OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 24, 2024

 मोदिने युक्रैने उज्वलं स्वीकरणम्।

नरेन्द्रमोदी सेलन्स्की च अभिमुखभाषणे। 

 

कीव्> शान्तिसन्देशेन सह युक्रैनं प्राप्तवते भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने प्रेमनिर्भरं स्वीकरणं विहितवान् तत्रत्यः राष्ट्रपतिः व्लोदिमर् सेलन्स्की। 

  पोलण्टतः रेल् यानमार्गेण दश होराः अटनं कृत्वा कीव् नगरं प्राप्तवन्तं मोदिनं व्लोदिमर् सेलन्स्की आलिङ्गनं कृत्वा स्वीकृतवान्। तदनन्तरं होरात्रयाधिकं यावत् मरिन्स्की राजभवने तौ मेलनं कृत्वा युक्रैन-रष्या युद्धमधिकृत्य स्वाभिमतानि प्रकाशितवन्तौ। युक्रैन-रष्ययोः संघर्षं समापयितुं क्रियमाणेषु आगोलपरिश्रमेषु सुप्रधाननयतन्त्रशक्तिरूपेण वर्तितुं भारतेन शक्यते इति सेलन्स्की अवदत्। राष्ट्रे शान्तिसंस्थापनाय भारतस्य सम्पूर्णं सहकारित्वं स्यादिति मोदिना स्पष्टीकृतम्।

Friday, August 23, 2024

 त्रिपुरे जलोपप्लवः मृत्स्खलनं च - १० मरणानि। 

अगर्तला> त्रिपुरराज्ये प्रचण्डवृष्टिकारणात् दुरापन्ने जलोपप्लवे मृत्स्खलने च दश जनाः मृताः। एकः अप्रत्यक्षः अभवत्। 

  राज्ये रविवासरतः तीव्रा वृष्टिरनुवर्तते। ३३० समाश्वासशिबिराणि आरब्धानि। ३२,७५० जनाः शिबिरेषु वर्तन्ते। मुख्यनदीषु जलवितानं उच्चतरं वर्तते। राज्यस्य राष्ट्रस्य च दुरन्तनिवारणसेनाः असम 'रैफिल्स्' इत्यादीनां नेतृत्वे रक्षाप्रवर्तानि प्रचलन्ति।

Thursday, August 22, 2024

 भारतप्रधानमन्त्री पोलण्टे। 

वार्सा> द्विराष्ट्रसन्दर्शनस्य अंशतया भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः पोलण्टं प्राप्तवान्। राष्ट्रपतिः आन्द्रेय डूडा,  प्रधानमन्त्री डोणाड् टस्कः इत्येताभ्यां सह उपवेशनं भविष्यति। ततः वार्सायां कस्मिंश्चित् सामान्यसम्मेलनम् अभिसम्बुद्धिष्यते। 

  अनन्तरं नरेन्द्रमोदी युक्रैन् प्रस्थास्यति। तत्रत्यं राष्ट्रपतिं व्लोदिमर् सेलन्सीम् अभिमुखीकृत्य चर्चां करिष्यति।

 आयुर्वेदे सहकाराय भारत - मलेष्या सम्मतिः। 

नवदिल्ली> आयुर्वेदः पारम्पर्यचिकित्सा इत्यादिषु भिन्नक्षेत्रेषु परस्परसहकाराय भारत-मलेष्यराष्ट्रयोर्मध्ये सप्त सम्मतिपत्राणि  हस्ताक्षरीकृतानि। मलेष्यायाः विश्वविद्यालयेषु आयुर्वेदपीठं, तिरुवल्लुवर् पीठं च स्थापयिष्यति। 

  भारतसन्दर्शनाय प्राप्तः मलेष्यायाः प्रधानमन्त्री अन्वर इब्राहिमः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्येतयोः नेतृत्वे सम्पन्ने उभयपक्षचर्चायामेव ऐकमत्यप्राप्तिः।

