OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 20, 2024

 उत्तरकर्णाटके राजमार्गे भूस्खलनं - १० जनाः मृताः; भारवाहनेन सह एकः मृदन्तर्भूतः। 

बङ्गलुरु> उत्तरकर्णाटके अङ्कोलासमीपे षिरूरप्रदेशे पनवेल् - कन्याकुमारी राष्ट्रियमार्गे भूस्खलनेन दश जनाः मृत्युं गताः। मार्गपार्श्वे स्वस्य भारवाहकयाने  विश्रान्तिमुपस्थितः केरलीयः मृदन्तर्भूतः इति सन्दिह्यते। कोष़िक्कोट् जनपदीयः अर्जुन नामकः एव भारवाहकेन सह अप्रत्यक्षः। 

  जूलाय् १६ तमे दिनाङ्के आसीत् दुर्घटना। किन्तु ह्यः अर्जुनस्य परिवारस्य निवेदनेनैव घटनेयं गौरवास्पदमवर्तत। केरलसर्वकारस्य अन्येषां राजनैतिकदलनेतॄणां च सम्मर्देन ह्यः मृन्निष्कासनयन्त्राणि उपयुज्य अन्वेषणमारब्धम्। कठिनवृष्टिः रक्षाप्रवर्तनस्य प्रतिबन्धो वर्तते। ह्यः रात्रौ समापितमन्वेषणं अद्य पुनरारप्स्यते।

Friday, July 19, 2024

 सर्वधर्मसमभाव- प्रतिपादकं समान नागरिकसंहितां स्थापितुमेव लक्ष्यम् इति प्रधानमन्त्री नरेन्द्रमोदी।

नवदिली> सर्वधर्मसमभाव- प्रतिपादकं समान नागरिकसंहितां (Uniform Civil Code) स्थापितुमेव लक्ष्यम् इति प्रधानमंत्री नरेंद्रमोदी स्वातंत्र्यदिनस्य भाषणे अवदत्। प्रशासनस्य परिष्कृतयः राष्ट्रस्य वृद्धये मार्गदर्शिका एव। २०४७ तमे वर्षे भारतं विकसित-राष्ट्रं भविष्यति  इति महोदयः उक्तवान्।  विद्युत्प्रसरणलभ्यता, शुद्धजलसुगमप्राप्तिः, वातावरणस्य सुस्थितिः च वर्धितवेगेन लक्ष्यम् उपगच्छन्तः सन्ति ।  तथा च शीघ्रं न्यायं दातुम्  अन्यायिकपरिष्कृतयः अपि आवश्यकाः इति निर्दिष्टवान्। www.samprativartah.in

Thursday, July 18, 2024

 पारीस् ओलिम्पिक्स् मध्ये स्पर्धितुं ११७ अङ्गभारतसंघः। 

नवदिल्ली> पारीसराष्ट्रे जूलाय् २५ तमे दिनाङ्के आरभ्यमानासु ओलिम्पिक्स् क्रीडासु स्पर्धितुं ११७ भारतीयक्रीडकाः निश्चिताः। क्रीडकैः सह परिशीलकाः सहायिनः अन्ये सेवकाः इत्यादिरूपेण १४० अङ्गाः अपि अनुगमिष्यन्ति। 

  'अत्लटिक्स्' विभागे एव अधिकाधिकं स्पर्धालवः सन्ति - २९ संख्याकाः।  आहत्य १६ विभागेषु भारतस्य स्पर्धा भविष्यति।

