OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 24, 2024

 सीमायाः शान्तये प्राथमिकता दातव्या इति मोदी, शी जिन्पिङयोः समागमे परस्परसाह्यकरणाय बलं दत्तम्।

      सीमायाः शान्तिः प्राथमिकतया स्थापनीया इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदीः -चीनस्य राष्ट्रपतिः शी जिन्पिङ् इत्येतयोः समागमे उक्तवान्तौ। अभिमतभिन्नताः चर्चया परिहारयितव्याः इति शी जिन्पिङः अवदत्, तथा मोदी अपि सीमायाः शान्तये प्राथमिकता दातव्या इति प्रतिपाद्य, परस्परविश्वासः तथा परस्परसमादरः च सहकारस्य आधारः भवेत् इति निर्दिष्टवान्।

     भारत-चीन सीमासम्बन्धं चर्चायाम् मोदी स्वागतं कृतवान्। उभयोः राष्ट्रयोः सहकारः विश्वशान्तये प्रगत्यै च अनिवार्यः इति अपि सः अवदत्। पूर्वलद्दाखप्रदेशे वास्तविक-नियन्त्रणरेखायाम् उभयोः सेनयोः प्रतिनिधीनां निरीक्षणाटनाय  (petroling) सहमति अभवत्।, 'कसाननगरे' आयोजिते ब्रिक्सस्य' उच्चशिखरमेलने आसीत् मोदी-शी जिन्पिङयोः समागमः। सीमासम्बन्धविवदस्य परिहाराय विशेषप्रतिनिधिसमित्याः योगं शीघ्रमेव सम्पादयितुम्  अपि सहमतिरभवत्।

Wednesday, October 23, 2024

 डाना चक्रवातः - ओडीषा पश्चिमवंगेन सह जनान् अपनयति। 

भुवनेश्वरं / कोल्कोत्ता> बङ्गालसमुद्रान्तराले रूपीकृतः डानानामकः चक्रवातः राक्षसीयभावेन तीरं स्पृक्ष्यतीति पर्यावरणप्रवचनमस्तीत्यतः ओडीषा तथा पश्चिमवंगश्च तीरस्थान् जनान् सुरक्षितस्थानं नयति। 

  पुरी सागरद्वीपयोर्मध्ये वातः  प्रबलं वास्यतीति पर्यावरणविभागस्य पूर्वसूचना। चक्रवातस्य स्वाधीनतया अतिवृष्टिरपि प्रवचिता। 

  ओडीशायां ८०० समाश्वासकेन्द्राणि उद्घाटितानि। शैक्षिकसंस्थानां विरामः प्रख्यापिता। पश्चिमवंगमपि  चक्रवातदुष्प्रभावं प्रतिरोद्धुं सुसज्जमिति राज्यमुख्यमन्त्रिणी ममता बानर्जी न्यवेदयत्। तत्रापि सप्त जनपदेषु शैक्षिकसंस्थानां विरामः प्रख्यापिता।

 ब्रिक्स् उच्चशिखरसम्मेलनम् आरब्धम्। 

नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

कसानः> विकस्वरराष्ट्राणां संघटनस्य ब्रिक्स् नामकस्य १६ तमं उच्चशिखरसम्मेलनं रषियाराष्ट्रस्थे कसाननगरे ह्यः समारब्धम्। रषियाराष्ट्रपतिना व्लादिमिर पुटिनेन आतिथ्यं क्रियमाणे सम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी, चीनस्य राष्ट्रपतिः षि जिन् पिङ् इत्यादयः राष्ट्रनेतारः गतदिने कसानं प्राप्तवन्तः। ब्रिक्स् अङ्गराष्ट्राणि विना ३६ राष्ट्राणां प्रतिनिधयोSपि अस्मिन्नुच्चशिखरमेलने भागं स्वीकुर्वन्ति। 

  युक्रेनप्रकरणे रषियाविरुद्धप्रक्रमं स्वीक्रियमाणः यू एन् संस्थायाः कार्यकर्ताप्रमुखः अन्टोणियो गुटरसः अपि उच्चशिखरं प्राप्स्यति। 'आगोलविकासाय सुरक्षायै च बहुमुखवादप्रबलीकरणम्' इति अस्य उच्चशिखरमेलनस्य सारांशः।

 मोदी - पुतिनमेलनं सम्पन्नम्। 

रूस्-युक्रेनयुद्धपरिसमाप्तये भारतस्य साह्यवाग्दानं पुनरपि। 

नरेन्द्रमोदी-व्लादिमिर् पुतिनमेलनात्। 

कसानः> ब्रिक्स् उच्चशिखरसम्मेलने भागं कर्तुं रूसराष्ट्रस्य कसाननगरं प्राप्तवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह सम्मिलितवान्। वर्षत्रयमापद्यमानं रूस्-युक्रेनयुद्धं  परिसमापयितुं साध्यं सर्वं साहाय्यं कर्तुं सन्नद्धमिति भारतप्रधामन्त्रिणा वाग्दानं कृतम्। 

