OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 26, 2024

 उत्सवेषु गजमेला- मानवानां धार्ष्ट्यमिति उच्चन्यायालयः। 

तिमिङ्गलः स्थलजीवी न इत्येतत् तेषां भाग्यमेव।

    उत्सवेषु गजान् अलङ्कृत्य उन्नयनं धार्ष्ट्यमेव इति केरलस्य उच्चन्यायालयेन निगदितम्। पादौ प्रबध्य पञ्च निमेषमपि स्थातुं मानवाः प्रभवन्ति वा? पुरतो विद्यमानौ पादौ प्रबध्य होराः यावत् स्थितानां गजानाम् अवस्था का इति भावयितुम् अपि मानवाः न प्रभवन्ति इति केरलस्य उच्चन्यायालयेन वाग्भिः उवाच। जन्तून् विरुध्य अतिक्रमाः प्रवर्धमाणे सन्दर्भे न्यायालयेन स्वयं स्वीकृतस्य प्रकरणस्य गणनावसरे कृतः परामर्शोयम् ।

 नासायाः 'षाडोस्' अभियानं भारते कोच्चीनगरे। 


कोच्ची> अमेरिकायाः बहिराकाशगवेषणसंस्थायाः नासायाः 'षाडोस्' नामकं ओसोणस्तरस्य निरीक्षण-गवेषणाभियानं केरलस्य कोच्चिनगरे अपि संस्थापयितुं नीर्णयः कृतः। कोच्चि विश्वविद्यालयस्य अन्तरिक्षशास्त्रपठनविभागेन सहकृत्वा एव केन्द्रस्य प्रवर्तनम्। 

  इदानीं १४ राष्ट्रेषु इदमभियानं प्रवर्तमानमस्ति।  ओसोण् स्तरस्य संरक्षणप्रक्रमान् साक्षात्कर्तुं उष्णमण्डलराष्ट्रेषु इदमभियानं प्रवर्तते। मलेष्या, इन्डोनेष्या, दक्षिणाफ्रिका, वियट्नामः, ब्रसीलः इत्यादिषु १४ राष्ट्रेषु अभियानस्यास्य प्रवर्तनं प्रचलति।

 पूर्वलडाके भारत-चीनसैना अपनीयते। 

नवदिल्ली> पूर्वलडाकस्य डें चोक्, देप् साङ् इत्येतयोः ,समतलप्रदेशयोः संघर्षक्षेत्रेभ्यः भारतं चीनश्च स्वस्व सेनाविभागान् अपनीतुम् आरभेताम्। पूर्वलडाकस्य नियन्त्रणरेखातः सेनां निराकर्तुं राष्ट्रयोरुभयोः सन्धिप्रकारेणैवायं प्रक्रमः।

  २०२० एप्रिल्मासात् पूर्वं एषु मण्डलेषु या अवस्था परिपालिता तामवस्थां प्रत्यानेतुं राष्ट्रद्वयानापि निश्चितमस्ति। सैनिकप्रक्रमस्य पुरोगतिं निर्णेतुं सैनिककमान्डर् स्तरे मेलनमपि भविष्यतीति उन्नताधिकारिभिः निगदितम्।

 भारतीयानां कृते इदानीं कष्टमेव; कानडादेशः प्रवासं नियन्त्रणं कर्तुं सज्जः।

   कानडादेशः प्रवाससंख्यायाः नियन्त्रणाय प्रयत्नं करोति। २०२५ तः प्रवासनकार्यक्रमाणां संख्या न्यूनीकरिष्यते इति प्रधानमन्त्री जस्टिन् ट्रूडो सूचितवान्। एषः निर्णयः कानडादेशं प्रति प्रवासार्थं सज्जानां भारतीयानां आशाः न्यूनीकरोति।

    कानडायाः नवीनकार्यक्रमेण भारतेन सह अन्येषां राष्ट्राणां प्रवासीजनानां कृते स्थिरनिवासं प्राप्तुं तथा कर्मलाभं

