OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 12, 2024

 तुङ्गभद्रा सेतोः निर्गमः भग्नः।

तीरस्थजनपदेभ्यः जागरणनिर्देशः। 

बङ्गलुरु> कर्णाटके तुङ्गभद्रा सेतोः ३४ निर्गमेषु अन्यतमः भग्नः प्रवाहितः अभवत्। १९ तमः 'क्रेस्ट् द्वार'मेव जलसम्मर्देन भग्नः। ३५,००० क्यूसेक्स् परिमितं जलं शक्त्या प्रवहितम्। 

  सेतोः सम्मर्दप्रतिरोधाय अवशिष्टानि ३३ द्वाराण्यपि उद्घाटितानि। एकलक्षं क्यूसेक्स् परिमितं जलं तुङ्गभद्रानदीं प्रवहितम्। बलारि, विजयनगरं, कोप्पाल्, रायपुरं इत्येतेभ्यः जनपदेभ्यः जागरणनिर्देशः दत्तः। 'सुर्कि' नामकमिश्रितमुपयुज्य निर्मितः अयं सेतुः कर्णाटकस्य बृहत्तमः सेतुर्भवति।

 उत्तरभारतराज्येषु भीषणवृष्टिः - २८ मरणानि। 

नवदिल्ली> भारतस्य उत्तरप्रान्तीयराज्येषु वृष्टिः भीषणा वर्तते। गृहभञ्जनं मृत्प्रपातः इत्यादिदुष्प्रभावितैः २८ जनाः मृत्युमुपगताः। 

   हरियाने बहवः ग्रामाः जलनिमग्नाः जाताः। अमर्नाथतीर्थाटनम् अल्पकालिकेन अवस्थापितम्। राजस्थाने वृष्टिदुष्प्रभावेण १४ जनाः मृताः। अत्र २४ होरैः ३८ सेन्टीमीटर् वृष्टिरङ्किता। 

  पञ्चाबे होषिपुरे यात्रावाहनं जलप्रवाहे निपत्य एकपरिवारीयाः अष्ट जनाः मृताः। दिल्यां अतिवृष्टिरनुभूयते। रोहिणी सेक्टर् स्थाने सप्तवयस्कः जले निमज्य मृत्युमपगतः। हिमाचले तिस्रः बालिकाः जले निमज्य मृत्युं गताः। उत्तरप्रदेशतः द्वे मरणे वृत्तान्तीकृते। अरुणाचलप्रदेशः, असमः, बिहारम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुभूयते।

 भूमिः अन्धकारे पतिष्यति। भौमकान्तिक चण्डवातेन उपग्रहाः छिन्नाः भविष्यन्ति।

www.samprativartah.in

   न्यूयोर्क> समीपकाले एव सौरवातः अवात्। सौरवातेन आविश्वं बहवः दुर्घटाः दुरापन्नाः। आशयविनिमय-सुविधायाः भञ्जनं जङ्गमदूरवाण्याः प्रवर्तनानि च अबाधत।

  सौरवातस्य दुष्प्रभावः काञ्चन उपग्रहान् अपि बाधितः इति अप्रमाणिता सूचना अस्ति। सौरवातः अतिशक्तः असीत् इति कारणेन वैज्ञानिकाः आशङ्काभरिताः आसन्। किन्तु अधिकाघातं विना सौरवातः शान्तः अभवत्। समानसन्दर्भः पुनः अवर्तत इति वैज्ञानिकाः पूवसूचनां ददति। सौरवातः न, प्रत्युत भौमकान्तिकचण्डवातः एव भुवं लक्ष्यीकृत्य आगमिष्यति। गतदिनेषु द्विवारं विशेषघटनेयं सूर्ये दुरभवत्। रविवासरे तदनुबन्धतया भौम-कान्तिक चण्डवातः वीजयिष्यति इति वैज्ञानिकाः अभिप्रयन्ति।

Sunday, August 11, 2024

 ओलिम्पिक्स् वार्ताः। 

ओलिम्पिक्स् महोत्सवस्य अद्य समाप्तिः। 

पादकन्दुके स्पेयिनः वीरः। 

पारीसः> सप्ताहद्वयेन अनुवर्तमानःओलिम्पिक्स् महोत्सवः अद्य पारीसे समाप्तिमायाति। रात्रौ सार्धसप्तवादने - भारतसमयः रात्रौ ११ - आरभ्यमाणे समापनसमारोहे कला-क्रीडा-साङ्केतिकविद्यानां च सम्मेलनं प्रतीक्षते। 'स्टेड् दे फ्रान्स्' नामके क्रीडाङ्कणे एव समापनसमारोहः सम्पद्यते। 