   "रूस्-युक्रेनयुद्धस्य शान्तियुक्तः परिहार एव भारतेन काङ्क्ष्यते। मनुष्यत्वाय प्राधान्यं दीयमानः शान्तिप्रयत्नः एव अस्माभिः क्रियते। मण्डले शान्तिः स्थिरता च पुनरागन्तव्या" - मोदिवर्येण निगदितम्। मासत्रयाभ्यन्तरे मोदिनः द्वितीयं रूससन्दर्शनमासीदिदम्।

Tuesday, October 22, 2024

 बङ्गलुरूनगरं महत्या वृष्ट्या दुष्प्रवितम्: षट्तलयुतम् अट्टशूलगृहं पतित्वा त्रयः कर्मकराः मृताः।

   बङ्गलुरुनगरे महती वृष्टिः जातास्ति। हेनूरमण्डले निर्माणं प्रचलितं षट्तलयुतम् अट्टशूलगृहं  पतित्वा त्रयः कर्मकराः मृताः। अवशिष्टेषु द्वादश कर्मकराः अवरुद्धाः सन्ति इति सूच्यते। 12 जनाः भग्नभवनस्य अधः पतिताः सन्ति इति सूचना लब्धा अस्ति। ते सर्वे अपरराज्येभ्यः आगताः  एव।

   शान्तिनगरे शताधिकानि गृहाणि जलप्रवाहेण ग्रस्तानि अभवन्। सर्जापुरे ह्यः एव चत्वारिंशत् मिल्लिमीट्टर् मितं जलं वर्षितम्। वृष्टेः तीव्रतया नगरे यातायातम् बाधितम् अभवत्, निम्नप्रदेशेषु च षड्पादमितं यावत् जलं गृहेषु प्रविष्टम्।

    वृष्टेः कारणेन बङ्गलुरुनगरस्य विद्यालयेषु अङ्गणवाटिकासु च श्वः बुधवासरे अनध्यायता उद्घोषितः आसीत्।

 दिल्ली विद्यालयसमीपे स्फोटनं - खालिस्थानसंघमिति सन्दिह्यते। 

नवदिल्ली> दिल्ल्यां प्रशान्तविहारस्थे सि आर् पि एफ् विद्यालयसमीपे आपन्नस्य बोम्बस्फोटनस्य पृष्ठतः खालिस्खानवादिनः इति सन्दिह्यते। बोम्बस्फोटनस्य दृश्यानि खालिस्थानस्य उदकचिह्नेन [water mark] 'जस्टिस् लीग् इन्डिया' नामके 'टेलिग्राम्' संघे प्रचलन्ति। खालिस्थानवादिनः विरुध्य भारतस्य प्रक्रमाणां प्रतिकार इति सन्देश अप्यस्ति। 

  उत्तरदायित्वं स्वीकृतस्य संघस्य विस्तरांशान् दातुं टेलिग्रामं प्रति दिल्ली आरक्षकाधिकृतैः निर्दिष्टम्।

 नवम्बर 1 तः 19 पर्यन्तं न गच्छ; एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयनेतुः सुग्रीवाज्ञा।

    एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयस्य नेतुः गुरुपन्तसिंहपन्नोः सुग्रीवाज्ञा। सिखजनविरुद्ध-कलहस्य वार्षिकस्मरणेण सम्बन्धतया नवम्बरमासस्य 1 दिनाङ्कतः 19 पर्यन्तं यदि एयर् इण्डिया विमानसेवा प्रचालयेत सति आक्रमणम् अवश्यं  भविष्यति इति सः ज्ञापितवान्। गतवर्षे अपि पन्नुः समानभीषां कृतवान् इति वार्ताः सूचयन्ति।

    2020 तमात् जुलाईमासात् आरभ्य गृहकार्य मन्त्रालयेन पन्नुः एकः आतङ्कवादीरूपेण प्रख्यापितः अस्ति, एषः Sikhs for Justice नामकस्य प्रतिबन्धितसंघटनस्य स्थापकः च अस्ति।

Monday, October 21, 2024

 जम्मूकश्मीरराज्ये आतङ्कवादिनः आक्रमणम्। सप्तजनाः हताः।

   जम्मूकश्मीरे भीकराक्रमणम् अभवत्। सप्तजनाः हताः, तेषु एकः वैद्यः अन्यराज्यस्य षट् कर्मकराः च सन्ति। साङ्गणं क्षेत्रे निर्मिते एकस्मिन् सुरङ्गस्य समीपे आक्रमणम् अभवत्। जम्मूकश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लः तथा केन्द्रगृहमन्त्री अमितशाहः अपि भीकराक्रमणं निन्दितवन्तौ।