Friday, October 25, 2024

 सञ्जीव खन्ना सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः। 

नवदिल्ली> सर्वोच्चन्यायालयस्य आगामि मुख्यन्यायाधिपरूपेण सञ्जीव खन्ना केन्द्रसर्वकारेण नियुक्तः। वर्तमानीनः मुख्यन्यायाधिपः डि वै चन्द्रचूडः नवम्बर् दशमदिनाङ्के विरम्यते। अपरेद्युः खन्नावर्यः पदं स्वीकरिष्यति। 

  भारतस्य ५१ तमः मुख्यन्यायाधिपः सञ्जीव खन्ना ६ मासपर्यन्तं पदं वक्ष्यति। २०२५ मेय् १४ तमे दिनाङ्के सेवायाः निवर्तिष्यते।

शशिकला-सुदर्शनपरिणयः 

(श्रीमद्देवीभागवते प्रोक्तः शशिकलासुदर्शनयोः परिणयवृत्तान्तः )

    पुरा एकदा काशिराजः सुबाहुः तस्याः कन्यायाः शशिकलायाः विवाहार्थमेकं स्वयंवरं आयोजितवान्। अस्मिन् प्रसङ्गे यथाशास्त्रं स्वयंवरमुद्दिश्य किञ्चिदालोचयामः। विद्वद्गणाः स्वयंवरः त्रिविधः इति प्रोक्तवन्तः। क्षत्रियाणां राज्ञां कृते स्वयंवरः उपयुक्तः न तु अन्येषां कृते। तद्यथा-

स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः।

राज्ञां विवाहयोग्यो वै नान्येषां कथितः किल॥

विद्वद्गणाः स्वयंवरः  त्रिविधः

Thursday, October 24, 2024

 भारतं युद्धं नाङ्गीकरोति - नरेन्द्रमोदी। 

कसानः> न युद्धं, शान्तियुक्तं चर्चां नयतन्त्रं च भारतेन अभिवाद्यते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ब्रिक्स् उच्चशिखरसम्मेलनम् अभिसम्बुध्य प्रस्तुतवान्। ब्रिक्स् अङ्गराष्ट्रं रषियायाः उक्रैनस्य च मिथः युद्धं झटित्येव परिहरणीयमिति सः असन्दिग्धतया उदबोधयत्। 

  युद्धं विना आर्थिकास्थिरता, पर्यावरणव्यतियानं, आतङ्कवादः इत्येतानि मोदिनः भाषणविषयाः बभूवुः। यू एन् मध्ये विघातभूतः 'अन्ताराष्ट्रियभीकरतां विरुध्य समग्रसन्धिः' इत्यस्य साक्षात्काराय प्रयतितव्यमिति सः उक्तवान्। रष्या , चीनः, इरानः इत्यादयानां राष्ट्रनेतॄणां सान्निध्ये आसीत् भारतप्रधानमन्त्रिणः प्रभाषणम्।

 यू एस् निर्वाचनं - २. १ कोटिजनाः मतदानमकुर्वन्। 

वाषिङ्टणः>  प्रचाल्यमाने यू एस् राष्ट्रपतिनिर्वाचने एतदाभ्यन्तरे २. १ कोटिजनाः स्वाभिमतं कृतवन्तः। नवंबर् पञ्चमे दिनाङ्के अस्ति औद्योगिकतया निर्वाचनम्। किन्तु तत्र पूर्वकालीयमतदानम् [Early Vote] इति सुविधा अस्तीत्यतः ७८ लक्षं पूर्वकालीयमतदानं, १. ३३ कोटि पत्रालयमतदानं च कृतम्। फ्लोरिडा विश्वविद्यालयस्य 'इलक्षन् लाब्' संस्थया एव अयं वृत्तान्तः बहिरागतः।

 सीमायाः शान्तये प्राथमिकता दातव्या इति मोदी, शी जिन्पिङयोः समागमे परस्परसाह्यकरणाय बलं दत्तम्।

