OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 4, 2024

 वृष्टेः सुखदायकशैत्यवेलायां गुरुवायुपुरे गजानां सुखचिकित्सा समारब्धा।

   हस्त्यायुर्वेदविधिप्रकारेण निर्मितं औषधमिश्रितभोज्यमेव सुखचिकित्साकाले गजानां विशेषखाद्यम्। विधिवत् भक्ष्यक्रमः, व्यायामः, विशेषस्नानं च मासैकं यावत् अनुवर्तते। गुरुवायुपुरेशस्य बालकृष्णस्य १५ प्रियगजाः गजदुर्गस्य उत्तरभागस्थे अङ्कणे सुखचिकित्सार्थं श्रेणीभूय स्थिताः। सन्तुलिताहाराः संमिश्र्य निर्मितानि भोज्यगोलकानि प्रत्येकं गजाय प्रददात्। दृश्यमिदं साक्षात्कर्तुं बहवः गजप्रेमिणः च सन्निहिताः आसन् ।

 उत्तरप्रदेशे धर्मीयसत्संगे बहुजनसम्मर्देन १२३ जनाः मृताः।

दुर्घटना हात्रस जनपदे भोले बाबा इत्यस्य 'व्यक्तिदेवस्य' आत्मीयप्रभाषणमध्ये। 

हात्रस्> उत्तरप्रदेशस्थे हात्रस् जनपदे कुजवासरे आयोजिते  कस्मिंश्चित् धर्मीयसत्संगे दुरापन्नेन बहुजनसम्मर्देन १२३ जनाः मृत्युमुपगताः। अनेके आहताः। फुलरि ग्रामे भोले बाबा इत्यनेन स्वप्रख्यापित'व्यक्तिदेवेन' आयोजिते आत्मीयप्रभाषणमध्ये आसीदियं दुर्घटना। 

  प्रभाषणस्य अन्ते बाबां द्रष्टुं तस्य पादमूलस्थमृत्स्वीकरणाय च जनाः साहसपूर्वं धावित्वा तत्समीपमागच्छन् इति श्रूयते। तत्फलेन सम्मर्देनैव जनाः दुरन्तमापतिताः। 

  दुर्घटनानन्तरं भोले बाबा निलीनः वर्तते। मुख्यमन्त्री योगी आदित्यनाथः दुरन्तस्थानं सन्दर्श्य न्यायविचारान्वेषणं प्रख्यापितम्।

 न्याय. मुहम्मद मुषताखः केरलस्य प्रवर्तमानः मुख्यन्यायाधिपः।

कोच्ची> केरलस्य उच्चन्यायालयस्य प्रवर्तमानः मुख्यन्यायाधिपरूपेण [Acting Chief Justice] न्यायमूर्तिः मुहम्मद मुष्ताखः नियुक्तः। इदानींतन मुख्यन्यायाधिपः न्यायमूर्तिः ए जे देशायिवर्यः अचिरेण विरम्यते। तत्थाने एवास्य नियुक्तिः। 

  केरले कण्णूर पुरीयः अयं २०१४ तमे वर्षे उच्चन्यायालये उपन्यायमूर्तिरूपेण नियुक्तः। ततः २०१६ तमे स्थिरनियुक्तिरभवत्।

Wednesday, July 3, 2024

 भारत-दक्षिणाफ्रिक्का वनिता क्रिकेट निकषस्पर्धायां भारतस्य विजयः। 

निकषस्पर्धायां विजयीभूतं भारतस्य महिलादलम्। 

चेन्नै> चैन्नैयां सम्पन्ने महिलानां क्रिकटनिकषस्पर्धायां दक्षिणाफ्रिक्कां विरुध्य भारतस्य दशद्वारकविजयः। निकषस्पर्धायाः चरणद्वयेSपि  दश ताडकान् बहिर्नीतवती स्नेहा राणा श्रेष्ठक्रीडकारूपेण चिता।

  प्रथमे चरणे कन्दुकताडनं चितेन भारतदलेन ६०३/६ इति क्रमे विरामघोषणं [Declare] कृतम्। ततः  २६६ धावनाङ्कानां   सम्पादनेनैव दक्षिणाफ्रिक्कायाः दश क्रीडकाः निष्कासिताः। ततः अनुक्रमक्रीडां  [Follow on] कृत्वा ३७३ धावनाङ्कान् समपादयत्। तदा जातं ३७ धावनाङ्काः इति भारतस्य विजयलक्ष्यं ताडकनष्टं विना प्राप च।

