OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 15, 2024

 आर्थिकनोबेल् पुरस्काराय त्रयः चिताः। 

   ओस्लो> २०२४ तमवर्षस्य आर्थिकनोबेल् पुरस्काराय त्रयः शास्त्रज्ञाः चिताः। यू एस् मध्यस्थे Massachusetts Institute of Technology [एम् ऐ टि] नामकसंस्थायाः शास्त्रज्ञौ डारोण् असे मोग्लु, सैमण् जोण्सण्, तथा च षिकागो विश्व विद्यालये गवेषकः जेयिम्स् ए रोबिन् सण् इत्येते पुरस्कारजेतारः भवन्ति।

 वयनाट् दुरन्ते केन्द्रसाह्यम् अभ्यर्थ्य केरलविधानसभया निवेदनमनुमोदितम्।

अनन्तपुरी>  जूलैमासे वयनाट् जनपदस्थे चूरल्मला-मुण्टक्कै क्षेत्रे दुरापन्ने भूस्खलने आर्थिकसाहाय्यस्य विलम्बे खेदं प्राकट्य केरलविधानसभा ऐककण्ठ्येन अभियाचिकाम्  अनुमोदयत। विपक्षीयसदस्यः टि सिद्दिखः  निवेदनमवतारितवान्। 

  प्रत्युत, वयनाटाय यदावश्यकं तल्लप्स्यते इति केन्द्रवित्तमन्त्रिणी निर्मला सीतारामः कोच्चीमध्ये निगदितवती।

 राजनैतिकलाभाय भारतस्य अपकीर्तिं कर्तुं योजनाबद्धः प्रयासः।

 कनेडीयायाः प्रधानमन्त्रिणं प्रति  विदेशकार्यमंत्रालयेन तीव्रविमर्शः कृतः।

   कनेडीयायाः प्रधानमन्त्री जस्टिन् ट्रूडो इत्यस्मिन् प्रति तीव्रविमर्शं विदेशकार्य-मंत्रालयेन कृतम्। भारतस्य विषये  ट्रूडो स्वस्य राजनैतिकतायाः भागतया आरोपणं कृतवान् , एषः आरोपः  भारतस्य राजनीतिके विषयेषु तस्य हस्तक्षेपं सूचयति। राजनीतिकलाभाय भारतस्य अपकीर्तिं कर्तुं कानडायायाः प्रधानमन्त्रिणः योजनाबद्धं तन्त्रम् अस्ति इति विदेशकार्य मंत्रालयेन आरोपितम्। निज्जरस्य हत्याकाण्डस्य अन्वेषणे भारतीय उच्चायुक्तस्य तथा दूतियुक्तानाम् अपि व्यक्तिगतं चित्तम्  अस्ति इति  कानडायाः आरोपः भारतं निराकरोति।

Monday, October 14, 2024

 भारत-बङ्गलादेशयोः टि - २०  क्रिकट् - स्पर्धात्रये अपि भारतस्य विजयः। 

सञ्जु सांसणस्य शतकम्। अन्तिमे प्रतिद्वन्द्वे १३३ धावनाङ्कानां विजयः। 

हैदराबादः> बङ्गलादेशेन सह भारतस्य टि २०  क्रिकट्परम्परायाः तृतीयप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। २९८ विजयलक्ष्येन कन्दुकताडनमारब्धं बङ्गलादेशदलं १३३धावनाङ्कैः पराजित्य एव भारतं विजयकिरीटमधरत्। 

  भारतस्य कन्दुकताडनवेलायां केरलीयेन सञ्जु सांसणेन शतकं प्राप्तम्। ४४ कन्दुकैः १११ धावनाङ्काः तेन सम्पादिताः।

 लबनने अधिकनिष्कासनाय उद्दिश्य इस्रयेलः। 

बय्रूट्>  इस्रयेलस्य लबननं विरुध्य आक्रमणं तीव्रं कर्तुं लबननस्य दक्षिणभागे वर्तमानेषु २० ग्रामेषु वसतः जनान् ततः निष्कासितुम् इस्रयेलसेनया आदेशः विज्ञापितः। सुरक्षामालक्ष्य अवालिनद्याः उत्तरभागं प्रति अपसर्तुमेवादेशः। 