Wednesday, August 21, 2024

 चन्द्रयानस्य पुनर्नियोगानां रूपकल्पना सम्पन्ना।

नवदिल्ली> चन्द्रयानं - ४, ५ नियोगानां प्रवर्तनरूपकल्पनाः पूर्तीकृत्य सर्वकारस्य अनुज्ञायै समर्पितमिति ऐ एस् आर् ओ संस्थायाः अध्यक्षः  एस् सोमनाथः न्यगादीत्। चन्द्रोपरितलं प्रति मन्दावतरणानन्तरं तत्रस्थानां मृच्छिलानां भूमिम् आनयनं, चान्द्रभ्रमणपथे एव बहिराकाशे संस्थापनपरीक्षणम् इत्यादयः एव चन्द्रयान चतुर्थस्य नियोगाः वर्तन्ते। 

  पञ्च संवत्सराभ्यन्तरे ७० उपग्रहाणां विक्षेपणं भविष्यतीति एस् सोमनाथः अवदत्। चन्द्रयान तृतीयस्य प्रवर्तनं समाप्तमिति तेनोक्तम्।

 जम्मू-कश्मीरस्य विशेषराज्यस्य पदवीनिष्कासनानन्तरं प्रथमतः विधानसभा- निर्वाचनं भविष्यति।

   जम्मू-कश्मीरस्य विशेषपदवी निष्कासनानन्तरं प्रथमतः केन्द्र-शासित-प्रदेशे विधानसभा-निर्वाचनम् आयोज्यते। एतत् विधानसभा-निर्वाचनं किञ्चित् दशाब्दानन्तरं भविष्यति। 2019 तमे वर्षे केन्द्र-सर्वकारेण विशेषस्थानस्थगने समये एव जम्मुकाश्मीरं पृथक् पृथक् केन्द्रशासितप्रदेशत्वेन द्विधा विभक्तम् आसीत्। अधुना विभक्तांशः लडाक् प्रान्तः एकः केन्द्रशासितप्रदेशः भवति। जम्मू-कश्मीरस्य एतत् विधानसभा-निर्वाचनं त्रिषु चरणेषु भविष्यति। जम्मू-कश्मीरस्य गतद्विसप्तत्यधिकवर्षाणां मध्ये एषः निर्वाचनः अत्यल्पसमये आयोज्यते

www.samprativartah.in

 नवदिल्ल्यां विस्फोटकभीषा। महाविक्रयशालाः बन्धिताः।

   नवदिल्ली> दिल्लीनगरे वर्तमानासु महाविक्रयशालासु विस्फोटकभीषा दुरापन्ना। चाणक्यमाल्, सेलक्ट्, अम्बियन्स् माल्, सि एल् एफ्, सिनि पोलीस्, पसफिक्माल्, प्रेमस् होस्पिट्टल्, यूणिट्टि ग्रुप् इति स्थानेषु कतिपयहोरानन्तरं महाविस्फोटः भविष्यति इति सन्देशः एव लब्धः। तदा महाविक्रयशालायाः अधिकारिणः विना विलम्बम् आरक्षकेभ्यः साहाय्यं प्रार्थितवन्तः। आरक्षकाः अग्निशमनसेना च समागत्य अन्वेषणम् अकुर्वन्। किन्तु विस्फोटकसंबद्धः कोऽपि अंशः न लब्धः। अणुप्रैष (Email) द्वारा लब्धः भीषासन्देशः कुतः प्रेषितः इति ज्ञातुम् अन्वेषणम् आरब्धम्। www.samprativartah.in

Tuesday, August 20, 2024

 अद्य श्रीनारायणगुरोः १६९ तमं जन्मदिनम् आकेरलमाघुष्यते। 

श्रीनारायणगुरुदेवः। 

कोच्चि> केरलात् विश्वप्रसिद्धिम् आर्जितः ज्ञानयोगी, अद्वैतवेदान्ती, समाजपरिष्कर्ता संस्कृतपण्डितः इत्येवं रीत्या  भारतस्य आध्यात्मिक सामाजिकनभोमण्डले विराजमानस्य श्री नारायणगुरुदेवस्य १६९ तमं जन्मदिनम् अद्य आकेरलम् विविधैः कार्यक्रमैः आघुष्यते। 

  अद्वैतवेदान्तप्रतिष्ठापकस्य श्री शङ्कराचार्यस्य पादक्षेपान् अनुगतः श्री नारायणगुरुः तत्काले केरलसमाजे वर्तमानाम् उच्चनीचव्यवस्थां जातिपराम् अस्पृश्यताम् अन्यान् दुराचारान् च उच्चाटयितुं स्वजीवितेन उपसप्ततिसंख्याकैः कृतिभिश्च प्रयतितवान्।