 केरलराज्ये संस्कृतभाषायाः 

 विशेषविषयेषु निमयविरुद्धनियुक्तयः अभवन्। 

   गोश्रीपुरम्>केरलराज्यस्य सर्वजनिकसेवा आयोग (KPSC) द्वारा साहित्यं व्याकरणं न्याय: वेदान्त: ज्योतिषम् इत्यादि सविशेषविषयेषु अशिक्षितानाम् उद्योगार्थिनां नियुक्तये श्रमः। प्रत्येकं विषयेषु (Sanskrit Special) स्नातकोत्तरपदवीधराः एव कलाशालायाः छात्रान् अध्यापयितुं योग्याः। किन्तु सामान्यविषयेषु (Sanskrit General) स्नातकोत्तरपदवीधराः नियुक्तिपट्टिकायां प्रविष्टाः। संस्कृतशिक्षाक्षेत्रे ईदृशरीत्या अनवधानतया क्रियमाणा नियुक्तिः न केवलम् अन्येषाम् उद्योगर्थिनाम् अवसरः न्यूनीक्रियते अपि च शास्त्राध्यनस्य गौरवोपि नष्टीक्रियते । अतः नियुक्तयः सर्वाः अवधानपूर्वाः नियमानुसारिण्यः च भवेयुः। नो चेत् संस्कृतमहाविद्यालयानां प्रसक्तिः एव नष्टा भविष्यति।

 केरले शक्ता वर्षा अनुवर्तिष्यते। 

वयनाटे अद्य शैक्षिकविरामः। 

अनन्तपुरी> रविवासरपर्यन्तं आकेरलं तीव्रवर्षा अनुवर्तिष्यते इति केन्द्र पर्यावरणविभागेन निगदितम्। उत्तरकेरलतीरात् गुजरातस्य तीरपर्यन्तं न्यूनमर्दवीथिः वर्तते। तथा च वंगान्तरालसमुद्रे शुक्रवासरे नूतनो न्यूनमर्दः भविष्यति इत्यतः वर्षा अनुवर्तिष्यते। 

  अद्य वयनाट् जनपदे जनपदाधिकारिणा शैक्षिकसंस्थानां विरामः प्रख्यापितः। केरलस्य ११ जनपदेषु ओरञ्ज् जागरणं प्रख्यापितम्।

Wednesday, July 17, 2024

 चिट्टूर् नद्यां लग्नाः चत्वारः अग्निरक्षासेनया रक्षिताः। 

चिट्टूर् नद्यां लग्नान् अग्निरक्षासेना रक्षां करोति। 

पालक्काट्> केरले अतिवृष्ट्या नद्यां जलोपप्लवे जाते नदीमध्यस्थे शिलातले लग्नाः चत्वारः एकपरिवारीयाः अग्निरक्षासेनायाः तीव्रयत्नेन रक्षिताः। मैसुरु पुरीयः लक्ष्मणः [७१],तस्य पत्नी देवी [६५], पुत्रः सुरेशः [३२], पौत्रः विष्णुः [१९] इत्येते मङ्गलवासरे मध्याह्ने चिट्टूर् नद्यां लग्नाः अभवन्। स्नानार्थं नदीं प्राप्ताः ते मन्दप्रवाहस्थाने स्नानं कुर्वत्सु  अप्रतीक्षितः जलोपप्लवः जातः। झटिति तीरं प्रतिनिवर्तयितुमुत्साहवत्स्वपि प्रवाहे शक्ते जाते नदीमध्यस्थं शिलातलम् अभयं प्रापुः। 

  श्रुतवृत्तान्ताः आरक्षकाः स्थानमेत्य जागरणनिर्देशं दत्वा अग्निरक्षासेनामाहूतवन्तः। एतदाभ्यन्तरे मन्त्री के कृष्णन् कुट्टिवर्यः अपि तत्रागत्य रक्षाप्रवर्तने नेतृत्वमावहत्। सार्धैकहोरायाः कठिनप्रयन्तस्य अन्ते सर्वे तीरं प्राप्ताः।

 काश्मीरे भीकरसैनिकप्रतिद्वन्द्वः - चत्वारः सैनिकाः वीरमृत्युं प्राप्तवन्तः।

जम्मु> जम्मु काश्मीरस्य दोडा जनपदे भीकरैः सह प्रतिद्वन्द्वे नेतारमभिव्याप्य चत्वारः सैनिकाः वीरमृत्युं प्रापुः। सोमवासरे रात्रौ नववादने उत्तरदोडायां जम्मु काश्मीरस्य आरक्षकदलेन सह सैन्येन कृते अन्वीक्षणमध्ये आसीत् प्रतिद्वन्द्वः। पञ्च सैनिकाः तीव्रेण आहताः तेषु चत्वारः परं मृत्युमुपगताः। 

