सीमायाः शान्तये प्राथमिकता दातव्या इति मोदी, शी जिन्पिङयोः समागमे परस्परसाह्यकरणाय बलं दत्तम्।
सीमायाः शान्तिः प्राथमिकतया स्थापनीया इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदीः -चीनस्य राष्ट्रपतिः शी जिन्पिङ् इत्येतयोः समागमे उक्तवान्तौ। अभिमतभिन्नताः चर्चया परिहारयितव्याः इति शी जिन्पिङः अवदत्, तथा मोदी अपि सीमायाः शान्तये प्राथमिकता दातव्या इति प्रतिपाद्य, परस्परविश्वासः तथा परस्परसमादरः च सहकारस्य आधारः भवेत् इति निर्दिष्टवान्।
भारत-चीन सीमासम्बन्धं चर्चायाम् मोदी स्वागतं कृतवान्। उभयोः राष्ट्रयोः सहकारः विश्वशान्तये प्रगत्यै च अनिवार्यः इति अपि सः अवदत्। पूर्वलद्दाखप्रदेशे वास्तविक-नियन्त्रणरेखायाम् उभयोः सेनयोः प्रतिनिधीनां निरीक्षणाटनाय (petroling) सहमति अभवत्।, 'कसाननगरे' आयोजिते ब्रिक्सस्य' उच्चशिखरमेलने आसीत् मोदी-शी जिन्पिङयोः समागमः। सीमासम्बन्धविवदस्य परिहाराय विशेषप्रतिनिधिसमित्याः योगं शीघ्रमेव सम्पादयितुम् अपि सहमतिरभवत्।