OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, November 2, 2024

 वार्तामुक्तकानि। 

एन् एस् माधवाय एषुत्तच्छन् पुरस्कारः।

कोट्टयं>  केरलसर्वकारेण दीयमानाय परमोन्नताय एषुत्तच्छन् पुरस्काराय प्रमुखः कथाकारः एन् एस् माधवः अर्होSभवत्। कथासाहित्याय दत्तं समग्रयोगदानं पुरस्कृत्य एव पुरस्कारः इति पुरस्कारनिर्णयसमित्या निगदितम्। 'कायातरण' नामकं हिन्दी चलच्चित्रं अनेन रचितया कथया उपजीव्य निर्मितमस्ति। 

एस् एस् एल् सि परीक्षासमयक्रमः विहितः।

अनन्तपुरी> केरले एस् एस् एल् सि, +१, +२ सामान्य परीक्षाणां समयक्रमः प्रसिद्धीकृतः। एस् एस् एल् सि परीक्षाः मार्च् तृतीयदिनाङ्कतः २६ तमपर्यन्तं भविष्यन्ति। +१ परीक्षाः मार्च् ६ तः २९ पर्यन्तं, +२ परीक्षाः मार्च् ३तः २६ पर्यन्तं च भविष्यन्ति।

दिल्ल्यां वायुः अत्यशुद्धायामवस्थायाम्। 

नवदिल्ली> राष्ट्रराजधान्यां वायुमलिनीकरणस्य स्तरः अत्युच्चावस्थां प्राप्तः। दीपावली उत्सवस्य अनन्तरं श्वसनवायुः अत्यन्तमशुद्धः जातः। ह्यः प्रभाते सूचिकायां  ३६२ अङ्कितम्।

 स्पेयिन् प्रलयः - मरणानि २०५ अभवन्। 

माड्रिड्> स्पेयिनस्य दक्षिणपूर्वक्षेत्रे कुजवासरे दुरापन्ने आकस्मिकप्रलयदुष्प्रभावे मृतानां संख्या २०५ अभवत्। २०२ जनानां मरणानि वलन्सियायामेव अभवन्। दुरन्तबाधिताः साह्याभ्यर्थनया वीथ्यां प्रक्षोभं कृतवन्तः। 

   बहुत्र स्थानेषु विद्युत्-गमनागमनसुविधाः न पुनःस्थापिताः। षेवा नगरस्थानि भूरिशः गृहाणि प्रवाहितानि। १९९६ तमस्यानन्तरं दुरापन्नः बृहत्तमः प्रलयदुरन्तः अयम्।

Friday, November 1, 2024

 अद्य केरलप्रसूतिदिनम्। 

केरलपुरस्काराः प्रख्यापिताः। 

एम् के सानुवर्याय केरलज्योतिपुरस्कारः।

एम् के सानुः। 

अनन्तपुरी> नवम्बर् १ केरलराज्यस्य जन्मदिनमस्ति। अद्य केरलं स्वस्य ६९ तमं जन्मदिनमाघुष्यते। 

  विविधमण्डलेषु समग्रयोगदानप्रदातृभ्यः दीयमानाः केरलपुरस्काराः प्रख्यापिताः। तेषु उत्कृष्टाय केरलज्योतिपुरस्काराय एम् के सानु वर्यः चितः। सः अध्यापकः, साहित्यनिरूपकः प्रभाषकः इत्यादिरूपेण  प्रसिद्धः अस्ति। 

  ऐ एस् आर् ओ संस्थायाः अध्यक्षः एस् सोमनाथः, जैवकर्षका पालक्काट् स्वदेशिनी भुवनेश्वरी च केरलप्रभापुरस्काराय चितौ।   विविधक्षेत्रेभ्यः  अन्ये षट् प्रतिभाधनाः केरलश्री पुरस्काराय चिताश्च।

 वार्तामुक्तकानि। 

सैनिकापसरणं सम्पूर्णम्। 

श्रीनगरं> पूर्वलडाके दम्चोक्, डेप् साङ् क्षेत्रेभ्यः चीन-भारतयोः सेनापसरणं सम्पूर्णमभवदिति उभयोरपि सेनाधिकारिभिरुक्तम्। दीपावलिदिनस्य पूर्वेद्युः परस्परं  मधुरोपहाराणि संक्रामितानि। 