      सैनिकैः आक्रमणानि विरुध्य प्रक्रमाः स्वीकृताः। प्रदेशः सैनिकैः परिवृतः अस्ति, अन्वेषणं प्रारब्धं च। आक्रमणं द्वाभ्यां भीकराभ्यामेव कृतमिति सूच्यते। प्राथमिकनिरीक्षणेन ज्ञातम् यत् तस्यां क्रियायां पाकिस्थानीयाः आतङ्किनः विद्यमानाः आसन्। आक्रमणकाले द्वौ जनौ घटनास्थले एव मृत्युमुपगतौ। एकस्य वैय्यक्तिक-स्वामित्वे प्रचलिते सुरङ्गनिर्माणस्थले आक्रमणमभवत्।

 अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा सम्पन्ना।

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत् प्रतियोगितानां प्रथम-द्वितीय-तृतीय-पुरस्कारप्रदानेन समापनसमारोहः सम्पन्नः। 

  कार्यक्रमस्यास्य मुख्यातिथिः प्रो. अभिराजराजेन्द्रमिश्र-महोदयः (पूर्वकुलपतयः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी) उक्तवान् यत् वर्तमानकाले संस्कृतशिक्षकानां छात्राणाञ्च मुख्यमुत्तरदायित्वमस्ति यत् ते शब्दज्ञानराशिः वर्धयेयुः। संस्कृतभाषया एव भारतं विश्वगुरुत्वं प्राप्तुं शक्नोति। अस्माकं शास्त्राणि

 दिल्ल्यां विद्यालयसमीपे स्फोटनं; जनापायः नास्ति।

नवदिल्ली> दिल्ल्यां रोहिणीसमीपस्थे प्रशान्तविहारे सि आर् पि एफ् विद्यालयसमीपे रविवासरे प्रभाते तीव्रशब्देन स्फोटनमभवत्। तद्देशीयबोम्बः एव विस्फोटितमिति सन्दिह्यते। जनापायः नास्ति। विद्यालयस्य संरक्षणभित्तिः, समीपस्थानि कतिपयापणानि, एकं कार् यानम् इत्येतानि अंशतया विनाशितानि। राष्ट्रियान्वेषणाभिकर्ता [एन् ऐ ए], राष्ट्रियसुरक्षासंघः [एन् एस् जि], सि आर् पि एफ्, दिल्ली आरक्षकसेना, अग्निसेना इत्यादयः घटनास्थानं प्राप्य अन्वेषणमकुर्वन्।

 राजस्थाने बस् यानदुर्घटना - १२ मरणानि। 

जय्पुरं> राजस्थाने धोल्पुरे बस् यानं टेम्पो ट्रावलर् यानेन सह घट्टने एकस्मिन् परिवारे १२ अङ्गाः मृताः। शनिवासरस्य रात्रौ विवाहकार्यक्रमानन्तरं प्रतिनिवर्तमानाः आसन् दुर्घटनालग्नाः। मृतेषु ८ बालकाः भवन्ति। 

  दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्। मृतानां बान्धवेभ्यः २ लक्षंरूप्यकाणि आहतानां कृते ५०,००० रूप्यकाणि च राष्ट्रिय दुरन्तसमाश्वासनिधेः अनुमोदितानि।

 महिला टि - २० विश्वचषकः 

नूसिलान्टः किरीटजेता। 

दुबाय् > महिला टि - २० क्रिकट् विश्वचषकः नूसिलान्टेन प्राप्तः। ह्यः सम्पन्ने अन्तिमप्रतिद्वन्द्वे दक्षिणाफ्रिकां ३२ धावनाङ्कैः पराजित्य नूसिलान्टः प्रथमतया विश्वचषककिरीटम् अचुम्बत्। 

  अङ्कप्राप्तिः - नूसिलान्टः २० क्षेपणचक्रे पञ्चद्वारकाणां विनष्टेन १५८ धावनाङ्काः। दक्षिणाफ्रिका २० क्षेपणचक्रे नव द्वारकैः १२६ धावनाङ्काः। अमेलिया केर् भवति नूसिलान्टस्य विजयशिल्पिनी [४३ धावनाङ्काः, ३ द्वारकप्राप्तिः च।]

Sunday, October 20, 2024

 जोहर चषक होक्की - भारतस्य विजयः। 

जोहर् [मलेषिया]> मलेषिया राष्ट्रे आरब्धायाः एकविंशत्यधोवयस्कानां [Under 21] जोहरचषकयष्टिक्रीडायाः प्रथमे प्रतिद्वन्द्वे भारतदलस्य विजयः। विरोधिनं जापानदलं ४ - २ इति लक्ष्यकन्दुकक्रमेण पराजयत्। भारतस्य  भूतपूर्वहोक्कीनायकस्य पि आर् श्रीजेषस्य परिशीलने अस्ति भारतजूनियर् दलस्य स्पर्धाः प्रचलन्ति।

