OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 13, 2024

 नेपाले भूस्खलनं - ६५ बस् यानयात्रिकाः अप्रत्यक्षाः।

अप्रत्यक्षेषु ७ भारतीयाः। 

काठमण्टु> प्रचण्डे मण्सूण् वर्षाकाले, नेपालराज्ये गतदिने दुरापन्ने भूस्खलने द्वे बस् याने त्रिशूली नद्यां निपत्य ६५ यात्रिकाः अप्रत्यक्षाः अभवन्। तेषु ७ भारतीयाः इति नेपालस्य आरक्षकवृन्देन निगदितम्।

  चित्वान् जनपदस्य नारायण् घाट्-मग्लिंगमार्गे शुक्रवासरे प्रत्यूषे आसीत् भूविच्छेदः। तत्समये अनेन मार्गेण सञ्चरत् 'एञ्चल्', गणपति नामकं यानद्वयं ३० मीटर् अधःप्रवहन्यां त्रिशूलीनद्यां निपतितमासीत्। झटित्येव रक्षाप्रवर्तनानि आरब्धानि। किन्तु नारायण् घाट्-मग्लिंगमार्गे यातायातं स्थगितं वर्तते।

Friday, July 12, 2024

 यूरो चषकः - स्पेयिन् इङ्लण्टयोः अन्तिमस्पर्धा। 

डोर्ट्मुण्ड्> यूरोकप् नामकपादकन्दुकवीरतास्पर्धानाम् अन्तिमप्रतिद्वन्द्वे स्पेयिनः इङ्लण्टेन सह स्पर्धिष्यते। रविवासरस्य रात्रौ भवति स्पर्धा। 

  गतदिने सम्पन्ने उपान्त्यचक्रस्य अन्यतमे प्रतिद्वन्द्वे इङ्लण्टदलेन नेतर्लान्टदलः २ - १ इति लक्ष्यकन्दुकरीत्या पराजितः।

  उपान्त्यचक्रस्य अन्यस्मिन् प्रतिद्वन्द्वे स्पेयिनदलः फ्रान्सदलं २ - १ इति लक्ष्यकन्दुकक्रमेण पराजित्य अन्त्यस्पर्धां प्राविशत्। यूरो चषकस्य अन्तिमस्पर्धायां  स्पेयिनस्य पञ्चमं प्रवेशनं भवत्येतत्।

Thursday, July 11, 2024

 दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे सुसम्पन्नं दशदिवसीयसंस्कृतसम्भाषणशिविरम्

प्राथमिककक्षातः संस्कृतस्य पठनं पाठनं च भवेत् – सीतादेवी (मुख्यातिथिः)

भारतीयसंस्कृतिः संस्कृताश्रिता - डॉ.रामसंयोगरायः (अध्यक्षः)

भारतीयभावैक्याय संस्कृतस्यास्ति महती भूमिका - डॉ.छबिलालन्यौपानेः (संयोजकः)

देवभाषा जनभाषा च संस्कृतम् - डॉ.वीरसनातनपूर्णेन्दुरायः (प्रशिक्षणप्रमुखः)

      बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृत-विश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन २०२४ तमवर्षस्य जुलाईमासस्य द्वितीयदिनाङ्कादारभ्य एकादशदिनाङ्कं यावत् दशदिवसीयं संस्कृतसम्भाषणशिविरं समनुष्ठितम्। संस्कृतसम्भाषणशिविरस्य अध्यक्षः महाविद्यालयस्य प्रधानाचार्यः डॉ.रामसंयोगरायः, संयोजकः डॉ.छबिलालन्यौपानेः, प्रशिक्षणप्रमुखश्च डॉ.वीरसनातनपूर्णेन्दुरायः आसीत्। शिविरकार्यक्रमस्य समापनसत्रे मुख्यातिथिरूपेण दरभङ्गाजनपदपरिषदध्यक्षा माननीया श्रीमती सीतादेवी, विशिष्टातिथिरूपेण च दरभङ्गाजनपदपरिषदः सदस्यः श्रीमान् अमरनाथशर्मा च उपस्थितौ आस्ताम्। अनयोः अतिथ्योः स्वागतं मिथिलापरम्परानुसारेण उष्णीष-उत्तीरय-माल्यापर्णादिना विहितम्। संस्कृतसम्भाषणशिविरे डॉ.वीरसनातनपूर्णेन्दुरायनिर्देशने महाविद्यालयस्यान्यशिक्षकाः डॉ.विभूतिनाथझाः, डॉ.रेणुझाः, डॉ.सरस्वतीकुमारी, डॉ.रेणुझाश्च संस्कृतसम्भाषणं पाठितवन्तः। शिविरस्य सुव्यवस्थापनदायित्वं महाविद्यालयस्य शिक्षकैः डॉ.सरिताकुमारी-डॉ.नियतिकुमारी-डॉ.नीतेशकुमारमिश्रैः कार्यालयीयकार्यञ्च श्रीमुकुन्दकुमारेण निर्व्यूढम्। संस्कृतसम्भाषणशिविरेऽस्मिन् प्रशिक्षणार्थम् (९०)नवतिसंख्यकाः महाविद्यालयस्य छात्राः सामाजिकाः च प्रशिक्षार्थिनः आसन्, येषु श्रुतिप्रिया, कबीरदासः, अञ्जूः, नीतीशः, अभिनवः, मीनूः, आरती, छोटी, सृष्टिः, अञ्जलिः, प्रभुसहनी, सुरेशसहनी, बालकृष्णः, अनुः, पूजा, अरविन्दः, सुमितपासवानः, लक्ष्मीः, पुष्पाञ्जलिः, आदित्यः, राजकुमारझाः, वीणीपाणिः च इत्यादिभिः विद्यार्थिभिः संस्कृतसम्भाषणशिविरे प्रशिक्षणानुभवं सरलसंस्कृतभाषामाध्यमेन व्यक्तीकृतम्।

 विष़िञ्ञं नौकाशयः प्रवर्तनसज्जः; प्रथमं पण्यनौकायानं नौकाश्रयं प्राप्तम्। 

विष़िञ्ञं नौकाश्रयः। 

अनन्तपुरी> केरलस्य विकासस्वप्नस्य सार्थकता। विष़िञ्ञं समुद्रतटे प्रवर्तनसज्जं नौकाश्रयं प्रति प्रथमं पण्यनौकायानं अद्य प्रभाते प्राप्तम्। 

  विश्वस्य द्वितीयं महानौकासंस्था 'मेस्क्' इत्यस्य 'सान् फेर्णाण्डो' नामकं पण्ययानमेव विष़िञ्ञं प्रति सम्भारकाणि  [Containers] ऊढ्वा प्राप्तम्। 

  शुक्रवासरे प्रभाते दशवादने मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे महानौकायै स्वीकरणं दास्यति। केन्द्र नौकाश्रयमन्त्री सर्बानन्द सोनोवालः मुख्यातिथिः भविष्यति।

 बहिराकाशे सुनितायाः वार्ताहरसम्मेलनम्। 

वाषिङ्टणं> अन्ताराष्ट्र बहिराकाशनिलयात् [ऐ एस् एस्] बोयिंङ् इत्यस्य 'स्टार् लैनर्' पेटकेनैव सुरक्षितौ भूत्वा भूमिं प्रत्यागन्तुं शक्यते इति सुनिताविल्यंसः बुच् विल्मोरः इत्येतौ बहिराकाशयात्रिकौ आत्मविश्वासं प्रकटितवन्तौ। पेटके समायोजिते तत्समयवार्ताहरसम्मेलने सुनितया उक्तं यत् ऐ एस्  एस् मध्ये इदानीं आवां अधिकतया परीक्षणानि कुर्वन्तौ स्मः।  