 इस्रायेलेन कारागृहीताः ५४ पालस्तीनीयाः विमोचिताः। 

खान् यूनिस्> इस्रायेलसैन्येन सप्त मासेभ्यः पूर्वं निगृह्य कारागृहे निक्षिप्ताः ५४ पालस्तीननागरिकाः विमोचिताः। गासास्थस्य महतः आतुरालयस्य अल् शिफा नामकस्य निदेशकः मुहम्मद अबु सेल्मियः अपि विमोचितेषु अन्तर्भवति। युद्धबन्धितैः कारागृहाणि पूरितानि इत्यत एव एतेषां  मोचनस्य हेतुरिति श्रूयते।

Tuesday, July 2, 2024

 जलपाते अवतीर्णेषु दशसु पञ्च गिरिजलप्रपाते निमज्य मृत्युंगताः। 

लोणावालदुरन्ते निपतिताः। 

पूणे> महाराष्ट्रे पूणेसमीपस्थे लोणावाला जलप्रपातुं द्रष्टुमागतेषु विनोदयात्रिकेषु पञ्च जनाः गिरिजलप्रपाते निमज्य मृत्युमुपगताः। 

  १८ अङ्गयुक्तेषु  यात्रिकेषु एकपरिवारीयाः दश जनाः जलप्रपाते अवतरितवन्तः। तस्मिन् समये जलप्रवाहः मन्दमासीत्। किन्तु झटित्येव तत्र वृष्टिकारणेन महान्  गिरिजलप्रवाहः सञ्जातः। दश जनाः एकीभूय एकत्र स्थितवन्तः अपि जवे जलप्रवाहे निपतिताः। त्रयः तीर्त्वा रक्षां प्रापुः। द्वौ तीरस्थैः रक्षितौ। 

  हडपसर सय्यद् नगरवासी सहिस्त लियाखत् अन्सारी [३६] , तस्य चत्वारि अपत्यानि च मृत्युवशं प्रापुः।

 महाचक्रवातः - भारतक्रिकट्दलस्य प्रतिनिवर्तनं स्थगितम्। 

बार्बडोसः> बार्बडोसद्वीपराष्ट्रे महाचक्रवातस्य दुष्प्रभावात् विमानपत्तनानि पिहितानि इत्यतः भारतस्य  टि - २० क्रिकट् क्रीडकानां प्रतिनिवर्तनं स्थगितम्। गते दिनद्वये अत्लान्टिकसमुद्रे झंझावातस्य दुष्प्रभावः दृश्यते स्म। २०० कि मी परिमिते शीघ्रे वातः वाति इत्यतः क्रीडकाः परिवारैः सह वासस्थानेष्वेव अनुवर्तन्ते।

Monday, July 1, 2024

 केरलस्य कलालयेषु नूतनपाठ्यपरियोजनायाः अद्य शुभारम्भः। 

तिरुवनन्तपुरम्> उन्नतशैक्षिकसम्प्रदाये चतुर्वर्षीयबिरुदमिति पाठ्यक्रमपरियोजना केरलस्य कलालयेषु अद्य शुभारम्भं कुरुते। भारतस्य राष्ट्रियशैक्षिकनीतिक्रमे आदिष्टः अन्ताराष्ट्रियपरिष्कारो भवति चतुर्वर्षीयबिरुदम्। 

   केरलस्य सर्वेषां विश्वविद्यालयानाम् अधीने वर्तमानेषु समेष्वपि सर्वकारीय-सर्वकारसाहाय्यापेक्षित कलालयेषु विज्ञानोत्सवेन सह नूतनपदक्षेपस्य अरम्भः भविष्यति। अस्य राज्यस्तरीयोद्घाटनं अनन्तपुरीस्थे सर्वकारीय महिलाकलालये मुख्यमन्त्री पिणरायि विजयः करिष्यति।

 सुनिता विल्यंसस्य प्रतिनिवर्तनाय विलम्बः भविष्यति। 

वाषिङ्टण्> अन्ताराष्ट्र बहिराकाशनिलये [I S S] सप्ताहद्वयं उषित्वा प्रतिनिवर्तयितुं गतवन्तौ भारतीयवंशजा सुनिता विल्यंसः सहयात्रिकः बुच् विल्मोरः इत्येतयोः प्रतिनिवर्तनाय विलम्बः भविष्यतीति नासया निगदितम्। यथातथः दिनाङ्कः न निगदितः अपि मासत्रयस्य विलम्बः गण्यते। 