  कोल्लसंवत्सरीये १०३२ तमे वर्षे सिंहमासस्य शतभिषक् नक्षत्रे [क्रि प १८५६ आगस्ट् २०] तिरुवनन्तपुरं जनपदस्थे चेम्पष़न्तिग्रामे आसीत् तस्य जन्म। बाल्ये एव संस्कृतशिक्षणेन भारतसंस्कृतिं विशिष्य वेदान्तदर्शनं  करगतामलकमिव सम्पाद्य   अयं यदा युवकः अभवत् ततः आरभ्य समाजस्य उद्धारणाय आकेरलं सञ्चरन् प्रयतितवान्। "एका जातिः एको धर्मः एको देवः मनुष्यस्य", " यः कोSपि धर्मः, मनुजक्षेम एव वरम्", "भिन्नधर्माणां सार एक एव" इत्यादिभिः सन्देशैः अद्वैतवेदान्तस्य प्रायोगिकप्रवक्ता अभवत्।

 भारतविदेशकार्यमन्त्री कुवैट् प्राप्तः।

डो एस् जयशङ्करः

 

कुवैट् सिटी> भारतस्य विदेशकार्यमन्त्री डो  एस् जयशङ्करः आधिकारिकसन्दर्शनार्थं कुवैट् राष्ट्रं प्राप्तवान्। कुवैटस्य विदेशकार्यमन्त्री अब्दुल्ला अलि अल् यहयः इत्यनेन सह उभयोः राष्ट्रयोर्मध्ये विद्यमानं पारस्परिकबन्धं दृढीकर्तुं चर्चां कृतवान्।

 कोल्कोत्तायां वैद्यायाः बलात्कारहत्या - आराष्ट्रं प्रतिषेधः ; स्वयमेव प्रकरणं स्वीकुर्वन् सर्वोच्चनीतिपीठः।

नवदिल्ली> पश्चिमवंगस्य  कोल्कोत्तायां आर् जि कर् आतुरालये युवकवैद्यां बलात्कारं कृत्वा अमारयत् इत्यस्मिन् प्रकरणे आभारतं प्रतिषेधान्दोलनं प्रचलति। गतदिने कोल्कोत्तायां 'साल्ट् लेक्' क्रीडाङ्कणे मोहन बगान - ईस्ट् बङ्गाल् पादकन्दुकक्रीडासमित्याः आराधकवृन्दं समेत्य प्रतिषेधान्दोलनं अकरोत्। 

  सर्वेषु राज्येषु वैद्याः कर्मनिरासं उद्घोष्य विविधदिनेषु प्रतिषेधान्दोलने भागं कृतवन्तः। दिल्यामपि वैद्यकछात्रैः आन्दोलनं विधत्तम्। 

www.samprativartah.in

    प्रत्युत, सर्वोच्चन्यायालयेन प्रकरणेSस्मिन् स्वमेधया प्रकरणं पञ्जीकृतम्। मुख्यन्यायाधिपः न्याय. डि वै चन्द्रचूडः आध्यक्षम् ऊढमानेन त्र्यङ्गनीतिपीठेन  प्रकरणमद्य परिगण्यते।

Monday, August 19, 2024

 अद्य विश्वसंस्कृतदिनम्। 

आविश्वं संस्कृतप्रचरण-पोषणकार्यक्रमाः समारभन्ते। 

सान्स्ग्रीट् द्वारा लब्धं चित्रम्

 कोच्ची> विश्वस्मिन् सर्वत्र अद्य संस्कृतदिनं समुचितरीत्या आघुष्यते। विद्यालयेषु संस्कृतसमित्याः नेतृत्वे सामाजिकसंस्थासु संस्कृतानुरागिणाम् आभिमुख्ये च विविधाः संस्कृतप्रचरण-पोषणकार्यक्रमाः अद्य समारभन्ते।

www.samprativartah.in

  १९६९ तमे वर्षे आसीत् तदानींतनकेन्द्रसर्वकारेण भारते इदंप्रथमतया संस्कृतदिनत्वेन आचरितुं निर्णयः कृतः। शकवर्षदिनदर्शिकामनुसृत्य श्रानणपौर्णमिदिनं संस्कृतदिनपर्वन चितः च। ततः प्रभृति आराष्ट्रं संस्कृभाषायाः प्रचरणाय पोषणाय सामान्यजनेषु भाषायाः महत्वं प्राधान्यं चावबोधयितुं विविधाः कार्यक्रमाः प्रतिवर्षम् आयोजयन्ति च। 

