OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 18, 2024

 हमासनेता यह्या सिन्वरः हतः। 

यह्या सिन्वरः। 

जरुसलेमः> हमास् सायुधसेनायाः नेता यह्या सिन्वरः गतदिने सम्पन्ने सैनिकप्रक्रमे हतः इति इस्रयेलस्य विदेशकार्यमन्त्री इस्रयेल् कैट्स्  इत्यनेन निगदितम्। २०२३ ओक्टोबर् सप्तमे दिनाङ्के इस्रयेलं प्रति हमासेन कृतस्य आक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् सिन्वरः इति सूच्यते।

  हमासस्य उन्मूलनाशः इति इस्रयेलस्य लक्ष्ये अतिप्रधानमासीत् हत्येयम्। दक्षिणगासायां राफा इत्यत्र कृते आक्रमणे सिन्वरस्य मरणमिति सूच्यते। डि एन् ए परिशोधनया एव निहतेषु त्रयेषु एकः यह्या सिन्वरः इति इस्रयेलेन दृढीकृतम्।

 जम्मु काश्मीरे ओमर् अब्दुल्ला प्रशासनं शपथमकरोत्। 

श्रीनगरं> सविशेषपदनिरासानन्तरं सम्पन्ने निर्वाचने विजयीभूतस्य नाषणल् कोण्फ्रन्स् दलस्य नेता ओमर् अब्दुल्ला जम्मु काश्मीरस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृत्वा पदं प्राप्तवान्। लफ्टनन्ट् राज्यपालः मनोजसिंहः शपथमकारयत्। 

  पञ्चाङ्गमन्त्रिमण्डलमेव पदं प्राप्तवत्। जम्मुक्षेत्रात् चितः सुरीन्दर् चौधरी उपमुख्यमन्त्री भविष्यति। सर्वकाराय बहिःस्थित्वा सहयोगं दास्यतीति सख्यदलेन कोण्ग्रसेन निगदितम्।

Thursday, October 17, 2024

 बृहस्पतिग्रहे भीमाकारं रक्ततिलकम्।

     अनन्ताद्भुतानां भण्डाकारः भवति अस्माकं भूमिः आकाशः च। अनन्तम् अज्ञातम् अवर्णनीयं निगूढम् च भवति, सूर्यः, ग्रहाः, उपग्रहाः च। विश्वस्मिन् नूतनायाः प्रौद्योगिकविद्यायाः प्रभावेन अनेकाः आविष्काराः कृताः अपि इतःपरम् उत्तरं लब्धुम् अशक्याः बहवः प्रश्नाः सन्ति बाह्याकाशलोके। तद्वत् अतिविस्मयावहा नूतना विशेषघटना भवति बृहस्पतिग्रहे दृश्यमानं रक्ततिलकं, किन्तु एतत् अनित्यम् इति च उच्यते नासया। नासायाः हबिल् स्पेस् इति विहायदर्शनी द्वारा कृते अनुसन्धानेन लब्धम् इदं नूतनं ज्ञानम्।

 हिस्बुल्लायायाः शक्तिकेन्द्रेषु इस्रयेलस्य व्योमाक्रमणं - २५ मरणानि। 

बेय्रूट्> लबनने युद्धविरामनिर्देशः न केवलम् इस्रयेलेन निरस्तं किन्तु अचिरेणैव हिस्बुल्लायायाः शक्तिदुर्गेषु शक्तमाक्रमणं कृतम्। इस्रयेलेनकृते व्योमाक्रमणे नबतियेहनगरस्य अध्यक्षमभिव्याप्य २५ जनाः मृत्युमुपगताः इति लबनेन निगदितम्। ४३ जनाः व्रणिताः। इस्रयेल-हिस्बुल्ला प्रतिद्वन्द्वे अद्यावधि १३५६ जनाः मृताः इति सूच्यते।

 कानडायाः भारतविरुद्धारोपे अमेरिकायाः अनुकूलता।

वाषिङ्टणं> खालिस्थानभीकरस्य हर्दीपसिंह निज्जरस्य हत्याविषये कानडायाः भारतविरुद्धारोपः यू एस् राष्ट्रेण अनुकूलितः। कानडायाः आरोपः अतिगौरवयुक्तः , तस्मिन्  प्रकरणे तद्राष्ट्रस्य अन्वेषणे भारतेन सहयोगः कार्य इति यू एस् राष्ट्रेण प्रस्तुतम्। निज्जरप्रकरणे भारत-कानडाबन्धे अपस्वरे जाते अस्ति यू एस् विदेशकार्यवक्तुः मात्यू मिल्लर् इत्यस्य प्रस्तावः। प्रत्युत, यू एस् - भारतबन्धुत्वम् अनुवर्तिष्यते इति तेन सूचितम्।