  रविवासरे दक्षिणलबनने कृते आक्रमणे कफर् तिब्निट् नामके ग्रामे वर्तमानः शतवर्षपुरातनः आराधनालयः निश्शेषेण भञ्जितः। नबातिये नामापणमपि सम्पूर्णतया विशीर्णम्। ह्यस्तनाक्रमणे १५ जनाः हताः, ३६ जनाः व्रणिताश्च।

 कार् यानादीनां लघुवाहनानां मार्गशुल्कं न भविष्यति। श्रद्धेयः निर्णयः स्वीकृतः सर्वकारेण।

    भारतस्य महानगराणि गच्छतां जनानां शिरोवेदनायाः कारणं भविष्यति मार्गेशुल्कम् (Toll)। किन्तु इदानीं मुम्बईनगरं प्रति गम्यमानानां लघुयानानां कृते मार्गशुल्कं न देयम्। विगते सोमवासरे महाराष्ट्रमुख्यमंत्री एक्नाथशिन्दे महोदयः मुम्बईनगरस्य प्रवेशद्वारे संस्थपितेषु पञ्चसु मार्गशुल्कद्वारेषु लघुयानानां (LMV) शुल्कं सम्पूर्णरूपेण परित्यक्तम् इति विज्ञापितवान्। अयम् नियमः अक्तोबरमासस्य १५ दिनाङ्कतः अर्धरात्रिरारभ्य प्रबलं भविष्यति। राज्ये विधानसभानिर्वाचने आसन्ने, मिलिते अन्तिममन्त्रिपरिषदि भवति इदं जनप्रियनिर्णयं स्वीकृतम्।

Sunday, October 13, 2024

 चेन्नै समीपे रेल् यानद्वयं घट्टितं - १९ जनाः आहताः। 

अन्वेषणम् एन् ऐ ए संस्थया स्वीकृतम्। 

चेन्नै> तमिल् नाटे चेन्नै समीपे तिरुवल्लूर् कावेरिप्पेट्टा रेल् निस्थाने मैसुरु - दर्भङ्गा एक्स्प्रेस यानं स्थगितेन  पण्ययानेन सह घट्टने १९ जनाः आहताः। गुरुवासरे रात्रौ ८. ३० वादने आसीत् दुर्घटना। यात्रायानस्य २३ कक्षाः पथविभ्रष्टाः जाताः। 

  दुर्घटनायां प्रतिलोमकर्म सन्दिह्य सर्वकारेण एन् ऐ ए संस्थायाः अन्वेषणं प्रख्यापितम्।

उत्तराखण्डसंस्कृताक्कादम्या संस्कृतछात्रप्रतियोगिता आयोक्ष्यन्ते।

वार्ताहर:- कुलदीपमैन्दोला।

  • छात्राः संस्कृतेन गास्यन्ति, नृत्यं करिष्यन्ति, वदिष्यन्ति च।
  • अक्टोबर-मासस्य १५, १६ दिनाङ्के मोटाढाकविद्यालये संस्कृत-छात्र-प्रतियोगिता भविष्यति । 
  • कण्वनगर्यां भविष्यति षोडशतमसंस्कृतमहोत्सव: 

      उत्तराखण्डसंस्कृताकादमीद्वारा १५ तथा १६ अक्टोबर् २०२४ दिनाङ्के दुगड्डाविकासखण्डे जनता-इण्टर-कालेज-मोटाढाके संस्कृतछात्रप्रतियोगितानाम आयोजनं क्रियते, यस्मिन् कनिष्ठ-वरिष्ठवर्गे आहत्य ०६ संस्कृतछात्रप्रतियोगितानां आयोजनं क्रियते।