      सीमायाः शान्तिः प्राथमिकतया स्थापनीया इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदीः -चीनस्य राष्ट्रपतिः शी जिन्पिङ् इत्येतयोः समागमे उक्तवान्तौ। अभिमतभिन्नताः चर्चया परिहारयितव्याः इति शी जिन्पिङः अवदत्, तथा मोदी अपि सीमायाः शान्तये प्राथमिकता दातव्या इति प्रतिपाद्य, परस्परविश्वासः तथा परस्परसमादरः च सहकारस्य आधारः भवेत् इति निर्दिष्टवान्।

     भारत-भारतचीनयोर्मध्ये सीमासंबन्धिन्यां चर्चायां मोदी स्वागतं कृतवान्। उभयोः राष्ट्रयोः सहकारः विश्वशान्तये प्रगत्यै च अनिवार्यः इति अपि सः अवदत्। पूर्वलद्दाखप्रदेशे वास्तविक-नियन्त्रणरेखायाम् उभयोः सेनयोः प्रतिनिधीनां निरीक्षणाटनाय  (petrolling) सहमति अभवत्।, 'कसाननगरे' आयोजिते ब्रिक्सस्य' उच्चशिखरमेलने आसीत् मोदी- षी जिन्पिङयोः समागमः। सीमासम्बन्धविवादस्य परिहाराय विशेषप्रतिनिधिसमित्याः योगं शीघ्रमेव सम्पादयितुम्  अपि सहमतिरभवत्।

Wednesday, October 23, 2024

 डाना चक्रवातः - ओडीषा पश्चिमवंगेन सह जनान् अपनयति। 

भुवनेश्वरं / कोल्कोत्ता> बङ्गालसमुद्रान्तराले रूपीकृतः डानानामकः चक्रवातः राक्षसीयभावेन तीरं स्पृक्ष्यतीति पर्यावरणप्रवचनमस्तीत्यतः ओडीषा तथा पश्चिमवंगश्च तीरस्थान् जनान् सुरक्षितस्थानं नयति। 

  पुरी सागरद्वीपयोर्मध्ये वातः  प्रबलं वास्यतीति पर्यावरणविभागस्य पूर्वसूचना। चक्रवातस्य स्वाधीनतया अतिवृष्टिरपि प्रवचिता। 

  ओडीशायां ८०० समाश्वासकेन्द्राणि उद्घाटितानि। शैक्षिकसंस्थानां विरामः प्रख्यापिता। पश्चिमवंगमपि  चक्रवातदुष्प्रभावं प्रतिरोद्धुं सुसज्जमिति राज्यमुख्यमन्त्रिणी ममता बानर्जी न्यवेदयत्। तत्रापि सप्त जनपदेषु शैक्षिकसंस्थानां विरामः प्रख्यापिता।

 ब्रिक्स् उच्चशिखरसम्मेलनम् आरब्धम्। 

नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

कसानः> विकस्वरराष्ट्राणां संघटनस्य ब्रिक्स् नामकस्य १६ तमं उच्चशिखरसम्मेलनं रषियाराष्ट्रस्थे कसाननगरे ह्यः समारब्धम्। रषियाराष्ट्रपतिना व्लादिमिर पुटिनेन आतिथ्यं क्रियमाणे सम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी, चीनस्य राष्ट्रपतिः षि जिन् पिङ् इत्यादयः राष्ट्रनेतारः गतदिने कसानं प्राप्तवन्तः। ब्रिक्स् अङ्गराष्ट्राणि विना ३६ राष्ट्राणां प्रतिनिधयोSपि अस्मिन्नुच्चशिखरमेलने भागं स्वीकुर्वन्ति। 

  युक्रेनप्रकरणे रषियाविरुद्धप्रक्रमं स्वीक्रियमाणः यू एन् संस्थायाः कार्यकर्ताप्रमुखः अन्टोणियो गुटरसः अपि उच्चशिखरं प्राप्स्यति। 'आगोलविकासाय सुरक्षायै च बहुमुखवादप्रबलीकरणम्' इति अस्य उच्चशिखरमेलनस्य सारांशः।