  सर्वेभ्यः विश्वजनेभ्यः सम्प्रतिवार्तादिनपत्रिकायाः हार्दिकाः संस्कृतदिनाशंसाः।

 विश्वसंस्कृतदिवसस्य हार्दाः शुभकामनाः

Sunday, August 18, 2024

 वयनाट् भूस्खलनं - १२०० कोटिरूप्यकाणां नष्टः इति सर्वकारः। 

कोच्ची> जूलै त्रिंशे दिनाङ्के प्रत्युषसि वयनाट् जनपदस्थे मुण्टक्कै, चूरल् मला, अट्टमला प्रदेशेषु  दुरापन्ने भूस्खलनेन प्राथमिकगणनामनुसृत्य १२०० कोटिरूप्यकाणां विनाशः जात इति केरलसर्वकारेण उच्चन्यायालयं प्रति निवेदितम्। १५५५ गृहाणि सम्पूर्णतया वासाय अयोग्यानि जातानि। दुरन्ते २३१ मरणानि स्थिरीकृतानि। १२८ संख्याकाः इदानीमपि अदृष्टाः वर्तन्ते। २१२ शरीरावशिष्टानि अधिगतानि।  प्रत्यनभिज्ञातानि ५३ मृतशरीराणि सम्पूर्णादरेण अन्त्याञ्जलिं समर्प्य संस्कृतानि। 

www.samprativartah.in

   ६२६ हेक्टरपरिमितानां स्थानानां कृषिः विनाशिताः। त्रयः सेतवः, १३६ सर्वकारीयभवनानि, द्वौ विद्यालयौ, १. ५ कि मी परिमितं मार्गः, १२४ कि मी दीर्घयुक्तं विद्युत्संविधानं, २२६ परिपालितमृगाः इत्यादीनि विनष्टानि विनाशितानि च।

 २०२२ तमवर्षस्य चलच्चित्रपुरस्काराः उद्घोषिताः। 

श्रृषभ षेट्टिः सर्वश्रेष्ठाभिनेता, नित्या मेनोनः, मानसी परेखः च अभिनेत्र्यौ, 'आट्टम्' सर्वश्रेष्ठचलच्चित्रं,  'कान्तार' श्रेष्ठं जनप्रियचित्रं, सूरज आर् बर्जात्यः सर्वश्रेष्ठः निदेशकः। 

नवदिल्ली> २०२२ तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। आनन्द एकर्षिः इत्यस्य  केरलीयस्य निदेशकत्वे साक्षात्कृतम् 'आट्टम्' इति चलच्चित्रं नैकेभ्यः पुरस्कारेभ्यः अर्हमभवत्। नाटकस्य जीवितस्य च समञ्जसमेलनेन विशिष्टमेतत् मलयालचलच्चित्रं 'फीचर्' विभागे श्रेष्ठतमं चित्रं , श्रेष्ठतमा पटकथा, श्रेष्ठतमं चित्रसंयोजनमित्येभिः पुरस्कारैः सम्मानितम्। 

www.samprativartah.in

   कान्तार इति कन्नडचलच्चित्रे अभिनयेन ऋषभ षेट्टिः श्रेष्ठः अभिनेता अभवत्। 'तिरुच्चित्रम्पलम्' इति तमिलचित्रेण नित्यामेनोनः श्रेष्ठा नटी अभवत्। कच् एक्स्प्रेस् इति गुजरातीचित्रेण मानसीपरेख् अपि श्रेष्ठा नटिपदं प्राप्ता। उञ्चायि इति हिन्दीचलनचित्रस्य निदेशकः सूरज आर् बर्जात्यः श्रेष्ठनिदेशकपुरस्कारेण सम्मानितः।