फ्रञ्च स्थानपति दिल्ल्यां कोशच्छेदितः। 

नवदिल्ली> वस्तूनि क्रेतुं दिल्ल्यां 'चान्दनी चौक्' विपणीं गतवतः भारतस्य फ्रञ्च स्थानपतिः तियरि मात्यू इत्यस्य  कोशं छित्वा चलदूरवाणी अपहृता।  चत्वारः अपराधिनः निगृहीताः।

बी पि एल् स्थापकः दिवंगतः। 

बङ्गलुरु> भारतस्य 'इलक्ट्रोणिक्स्' उद्योगमण्डले श्रेष्ठः व्यवसायी, बी पि एल् इति इलक्ट्रोणिक्स् उत्पन्ननिर्माणसंस्थायाः स्थापकः टि पि जि नम्ब्यार् वर्यः [९५] बङ्गलुरु मध्ये स्वभवने दिवंगतः। १९२९ तमे वर्षे उत्तरकेरले लब्धजन्मनः अस्य पूर्णनामधेयः ताष़त्तु पुल्लायिक्कुटि गोपालन् नम्ब्यारः इत्यस्ति। 

ताय्लान्टविदेशकार्यमन्त्री भारते। 

नवदिल्ली> ताय्लान्टराष्ट्रस्य विदेशकार्यमन्त्री मारिस् सङ्कियां पोङ्सा वर्यः दिनत्रयसन्दर्शनाय ह्यः रात्रौ भारतं प्राप्तवान्। शनिवासरे भारतविदेशकार्यमन्त्रिणा एस् जयशङ्करेण सह मेलिष्यति।

 भारतस्य १०२ टण् मितं सुवर्णं राष्ट्रं प्रत्यानीतम्। 

मुम्बई> विदेशे परिपालितात् सुवर्णसञ्चयात् १०२ टण् मितं सुवर्णमपि भारतीय रिसर्व बैङ्केन [आर् बी ऐ]  राष्ट्रं प्रत्यानीतम्। 'बैङ्क् आफ् इङ्लण्ट्' मध्ये संरक्षितं सुवर्णमेव अतिसुरक्षासन्नाहेन भारते सुरक्षितस्थानेषु स्थापितम्। 

 आर् बी ऐ संस्थायाः अधीने इदानीं ८५५ टण् मितं सुवर्णसञ्चयः विद्यते। तस्मात् आहत्य ५१०. ५ टण् भारतं प्रत्यानीतम्। एतत्तु आहत्य वर्तमानस्य सुवर्णसञ्चयस्य ५९. ७% अस्ति। आगोलस्तरे विद्यमानानि युद्धादिप्रतिसन्धयः अनिश्चितत्वानि च सुवर्णसञ्चयस्य प्रत्यानयनस्य कारणं भवति।

Thursday, October 31, 2024

 जम्मु आक्रमणं जय्षे भीकरैः कृतम्। 

श्रीनगरं> जम्मुक्षेत्रस्य अखनूरप्रदेशे सुरक्षासेनया व्यापादिताः त्रयः भीकराः जय्षे मुहम्मद् इत्यस्मिन् निरुद्धसंघटनस्य अङ्गाः इति सेनया निगदितम्। पाकधीनकाश्मीरतः अतिक्रम्य प्रविष्टाः भवन्त्येते। भारते बृहदाक्रमणाय ते कल्पितवन्तः च। एतत्साधूकृतानि प्रमाणानि भीकरेभ्यः अधिगतानीति गुप्तान्वेषणसंस्थया आवेदितम्।

 पालस्तीनराष्ट्राय नूतनं सख्यम् 

सौद्यां प्रथममेलनम्। 

रियादः> पालस्तीनराष्ट्रसंस्थापनाय सम्मर्दं कर्तुं रूपीकृतस्य नूतनान्ताराष्ट्रीयसख्यस्य प्रथमं मेलनं सौदिराजधान्यां रियादे आरब्धम्। गतमासे संवृत्ते यू एन् इत्यस्य सामान्यसभामध्ये आसीत् 'द्विराष्ट्रपरिहारसाक्षात्करणाय अन्ताराष्ट्रसख्यं' रूपीकृतम्। पश्चिमेष्या, यूरोप्,इत्यत्रादिभ्यः राष्ट्राणि सख्ये सन्ति। ९० राष्ट्राणि इतराणि अन्ताराष्ट्रियसंघटनानि च द्विदिवसीये  मेलनेSस्मिन् भागं कुर्वन्ति।