Wednesday, October 16, 2024

 तमिलनाटे अतिवृष्टिः - ६ मरणानि । 

चेन्नै> वंगसमुद्रान्तराले सञ्जातः न्यूनमर्दः तीव्रन्यूनमर्दे जाते तमिलनाटराज्ये अतिवृष्टिः अनुभूयते। वृष्टेः दुष्प्रभावात् षट् जनाः मृताः। चेन्नै नगरस्थानि विविधानि गृहाणि मार्गाश्च जलाप्लावितानि जातानि। 

  चेन्नै, चेङ्कल् पेट्, काञ्चीपुरं, तिरुवल्लूर् जनपदेषु अद्य विरामः प्रख्यापितः।

 गुजरातप्रदेशे विषवातकस्य निर्गमनेन श्वासरोधेन ५ कर्मकराः  मृताः।

  गुजरातप्रदेशस्य कच्छनगरस्य इमामी अग्रोटेक् इति उद्योगशालायं विषवातकस्य निर्गमः अभवत्। अद्य प्रभाते एव दुर्घटना अभवत्। उद्योगशालायाः मालिन्यकूपस्य स्वच्छताकरणे सन्दर्भे एव विषवातकस्य निर्गमनं जातमिति अनुमन्यते। विषवातकस्य श्वसनेन मूर्छया पतितान् कर्मकरान् रक्षयन्तः श्रमिकाः अपि मृताः। मृतेषु एकः पर्यवेक्षकः अन्यः कूपसंचालकः च आस्ताम्।

 षाङ् हाय् सहयोग उच्चशिबिरं 

भारतविदेशकार्यमन्त्री पाकिस्थानं प्राप्तः। 

जयशङ्कराय पाकिस्थाने लब्धं स्वीकरणम्। 

इस्लामबादः>  षाङ् हाय् सहयोग उच्चशिबिरे भागं कर्तुं भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने सायं पाकिस्थानस्य राजधानीम् इस्लामबादं प्राप्तवान्। अष्ट वर्षेभ्यः अनन्तरमेव भारतस्य विदेशकार्यमन्त्री पाकिस्थानं सन्दर्शयति। 

  मङ्गलवासरे सायं काले षाङ् हाय् अङ्गराष्ट्राणां प्रतिनिधिभ्यः पाकिस्थानप्रधानमन्त्रिणा षहबास् शरीफेन  आयोजिते  सौहृदसत्कारे जयशङ्करः भागं स्वीकृतवान्। षाङ् हाय् सहयोगसख्यस्य प्रवर्तनेषु सजीवभागभागित्वं भारतेन अनुवर्तिष्यते इति जयशङ्करेण निगदितम्।

 मणिपुरे अक्रममार्गं परित्यक्तुं संयुक्ताभ्यर्थना। 

नवदिल्ली> मणिप्पुरे वंशीयविद्वेषजनिताक्रमपरम्परामारभ्य प्रथमतया आयोजिते कुक्की, मेय्ती, नागा विभागानां विधानसभासदस्यानाम् उपवेशनं संवृत्तम्। केन्द्रसर्वकारान्तर्गतस्य गृहमन्त्रालयस्य आभिमुख्ये आयोजिते मेलने अक्रममार्गात् सर्वे विभागाः अपसरणीयाः इति अभ्यर्थितुम् ऐककण्ठ्येन निश्चितम्। 

  उपवेशनेSस्मिन् कुक्की मेय्ती विभागेभ्य‌ः २० सदस्याः नागाविभागात् त्रयः सदस्याश्च भागं स्वीकृतवन्त इति गृहमन्त्रालयेन निगदितम्।

 महाराष्ट्र झार्खण्डयोः विधानसभानिर्वाचनम् विज्ञापितम्।

केरले वयनाट् लोकसभां पालक्काट्, चेलक्करा विधासभाद्वयं प्रति उपनिर्वाचनं चोद्घोषितम्। 