  पादकन्दुकक्रीडायाः अन्तिमस्पर्धायाम् आतिथेयं फ्रान्सं ५ - ३ इति लक्ष्यक्रमेण पराजित्य स्पेयिनः वीरकिरीटं प्राप। निश्चितसमये ३ - ३ इति समस्थितिं प्राप्य  अधिकसमये आसीत् स्पेयिनस्य जयलक्ष्यद्वयसंप्राप्तिः।

 "सहैव स्मः" - वयनाटं सामालिङ्ग्य समाश्वास्य प्रधानमन्त्री। 

वयनाट् दुरन्तं चक्षुभ्यां हृदयेन च प्रत्यभिज्ञाय नरेन्द्रमोदी। 

प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिणा सह उदग्रयाने तुरन्तक्षेत्रम् अभिवीक्ष्यति।

केन्द्रसर्वकारेण सर्वमपि साहाय्यं वाग्दत्तम्। धनराशेरभावेन प्रतिबन्धो न भविष्यति। 

छात्राणां विद्याभ्यासाय दुरन्तातिजीवितानां जीवनोपाधिप्राप्तये च सविशेषपरिगणना। 

प्रधानमन्त्री दुरन्तप्रदेशे। समीप सुरेष् गोपिः, अन्ये अधिकारिणः च।

वयनाट्> वयनाट् भूविच्छेददुरन्तस्य अतिभीषणं याथातथ्यं साक्षात् प्रत्यभिज्ञातुं राष्ट्रस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः दुरन्तप्रदेशं सम्प्राप्तवान्। वयनाट् जनपदे सार्धपञ्चहोरापर्यन्तं स्वसान्निध्यं कुर्वन्  प्रधानमन्त्री सर्वां दुरन्तव्याप्तिं उदग्रयाने अटन् अभिवीक्षितवान्। ततः  मुण्टक्कै , चूरल् मला इत्यादीनि दुष्प्रभावितस्थानानि राज्यस्य  उन्नताधिकारिभिः सह पद्भ्यां सञ्चरन् साक्षात् प्रत्यभिज्ञातवान्। 

  ततः समाश्वासशिबिराणि आतुरालयं च सन्दर्श्य तत्रस्थान् दुष्प्रभावाधीनान् प्रति भाषणं कृत्वा तान् समाश्वास्य जीवनप्रक्रियायां  धैर्यं प्रचोदनं च दत्तवान्। अनन्तरं जनपदकार्यालये सम्पन्ने अवलोकनसमित्याः उपवेशने भागं स्वीकृत्य केरलसर्वकाराय केन्द्रसर्वकारस्य पक्षतः  बहुविधसाहाय्यं भविष्यतीति दृढतां अदाच्च। 

  मुख्यमन्त्री पिणरायि विजयः, केन्द्रसहमन्त्री सुरेष् गोपिः, राज्यस्य कार्यकर्तृप्रमुखः वि वेणुः, ए डि जि पी पदस्थः अजित् कुमारः इत्यादयः प्रधानमन्त्रिणं अन्वगच्छन्।

Saturday, August 10, 2024

 पश्चिमवंगस्य भूतपूर्वः मुख्यमन्त्री 

बुद्धदेव भट्टाचार्यः मृत्युमुपगतः। 


कोल्कोता> पश्चिमवंगे ११ संवत्सराणि यावत् मुख्यमन्त्री तथा च प्रथमवामदलप्रशासनादारभ्य मन्त्रिपदमलङ्कृतवान् वरिष्ठः कम्यूणिस्ट् नेता बुद्धदेव भट्टाचार्यः [८०] मृत्युमुपगतः।  गुरुवासरे पाम् अवन्यू इत्यत्र स्वगृहे आसीदन्त्यम्। 

  अनारोग्यकारणात् सः कतिपयकालेन सामाजिकक्षेत्रे निरतो नासीत्। हृदयाघात एव मृत्युकारणमिति वृत्तान्तं माध्यमेभ्यः निगदितवता  पुत्रेण सुचेतनेन प्रस्तुतम्। 