  आक्रमणस्य उत्तरदायित्वं पाकिस्थानस्य सहयोगेन प्रवर्तमानस्य जेय्षे मुहम्मद् इत्यस्य पोषकसंघटनं 'काश्मीर् टैगेर्स्' इत्यनेन स्वीकृतम्। नान्तर्भागे निलीयमानेभ्यः भीकरेभ्यः उदग्रयान-ड्रोण् इत्यादिभिः अन्वेषणमारब्धमिति सेनया निगदितम्।

Tuesday, July 16, 2024

 केरले सर्वत्र प्रचण्डवृष्टिः - व्यापकविनाशः, पञ्च मृत्यवः। 

कोच्ची> दिनत्रयेण आकेरलम् अनुवर्तमानायां कठोरवृष्ट्यां सर्वत्र व्यापकविनाशः अभवत्। मध्यकेरले उत्तरकेरले च जनजीवितं दुस्सहं जातम्। मृत्पातेन प्रचण्डवातेन च वृक्षाः उन्मूलिताः, यातायाताः स्थगिताः। निम्नप्रदेशस्थेषु गृहेषु जलोपप्लवः जातः। 

  पालक्काट् जनपदे गृहम् अधःपतित्वा द्वौ मृतौ। अन्यत्र जलसञ्चये निपात्य अन्ये त्रयोSपि मृत्युवशं गताः।

  बह्व्यः नद्यः जलपूरिताः वर्तन्ते। सर्वत्र जागरणनिर्देशः कृतः।

 कोपा चषके अर्जन्टीनायाः मधुरचुम्बनम्। 

कोपाचषकेन सह अर्जन्टीनादलः। 

बेर्लिन्> यू एस् ऐक्यराष्ट्राणां पादकन्दुकवीरताप्रकटनपरम्परायाः अन्तिमे चषकचुम्बनसौभाग्यः अर्जन्टीनायै लब्धः। अधिकसमयं दीर्घिते अत्युत्साहयुतप्रतिद्वन्द्वे कोलम्बियां एकेन लक्ष्यकन्दुकेन पराजित्य एव अर्जन्टीनया  चषकग्रहणं कृतम्। 

    आहत्य १६ वारं अर्जन्टीना कोपाचषकमजयत। अनुस्यूततया द्वितीयवारमेव अयं विजयः। लौटारो मार्टिनसः अर्जन्टीनायै  विजयलक्ष्यं प्राप्तवान्। कोलम्बियायाः हामिष् रोड्रिगसः परम्परायाः क्रीडकवीरपदं प्राप्तवान्।

 कुल्यायां मालिन्यनिर्माजनाय प्रयतितः कर्मकरः मालिन्यप्रवाहे पतित्वा मृतः।

जोयेः कृते विधत्तस्य रक्षाप्रवर्तनस्य विविधदृश्यानि। 

 

मालिन्यविक्षेपसंस्कृतेः बलिदानी भूत्वा जोयि। 

अनन्तपुरी> केरलस्य राजधानीनगरे अनन्तपुर्यां रेल् निस्थानस्य समीपस्थायां कुल्यायां रेल्मार्गाधिकारिणः निर्देशेन पलास्तिकमालिन्यानि अभिव्याप्य सर्वमालिन्यनिर्मार्जनाय प्रयतितेषु शुचीकरणकर्मकरेषु अन्यतमः  कुल्यायां मलिनजलप्रवाहे पतित्वा मृतः। नेय्याटिन्कर प्रदेशीयः मारायमुट्टं वटकरग्रामवासी जोयिनामकः एव शनिवासरे प्रभाते एकादशवादने आपदि मग्नः। 