नवदिल्ली> महाराष्ट्रं झार्खण्डः इत्येतयोः राज्ययोः विधानसभानिर्वाचनं निर्वाचनायोगेन  विज्ञापितम्। महाराष्ट्रे नवम्बर् २० तमे दिनाङ्के एकेनैव चरणेन सम्पत्स्यते। तत्र २८८ मण्डलानि वर्तन्ते। 

  झार्खण्डे नवम्बर् १३, २० दिनाङ्कयोः  सोपानद्वयेन मतदानप्रक्रिया भविष्यति। तत्र आहत्य  ८१ मण्डलानि सन्ति। 

    तथा च केरले वयनाट् लोकसभामण्डले  पालक्काट्, चेलक्करा विधासभाद्वये च  उपनिर्वाचनं नवम्बर् १३ तमे दिनाङ्के  विधास्यति। राहुल गान्धिवर्यः वयनाट् मण्डलं विना राय्बरेली मण्डले अपि विजितः इत्यतः वयनाट् निरस्तमासीत्। इतरराज्यविधानमण्डलद्वयस्य सदस्यौ आस्तां लोकसभां प्रति चितौ।

Tuesday, October 15, 2024

 महिला टि - २० 

भारतं बहिर्गतम्। 

दुबाय्> महिलानां टि - २० क्रिकट् विश्वचषकस्पर्धायां भारतस्य पूर्वान्त्यचक्रप्रवेशनप्रतीक्षा अस्तमिता। 'ए संघे' निर्णायके प्रतिद्वन्द्वे यदा पाकिस्थानं न्यूसिलान्टेन पराजितं तदैव भारतस्य पूर्वान्त्याभिलाषः अस्तं गत्वा परम्परायाः बहिर्नीतम्। स्पर्धायामस्यां यदि पाकिस्थानं विजयीभूतं तर्हि भारतस्य पूर्वान्त्यचक्रप्रतीक्षा  भवेत्।

 मणिपुरं सङ्घर्षः - कुक्की, मेय्ती, नागासदस्याः अद्य चर्चां करिष्यन्ति। 

इम्फाल्> मणिपुरे संघर्षस्य परिहाराय अद्य कुक्की, मेय्ती, नागासदस्याः दिल्ल्यां चर्चां करिष्यन्ति। केन्द्रसर्वकारस्य गृहमन्त्रालयस्य नेतृत्वे अस्ति चर्चा। 

   मणिपुरसंघर्षस्य प्रारम्भारन्तरं प्रथममेव विविधविभागस्य सदस्यान् अन्तरभाव्य  एतादृशी चर्चा समायोज्यमाना वर्तते। समस्यापरिहाराय केन्द्रसर्वकारस्य पदक्षेपस्य अंश एवेयं चर्चा।

 आर्थिकनोबेल् पुरस्काराय त्रयः चिताः। 

   ओस्लो> २०२४ तमवर्षस्य आर्थिकनोबेल् पुरस्काराय त्रयः शास्त्रज्ञाः चिताः। यू एस् मध्यस्थे Massachusetts Institute of Technology [एम् ऐ टि] नामकसंस्थायाः शास्त्रज्ञौ डारोण् असे मोग्लु, सैमण् जोण्सण्, तथा च षिकागो विश्व विद्यालये गवेषकः जेयिम्स् ए रोबिन् सण् इत्येते पुरस्कारजेतारः भवन्ति।

 वयनाट् दुरन्ते केन्द्रसाह्यम् अभ्यर्थ्य केरलविधानसभया निवेदनमनुमोदितम्।

अनन्तपुरी>  जूलैमासे वयनाट् जनपदस्थे चूरल्मला-मुण्टक्कै क्षेत्रे दुरापन्ने भूस्खलने आर्थिकसाहाय्यस्य विलम्बे खेदं प्राकट्य केरलविधानसभा ऐककण्ठ्येन अभियाचिकाम्  अनुमोदयत। विपक्षीयसदस्यः टि सिद्दिखः  निवेदनमवतारितवान्। 

  प्रत्युत, वयनाटाय यदावश्यकं तल्लप्स्यते इति केन्द्रवित्तमन्त्रिणी निर्मला सीतारामः कोच्चीमध्ये निगदितवती।