 नेतन्याहोः गृहं लक्ष्यीकृत्य ड्रोण् आक्रमणम्। 

जरुसलेमः> इस्रयेलस्य प्रधामन्त्रिणः बञ्चमिन् नेतन्याहोः वासगृहं लक्ष्यीकृत्य शनिवासरे प्रभाते ड्रोण् यन्त्रायुधमुपयुज्य आक्रमितम्। लबननस्य सायुधसंघः हमास् इत्यनेनैव आक्रमणं कृतमिति सूच्यते। तत्समये नेतन्याहुः गृहे नासीत्। 

   उत्तरइस्रयेलस्य सीसेरियप्रदेशे वर्तमानं गृहं प्रति विधत्ते आक्रमणे जनापायः न सम्भूतः। हमासस्य नेतुः यहिया सिन्वरस्य हत्यायाः प्रतीकारः इदमाक्रमणमिति सूच्यते।

 बिहारमद्यदुरन्तः - मृत्युसंख्या ३७ अभवत्। 

पट्ना> मद्यनिरोधे वर्तमाने बिहारस्य सिवान् सारण् जनपदद्वयेविषमद्यपानेन मृतानां संख्या ३७ अभवत्। गोपालगञ्च् जनपदस्थे बैकुन्तपुरे एव नूतनं मरणद्वयमापन्नम्।

Saturday, October 19, 2024

 दिल्ल्यां वायुशुद्धता निन्द्यमानस्तरं पतति। 

यमुनायां विषफेनम्। 

नवदिल्ली> शैत्यकाले आरभ्यमाणे राष्ट्रराजधानीनगरे वायोः शुद्धतास्तरे दोषः अनुभूयते। सप्ताहं यावत् अन्तरिक्षे शैत्यमनुभूयते। शुक्रवासरे तीव्रशैत्यमनुभूतम्। संसद्सभापरिसरे, मध्यदिल्ली, राजधान्यां विविधस्थानेषु च ह्यः कठिनं हिमावरणं दृष्टम्। 

   रविवासरे वायोः अशुद्धता  तीव्रनिन्द्यस्तरम् आपतिष्यतीति पर्यावरणप्रवचनं वर्तते। 

  तथा च यमुनानद्यां विविधस्थानेषु विषफेनं दृष्टम्। जले मलिनीकरणद्वारा रासप्रवर्तनेन श्वेतवर्णयुक्तफेनजालम् उत्पाद्यते इति सूच्यते। दीपावलि दिनेषु नदीम् अवतार्यमाणानां स्वास्थ्यक्लेशाः भवेयुरिति परिस्थितिज्ञैः निगदितम्।

 बिहारे व्याजमद्यदुरन्तः - ३५ जनाः मृताः।

पट्ना> मद्यनिरोधे वर्तमाने बिहारराज्ये व्याजमद्यं पीत्वा ३५ जनाः मृत्युमुपगताः। मङ्गलवासरे आसीदियं घटना दुरापन्ना। सिवान् जनपदे २८, सारणजनपदे ७ जनाः च मृता इति सूच्यते। २५ अधिकं जनाः आतुरालयेषु परिचर्यायां वर्तन्ते। बहूनां दर्शनशक्तिः विनष्टा जाता। 

  व्याजमद्यविक्रये १५ जनाः आरक्षकैः निगृहीताः। सविशेषसंघद्वयं रूपीकृत्य अन्वेषणमारब्धम्।

Friday, October 18, 2024

 भारते उपग्रह अन्तर्जालसुविधां दातुम् इलोण् मस्कः। 

मुम्बई>भारते अन्तर्जालसुविधाम् उपग्रहसाह्येन लब्धुं स्वस्य 'स्टार्लिङ्क्' नामिकासंस्था सज्जा इति इलोण् मस्कः निगदितवान्। उपग्रह अन्तर्जालाय 'स्पेक्ट्रं' साक्षाल्लभ्यमानं भविष्यतीति केन्द्र वार्तावितरणमन्त्रिणः ज्योतिरादित्य सिन्ध्यस्य प्रस्तावमनुसृत्य मस्केन एक्स् माध्यमेन सूचितोSयं  वृत्तान्तः। 

  उपग्रहस्पेक्ट्रम् अनुज्ञा कथं दातव्या इति टेलिकोम् नियन्त्रण अथोरिटि [ट्राय्] संस्थया एव निर्णयः करणीयः। आगोलव्यपकेन उपग्रहस्पेक्ट्रम् शासनस्तरीये साक्षादेव ददाति। भारतमपि तदवलम्बिष्यते।