     अन्यैः कर्मकरैः साकं 'आमयिष़ञ्चान्' नामिकायां कुल्यायां जोयिनामके  मालिन्यनिर्माजनप्रवर्तने क्रियमाणे वर्षाजातं जलप्रवाहं निपत्य रेल् निस्थानस्य अधः १५० मीटर् दीर्घयुतं कुल्यान्तर्भागं प्रति अपनीतः आसीत्। कुल्यायां मनुष्योन्नतेरधिकं उन्नतौ पलास्तिकसहितमालिन्यसञ्चयः अवर्तत इत्यतः रक्षाप्रवर्तनं दुष्करमासीत्। अग्निशमनसेना, निमज्जनकुशलाः, रोबोट् यन्त्रं इत्यादिभिः कृतं 

दिनद्वयस्य रक्षादौत्यं विफलं जातम्। 

   तृतीयदिने - सोमवासरे -  मृतशरीरं एककिलोमीटर् दूरे आमयिष़ञ्चान् कुल्यायामेव तकरप्परम्प् नामके स्थाने नगरसभायाः शुचीकरणप्रवर्तकैः जोयेः चेतनारहितं शरीरं दृष्टमभवत्। अग्निक्षासेनया मृतदेहं कुल्यायाः बहिर्नीत्वा आधिकारिककार्यनिर्वहानन्तरं जोयेः गृहं प्रापयित्वा संस्कारकर्माणि कृतानि। 

  न केवलं नगरवासिनां किन्तु सर्वेषां मानवानां अक्षन्तव्यः अधार्मिकः मालिन्यविक्षेपः  इति दुराचारस्य पुनर्विचिन्तनाय जोयेः बलिदानं कारणं भवेत्।

Monday, July 15, 2024

 डोणाल्ड् ट्रम्पः भुषुण्डितः; व्रणितकर्णः। 

एकः नागरिकः हतः। आक्रमणकारी सुरक्षाभटैःनिहतः। 

डोणाल्ड् ट्रम्पः। 

पेन्सिल् वेनिया> निर्वाचनप्रचारणमध्ये दुरापन्नं हत्याश्रमम् अतिजीव्य यू एस् राष्ट्रस्य भूतपूर्वः राष्ट्रपतिः डोणाल्ड् ट्रम्पः। शनिवासरे सायं ६. ०८ वादने [भारतसमयः रविवासरस्य प्रत्युषसि ३. ३८] प्रचारणसम्मेलने भाषमाणे आसीत् हत्याश्रमः। प्रभाषणवेदिकातः १५० मीटर् दूरस्थस्य भवनस्य उपरि स्थितः युवकः एव भुषुण्डिप्रयोगं कृतवान्।

  दक्षिणकर्णे घर्षितशस्त्रः ट्रम्पः झटित्येव सुरक्षाभटैः रक्षितः आतुरालयं प्रविष्टश्च। सः स्वस्थो वर्तते इति प्रचारणविभागेन निगदितम्।

 अन्धान् श्रावयितुं 'कीबो' समागता। 

६० संख्याकाः भाषाः अनया पठिष्यन्ते।

केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि 

  नवदिल्ली> संस्कृतं चैनीस् इत्यारभ्य  ६० संख्याकाः भाषाः उच्चैः पठितुं शक्यते 'कीबो' इति नामिकायाः निर्मितबुद्धियुक्तायाः सङ्गणकसुविधायैः। दृश्यान्धानां साहाय्यार्थं निर्मिता भवति इयं सुविधा। विभिन्नभाषायां विरचितानि पुस्तकानि स्वस्य इष्टतमभाषायां श्रोतुमसरः अनया सिध्यते अन्धेभ्यः। 