  जूण् पञ्चमे दिनाङ्के आसीत् तयोः बहिराकाशयात्रा। सप्ताहद्वयानन्तरं प्रत्यागमने प्रतीक्षिते पेटके हीलियं वातकस्य स्रवणेन तस्य परिहारक्रियया प्रतिनिवर्तनं विलम्बितम्।

Wednesday, July 10, 2024

 गुहामार्गे जलौघः - कोङ्कण् रेल् यानानि मार्गपरिवर्तितानि। 

मुम्बई> कोङ्कण् रेल् मार्गस्य गुहामार्गे जलसञ्चयः दृष्टः इत्यतः कोङ्कण् मार्गेण धावनीयानां रेल्यानानां  मार्गः  परिवर्तितः। गान्धिधामः, जामनगरं, मङ्गला इत्यादीनि यानान्येव मार्गपरिवर्तितानि।

 भीकरान् अधिगन्तुं संयुक्तान्वेषणम्। 

भीकरैः सह पुनरपि प्रतिद्वन्द्वः। 

जम्मु> जम्मु काश्मीरे कठुवा जनपदे पञ्च सैनिकानां वीरमृत्युहेतुभूतान् भीकरान् अधिगन्तुं राष्ट्रस्य सुरक्षासेनाः संयोज्य अन्वेषणमारभन्त। गतदिने दोडजनपदे च सैन्य-भीकरप्रतिद्वन्द्वः संवृत्तः। कतिपयभीकराः निगडिताः इति सूच्यते। वने निलीय आक्रमणं कर्तुं सिद्धपरिशीलिताः उपषष्ठिः विदेशभीकराः जम्मुप्रान्ते प्रवर्तनं कुर्वन्तीति वृत्तान्तमस्ति।

 गौतम गम्भीरः भारतक्रिकट् दलस्य मुख्यपरिशीलकः। 

गौतम गम्भीरः। 

नवदिल्ली> पूर्वभूतः भारतीयक्रिकट् क्रीडकः गौतम गम्भीरः भारतस्य क्रिकट् दलस्य मुख्यपरिशीलकः भविष्यति। बी सी सी ऐ संस्थायाः अध्यक्षेण जय् शाहेनैव वृत्तान्तमिदं निगदितम्। 

  वर्तमानीनपरिशीलके राहुलद्राविडे निवर्तिते तत्स्थाने एव गम्भीरस्य नियुक्तिः। २०२७ डिसम्बर एकत्रिंशदिनाङ्कं यावदेव गौतम गम्भीरस्य कालावधिः।

Tuesday, July 9, 2024

 रष्यायाः आक्रमणेन युक्रैने ३६ मरणानि। 

कीव्> युक्रैनस्य राजधान्यां कीव् नगरे इतरप्रदेशेषु च रष्यया  मिसैल् आयुधेन कृते आक्रमणे ३६ जनाः निहताः, २४० जनाः आहताश्च। युक्रैनस्य बृहत्तमः बालकातुरालयः अपि आक्रमणे विनाशितः। 

  आतुरालयस्थाः २० जनाः हताः। 

  चत्वारिंशदधिकानि मिसैल् आयुधानि सोमवासरे युक्रैने निपतिताः इति राष्ट्रपतिना व्लोदिमर् सेलन्स्कि वर्येणोक्तम्। वासमन्दिरसमुच्चयाः सार्वजनीनसंस्थाश्च आक्रमणलक्ष्यमिति च तेनोक्तम्।

 दिनद्वयस्य सन्दर्शनाय मोदी रष्याराष्ट्रं प्राप्तवान्।

    मोस्को> द्वि दिनात्मकसन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्रमोदीमहोदयः रूस् राष्ट्रं प्राप्तवान्। राष्ट्रपतिना व्लादिमिर् पुटिनेन सः विविधविषयान् अधिकृत्य चर्चिष्यते।

 जम्मुसमीपे पुनः भीकराक्रमणम्। 

पञ्च सैनिकानां वीरमृत्युः। 

कठुवा> जम्मुकाश्मीरस्थे कठुवाजनपदे सोमवासरे कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युं प्राप्तवन्तः।पञ्च व्रणिताश्च। 