  यात्रिकयोः यात्रापेटकस्य हानिपरिहाराय समयः आवश्यकः इत्यत एव कालविलम्बः।

 त्रयः क्रिडकाः टि - २० क्रीडायाः निवर्तन्ते; परिशीलकोSपि विरमति। 

नवदिल्ली> टि - २० क्रिकट्क्रीडायाः विश्वचषककिरीटं भारताय लब्धुं निर्णायकं भागधेयम् ऊढवन्तः त्रयः श्रेष्ठक्रीडकाः साभिमानं निवर्तन्ते। दशककालं यावत् भारतदलस्य नायकस्थानमलङ्कृतवान् विराट कोलिः, वर्तमाननायकः रोहित शर्मा, सकलवल्लभः रवीन्द्र जडेजः इत्येते इतःपरं टि - २० क्रीडायां न भविष्यन्ति। परिशीलकः राहुल द्राविडः अपि भारतदलस्य क्रिकेट परिशीलकस्थानादपि विरमति।

 अद्य आरभ्य नूतनः अपराधिकनियमः प्रबलः अभवत्।

    नवदिल्ली> १६४ संवत्सरेभ्यः पुरातनः अपराधिक नियमः ह्यः स्थगितः। IPC इत्यस्य स्थाने अद्य आरभ्य भारतीयन्याय संहिता   CRPC इत्यस्य स्थाने भारतीय -नागरिक-सुक्षा संहिता Indian Evidence Act इत्यस्य स्थाने भारतीय-साक्ष्य अधिनियमः च  अद्य आरभ्य प्रबलाः अभवन्।

Sunday, June 30, 2024

 उपेन्द्र द्विवेदी स्थलसेनाधिकारी अभवत्। 

नवदिल्ली> लफ्टनन्ट् जनरल् उपेन्द्र द्विवेदी स्थलसेनाधिकारिरूपेण कार्यभारं स्वीकृतवान्। पाकिस्थान-चीनयोः सीमासु दीर्घकालं यावत् सेवामनुष्ठितवान् सः अद्यावधि उपाधिकारी आसीत्।

 लडाके सैनिकवाहनं नदीप्रवाहे मग्नम्। 

पञ्च सैनिकानां वीरमृत्युः। 

ले> काश्मीरे लडाकप्रदेशस्य पूर्वस्यां दिशि चीनस्य नियन्त्रणरेखासमीपे श्योकनद्यां सञ्जाते आकस्मिके शीघ्रजलप्रवाहे ५ सैनिकाः वीरमृत्युं प्रापुः। सैनिकेषु  'टाङ्क्'नामकं यानेन  नद्याः तीरान्तरं प्राप्तुं प्रयत्नं कृतवत्सु अप्रतीक्षिते जलप्रवाहे निपतिताः। 

  सिन्धुनद्याः पोषकनदी भवति श्योका। हिमानां द्रवणेन अप्रतीक्षितजलप्रवाहस्य सम्भावना विद्यते। जलवितानस्य औन्नत्यात् रक्षाप्रवर्तनं विफलमभवत्। 

  दौलत् बेग् ओल्डि सैनिकपत्तनस्य ५२ आर्मेड् विभागे प्रवर्तमानाः सैनिकाः एव दुर्घटनायां निपतिताः। मृत्युमुपगतेषु एकः जे सि ओ पदस्थः  इतरे चत्वारः भटाः च आसन् ।

 वीरभारतम् ; सूर्यभारतम्। 

टि - २० विश्वकिरीटं भारताय। दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजयत।

लब्धकिरीटः भारतदलः विजयाह्लादे। 

# भारतस्य द्वितीया टि - २० किरीटोपलब्धिः # विराटकोलिः [७६/५९] श्रेष्ठक्रीडकः। 

बार्बडोसः> अन्तिमक्षेपणचक्रे  सूर्यकुमारयादवस्य अविस्मरणीयम् अत्युज्वलं च कन्दुकनिग्रहणम्! स्रंसितमिति सन्दिग्धं किरीटमासीत् दक्षिणाफ्रिकायाः कन्दुकताडकं डेविड् मिल्लर् इत्यस्य बहिर्नयनेन सूर्यकुमारेण प्रत्याहृतम्। उत्साहः  अन्तिमकन्दुकं यावत् दीर्घितायाम् अन्तिमस्पर्धायां दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजित्य भारतस्य टि -२० किरीटोपलब्धिः। 