1.संस्कृतनाट्यप्रतियोगिता

2.संस्कृतसमूहगानप्रतियोगिता

3.संस्कृतसमूहनृत्यप्रतियोगिता

4.संस्कृतवादविवादप्रतियोगिता 

5.संस्कृत-आशुभाषण- प्रतियोगिता

 6.श्लोकोच्चारणप्रतियोगिता च आयोजिताः भविष्यति। 

   दुगड्डाविकासखण्डस्य संस्कृत-छात्रप्रतियोगितायाः मार्गदर्शक-शिक्षाधिकारिण: अमितकुमारचंदमहोदयस्य निर्देशने खण्डसंयोजक: कुलदीपमैन्दोला, जनपद-सहसंयोजकः डा. रमाकान्तकुकरेती च अकादम्याः निर्देशिकानुसारेण सूचना प्रदत्तवन्तौ। प्रथमदिवसे कनिष्ठवर्गस्य एवं च द्वितीयदिवसे वरिष्ठवर्गस्य प्रतियोगिता: भविष्यन्ति।

  खण्डस्तरस्य कनिष्ठवर्गे 06 तः 10 पर्यन्तं तथा च कक्षा 11 तः स्नातकोत्तरपर्यन्तं च संस्कृतछात्रप्रतियोगितासु बालकाः बालिकाः च भागं गृह्णन्ति। खण्डस्तरस्य प्रथमद्वितीयविजेताप्रतिभागिनः दलं च जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दातुं पूर्वं खण्डसंयोजकस्य खण्डशिक्षाधिकारिणः स्वयमेव च आवेदनपत्रे हस्ताक्षरं कृत्वा एव छात्रान् जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दास्यति। अनुभागस्तरीयप्रतियोगितासु प्रथमद्वितीयतृतीयस्थानं प्राप्तानां प्रतिभागिनां प्रमाणपत्राणि साक्षात्पुरस्काराणि च प्रदत्तानि भविष्यन्ति तथा च कनिष्ठवरिष्ठवर्गयो: प्रथमपुरस्काराय ८०० रूप्यकाणि, द्वितीयस्य ६०० रूप्यकाणि तृतीयस्य च ४०० रूप्यकाणि अपि प्रदत्ताः भविष्यन्ति।

Saturday, October 12, 2024

 रत्तन् टाटावर्यस्य अनुगामी नोयल् नवल् टाटा वर्यः।

नोयल् नवल् टाटा।

मुम्बई> टाटा व्यवसायसाम्राज्यस्य अध्यक्षरूपेण दिवंगतस्य रत्तन् टाटावर्यस्य अर्धसोदरः नोयल् नवल् टाटा वर्यः ऐककण्ठ्येन चितः। Sir Rattan Tata trust, Sir Dorabji Tata trust इत्याद्यानां १३ ट्रस्ट् संस्थानां संयोजितरूपं 'टाटा ट्रस्ट्' इत्यस्य अध्यक्षपदमेव नोयल् नवल् टाटा वक्ष्यति।

  ट्रस्टि अङ्गानां स्वस्मिन् विश्वासः परिरक्षिष्यते इति नोयल् वर्येण सूचितम्। टाटापरिवारस्य पारम्पर्यमनुवर्तिष्यते। राष्ट्रनिर्मितेः जीवकारुण्यप्रवर्तनानां व्यवसायविकासस्य च कृते वयं समर्पितचेताः भविष्यामः इति च तेनोक्तम्।

 फ्लोरिडायां चक्रवातः - चत्वारि मरणानि। महान्नाशः।

टाम्पा> बुधवासरे रात्रौ अमेरिकायां फ्लोरिडा प्रान्ते तीरं प्राप्तः मिल्टन् इति कृतनामधेयः चक्रवातः महन्नाशकारणमभवत्। प्रशासनेन पूर्वजागरूकता विधत्ता अपि अद्यावधि १५ जनाः मृत्युमुपगताः।

    ३२ लक्षं गृहेषु विद्युत् विनष्टा। राक्षसीयचक्रवातस्य अतिवृष्टेः च दुष्प्रभावेन अनेके प्रदेशाः जलनिमग्नाः जाताः। गमनागमनसुविधा स्थगिता।