 मोदी - पुतिनमेलनं सम्पन्नम्। 

रूस्-युक्रेनयुद्धपरिसमाप्तये भारतस्य साह्यवाग्दानं पुनरपि। 

नरेन्द्रमोदी-व्लादिमिर् पुतिनमेलनात्। 

कसानः> ब्रिक्स् उच्चशिखरसम्मेलने भागं कर्तुं रूसराष्ट्रस्य कसाननगरं प्राप्तवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह सम्मिलितवान्। वर्षत्रयमापद्यमानं रूस्-युक्रेनयुद्धं  परिसमापयितुं साध्यं सर्वं साहाय्यं कर्तुं सन्नद्धमिति भारतप्रधामन्त्रिणा वाग्दानं कृतम्। 

   "रूस्-युक्रेनयुद्धस्य शान्तियुक्तः परिहार एव भारतेन काङ्क्ष्यते। मनुष्यत्वाय प्राधान्यं दीयमानः शान्तिप्रयत्नः एव अस्माभिः क्रियते। मण्डले शान्तिः स्थिरता च पुनरागन्तव्या" - मोदिवर्येण निगदितम्। मासत्रयाभ्यन्तरे मोदिनः द्वितीयं रूससन्दर्शनमासीदिदम्।

Tuesday, October 22, 2024

 बङ्गलुरूनगरं महत्या वृष्ट्या दुष्प्रवितम्: षट्तलयुतम् अट्टशूलगृहं पतित्वा त्रयः कर्मकराः मृताः।

   बङ्गलुरुनगरे महती वृष्टिः जातास्ति। हेनूरमण्डले निर्माणं प्रचलितं षट्तलयुतम् अट्टशूलगृहं  पतित्वा त्रयः कर्मकराः मृताः। अवशिष्टेषु द्वादश कर्मकराः अवरुद्धाः सन्ति इति सूच्यते। 12 जनाः भग्नभवनस्य अधः पतिताः सन्ति इति सूचना लब्धा अस्ति। ते सर्वे अपरराज्येभ्यः आगताः  एव।

   शान्तिनगरे शताधिकानि गृहाणि जलप्रवाहेण ग्रस्तानि अभवन्। सर्जापुरे ह्यः एव चत्वारिंशत् मिल्लिमीट्टर् मितं जलं वर्षितम्। वृष्टेः तीव्रतया नगरे यातायातम् बाधितम् अभवत्, निम्नप्रदेशेषु च षड्पादमितं यावत् जलं गृहेषु प्रविष्टम्।

    वृष्टेः कारणेन बङ्गलुरुनगरस्य विद्यालयेषु अङ्गणवाटिकासु च श्वः बुधवासरे अनध्यायता उद्घोषितः आसीत्।

 दिल्ली विद्यालयसमीपे स्फोटनं - खालिस्थानसंघमिति सन्दिह्यते। 

नवदिल्ली> दिल्ल्यां प्रशान्तविहारस्थे सि आर् पि एफ् विद्यालयसमीपे आपन्नस्य बोम्बस्फोटनस्य पृष्ठतः खालिस्खानवादिनः इति सन्दिह्यते। बोम्बस्फोटनस्य दृश्यानि खालिस्थानस्य उदकचिह्नेन [water mark] 'जस्टिस् लीग् इन्डिया' नामके 'टेलिग्राम्' संघे प्रचलन्ति। खालिस्थानवादिनः विरुध्य भारतस्य प्रक्रमाणां प्रतिकार इति सन्देश अप्यस्ति। 

  उत्तरदायित्वं स्वीकृतस्य संघस्य विस्तरांशान् दातुं टेलिग्रामं प्रति दिल्ली आरक्षकाधिकृतैः निर्दिष्टम्।

 नवम्बर 1 तः 19 पर्यन्तं न गच्छ; एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयनेतुः सुग्रीवाज्ञा।

    एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयस्य नेतुः गुरुपन्तसिंहपन्नोः सुग्रीवाज्ञा। सिखजनविरुद्ध-कलहस्य वार्षिकस्मरणेण सम्बन्धतया नवम्बरमासस्य 1 दिनाङ्कतः 19 पर्यन्तं यदि एयर् इण्डिया विमानसेवा प्रचालयेत सति आक्रमणम् अवश्यं  भविष्यति इति सः ज्ञापितवान्। गतवर्षे अपि पन्नुः समानभीषां कृतवान् इति वार्ताः सूचयन्ति।

    2020 तमात् जुलाईमासात् आरभ्य गृहकार्य मन्त्रालयेन पन्नुः एकः आतङ्कवादीरूपेण प्रख्यापितः अस्ति, एषः Sikhs for Justice नामकस्य प्रतिबन्धितसंघटनस्य स्थापकः च अस्ति।

Monday, October 21, 2024

 जम्मूकश्मीरराज्ये आतङ्कवादिनः आक्रमणम्। सप्तजनाः हताः।

   जम्मूकश्मीरे भीकराक्रमणम् अभवत्। सप्तजनाः हताः, तेषु एकः वैद्यः अन्यराज्यस्य षट् कर्मकराः च सन्ति। साङ्गणं क्षेत्रे निर्मिते एकस्मिन् सुरङ्गस्य समीपे आक्रमणम् अभवत्। जम्मूकश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लः तथा केन्द्रगृहमन्त्री अमितशाहः अपि भीकराक्रमणं निन्दितवन्तौ।

      सैनिकैः आक्रमणानि विरुध्य प्रक्रमाः स्वीकृताः। प्रदेशः सैनिकैः परिवृतः अस्ति, अन्वेषणं प्रारब्धं च। आक्रमणं द्वाभ्यां भीकराभ्यामेव कृतमिति सूच्यते। प्राथमिकनिरीक्षणेन ज्ञातम् यत् तस्यां क्रियायां पाकिस्थानीयाः आतङ्किनः विद्यमानाः आसन्। आक्रमणकाले द्वौ जनौ घटनास्थले एव मृत्युमुपगतौ। एकस्य वैय्यक्तिक-स्वामित्वे प्रचलिते सुरङ्गनिर्माणस्थले आक्रमणमभवत्।

 अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा सम्पन्ना।

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत् प्रतियोगितानां प्रथम-द्वितीय-तृतीय-पुरस्कारप्रदानेन समापनसमारोहः सम्पन्नः। 

  कार्यक्रमस्यास्य मुख्यातिथिः प्रो. अभिराजराजेन्द्रमिश्र-महोदयः (पूर्वकुलपतयः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी) उक्तवान् यत् वर्तमानकाले संस्कृतशिक्षकानां छात्राणाञ्च मुख्यमुत्तरदायित्वमस्ति यत् ते शब्दज्ञानराशिः वर्धयेयुः। संस्कृतभाषया एव भारतं विश्वगुरुत्वं प्राप्तुं शक्नोति। अस्माकं शास्त्राणि

 दिल्ल्यां विद्यालयसमीपे स्फोटनं; जनापायः नास्ति।

नवदिल्ली> दिल्ल्यां रोहिणीसमीपस्थे प्रशान्तविहारे सि आर् पि एफ् विद्यालयसमीपे रविवासरे प्रभाते तीव्रशब्देन स्फोटनमभवत्। तद्देशीयबोम्बः एव विस्फोटितमिति सन्दिह्यते। जनापायः नास्ति। विद्यालयस्य संरक्षणभित्तिः, समीपस्थानि कतिपयापणानि, एकं कार् यानम् इत्येतानि अंशतया विनाशितानि। राष्ट्रियान्वेषणाभिकर्ता [एन् ऐ ए], राष्ट्रियसुरक्षासंघः [एन् एस् जि], सि आर् पि एफ्, दिल्ली आरक्षकसेना, अग्निसेना इत्यादयः घटनास्थानं प्राप्य अन्वेषणमकुर्वन्।