   मुख्यमन्त्रिणी ममता बानर्जी, राज्यपालः सि वि आनन्दबोसः, मन्त्रिणः, राजनैतिक-सांस्कृतिकनेतारश्च अन्याञ्जलिं समर्पितवन्तः। २०२२ तमे वर्षे केन्द्रसर्वकारेण दत्तस्य पद्मभूषणपुरस्कारस्य निरासेन सः माध्यमश्रद्धां आकृष्टवान्।

 ओलिम्पिक्स् भारतम्।

कुन्तप्रक्षेपे भारताय रजतं ; पुरुषाणां मल्लयुद्धे कांस्यम्। 

नीरज चोप्रः। 

पारीस्>  कुन्तप्रक्षेपस्य अन्तिमचरणे भारतस्य नीरज चोप्रः ८९. ४५ मीटर् प्रक्षिप्य रजतपतकं प्राप्तवान्। तस्य ६ प्रक्षेपोद्यमेषु पञ्च सदोषाः अभवन्। ऊरुपेशीनां पीडा स्वस्य प्रकटनम्  अबाधत इति तेन परं प्रस्तुतम्।  पाकिस्थानस्य अर्षाद नदीमाय सुवर्णम् अलभत। 

   पुरुषाणां 'फ्रीस्टैल्' इति मल्लयुद्धस्य ५७ किलो विभागे भारतस्य अमन् षेरावतः तृतीयस्थानं प्राप्य भारताय षष्ठं पतकम् उपलब्धवान्। प्यूर्टरिको देशस्य डारियन् क्रूस् नामकमेव सः पराजितवान्।

 प्रधानमन्त्री अद्य वयनाट् सन्दर्शयति। 

नवदिल्ली> वयनाट् भूस्खलनदुरन्तं साक्षात् द्रष्टुं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे पूर्वाह्ने ११. ०५ वादने कण्णूर् विमाननिलयम् अवतीर्य  वयनाट् प्राप्नोति। मध्याह्नपर्यन्तं  दुरन्तबाधितप्रदेशं सर्वं  उदग्रयानमारुह्य संवीक्षिष्यति। अनन्तरं समाश्वासशिबिरं संद्रक्ष्यति । ततः वयनाट् जनपदकार्यालये आयोज्यमाने अवलोकनोपवेशने भागं करिष्यति। सायं चतुर्वादने दिल्लीं प्रतिगमिष्यति।

Friday, August 9, 2024

 ओलिम्पिक्स् भारतम्। 

यष्टिक्रीडायाम् अनुस्यूतेन द्वितीयेन कांस्यश्रिया  अनुगृह्य श्रीजेषः निवृत्तः। 

सर्वान् भारतीयान् दुःखे निमज्य विनेष फोगटः निवृत्ता।

क्रीडानिवृत्तं श्रीजेषं सहक्रीडकाः अभिवाद्यं कुर्वन्ति। 

पारीस्> भारतीयेभ्यः कांस्यमेतत् सुवर्णश्रियं ददाति। यष्टिक्रीडायां स्पेयिनं २ - १ इति रीत्या पराजित्य भारतस्य कांस्यपतकसंसिद्धिः। केरलीयः पि आर् श्रीजेष् इत्यस्य लक्ष्यपालकस्य सुरक्षाकवचस्य बलेनैव ओलिम्पिक्स् होक्यां पुनरपि तृतीयस्थानोपलब्धिः। 

  स्वस्य अन्तिमा ओलिम्पिक्स् क्रीडा एषेति श्रीजेषेण उद्घोषितमासीत्। अत एव हर्मन् प्रीत सिंहस्य नेतृत्वे सहक्रीडकाः समुत्कृष्टं निवृत्तिमङ्गलं श्रीजेषाय दत्तवन्तः। 

  यष्टिक्रीडायां ५२ संवत्सरेभ्यः परमेव भारतम् अनुस्यूततया पतकद्वयेन श्रीलालितं वर्तते। टोक्यो ओलिम्पिक्स् मध्ये अपि श्रीजेष आसीत् लक्ष्यरक्षकः। 