 गासायां विद्यालये इस्रयेलस्य आक्रमणं - २८ मरणानि। 

जरुसलेमः> गासायाम् अभयार्थिकेन्द्ररूपेण प्रवर्तमाने विद्यालये इस्रयेलेन कृते आक्रमणे २८ जनाः मृताः। ५४ जनाः व्रणिताः अभवन्। हमासस्य निर्देशककेन्द्रमेव विद्यालये प्रवर्तितमिति इस्रयेलसेनया निगदितम्। 

  गासायाम् अभयार्थिशिबिररूपेण प्रवर्तमानान् विद्यालयान् लक्ष्यीकृत्य इस्रयेलेन कृतेषु आक्रमणेषु नूतनतममासीत् ह्यस्तनमाक्रमणम्। अद्यावधि गासायां मृतानां संख्या ४२,०६५ अभवत्।

Friday, October 11, 2024

 महानवमी- अद्य सामान्यविरामदिनम्। 

अनन्तपुरी> महानवमीं पुरस्कृत्य शुक्रवासरः राज्यसर्वकारेण विरामदिनत्वेन प्रख्यापितः। पूर्वं केवलं विद्यालयानां कृते आसीत् विरामः। किन्तु इतरासां सर्वकारीयसंस्थानामपि विरामः भविष्यति।

 साहित्यनोबेल् पुरस्कारः हन् काङ् वर्यायै। 


स्टोक् होम्> अस्य वर्षस्य साहित्यनोबेल् पुरस्काराय हन् काङ् नामिका दक्षिणकोरियन् साहित्यकारी  चिता। इदंप्रथममेव साहित्यस्य नोबेल् पुरस्कारः दक्षिणकोरियां प्राप्तः। 

    मानसिक-शारीरिकपीडयोर्मिथः व्यवहारस्य अगाधतां मार्गमाणाः रचनाः भवन्ति हन् वर्यायाः इति निरीक्षकाणाम् अभिमतम्। ५३ वयस्का सा १९३३ तमे वर्षे कवितारचनया साहित्यमण्डलं प्रविष्टा। ततः कथाः आख्यायिकाश्च व्यरचयत्। २०१६ तमे वर्षे 'The Vegetarian' इत्याख्यायिकया बुक्कर् पुरस्कारं प्राप्तवती। "Human Acts", " We do not do it", "The White book" इत्याद्यः तस्याः प्रमुखाः आख्यायिकाः भवन्ति।

 रत्तन् टाटा वर्याय सहस्राणाम् अन्त्याञ्जलयः। 


सम्पूर्णबहुमत्या अन्त्येष्टिः सम्पन्ना। 

मुम्बई>  गतदिने कालयवनिकां प्राप्ताय व्यावसायिकप्रमुखाय रत्तन् टाटावर्याय जीवनस्य विविधस्तरीयाः सहस्रशः जनाः अन्त्याञ्जलयः समर्पितवन्तः। नरिमान् पोयन्ट् इत्यत्र स्थिते  एन् सि पि ए अङ्कणे टाटावर्यस्य  राष्ट्रपताकावृतं भौतिकशरीरं  राष्ट्रस्य समादरं स्वीकृतवत्। 

  क्रिकट् इतिहासः सचिन् टेण्टुल्करः टाटावर्यस्य भवनं प्राप्य अन्याञ्जलिं समर्पयामास। आदित्य बिर्ला, मुकेश् अम्बानी इत्यादयः व्यवसायप्रमुखाः स्वपरिवारैः सह अन्त्योपचारं समर्पयामासुः। केन्द्रमन्त्री अमित शाहः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथ षिन्दे, गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः इत्यादयः राजनैतिक - प्रशासननेतारश्च  अन्त्याञ्जलिं समर्पितवन्तः।

Thursday, October 10, 2024

 भारतीयानां खाद्यसंस्कृतिः वातावरणानुकूला भवति। अर्जन्टीनायाः तथा अमेरिक्कायाः  खाद्यशैली तु अत्यधिकं प्रतिकूला।

