन्त्रचर्चाभिः परिहृताः इति भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः। उभयोरपि राष्ट्रयोः परस्परसंबन्धे अपि उत्कर्षः जातः इति तेनोक्तम्। लोकसभायां सविशेषप्रस्तुतिं  क्रियमाणः आसीत् सः।

  २०२० तमे 'गाल्वन्' संघर्षस्य हेतुः चीनेन कृतं प्रकोपनमासीत्। चीनस्य आक्रमणं प्रतिरोद्धुं भारतसेनया कृतः उद्यमः प्रशंसामर्हति। चीनेन सह सीमाविवादेषु शाश्वतपरिहाराय भारतं प्रतिज्ञाबद्धमिति जयशङ्करेण प्रस्तुतम्।

Tuesday, December 3, 2024

 भूतपूर्वविधानसभासदस्यस्य पुत्रस्य आश्रितनियुक्तिः

सर्वोच्चन्यायालयेनापि निरस्ता। 

सर्वकारं प्रति कठिनविमर्शः।

नवदिल्ली> केरले चेङ्ङन्नूर् विधानसभासदस्यरूपेण वर्तमाने सति मृत्युं प्राप्तस्य के के रामचन्द्रन् नायरस्य पुत्रस्य आश्रितनियुक्तिः  सर्वोच्चन्यायालयेनापि निरस्ता। २०१८ तमे वर्षे    पुत्राय आर् प्रशान्ताय अविद्यमानं पदं 'सूपर् न्यूमररि' रूपेण [Super neumarary] सृष्ट्वा सामान्यप्रवृत्तिविभागे दत्ता 'असिस्टन्ट् एन्जिनीयर्' पदनियुक्तिः २०२१ तमे  राज्योच्चन्यायालयेन निरस्ता आसीत्। तदुपरि केरलसर्वकारेण प्रशान्तेन च  सर्वोच्चन्यायालये पुनर्विचारप्रार्थना समर्पिता। तां प्रार्थनां निरस्य राज्योच्चन्यायालयस्य विधेः साधुता कल्पिता। 

  सर्वकारस्य सविशेषाधिकारमुपयुज्यैव नियुक्तिः दत्ता इति वादं निरस्यमाणेन नीतिपीठेन एतादृशप्रकरणेषु तादृशाधिकारः न प्रयोक्तव्यः इति उक्तम्। सर्वकारसेवकानाम् आश्रितेभ्यः एव आश्रितनियुक्तिः विवक्षिता सदस्यः सर्वकारसेवकः नास्तीति च नीतिपीठेन निरीक्षितम्।

 राजवीथ्यां  बस् यान-कार् यानसंघट्टनं - पञ्च वैद्यकछात्राः मृताः। 

दुर्घटनायां पूर्णतया भग्नं कार् यानम्। 

आलप्पुष़ा> केरले आलप्पुष़ा जनपदे नगरसमीपं राजवीथ्यां  के एस् आर् टि सि बस् यानं प्रति ११ वैद्यकीयछात्राः सञ्चरतः कार् यानस्य संघट्टनेन ५ वैद्यकीयछात्राः मृताः; अन्ये तीव्रेण आहताः।   वैद्यककलालयस्य आतुरालये परिचर्यायां वर्तमानेषु आहतेषु एकस्य अवस्था गुरुतरा वर्तते।

  सोमवासरस्य रात्रौ अतिवृष्टिसमये आसीत् दुर्घटना।  चलच्चित्रदर्शनाय प्रस्थिताः  ११ वैद्यकीयछात्रैः सञ्चरत् यानं नियन्त्रणं विनश्य अभिमुखमागच्छत् बस् यानं घट्टितमासीत्।

  सर्वे आलप्पुष़ा वैद्यककलाशालायां प्रथमवर्षछात्राः भवन्ति। आयुष् षाजी [आलप्पुष़ा], श्रीदीप वत्सन् [पालक्काट्], देवानन्दः [मलप्पुरं], मुहम्मद अब्दुल् जब्बार् [कण्णूर्], मुहम्मद इब्राहिमः [लक्षद्वीपः] इत्येते अकालमृत्युं प्राप्तवन्तः सुहृदः। 

 केरले उत्तरजनपदेषु अतिवृष्टेः सम्भावना। 

अद्य चतुर्णां शैक्षिकसंस्थानां विरामः। 

अनन्तपुरी> फैन्जल् चक्रवातः न्यूनमर्दरूपं प्राप्य उत्तरकेरलस्य कर्णाटकस्य च उपरिभागेन आरबसमुद्रं लक्ष्यीकृत्य सञ्चरतीत्यतः उत्तरकेरलजनपदेषु कर्णाटके च अतितीव्रवृष्टिः प्रोक्ता पर्यावरणविभागेन। 

  कण्णूर् कासरगोड् जनपदयोः ओरन्जजागरूकता, मलप्पुरं वयनाट् कोष़िक्कोट् जनपदेषु पीतजागरूकता च प्रख्यापिता। 

  तृश्शुर् कासरगोड् मलप्पुरं जनपदस्थानां शैक्षिकसंस्थानां कुजवासरे  विरामः प्रख्यापितः। परन्तु पूर्वनिश्चितानां परीक्षाणाम् अभिमुखानां च विरामः न बाधते।