   तथैव शरीरभाराधिक्येन अन्तिमस्पर्धातः अयोग्यताम् अभिमुखीकृतवती विनेष फोगटः मल्लयुद्धक्रीडायाश्चापि निवृत्तिम् उद्घोषितवती। "मल्लयुद्धेन सह प्रतिद्वन्द्वे अहं पराभूता। भवतां स्वप्नः मम धैर्यश्च भञ्जितः, क्षम्यताम्"  तीव्रदुःखेन सा सामाजिकमाध्यमेन निगदितवती। 

  ओलिम्पिक्स् चरित्रे इदंप्रथमतया मल्लयुद्धस्य अन्तिमचरणं प्रविष्टवती भारतीयवनिता किमपि पतकमलब्ध्वा निवर्तते इति  दौर्भाग्यः १४० भारतीयान् सन्तापसमुद्रे निमज्जयति।

 सुनितायाः सहयात्रिकस्य च प्रतिनिवर्तनं २०२५ यावत् विलम्बः भवेत्!

वाषिङ्टणम् > अन्ताराष्ट्रबहिराकाशनिलये मासद्वयात्परं यावत् लग्नौ बहिराकाशयात्रिकौ भारतीयवंशजा सुनिता विल्यंस्, सहयात्रिकः बुच् विल्मोर् इत्येतौ २०२५ फेब्रुवरिपर्यन्तं तत्रैव वसेतामिति नासया निगदितम्। एतयोः यात्रायानस्य दोषपरिहारः न सम्पन्नः इत्येव कारणम्। 

  फेब्रुवरिमासे 'स्पेय्स् एक्स्' संस्थायाः पेटके भवेत् तयोः  भूमिं प्रति निवर्तनम्। तदर्थं पूर्वोक्तां संस्थां प्रति नासायाः चर्चा पुरोगच्छति।

 गासायाम् आक्रमणपरम्परा - ४० मरणानि। 

जरुसलेमः> गासाप्रदेशं प्रति इस्रयेलस्य आक्रमणे ११ तमे मासे प्रविष्टे गासायाः विविधक्षेत्रेषु इस्रयेलस्य आक्रमणं कठोरमभवत्। मध्यगासायाः अल् बुरैज्, अल् नुसैरा प्रदेशस्थेषु  अभयार्थिशिबिरेषु गासानगरस्थे अभयकेन्द्ररूपेण वर्तमाने विद्यालयद्वये च विधत्तेषु आक्रमणेषु ४० जनाः मृत्युमुपगताः। 

  गासाप्रदेशे आक्रणेन आहत्य मृतानां संख्या ३९,६९९ अभवत्। गासायां सर्वत्र पाकभोजनवितरणं कुर्वन् कश्चन अमेरिकयीयः सन्नद्धप्रवर्तकः अपि मृत इति सूच्यते।

Thursday, August 8, 2024

 सङ्गीतलोके नवतारका'विर्भावः'।

आविर्भावनामकः  सप्तवयस्कः केरलीयः 'सोणि सूपर् स्टार् सिङ्गर्' विजेता। 

पुरस्कारेण सह आविर्भावः। 

मुम्बई > सप्तवयस्कः केरलीयः आविर्भावः सङ्गीतास्वादकानां मनसि नवविस्मयं कुर्वन् विराजते। सोणि टि वी इति हिन्दीप्रणाल्याः 'सोणि सूपर् स्टार् सिङ्गर् - ३' इति १४ वयःपर्यन्तानां बालकानां गानस्पर्धायां प्रथमस्थानं प्राप्य अयं बालकः केरलस्य च अभिमानमभवत्। गानावतरणपरम्परायाः अन्तिमे चरणे १४ वयःपर्यन्तैः १५ बालकैः सह स्पर्धयित्वा एव  अस्य किरीटोपलब्धिः।  १० लक्षरूप्यकाण्येन पुरस्कारराशिः। 

   केरले इटुक्की जनपदीययोः के एस् सजिमोन् सन्ध्यादम्पत्योः पुत्रः आविर्भावः सार्धप्रथमवयसि एव स्वस्य संगीतप्रागल्भ्यं कस्याश्चित् तेलुङ्क टि वी प्रणाल्याः याथातथ्यप्रदर्शने [Reality show] 'बेस्ट् एन्टर् टेयिनर्' पुरस्कारं लब्धवान्। तस्य ज्येष्ठसोदरी अनिर्विन्या तस्मिन् प्रदर्शने द्वितीयस्थानं प्राप च। ततः वर्षद्वयात् पूर्वं 'फ्लवेर्स्' इति कैरलीप्रणाल्याः 'टोप् सिङ्गर्' नामके याथातथ्यप्रदर्शने   'बाबुक्कुटन्' इति प्रेमास्पदनाम्ना सर्वेषां वात्सल्यभाजनमासीत्। 