 राजनैतिकलाभाय भारतस्य अपकीर्तिं कर्तुं योजनाबद्धः प्रयासः।

 कनेडीयायाः प्रधानमन्त्रिणं प्रति  विदेशकार्यमंत्रालयेन तीव्रविमर्शः कृतः।

   कनेडीयायाः प्रधानमन्त्री जस्टिन् ट्रूडो इत्यस्मिन् प्रति तीव्रविमर्शं विदेशकार्य-मंत्रालयेन कृतम्। भारतस्य विषये  ट्रूडो स्वस्य राजनैतिकतायाः भागतया आरोपणं कृतवान् , एषः आरोपः  भारतस्य राजनीतिके विषयेषु तस्य हस्तक्षेपं सूचयति। राजनीतिकलाभाय भारतस्य अपकीर्तिं कर्तुं कानडायायाः प्रधानमन्त्रिणः योजनाबद्धं तन्त्रम् अस्ति इति विदेशकार्य मंत्रालयेन आरोपितम्। निज्जरस्य हत्याकाण्डस्य अन्वेषणे भारतीय उच्चायुक्तस्य तथा दूतियुक्तानाम् अपि व्यक्तिगतं चित्तम्  अस्ति इति  कानडायाः आरोपः भारतं निराकरोति।

Monday, October 14, 2024

 भारत-बङ्गलादेशयोः टि - २०  क्रिकट् - स्पर्धात्रये अपि भारतस्य विजयः। 

सञ्जु सांसणस्य शतकम्। अन्तिमे प्रतिद्वन्द्वे १३३ धावनाङ्कानां विजयः। 

हैदराबादः> बङ्गलादेशेन सह भारतस्य टि २०  क्रिकट्परम्परायाः तृतीयप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। २९८ विजयलक्ष्येन कन्दुकताडनमारब्धं बङ्गलादेशदलं १३३धावनाङ्कैः पराजित्य एव भारतं विजयकिरीटमधरत्। 

  भारतस्य कन्दुकताडनवेलायां केरलीयेन सञ्जु सांसणेन शतकं प्राप्तम्। ४४ कन्दुकैः १११ धावनाङ्काः तेन सम्पादिताः।

 लबनने अधिकनिष्कासनाय उद्दिश्य इस्रयेलः। 

बय्रूट्>  इस्रयेलस्य लबननं विरुध्य आक्रमणं तीव्रं कर्तुं लबननस्य दक्षिणभागे वर्तमानेषु २० ग्रामेषु वसतः जनान् ततः निष्कासितुम् इस्रयेलसेनया आदेशः विज्ञापितः। सुरक्षामालक्ष्य अवालिनद्याः उत्तरभागं प्रति अपसर्तुमेवादेशः। 

  रविवासरे दक्षिणलबनने कृते आक्रमणे कफर् तिब्निट् नामके ग्रामे वर्तमानः शतवर्षपुरातनः आराधनालयः निश्शेषेण भञ्जितः। नबातिये नामापणमपि सम्पूर्णतया विशीर्णम्। ह्यस्तनाक्रमणे १५ जनाः हताः, ३६ जनाः व्रणिताश्च।

 कार् यानादीनां लघुवाहनानां मार्गशुल्कं न भविष्यति। श्रद्धेयः निर्णयः स्वीकृतः सर्वकारेण।

    भारतस्य महानगराणि गच्छतां जनानां शिरोवेदनायाः कारणं भविष्यति मार्गेशुल्कम् (Toll)। किन्तु इदानीं मुम्बईनगरं प्रति गम्यमानानां लघुयानानां कृते मार्गशुल्कं न देयम्। विगते सोमवासरे महाराष्ट्रमुख्यमंत्री एक्नाथशिन्दे महोदयः मुम्बईनगरस्य प्रवेशद्वारे संस्थपितेषु पञ्चसु मार्गशुल्कद्वारेषु लघुयानानां (LMV) शुल्कं सम्पूर्णरूपेण परित्यक्तम् इति विज्ञापितवान्। अयम् नियमः अक्तोबरमासस्य १५ दिनाङ्कतः अर्धरात्रिरारभ्य प्रबलं भविष्यति। राज्ये विधानसभानिर्वाचने आसन्ने, मिलिते अन्तिममन्त्रिपरिषदि भवति इदं जनप्रियनिर्णयं स्वीकृतम्।