   लोकसभायाः संसद् पुस्तकालयः, कोलकत्त राजभवनं, ऐ ऐ टि दिल्ली, केरल - कर्णाटक - गुजरात् - बेरहांपूर -त्रिपुर विश्वविद्यालयेषु च सज्जिताः सन्ति। इदानीं इदं प्रथमथया केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि सुविधेयं सज्जिताः सन्ति। हस्तेन लिखितं टिप्पणी-पुस्तकमपि पठितुं 'कीबो' सक्षमा भवति। अतः नयनान्धतया पीडितानां पिपठिषूणं हृदयेषु ज्ञन- विज्ञानकमलानां विकासाय एषा 'कीबो' उपकरोति।

 यूरो वीरः स्पेयिनः। 

इङ्लण्टं १ - २ क्रमेण पराजितवान्। 

बर्लिन्> यूरो चषक पादकन्दुकक्रीडायां स्पेयिनराष्ट्रं वीरतापदं प्राप। ह्यः अर्धरात्रौ बर्लिननगरे सम्पन्ने अन्तिमप्रतिद्वन्द्वे इङ्लण्टं एकं विरुध्य द्वे लक्ष्यकन्दुके सम्पाद्य स्पेयिनदलः विजयकिरीटमधरत्। स्पेयिनस्य चतुर्थं यूरो किरीटं भवत्येतत्। अपराजित क्रीडाभिरेव स्पेयिनस्य किरीटप्राप्तिः। 

  स्पयिनाय निको विल्यंसः [४६ तमे निमिषे] युनोय् मिकेल् ओयर् सबालः [८६ तमे निमिषे] च एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ। दलस्य कौमारक्रीडकः लामिन् मियालः श्रेष्ठक्रीडकपदं प्राप्तवान्।

Sunday, July 14, 2024

 विधानसभा उपनिर्वाचनेषु इन्डियासख्यस्य उज्वलविजयः। 

नवदिल्ली> सप्तसु राज्येषु १३ विधानसभामण्डलेषु सम्पन्नेषु उपनिर्वाचनेषु इन्डियासख्यस्य उज्वलविजयः। १० स्थानेषु इन्डियासख्यस्थानाशिनः, द्वयोः भाजपा स्थानाशिनौ, एकस्मिन् मण्डले स्वतन्त्रस्थानाशी च विजयं प्राप्तवन्तः। 

वंगराज्ये ४/४ स्थानानि तृणमूल् कोण्ग्रसेन विजितानि। हिमाचलप्रदेशस्य त्रिषु द्वौ कोण्ग्रसेन प्राप्तौ; एकं भाजपादलेन च प्राप्तम्। उत्तरखण्डस्य बदरीनाथमण्डले कोण्ग्रस स्थानाशी विजितः। तमिलनाटे डि एम् के, पञ्चाबे ए ए पि, मध्यप्रदेशे भाजपा इत्येतेषां दलानां स्थानाशिनः च विजितवन्तः। किन्तु बिहारे रुपौलि मण्डले स्वतन्त्रस्थानाशी शङ्करसिंहः विजितवान्।

 कोपा अमेरिका - अन्तिम स्पर्धा श्वः प्रत्युषसि।

अर्जेन्टीना × कोलम्बिया 

फ्लोरिडा> कोपा अमेरिका नामक अमेरिकीय ऐक्यराष्ट्राणां मध्ये प्रचाल्यमानायाः पादकन्दुकक्रीडापरम्परायाः अन्तिमः प्रतिद्वन्द्वः सोमवासरस्य प्रत्युषसि ५. ३० वादने [भारतीयसमयः] विधास्यति। फ्लोरिडायां अर्जेन्टीना  कोलम्बिया दलयोर्मध्ये भविष्यति स्पर्धा।

  लयणल् मेसिवर्यस्य नायकत्वे क्रीडाङ्कणं प्राप्नुवन्  अर्जेन्टीना दलः १६ तमं कोपाकिरीटं तथा अनुस्यूत‌ं द्वितीयविजयं च प्रतीक्षते। अतीतासु  २८ स्पर्धासु संघबलात् अपराजितः कोलम्बियादलः २३ वर्षानन्तरमेव अन्तिमस्पर्धां प्रविष्टवान्।