  ह्यः मध्याह्नानन्तरं सार्धत्रिवादने कठुवनगरात् १५० कि मी दूरे वर्तमाने वनप्रान्ते बदनोटा ग्रामे परिक्रमणं क्रियमाणं सैनिकव्यूहं प्रति आसीत् आक्रमणम्। सुरक्षासेनया प्रत्याक्रमणं कृतमपि भीकराः वनान्तर्भागे रक्षां प्राप्तवन्तः। उग्रशक्तियुक्तैः स्फोटकायुधैः अतिक्रामिताः भीकरा एव  आक्रमणं कृतवन्त इति सैनिकाधिकारिभिः निगदितम्।

Monday, July 8, 2024

 एवरस्टे खनीभूतानां मृतशरीराणां मालिन्यानां च निर्मार्जनाय बहुसंवत्सराणि आवश्यकानि भवेयुः।

   विश्वस्मिन्  अत्युन्नतसानुरिति प्रसिद्धः एवरस्ट् सानुः मालिन्यानामाकरः अभवत् इति वार्ता बहिरागता। तेषु मालिन्येषु पर्वतारोहणमध्ये मृतानां जनानां देहावशिष्टाः च सन्ति। एते मृतदेहावशिष्टा: खनीभूय संवत्सराणि यावत् सानुषु न्यस्ताः सन्ति। एतेषां निर्मार्जनाय नानाविध-प्रयत्नानि कृतानि तथापि मालिन्यानि पूर्णतया निवारयितुं न शक्यानि। पूर्णतया निर्माजयितुम् अनेकसंवत्सराणि आवश्यकानि इति वैज्ञानिकाः अभिप्रयन्ति।

 नेपाले प्रचण्डवृष्टिः - १४ मरणानि। 

काठ्मण्डुः> नेपालदेशे गुरुवासरतः आरभ्य अनुवर्तमानायाः प्रचण्डवृष्टेः दुष्प्रभावेन १४ जनाः मृत्युमुपगताः। भूविच्छेदे जलोपप्लवे च अन्ये नव जनाः अप्रत्यक्षाः अभवन्। 

  नेपालदेशे जातः प्रलयः भारते बङ्गलादेशे अपि जनजीवितं दुस्सहमकरोत्। मण्सूण् वृष्टिः जूणमासस्य अर्धे आरब्धा। तदा प्रभृति इतःपर्यन्तं भूविच्छेदेन, जलोपप्लवेन, सौदामिनीप्रहरेण च ५० जनाः आनेपालं मृताः इति वृत्तान्तः अस्ति।

 अतिवृष्टिकारणेन मुम्बै विमानपत्तनस्य प्रवर्तनेषु विघ्नाः अभवन्। बहूनि विमानानि निरस्तानि।

मुम्बै> अतिवृष्टिकारणेन मुम्बै विमानपत्तने प्रवर्तनविघ्नाः आयाताः। अतः पञ्चाशत् अधिकानि विमानानि निरस्तानि अथवा सञ्चारपथानां परिवर्तनं कृत्वा विमानसेवा कृता। अहम्मदाबाद्, हैदराबाद्, इन्टोर् इत्यादिभ्यः विमानपत्तनेभ्यः सञ्चारपथं परिवर्त्य सेवामकरोत् इति प्रतिवेदनमस्ति। अद्य प्रातरारभ्य मुम्बैदेशे समीपप्रदेशेषु च अतिवृष्टिः दुरापन्ना।