 २५,१५,५८५ दीपानां प्रज्वालनं, सरयूनद्याः तटे १,१२१ महा-आरत्याः अनुष्ठानं; द्वाभ्यां गिनीस् रेकॉर्ड् सहितः योगी।

   अयोध्यानगरे संपन्नायां दीपावली-महोत्सवे सरयूनद्याः तटे २५ लक्षाधिकानि दीपानि प्रज्वाल्य अयोध्यायाः द्वौ रेकॉर्ड् स्थापितौ। प्रथमः, बहूनि दीपानि (२५ लक्षं) प्रज्वालितानि। द्वितीयः, सर्वाधिक आरत्या (१,१२१) सरयूनद्याः तटे अनुष्ठिताः। राष्ट्रमाध्यमेण ANI इत्यनेन एषा वार्ता प्रकाशिता।

   रामलल्लायाः प्राणप्रतिष्ठायाः अनन्तरं संपन्नायां अस्मिन्प्रथमदीपावलीमहोत्सवे अयोध्या पुनरपि इतिहासस्य भागम् अभवत्।

 स्पेयिने आकस्मिकप्रलयः - ७२ मरणानि। 

बार्सिलोना> स्पेयिनराष्ट्रस्य दक्षिणपूर्वमण्डले कुजवासरे जातया अतिवृष्ट्या सञ्जाते आकस्मिकप्रलये ७२ जनाः मृत्युमुपगताः। अनेके जनाः अप्रत्यक्षाः अभवन्। 

  मलागतः आरभ्य वलन्सियपर्यन्तं वर्तमानेषु प्रदेशेषु एव प्रलयदुष्प्रभावः अतितीव्रः अनुभूतः। ८ होराभ्यन्तरे ४९१ मिल्लीमीटर् मिता वर्षा वलन्सियायां चिवानगरे  अङ्किता। १९९६ तमस्यानन्तरं प्रथमतया एव एतादृशप्रलयदुष्प्रभावः तीव्रतया अनुभूयते। 

  उपसहस्रं सैनिकाः रक्षाप्रवर्तनाय विन्यस्ताः। मृतानाम् आदरसूचकत्वेन दिनत्रयस्य दुःखाचरणं प्रख्यापितम्।

आयुर्वेदगुरुकुलमहाविद्यालयारम्भाय ऐतिहासिकं सर्वकारीयविज्ञप्तितिः निर्गता।

  नवदिल्ली> संस्कृतच्छात्रेभ्यः आयुर्वेदः साक्षादध्येतुं सन्दर्भः लभ्यते। तदर्थं आयुर्वेद-गुरुकुल-महाविद्यालयारम्भाय ऐतिहासिकं सर्वकारीयविज्ञप्ति: निर्गता अस्ति। केन्द्रसर्वकारस्य आयुषमन्त्रालयस्य तत्सचिवस्य वैद्यराजेशकोटेचामहोदयस्य भारतीय-चिकित्सापद्धति-राष्ट्रियायोगस्य अध्यक्षमहोदयस्य वैद्यजयन्तदेवपूजारीमहोदयस्य इतरेषां सहयोगिनां समुद्यमः एव सफलतायाः कारणम्। इतः परं संस्कृतच्छात्राः साक्षाद् आयुर्वेदाध्ययनाय अर्हाः भविष्यन्ति। संस्कृतमाध्यमेन आयुर्वेदाध्ययनं भविष्यति इत्यस्ति अस्य  सर्वकारीय-विज्ञप्तेः माहात्म्यम् ॥

 

Wednesday, October 30, 2024

 जम्मु काश्मीरे पुनरपि भीकराक्रमणं - त्रयः भीकराः हताः। 

जम्मू> जम्मु काश्मीरे अखनूर् मण्डले सोमवासरे विधत्तस्य उत्तरदायिनः त्रयः भीकराः सैन्येन हताः। सोमवासरे प्रभाते आम्बुलन्स् यानं प्रति कृते आक्रमणे फान्टं नामकः श्वानसैनिकः मृतः आसीत्। 