 नेपालसंसदि विश्वासमतप्रस्तावे प्रचण्डस्य पराजयः। 

पुष्पकमल दहलः [प्रचण्डः] 

काठ्मण्डुः> लेपालसंसदि शुक्रवासरे विधत्ते विश्वासप्रस्तावमतदाने प्रधानमन्त्री पुष्प कमल दहलः [प्रचण्डः] पराजितः अभवत्। संसदि सन्निहितेषु २५८ सदस्येषु केवलं ६३ सदस्याः प्रचण्डम् अनुकूलितवन्तः। 

  प्रचण्डेन नेतृत्वमावहते सख्यदलप्रशासनाय बृहत् दलेन सि पि एन्-यू एम् एल् नामकेन दत्तम् अनुकूलनं तेनैव निराकृतम् इत्येतत् प्रचण्डसर्वकारे प्रतिसन्धेः कारणमभवत्। ७९ स्थानयुक्तः सि पि एन्-यू एम् एल् दलः ८९ स्थानयुक्तेन नेपालि कोण्ग्रस् इत्यनेन सह सख्यमकरोत्। दलद्वयस्य १६७ स्थानानि सन्ति।

Saturday, July 13, 2024

 विष़िञ्ञे केरलस्य विकासस्वप्नाः।

विष़िञ्ञं नौकाश्रयस्य उद्घाटनकार्यक्रमः।वेदिकायां केन्द्रमन्त्री,मुख्यमन्त्री,इतरे मन्त्रिणः च।

अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यति - सर्बानन्द सोनोवालः।

विकासाय ५००० कोटीनां भाण्डाभियोजना आवश्यकी - पिणरायि विजयः। 

आगामिसोपानत्रयं वर्षचतुष्टयेन पूर्तीकरिष्यति - करण अदानिः। 

तिरुवनंतपुरम्> केरलराज्यस्य भविष्यत् विष़िञ्ञं नौकाश्रयमाश्रित्य वर्तत इति मुख्यमन्त्री पिणरायि विजयः अवदत्। नौकाश्रयस्य अनुबन्धविकासाय ५००० कोटि रूप्यकाणां सविशेषा भाण्डाभियोजना [Package] आवश्यकीति तेन केन्द्रसर्वकारं प्रति निर्दिष्टम्। विष़िञ्ञं नौकाश्रयस्य उद्घाटनं कृत्वा भाषमाणः आसीत् मुख्यमन्त्री । 

   अनेन नोकाश्रयेण केरलं राष्ट्रं च अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यतीति केन्द्रमन्त्रिणा सर्बानन्द सोनोवालेन प्रतीक्षा प्रकटिता। राष्ट्रस्य वित्तसम्पादने निर्णायकं स्थानं वोढुं विष़िञ्ञं परियोजनया शक्यते इति तेनोक्तम्। 

   २०,००० कोटि रूप्यकाणां निक्षेपं प्रतीक्षमाणायाः परियोजनायाः आगामि त्रीणि सोपानानि वर्षचतुष्टयेन पूर्तीकरिष्यन्तीति नौकाश्रयस्य स्वामित्वमावहतः 'अदानि विष़िञ्ञं प्रैवट् लिमिटेड ' इत्यस्य निदेशकमुख्यः करण अदानिः सदृढमब्रवीत्। अनुबन्धपरियोजनया ७००० जनानां कृते कर्म दातुमवसरः अस्तीति तेनोक्तम्।

 कोविड् - प्रतिसप्ताहं १७०० मरणानि। 

जनीव> कोविडमहामारी अधुनापि आविश्वं प्रतिसप्ताहं १७०० जनानां प्राणान् अपहरतीति विश्वस्वास्थ्यसंघटनेन [WHO] निगदितम्। वैराणुबाधा सम्भाव्यमानैः स्वास्थ्यप्रवर्तकैः षष्ट्यधिकवयस्कैः च प्रतिरोधवाक्सिनं करणीयमिति WHO संस्थायाः निदेशकप्रमुखः टेट्रोस् अथनों वर्यः अवोचत्।