    भारतीयानां आहारोपभोगः वातावरणानुकूलः भवति इति डब्लियू. डब्लियू. एफ् संस्थायाः (world Vide fund for nature) प्रतिवेदनम्। जि २० राष्ट्राणां मध्ये अत्यधिकां परिस्थित्यनुकूलां  आहाररीतिम् अनुवर्तमानं राष्ट्रं भवति भारतम् इति गतदिने प्रकाशिते लिविङ् प्लानट्ट् प्रतिवेदने सूचितमस्ति। परिस्थित्यनुकूलः आहारोपभोगः हरितगृहवातकबहिर्गमनं निवारयति। एतत् तु वातावरणानुकूलां अवस्थां जनयितुं प्रभवति इत्यपि प्रतिवेदने सूचितम् अस्ति।

 महिला टि - २० विश्वचषकः 

भारतस्य द्वितीयविजयः। 

दुबाय्> महिला टि - २० विश्वचषक क्रिकेट स्पर्धायां भारतं श्रीलङ्कां ८२ धावनाङ्कैः पराजित्य पूर्वान्त्यप्रतीक्षां ददाति। अङ्कप्राप्तिः - भारतं २० क्षेपणचक्रैः क्रीडिकात्रयस्य विनष्टे १७२धावनाङ्काः। श्रीलङ्का तु १९. ५ क्षेपणचक्रेषु ९० धावनाङ्कैः सर्वाः बहिर्नीताः। 

  भारतस्य स्मृति मन्थाना, नायिका हर्मन् प्रीतकौर् च अर्धशतकं प्राप्तवत्यौ। हर्मन् प्रीता श्रेष्ठक्रीडिका अभवत्।

 वसन्ति एकस्मिन् गृहसमुच्चये २०००० जनाः।

    चीनदेशे क्वियाञ्जियाङ् शताब्दिनगर्यां रीजेण्ट् अन्ताराष्ट्रीयः गृहसमुच्चयः अस्ति। जगति सर्वाधिक-जनसंख्यानाम् आवसत्वेन प्रसिद्धः विशालतमः गृहसमुच्चयः भवति अयम्।

   अस्य वैशिष्ट्यं यत् एतस्मिन् चतुस्त्रिंशत् तलेषु सहस्रशः उच्चस्तरीयानि आवासीयानि पत्तनानि सन्ति, अस्मिन् द्विसहस्राधिकाः जनाः निवसन्ति च। २६००० 'स्क्वयर्मीट'र्मिते स्थले ६७५ पादमिते 'S' आकारेण निर्मितं भवति इदम् । एतत् प्रथमतः आतिथ्यनिकेतनस्य कृते निर्मितम् आसीत् , परं पश्चात् महान्तः आवासीयाः 'अपार्टमेण्ट्' इति रूपेण परिवर्तितः। एतस्मिन् महाभवने प्रायः ३०,००० जनेभ्यः वस्तुं शक्यते।

 रतन् टाटा दिवंगतः।


  मुम्बई> नवभारतशिल्पिषु अन्यतमः उद्योगप्रमुखश्च रतन् टाटावर्यः [८६] दिवंगतः। व्यावसायिकभारतनिर्माणेन सह स्वजीवने मानविकमूल्यानाम् आदर्शपूर्णं समर्पणं च कृतवतः तस्य अन्त्यं ह्यः रात्रौ ११. ४५ वादने मुम्बय्यां ब्रीच् कान्डि आतुरालये आसीत्। 

   अनुस्यूततया २१ वर्षाणि टाटा ग्रूप् नामक व्यावसायिक संस्थायाः अध्यक्षः आसीत्। भारतीयानां कृते टाटा इन्डिका नामकं कार् यानं, सामान्यजनानां कृते 'नानो' इति न्यूनातिन्यूनतममूल्ययुक्तं कार् यानम् इत्यादीनि तस्य सामाजिकप्रतिबद्धतायाः निदर्शनत्वेन विलसन्ति। 

  रतन् टाटावर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुलगान्धी इत्यादयः प्रमुखाः अनुशोचितवन्तः।