  ततः विधत्ते अन्वेषणे एकः भीकरः सैनिकैः मृत आसीत्। अनुवर्तमाने अन्वेषणे वने निलीयमानौ द्वौ भीकरौ ह्यः भुषुण्डिप्रयोगेण निहतौ।

 आयुष्मान् भारत परिरक्षा 

वयोधिकानां कृते 'वयोवन्दनं' कार्ड्पत्राणि वितरीतानि।

नवदिल्ली> वयोवरिष्ठानां नागरिकाणां स्वास्थपरिरक्षाभियोजना प्रधानमन्त्री जन आरोग्य योजना इत्यस्मै प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रारम्भः कृतः। चितानां वयोधिकानां वयोवन्दनं कार्ड्पत्राणि तेन वितरितानि। 

  ७० वयोSधिकानां प्रतिवर्षं पञ्चलक्षं रूप्यकाणि यावत् स्वास्थ्यपरिरक्षां लभते। ६ कोटि वरिष्ठनागरिकाणां कृते परियोजनेयं उपकारिका भविष्यति।

 व्याजबोम्बभीषा - एकापराधी प्रत्यभिज्ञातः। 

मुम्बई> राष्ट्रस्य विमानसेवां भीत्यां निमज्य विमानानां सर्वकारीयसंस्थाः च प्रति बोम्बभीषां कुर्वत्सु एकः नागपुरं आरक्षकदलैः प्रत्यभिज्ञातः। नागपुरं गोण्टिय प्रदेशीयः जगदीश उय्के [३५] नामकः एव भीषानां पृष्ठतः इति आरक्षकाधिकारिणा उक्तम्। २०२१ तमे व्याजबोम्बभीषाप्रकरणे निगृहीतः आसीत्। आतङ्कवादमधिकृत्य कस्यचन ग्रन्थस्य कर्ता भवत्येषः। 

  प्रधानमन्त्रिणः कार्यालयमभिव्याप्य अनेकान् सर्वकारीयकार्यालयान् प्रति च भीषापत्राणि ई मेयिल् द्वारा अनेन प्रेषितानीति आरक्षकसेनायाः 'डेप्यूटि कम्मीषणर्' पदीयस्य  श्वेत खड्करस्य  अन्वेषणे प्रत्यभिज्ञातम्।

 संघर्षाणां शतकम् अतिक्रम्य सः सखः वि. एस्. अच्युतानन्दः अद्य एकाधिकं शततमं जन्मदिनं प्राप्नोति।

    केरलराजनीत्याः महायोद्धा, सखः वि. एस्. अच्युतानन्दः अद्य एकाधिकशततमं जन्मदिनम् आचरति। संघर्षाणां शतकम् अतिक्रम्य अपि सः समाजाय प्रेरणास्रोतो भूत्वा तिष्ठति। यद्यपि सङ्घर्षे रूपसाकारो भवेत्, सः वि. एस्. अच्युतानन्द एव। तेन प्राचीन-ग्रामाधिपानां पुरतः स्वसाहसं प्रदर्श्य मुष्ट्युद्धरणं कृत्वा समाजोद्धारणाय समागतः आसीत् सः।हर्षध्वनिं कृत्वा अच्युतानन्दस्य नेतृत्वे जनाः संग्रामाय चलिताः।

    १९८० तः १९९२ पर्यन्तं द्वादशवर्षाणि सः सी. पी. आई. (एम्) दलस्य राज्यसचिवरूपेण सेवारत आसीत्। ८३ तमवयसि केरळराज्यस्य मुख्यमन्त्री अपि अभवत्। अद्य तु सः विश्रान्तजीवनं नयन् अस्ति।

Tuesday, October 29, 2024

 वैट् हौस् मध्ये दीपावली सन्दर्भे ‘दीया दीपं’ प्रज्वाल्य जो बाइडनेन उत्सवस्य समारम्भः कृतः।

   वैट् हौस् मध्ये दीपावली सन्दर्भे उत्सवस्य प्रारम्भाय राष्ट्रपतिः जो बैडनः सम्मुखे आगतवान्। सोमवासरे सायंकाले प्रथममहिला जिल् बैडनेन सह मिलित्वा ‘ब्लू रूम’ मध्ये 'दिया दीपं' प्रज्वाल्य उत्सवस्य आरम्भः कृतः। अनेके भारतीय-अमेरिकीजनाः अपि उत्सवस्य साक्षिभूताः आसन्।