  सोणिप्रणाल्याः प्रदर्शनपरम्परायां षारुख् खानेन अभिनीते 'रब्ने बना दी जोडी' इति चलच्चित्रे 'हो ले  हो ले ' इति गाने गीते गायकेन सुखवीन्दर सिंहेन 'गायकेषु षारुख् खानः' इति आविर्भावः प्रशंसितः। 'आजा मेरी जान्', 'मेरे रंग मैं', 'आजा षाम् होनायि' इत्येतानि गानानि गीत्वा एव सः दशलक्षरूप्यकयुक्तं प्रथमपुरस्कारं प्राप्तवान्। 

 परिवारेण सह एरणाकुलं जनपदस्थम्  अङ्कमालीनगरोपान्तम् अधिवसन् आविर्भावः महाकवि जि स्मारक सर्वकारविद्यालये प्रथमकक्ष्यायां शिक्षां समाप्य सोणि टि वि स्टार् सिंगर् प्रदर्शनार्थं मुम्बयीं गतवान्। इदानीं  विश्वज्योति पब्लिक् विद्यालये द्वितीयकक्ष्यां प्रवेशनमुपलब्धवान्।

 परीक्षोत्तरणाय अल्पिष्ठा अङ्कोपलब्धिः - 

अस्मिन् वर्षे अष्टमकक्ष्यातः आरभ्यते। 

अनन्तपुरी> केरलस्य शैक्षिकसम्प्रदाये निर्दिष्टान् परिष्कारान् प्रवृत्तिपथमानेतुं राज्यसर्वकारः निश्चिकाय। एस् एस् एल् सि परीक्षां विना उच्चतरकक्ष्याणां  परीक्षासु उत्तरणाय विलिख्यपरीक्षासु ३०% अङ्काः प्राप्तव्याः इति शिक्षाविभागस्य निर्देशं  अस्मिन् वर्षे अष्टम्यां कक्ष्यायां विधातुं सर्वकारेण निश्चितम्। आगामिनि वर्षे नवमकक्ष्यायां , २०२६-२७ अध्ययनवर्षे दशमकक्ष्यायां च विधातुं प्रक्रमाः आरब्धाः।

 अधिकभारः - विनेष फोगट् अयोग्या। 


पारीस्> ओलिम्पिक्स् महोत्सवे भारताय सुवर्णपतकं प्रतीक्षमाणा  मल्लयुद्धवीरा विनेष फोगट् अन्तिमस्पर्धायाः पूर्वं कृतायां भारपरिशोधनायाम् अधिकभारत्वेन अयोग्या इति प्रख्यापितम्। ५०किलोग्रां सामान्यमल्लक्रीडायामेव सा स्पर्धितवती। सा अन्तिमचरणं प्रविवेश च। किन्तु ह्यः विधत्तायां परिशोधनायां तस्याः शरीरभारं  १०० ग्राम् मितं अधिकं दृष्टम्। 

  अनेन सर्वेभ्यः पतकाधिकारेभ्यः सा अन्ताराष्ट्रिय ओलिम्पिक्स् समित्या निष्कासिता। विनेषेण पराजिता क्यूबायाः युस् नैलिस् अन्तिमचरणे स्पर्धिष्यति।

Wednesday, August 7, 2024

 नोबेल् पुरस्कारेण समादृतः मुहम्मद् यूनुसः बंग्लादेशस्य प्रधानमन्त्री भविष्यति।

    धाका> बंग्लादेशस्य तत्कालीनं सर्वकारं नोबेल् पुरस्कारेण समादृतः मुहम्मद् यूनुसः नेष्यति। तत्कालीन-सर्वकारस्य उपवेशने मुहम्मद् यूनसं  प्रधानमन्त्रिपदे  नियोक्तुं निश्चितम् अस्ति। गुरुवासरे महोदयस्य शपथग्रहणं भविष्यति।