  स्पर्धायाः प्रथमपादे भारतेन २० क्षेपणचक्रैः १७६ धावनाङ्काः सम्प्राप्ताः। विराट कोलिः ५९ कन्दुकैः ७६ धावनाङ्कान् सम्पादितवान्। प्रत्युत्तररूपेण २० क्षेपणचक्रैः दक्षिणाफ्रिकया ८ क्रीडकानां विनष्टे केवलं १६९ धावनाङ्काः सम्पादिताः। 

  विराटकोलिः अस्याः क्रीडायाः श्रेष्ठक्रीडकरूपेण चितः। जस्प्रीत बुम्रः क्रीडाश्रृङ्खलायाः श्रेष्ठक्रीडकरूपेणापि चितः।

 आकाशवाणीतः संस्कृत-वार्ताप्रसारणस्य पञ्चाशत्-वर्षाणि अद्य पूर्णतामेति। सर्वविधं शुभं कामयामहे।


Saturday, June 29, 2024

 दिल्ली विमानपत्तनस्य आवरणवितानं भञ्जितं ; एकः मृतः, ६ आहताः। 

नवदिल्ली> गतदिने सञ्जाते तीव्रवर्षे दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रियविमानपत्तनस्य प्रथममन्दिरस्य  आवरणवितानं प्रभञ्ज्य कार् यानचालकः मृतः। अन्ये षट् जनाः कठिनतया व्रणिताः। 

  ह्यः उषसि सार्धपञ्चवादने आसीदियं दुर्घटना। यत्र यात्रिकाः प्रस्थानार्थम् अवतरन्ति तस्य टेर्मिनल् मन्दिरस्य आवरणवितानं प्रभञ्ज्य कार् यानानामुपरि अपतत्। नैकानि कार् यानान्यपि भञ्जितानि।

 राष्ट्रराजधानी तीव्रवर्षायां निमग्ना। 

नवदिल्ली> तीव्रवर्षेण भारतराजधानी ह्यः जले निमग्ना। १९३६ तमसंवत्सरात् परं कठिना वर्षा आसीत् गतदिने जातमिति सर्वकारेण निगदितम्। २४ होरासु २२८ मिल्लीमीटर् परिमिता वर्षा अवर्षत्। 

  मुख्यवीथ्यः जले निमग्नाः इत्यतः गमनागमनसुविधा स्थगिता। दुर्घटनानिवारणार्थं  विद्युदपि विच्छेदिता। जनजीवितं दुस्सहं जातम्।

 विदेशकेदाराणां रक्षादौत्याय केरलस्य 'ड्रोण्'यन्त्राणि। 

फिया क्यू डि १० ड्रोण् यन्त्रेण सह देवन् चन्द्रशेखरः,देविका, प्रौद्योगिकाधिकारी अतुलः च। 

कोच्चि> विदेशराज्याणां गोधूम-बार्ली-कनोला केदारेषु ऊर्वरकप्रयोगः औषधप्रोक्षणम् इत्यादिषु कर्मसु केरले जातानि ड्रोण् यन्त्राणि सज्जानि सन्ति। आलप्पुष़ा जनपदे चेर्तला पट्टणक्काट् पुरवासिनौ देवन् चन्द्रशेखरः, तस्य सोदरी देविका, इत्यनयोः नेतृत्वे आरब्धः कार्षिकसंरम्भः 'फ्यूसलेज् इनवेषन्स्' [Fuselage Innovations] इत्यनेन निर्मितानि ड्रोण् यन्त्राणि विदेशराष्ट्रेषु  कार्षिकसाह्यं यच्छन्ति।  यू के, कानडा राष्ट्राभ्यां २५ संख्यकानां यन्त्राणाम् आदेशपत्रं लब्धम्।जूलाय् मासान्ते यन्त्राणि विदेशं नेष्यन्ति। 

  'फिया क्यू डि १०' इति कृतनामधेयानि एतानि यन्त्राणि १६० संख्याकानि अस्मिन् वर्षे केरलम्, आन्ध्रप्रदेशः, कर्णाटकं, राजस्थानं, तमिलनाटु राज्येषु  विक्रीतानि सन्ति। १० लिटर् परिमितशेषीयुक्तानि एतानि २५ मिनिट् कालं यावत् डयित्वा सम्यक् रीत्या ऊर्वरकौषधानि प्रोक्षिष्यन्ति। एकस्य यन्त्रस्य मूल्यं ५ लक्षतः ९ लक्षपर्यन्तमस्ति। 

  कोच्चि नगरस्थे कलमशेरि 'मेकर् विल्लेज्' मध्ये आरब्धाय अस्मै संरंभाय केन्द्रव्योमयानमन्त्रालयस्य अङ्गीकारः २०२३ तमे वर्षे लब्धः।