    दीपावली दिवसे भारतीय-अमेरिकीजनानां स्वागतं बैडनः करिष्यति इति सूचितमस्ति। बाइडेनस्य अमुखप्रवचनमध्ये  नौसेनायाः निवृत्ता अध्यक्षा, भारतीयवंशजा  सूनिता विलियम्स् महोदयायाः वीडियो संदेशः भविष्यति इत्यपि सूचितम्। अन्तरराष्ट्रिय अन्तरिक्षकेंद्रात् सूनिता विलियम्सः दीपावलीदिनसंदर्भे शुभकामनाः प्रेषयिष्यति।



 जनसंख्यागणना २०२५ तमे वर्षे। 

  नवदिल्ली> भारते नूतनी जनसंख्यागणना [Census]  आगामिवर्षे आरब्धुं निर्णयः कृत इति सूच्यते। २०२५ तमात्  आरभ्य २०२६ तमे पूर्तीकर्तुम् उद्दिश्यते।  साधारणरीत्या वर्षचतुष्टयस्य विलम्बः अभवत्। 

  जनसंख्यागणनानन्तरं लोकसभामण्डलानां पुनर्निर्णयस्य क्रियाविधयः 'डि लिमिटेशन् आयोगेन'  आरप्स्यन्ते। २०२८ तमे वर्षे मण्डलपुनःक्रमीकरणं पूर्तीकृत्य २०२९ मध्ये लोकसभानिर्वाचनं विधातुमेव प्रशासनस्य चिन्ता इति सूच्यते। राष्ट्रस्य रजिस्ट्रार जनरल् पदीयः तथा सेनसस् कम्मीषणर् पदीयश्च मृत्युञ्जय कुमार नारायणः इत्यस्य कालपरिधिः २०२६ ओगस्ट् पर्यन्तं दीर्धीकृतः इति जनसंख्यागणनप्रवर्तनम् लक्ष्यीकृत्य इति अनुमीयते।

 न्याय. पुट्टस्वामी दिवंगतः। 


बङ्गलुरु> निजीयतां मौलिकाधिकारं कारयितुं अक्षीणं प्रयतितवान् न्याय. के एस् पुट्टस्वामी दिवंगतः। कर्णाटक उच्चन्यायालये न्यायाधिपः आसीत्। सोमवासरे बङ्गलुरुस्थे स्वभवने आसीत् तस्यान्त्यम्। ९८ वयस्क आसीत्। 

   आधार् परियोजनायाः नीतिन्यायसंहितासाधुतां परिपृच्छ्य तेन कृतं नियमयुद्धं राष्ट्रीयस्तरे श्रद्धामलभत। एषां परियोजनां विरुध्य समराह्वानं कृतवान् प्रथमव्यक्तिरासीत् न्याय. पुट्टस्वामी।

Monday, October 28, 2024

 कानडादेशः नियमाणां कठिनत्वे, जर्मनीदेशः नियमान् शिथिलीकृत्य भारतीयाय विसायाः संख्यां वर्धयति।

    जर्मनीदेशे प्रवासार्थं प्रयतमानानां भारतीयानां कृते एषा सुखदवार्ता अस्ति। भारतीय-प्रवेशपत्राणां संख्या २०,००० तः ९०,००० पर्यन्तं वर्धयिष्यते इति जर्मनीदेशेन घोषितम्। एषः निर्णयः शुक्रवासरे दिल्लीनगरे आयोजिते 'जर्मन् बिज़नेस् २०२४' नामके अष्टादशे एष्या-प्रशान्तसङ्गोष्ठ्यां स्वीकृतः, प्रधानमन्त्रिणा नरेन्द्रमोदिना एव एतद्विषये घोषणा कृता।

     इदानीं भारतस्य व्यवसायज्ञाः तथा विशेषज्ञाः जर्मनीदेशे अधुना अधिकम् अवसरं प्राप्स्यन्ति। विशेषतः सूचना-प्रौद्योगिकी, अभियान्त्रिकी, स्वास्थ्यरक्षायाः क्षेत्रेषु भारतीयप्रवेशिनः उन्नतानि कार्यसन्दर्भानि प्राप्स्यन्ति इति अनेन नवनिर्णयेन निर्दिष्टम्।