   समरभटैः स्वस्मिन् अर्पितेन विश्वासेन अयं  यूनुसः समादृतः इति ए. एफ्. पि वार्तासंस्थायै दीयमानायां प्रस्तुतौ महोदयः अवदच्च।

www.samprativartah.in

   २००६ तमस्य विश्वशान्तये दीयमानेन नोबेल् पुरस्कारेण समादृतः भवति डा. यूनुसः। अयं महोदयः १९८३ तमे आराष्ट्रं ग्रामीण-वित्तकोशस्य स्थापनं कृतवान्। एताः संस्थाः  बंग्लादेशस्य दरिद्रतानिर्मार्जने सुप्रधानं भागं स्वीकृतवत्यः इति परिगणय्य आसीत् नोबेल् पुरस्कारः।

 ओलिम्पिक्स् भारतम्।

कुन्तप्रक्षेपणे नीरज चोप्रः, मल्लयुद्धे विनेष फोगटः च अन्तिमचरणे। 

नीरज चोप्रः।

विनेष् फोगट् 

यष्टिक्रीडायां भारतस्य पराजयः। 

पारीस्> कुन्तप्रक्षेपणस्य [Javelin throw] योग्यतास्पर्धायां प्रथमपरिश्रमे एव ८९. ३४ मी  प्रक्षिप्य भारतस्य नीरज चोप्रः अन्तिमचरणं प्रविवेश। गुरुवासरे रात्रौ अन्तिमस्पर्धा भविष्यति। टोक्यो  ओलिम्पिक्से सः सुवर्णपतकं प्राप्तवान् आसीत्। 

   महिलानां मल्लक्रीडायाः ५० किलोग्राम् विभागे भारतीया विनेष फोगटः क्यूबायाः युस् नैलिस् गुस्मान् लोपस् इत्येनां पराजित्य अन्तिमचक्रं प्राविशत्। इदंप्रथममेव वनितानां मल्लयुद्धे भारतस्य अन्तिमचक्रप्रवेशः। 

  यष्टिक्रीडायाः पूर्वान्त्यचरणे भारतं जर्मन्या पराजितम्। अतः सुवर्णप्रतीक्षा अस्तं गतः। तृतीयस्थानाय स्पेयिनेन सह स्पर्धिष्यते।

 हसीनायाः ब्रिटनप्रस्थानम् अनिश्चितत्वे। जातिया संसद् निराकृता। 

धाक्का/ नवदिल्ली> प्रधानमन्त्रिपदं त्यक्त्वा भारतं प्राप्तवत्याः षेक् हसीनायाः ब्रिटेनं प्रति गमनम् अनिश्चितत्वे वर्तते। ब्रिटेनात् अनुज्ञा न लब्धा। परं फिन्लानड् रष्या इत्यादिराष्ट्राणि अभयस्थानाय परिगण्यन्ते इति सूच्यते।

   बङ्गलादेशस्य राजनैतिकानिश्चितत्वं परिहर्तुं जातिया संसद् राष्ट्रपतिना मुहम्मद षिहाबुदीनेन निराकृता। विलम्बं विना निर्वाचनं विधातुं प्रक्रमाः आरब्धाः इति तेन निगदितम्।

Tuesday, August 6, 2024

 ओलिम्पिक्स् वार्ताः।

नोहा लैल्स् शीघ्रतमः धावकः। 

फलनिर्णयः 'अल्ट्रा' अतिशीघ्र दृश्यग्राहिण्या!

पारीस्> पुरुषाणां १०० मीटर् धावनस्पर्धायां 'सेकन्ड्' समयस्य पञ्चसहस्रेषु एकांशसमयस्य व्यत्यासेन अमेरिकयीयः धावकः नोहा लैल्स् शीघ्रचक्रवर्ती इति पदं प्राप्तवान्। नोहः ९. ७८४ सेकन्ड् समयेन समाप्तिबिन्दुं प्रथमं पस्पर्श। द्वितीयस्थानं प्राप्तवान् किषेयिन् तोंसणः ९. ७८९ सेकन्ड् समयेन समाप्तिबिन्दुं स्पृष्टवान्।

   पतकपट्टिकायां २१ सुवर्णानि, १७ रजतानि, १४ कांस्यानि चोपलभ्य चीनः प्रथमस्थाने अनुवर्तते। अमेरिका द्वितीयस्थानं, आस्ट्रेलिया तृतीयस्थानं चावहतः।