 केरलस्य 'लिटिल् कैट्स्' परियोजनां प्रशंसन्ती 'यूणिसेफ्'संस्था। 

लिटिल् कैट्स् इत्यस्य चिह्नः। 

अनन्तपुरी> केरलानां विद्यालयेषु ऐ टि शिक्षायै [Information Technology] परियोजिताः 'लिटिल् कैट्स्' नामकाः ऐ टि समाजाः [I T Clubs] आदर्शपराः इति ऐक्यराष्ट्रसंघटनस्य यूणिसेफ् विभागेन प्रशंसितम्। ऐ टि शिक्षायै रूपीकृतः भारतस्य बृहत्तमः छात्रसमाजः भवति लिटिल् कैट्स्।  विद्यालयानाम् उच्चतरस्तरेषु सामाजिकविकासमुद्दिश्य राज्यस्य प्रादेशिकस्तरेषु च परियोजनेयं व्याप्यमाना भवेदिति तेषां अनुशीलनावेदने निर्दिष्टम्। 

  यूणिसेफस्य आगोलरचनासंविधाने अपि संयोजनीया इयं परियोजनेति च आवेदने सूचितमस्ति। केरलेषु २१७४ सर्वकारीय-साह्याधिष्ठितविद्यालयेषु १. ८० लक्षं छात्राः प्रतिवर्षं लिटिल् कैट्स् समाजे अङ्गत्वं स्वीकृत्य पठनं कुर्वन्ति।

 जम्मु-काश्मीरे सैन्य-भीकरसंघट्टनम् अनुवर्तते। 

द्वयोः सैनिकयोः वीरमृत्युः; एकः आहतश्च। 

षट् भीकराः निहताः। 

श्रीनगरं> जम्मु-काश्मीरस्थे रजौरि जनपदे शनिवासरे आरब्धं सैन्य-भीकरसंघट्टनम् अनुवर्तते। 

  कुलगमजनपदे गतदिने सैनिकभीकरयोर्मिथः जाते युगलसंघट्टने ६ भीकराः हताः। द्वौ सैनिकौ वीरमृत्युं प्रापतुः। ह्यः प्रत्युषसि गलूति ग्रामस्थं सैनिककेन्द्रं प्रति भीकराः भुषुण्डिप्रयोगं कृतवन्तः। अर्धहोरां यावत् दीर्घिते सैन्यस्य प्रतिरोधे  एकः सैनिकः व्रणितोSभवत्।

Sunday, July 7, 2024

होरायां६५,२१५ कि. मि. शीघ्रगत्या छिन्नग्रहः भूमेरभिमुखम् आगच्छति। नासया पूर्वसूचना प्रदत्ता।

 भूमेरभिमुखं शीघ्रंम् आगच्छन्तं छिन्नग्रहमधिकृत्य अमेरिक्कस्य  बाह्याकाशसंस्थया नासया पूर्वसूचना प्रदत्ता। होरायां ६५,२१५ कि मी. वेगेन सञ्चरन्तः २०२४ एम् टि १ नाम छिन्नग्रहः एव भूमिम् अभ्यागच्छन् अस्ति।

   २६० पादमितः छिन्नग्रहः भूमौ घट्टयति चेत् अस्य उग्रप्रभावः अतिकठिनं भविष्यति। एतादृशाः अतिस्थूलछिन्नग्रहाः अपघातकारिणः एव इति वैज्ञानिकाः गणयन्ति।

 संसद्सभा २२ तमे समारभ्यते; आयव्ययपत्रकं २३तमे दिनाङ्के। 

नवदिल्ली> भारतीय संसद्सभायाः आयव्ययपत्रकीयं सम्मेलनं जूलै मासस्य २२ तमे दिनाङ्के समारप्स्यते। तृतीयमोदिसर्वकारस्य प्रथमम् आयव्ययपत्रकं २३ तमे दिनाङ्के वित्तमन्त्रिणी निर्मला सीतारामः अवतारयिष्यति। ओगस्ट् १२ दिनाङ्कपर्यन्तं सम्मेलनं भविष्यति इति संसद्कार्यमन्ती किरण् रिजिजुः न्यवेदयत्। 

  द्वितीयमोदिप्रशासनस्य अन्तिमं मध्यमकालिकम् आयव्ययपत्रं गते फेब्रुवरि मासे निर्मला सीतारामेणैव अवतारितमासीत्।