Saturday, August 17, 2024

 पाकिस्थाने 'मङ्कि पोक्स्' दृढीकृतम्। 

पेषावरः> आफ्रिक्काभूखण्डे प्रसार्यमाणः 'मङ्कि पोक्स्' इति वानरमसूरि रोगः पाकिस्थाने अपि दृढीकृतः इति पाकिस्थानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। एष्याभूखण्डे प्रथमतया एवायं रोगः प्रत्यभिज्ञातः। 

  www.samprativartah.in

  त्रयः जनाः रोगबाधिताः प्रत्यभिज्ञाताः। अतिशीघ्रव्यापनशेषीयुक्तम् 'एम्पोक्स्' वर्गान्तरमेव पाकिस्थाने दृढीकृतम्। आफ्रिकायाः बहिः अनेन रोगेण स्थिरीकृतं द्वितीयं राष्ट्रं भवति पाकिस्थानम्। गतदिने स्वीडने अपि रोगोSयं प्रत्यभिज्ञातः।

 जम्मु काश्मीरे हरियाने च निर्वाचनं प्रख्यापितम्। 

नवदिल्ली> जम्मु काश्मीरे हरियाने च विधानसभानिर्वाचनं प्रख्यापितम्। दशसंवत्सरेभ्यः परं निर्वाचनं विधास्यमाने जम्मु काश्मीरे चरणत्रयेण मतदानं विधास्यति। सेप्टम्बर् १८,२५ , ओक्टोबर् १ दिनाङ्केषु जम्मु काश्मीरे, ओक्टोबर् १ दिनाङ्के एकेनैव चरणेन हरियाने च निर्वाचनं प्रचलिष्यति। 

www.samprativartah.in

    द्वयोरपि राज्ययोः प्रत्येकं ९० विधानसभास्थानानि सन्ति। ओक्टोबर् चतुर्थे दिनाङ्के मतगणना भविष्यति।

Friday, August 16, 2024

 विनेष् फोगटस्य अभियाचिका निरस्ता। 

रजतपतकं न लभते। 


पारीस्> अन्तिमप्रतीक्षा अपि अस्तं गता। विनेष् फोगट् नामिका मल्लयुद्धवीरा अश्रुपूर्णनयनाभ्यां पारीसतः प्रतिनिवृत्ता। तस्याः रजतपतकदानार्थिका अभियाचिका अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेन निष्करुणं निरस्ता। अनेन तस्याः दशकद्वयं दीर्घिते कायिकजीविते ओलिम्पिक्स् पतकमिति अभिलाषः अपि अस्तं गतः।

 युक्रेनसेना रष्यायाः अन्तः प्राविशत्।

१.३ लक्षं जनाः अपनीताः , भारतीयेभ्यः जागरणनिर्देशः।

बलगोरेदक्षेत्रे आपत्कालिकावस्था प्रख्यापिता। 

कीव्> रष्याः सीमाप्रदेशस्यान्तः कुर्स्क् प्रान्ते आगस्टमासस्य षष्ठेदिने युक्रेनेन आरब्धं स्थलाधिनिवेशम् अधिकप्रदेशम् अवर्धयत। युक्रेनसेना  बलगोरेदक्षेत्रं प्राप  इत्यतः तत्र आपत्कालीनजागरणनिर्देशः कृतः। कुर्स्क् बेलगोरेद प्रदेशेभ्यः १. ३लक्षाधिकं जनाः सुरक्षितस्थानं नीताः। 

  २०२२तमे वर्षे रूस-युक्रेनयुद्धस्य आरम्भात्परं प्रथममेव युक्रेनसैन्येन रूसीयक्षेत्रं प्रविष्टम्। द्वितीयलोकमहायुद्धस्य अनन्तरं रष्यां लक्ष्यीकृत्य सम्पद्यमानः बृहत्तमः स्थलाधिनिवेशः भवत्येष इति अभिज्ञैः सूच्यते। दशसहस्राधिकाः युक्रेनसैनिकाः अस्मिन् प्रक्रमे भागं स्वीकुर्वन्तः स्युरित्यपि सूच्यते। 

www.samprativartah.in

  युक्रेनस्य आक्रमणमालक्ष्य ब्रयान्स्क्, बलगोरेद्, कुर्क्स् इत्यादिषु सीमाप्रदेशेषु वर्तमानेभ्यः छात्रानभिव्याप्य भारतनागरिकेभ्यः मोस्कोस्थेन भारतस्थानपतिकार्यालयेन जागरणनिर्देशः दत्तः।